#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00344 Uniform title: tripurārahasya jñānakhaṇḍa Author : hāritāyana Commentator : śrīnivāsa son of vaidyanātha dīkṣita Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: February 21, 2016. Publisher : Publication year : Pre-1900 Publication city : Publication country : India #################################################### त्रिपुरारहस्यम् (ज्ञानखण्डम्) श्रीनिवासभट्टविरचिततात्पर्यदीपिकाव्याख्यासंवलितम् ओं नमः कारणानन्दरूपिणी परचिन्मयी | विराजते जगच्चित्रचित्रदर्पणरूपिणी || १ || जयत्येषा परा श्रीमत्त्रिपुरा सर्वसाक्षिणी | या सेवकानुद्धरति संसृतेर्गुरुरूपिणी || नत्वा विघ्नेश्वरं देवं त्रिपुराया रहस्यके | ज्ञानखण्डस्य तात्पर्यदीपिकेयं प्रतन्यते || ज्ञानखण्डमहाम्भोधिं गुरुवाक्प्लवमाश्रितः | तितीर्षुरस्मि श्रीदेवीपदनाविकसङ्गतेः || इह खलु हारितायनो भगवान् दुःखपङ्कनिमग्नजनोद्दिधीर्षया त्रिपुरारहस्यमितिहासोत्तमं पद्यरूपं संदृब्धवान् | तत्र च मुख्यं विवक्षितं परमपुरुषार्थसाधनमेव [क्, ख्: पर-] विज्ञानम् | तदादौ च तत्साधनाग्र्यभक्तिनिदानं माहात्म्यखण्डमारचयय सम्प्रति माहात्म्यश्रुत्यादिपरिणताधिकाराणां [ख्: कारिणां] जिज्ञासूनां स्वात्मतत्त्वावगमाय प्रारिप्सितं ज्ञानखण्डं निर्विघ्नेन समापयितुं प्रकरणप्रतिपाद्यस्वात्मदेवतानमनरूपं मङ्गलं सम्प्रदायप्रवर्तनाय ग्रन्थतो रचयति - ओं नम इति | कारणात्मको य आनन्दः अविशेषात् सर्वकारणब्रह्मानन्दः | स एव रूपमस्याः | एवंविधा परा अनवच्छिन्न या चित् तन्मयी तदेकरूपा | तथा [ग्: तथा च] जगदेवादभुतचित्रं तस्य दर्पणवत् प्रतिबिम्बाश्रयं रूपमस्याः | एवंरूपा ओंकारनिर्देश्या या विराजते विशेषतस्तत्तद्रूपेण सामान्यरूपेण च प्रकाशते | तस्यै नमः | अनवच्छिन्नचित्तत्त्वं शास्त्रप्रमेयं तदेवानन्दमयं जगत्कारणं न प्रकृत्यादिदर्पणे प्रतिबिम्बवत्तस्यामेव जगच्चित्रभासनमिति समस्तशास्त्रार्थगर्भितं श्लोकतात्पर्यम् | अत्र खण्डत्रयमपि [माहात्म्य-ज्ञान-चर्यात्मकं खण्डत्रयम्] शिवशक्तिप्रणवसम्पुटितम् ओं नम इत्यारभ्य त्रिपुरैव ह्रीमिति समापनात् | तस्येदं तात्पर्यम् - शिवशक्तिरूपमखिलं जगत् स्वात्मचित्तत्त्वमात्रमिति बोधनार्थमिदं प्रकरणमिति || १ || प्. २) श्रुतं कच्चिन्नारदैतत् सावधानेन चेतसा | माहात्म्यं त्रिपुराख्याया यच्छ्रुति परसाधनम् || २ || आद्येऽध्याये सूतमितपद्यैः [क-ट-प-यवर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः | नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिते || इति भास्कररायेण स्वकीयनाथनवरत्नमालामञ्जूषायामुद्धृतश्लोकस्य प्रामाण्येन स त इति वर्णाभ्यां ७ ६ अङ्कयोर्ग्रहणम् अङ्कानां वामतो गतिः इति कृत्वा ६७ श्लोकात्मक आद्योऽध्याय इति सूच्यते स त इति संकेताक्षराभ्या | एवमेवान्यत्राप्यध्यायटीकारम्भश्लोकेषु ज्ञेयम् |] पूजाद्युपासनैः | शुद्धचित्तस्य रामस्य विचारोदय उच्यते || श्रोतारमभिमुखयितुं श्रुतमित्यादि || २ || अथ ते कथयाम्यद्य ज्ञानखण्डं महाद्भुतम् | यच्छ्रुत्वा न पुनः क्वापि मनुष्यः शोकमृच्छति || ३ || महाद्भुतत्वमेवाह - यच्छ्रुत्वेति || ३ || वैदिकं वैष्णवं शैवं शाक्तं पाशुपतं तथा | विज्ञानं सम्यगालोच्य यदेतत् प्रविनिश्चितम् || ४ || प्रकृतज्ञानस्य सर्वोत्तमत्वं वक्तुमाह - वैदिकमिति | वैदिकमौपनिषदम् | वैष्णवं पाञ्चरात्रोक्तम् | शैवं षडर्द्धशास्त्रीयम् | शाक्तं महोच्छुष्माद्युक्तम् | पाशुपतं कामोकोक्तम् | विज्ञानम् आत्मतत्त्वनिश्चायकोपपत्तिजालम् [क्: तत्त्वं निश्चा-] || ४ || प्. ३) नैतद्विज्ञानसदृशमन्यद् मानसमारुहेत् | मया श्रीदत्तगुरुणा भार्गवाय निरूपितम् || ५ || सर्वोत्तमत्वादेवाह - नैतदिति | दत्तगुरुनिरूपितं यथा मानसमारुहेन्न तथान्यदित्यर्थः || ५ || उपपत्त्युपलब्धिभ्यां समेतं बहु चित्रितम् | अत्रोक्तेनापि नो वेद यदि कश्चिद्विमूढधीः || ६ || कुत एवम्? तदाह - उपपत्तिति | उपपत्तिर्युक्तिः | उपलब्ध्रनुभवः | बहुकथाचित्रितम् | अत्रोक्तं [क्: अत्रोक्त] ज्ञानं चित्तमारुहेदेवेति व्यतिरेकमुखेन द्रढयति - अत्रेति || ६ || स केवलं दैवहतः स्थाणुरेव न संशयः | न तस्य स्यादपि ज्ञानं साक्षाच्छिवनिरूपितम् || ७ || तत्ते शृणु समाख्यास्ये ज्ञानखण्डात्मना स्थितम् | अहो सतामद्भुतं [क्: सत्तम्-] हि वृत्तं सर्वगुणोत्तरम् || ८ || तद् ज्ञानखण्डात्मना स्थितं शास्त्रम् | सर्वज्ञकल्पं नारदं स्वस्मादाख्यानं शुश्रूषन्तं स्तौति - अहो इति | सर्वगुणैरुत्तरं श्रेष्ठम् || ८ || यन्मत्तोऽप्येष देवर्षिः शुश्रुषत्यपि किञ्चन | अनुग्राहकता चैषा सतां सहजसम्भवा || ९ || एषा शुश्रुषा || ९ || यथा ग्राणोल्लासकता मृगनाभेः स्वतः स्थिता | एवं दत्तात्रेयमुखाच्छ्रुत्वा माहात्म्यवैभवम् || १० || एवं माहत्म्यखण्डोक्तवत् [त्रिपुरारहस्य माहात्म्यखण्डं १९३२ ई० वर्षे वाराणसीस्थकाशीसंस्कृतग्रन्थमालायां मुद्रितमत्र द्रष्टव्यम्] || १० || रामः सर्वजनारामो जामदग्न्यः शुभाशयः | भक्त्यापहृतसच्चित्तस्तूष्णीं किञ्चिद् बभूव ह || ११ || भक्त्या अपहृतं निलीनं सत् शुद्धं चित्तं यस्य || ११ || प्. ४) अथसाद्य बहिर्वृत्तिं [क्: वृत्ति] भरितानन्दलोचनः | रोमाञ्चपीवरवपुः स्वान्तरानन्दनिर्भरः || १२ || आनन्द आनन्दाश्रुः | स्वीयः आन्त्रो [क्: अन्तरो] भक्तिजनितो य आनन्दः तेन निर्भरः पूर्णः || १२ || हर्षोऽमायन् [क्: हर्षो ना-] रोमकूपविभेदान्निर्गमन्निव | प्रणनाम दत्तगुरुं दण्डवच्चरणान्तिके || १३ || स्वान्तरमायन् यो हर्षः स रोमकूपविभेदान्निर्गमन्निव रोमाञ्चपीवरवपुरिति सम्बन्धः || १३ || उत्थाय हर्षभरितः प्राह गद्गदसुस्वरः | धन्योऽहं कृतकृत्योऽहं श्रीगुरो त्वत्प्रसादतः || १४ || यत्प्राह - तदेवाह - धन्य इति || १४ || यस्य मे करुणासिन्धुस्तुष्टः साक्षाद् गुरुः शिवः | यस्मिंस्तुष्टे ब्रह्मपदमपि स्यात् तृणसम्मितम् || १५ || मृत्युरप्यात्मतां याति यस्मात्तुष्टाद् गुरोर्ननु | ममाकाण्डादेव गुरुः सोऽद्य तुष्टो महेश्वरः || १६ || गुरुतोषहेतुको मृत्युरात्मतां यातीति | अकाण्डाद् अनिमित्तेन | स बहुप्रयासेन तोषणीयः || १६ || मन्ये सर्वं मया प्राप्तमित्येव कृपया गुरोः | नाथ माहात्म्यमखिलं श्रुतं त्वत्कृपयाधुना || १७ || गुरुं प्रत्याह - नाथेत्यादि || १७ || तामुपासितुमिच्छामि त्रिपुरां परमेश्वरीम् | तदुपास्तिक्रमं ब्रूहि मह्यं सुकृपया गुरो || १८ || इति संप्रार्थितो दत्तगुरुरालक्ष्य भार्गवे | योग्यतां त्रिपुरोपास्तौ सच्छ्रद्धाभक्तिबृंहिताम् || १९ || क्रमेण दीक्ष्यामास त्रिपुरोपास्तिहेतवे | जामदग्न्योऽपि संप्राप्य त्रैपुरं दीक्षणं शुभम् [क्: शुभे] || २० || प्. ५) सर्वदीक्षासमधिकं पूर्णतत्त्वप्रबोधनम् | मन्त्रयन्त्रवासनाभिरन्वितं [क्: तम] निखिलं क्रमम् || २१ || मन्त्रयन्त्रयोर्वासना भावनाभेदाः | क्रमः पद्धतिः [क्: क्रमपद्धतिः] || २१ || प्राप्य श्रीगुरुवक्त्राब्जाद्रसं मधुकरो यथा | तृप्तान्तरङ्ग आनन्दमादितो [ख्, ग्: मोदितो] भार्गवस्तदा || २२ || उपास्तिक्रमजिज्ञासानिवृत्तिस्तृप्तिः तज्जनितानन्दपूर्णत्वान्मादितो [क्: मादितोत्तमः] मत्तः || २२ || श्रीनाथेनाभ्यनुज्ञातस्त्रिपुरासाधनोद्यतः | परिक्रम्य गुरुं नत्वा महेन्द्राद्रिमुपाययौ || २३ || तत्र निर्माय वसतिं शुभामतिसुखावहाम् | अभूदुपासनपरो वर्षद्वादशकं तदा || २४ || नित्यनैमित्तिकपरः पूजाजपपरायणः | सदा श्रीत्रिपुरेशान्या मूर्तिध्यानैकतत्परः || २५ || एवं तस्यात्यागात् कालो द्वादशाब्दो निमेषवत् | अथैकदा [घ्: तथ-] सुखासीनो नामदग्न्योऽनुचिन्तयत् || २६ || पुरा यत्प्राह संवर्तो मया स्वभ्यर्थितः पथि | तन्मया नैव विदितमंशेनापि तदा ननु || २७ || पुरा रामात्पराजयानन्तरम् | एतच्च माहात्म्यखण्डे ज्ञेयम् | तत् संवर्तोक्तं ज्ञानम् || २७ || विस्मृतं च मया यस्मात् प्राङ्न पृष्टं गुरुं प्रति | माहात्म्यं त्रिपुराशक्तेः श्रुतं श्रीगुरुवक्त्रतः || २८ || प्रष्टुं विस्मृतम् || २८ || परन्तु तत्र विदितं यत्संवर्तः पुराऽब्रवीत् | मया सृष्टिप्रसङ्गेन पृष्टं किञ्चिद् गुरुं प्रति || २९ || मया सृष्टीत्याद्यपि प्रथमखण्डे [माहात्म्यखण्डे दशमाध्याये ४९-६२ श्लोकेषु] ज्ञेयम् || २९ || प्. ६) तदा कटकृदाख्यानं वर्णयित्वा च मे गुरुः | नाब्रवीदप्रकृततस्तन्मे तत्तादृशं स्थितम् || ३० || कुतो नाब्रवीत्तदाह - अप्रकृतत इति | तादृशम् अविदितम् || ३० || लोकस्य गतिमेतां तु न जानाम्यपि लेशतः | कस्मादिदं समुदितं जगदाडम्बरं महत् || ३१ || कुत्र वा गच्छति पुनः कुत्र संस्थानमृच्छति | अस्थिरं तु प्रपश्यामि सर्वं सर्वत्र किञ्चन || ३२ || अस्थिरं प्रतिक्षणपरिणामि || ३२ || व्यवहारः स्थिरप्रायः कस्मादेतदपीदृशम् | चित्रां जगद्व्यवहृतिं प्रपश्याम्यविमर्शिनीम् || ३३ || विषयस्यास्थिरत्वे कथं तद्विषयकव्यवहारोऽयं ग्रामो मत्पुत्रार्थं सम्पादित इति स्थिरप्रायो भवतीति विस्मयन्नाह - व्यवहार इति | अविमर्शिनीमविचारवतीम् || ३३ || अहो यथान्धानुगतो ह्यन्धश्चेष्टति तादृशः | लोकस्य व्यवहारो वै सर्वस्याप्यभिलक्षितः || ३४ || अन्धपरम्परयैव व्यवहार इत्याह - अहो इति || ३४ || निदर्शनं ह्यात्मकृतिरत्र मे सर्वथा भवेत् | नूनं मम शैशवे किं जातं तन्मे न भावितम् || ३५ || अत्र दृष्टान्तः स्वस्याचारणमेवेत्याह - निदर्शनमिति | आत्मनः कृतिर्व्यवहारः | तदेवाह - नूनमिति | मे मया || ३५ || कौमारे चान्यथा वृत्तं तारुण्येऽपि ततोऽन्यथा | इदानीमन्यथैवाति व्यापारो मम सर्वथा || ३६ || किमभूत् फलमेतेषां तन्न वेद्मि कथञ्चन | यद्यत्काले यच्च यच्च क्रियते येन येन वै || ३७ || प्. ७) सम्यगेवेति तद्बुद्ध्वा फलावष्टम्भपूर्वकम् | फलं किं तत्र संप्राप्तं केन वा सुखमात्मनः || ३८ || फलावष्टम्भः फलप्राप्तिनिश्चयः || ३८ || यच्चापि लोके फलवदविमृश्य फलं हि तत् | न फलं तदहं मन्ये पुनर्यस्मात् करोति सः || ३९ || यच्च फलं धनादि तस्याविचारेणैव फलत्वमित्याह - यच्चेति || ३९ || प्राप्ते फले फलेच्छावान् पुनर्भूयात् कथं वद | यस्मान्नित्यं करोत्येव जनः सर्वः फेलेहया || ४० || फलाभिमतप्राप्त्यनन्तरं प्रवृत्तिकारणेच्छाया एवोदयः कथमित्याह ##- फलं तदेव संप्रोक्तं दुःखहानिः सुखं च वा | कर्तव्यशेषे नो दुःखनाशो वा सुखमेव वा || ४१ || ननु किञ्चित्फलप्राप्तावपि फलान्तरप्राप्त्यर्थं करणं युक्तमेवेत्याशङ्क्य नेति वक्तुं फलस्वरूपं निरूपयति - फलमिति | अभावस्यासतो न फलत्वं युक्तमित्याह - सुखं च वेति || ४१ || कर्तव्यतैव दुःखानां परमं दुःखमुच्यते | तत्सत्त्वे तु कथं ते स्तो दुःखाभावः सुखं च वा || ४२ || दुःखानां मध्ये कर्तव्यतैव परमं महद् दुःखम् | ते दुःखाभावः सुखं चेति द्वे || ४२ || यथा दग्धाखिलाङ्गस्य पादे पाटीरलेपनम् | तथा कर्तव्यशेषस्य सुखलाभ इहोच्यते || ४३ || एतदेव दृष्टान्तैरुपपादयति - यथेत्यादि || ४३ || यथा शराविद्धहृदः परिष्वङ्गोऽप्सरोगणैः | तथा कर्तव्यशेषस्य सुखलाभ इहोच्यते || ४४ || यथा क्षयामयाविष्टनरस्य गीतसंश्रुतिः | तथा कर्तव्यशेषस्य सुखलाभ इहोच्यते || ४५ || सुखनस्ते हि लोकेषु येऽकर्तव्यतया स्थिताः | पूर्णाशया महात्मानः सर्वदेहसुशीतलाः || ४६ || तर्हि कः सुखीत्याकाङ्क्षायामाह - सुखिन इति | न कर्तव्यं यस्य तद्भावोऽकर्तव्यता | इदमेव सुखिनां [क्: सुखिनाम् | न क्षण] लक्षणमिति भवः | सुखिनमितरस्माद्विवेचयितुमाह - पूर्णेत्यादि | अन्येषां प्राप्तव्यशेषादपूर्णः कामिताप्राप्त्या रिक्त आशयश्चित्तम् | तथान्ये महात्मानः स्वात्मानं न्यूनं मन्यमानाः | स्पष्टं चैतत् | सार्वभौमोऽपीन्द्रात् स्वात्मानं न्यूनं मन्यत इति | मूर्ध्नि मुकुटसत्त्वेऽपि कण्ठे [ख्: कण्ठे नास्ति] हाराभावेन दुःखानुवृत्तेः न ते सर्वाङ्गशीतलाश्च || ४६ || प्. ८) यदि कर्तव्यशेषेऽपि सुखं स्यात् केनचित् क्वचित् | शूलप्रोतेऽपि च नरे स्यात् सुखं गन्धमाल्यजम् || ४७ || केनचिद् वस्त्रमाल्यादिना || ४७ || अहो महच्चित्रमेतत् कर्तव्यशतसंकुले | सुखमस्तीह यस्यार्थे करोत्येव सदा जनः || ४८ || अहो विचारमाहात्म्यं किं वदामि नृणामहम् | अनन्तकर्तव्यशैलाक्रान्ताः सुअख्यं लभन्ति च || ४९ || यथा [क्: तथा] सौख्याय यतते सार्वभौमस्तु सर्वदा | तथैव यतते नित्यमपि भिक्षाटने रतः || ५० || पृथक् तौ प्राप्नुतः सौख्यं मन्येते कृतकृत्यताम् | तद्येन यान्ति सर्वेऽपि याम्यहं ताननुक्रमात् || ५१ || येनाविचारितेन मार्गेण क्रमाद् यान्ति तानहमनुयामि || ५१ || अनालोच्य फलं चापि यथान्धोऽन्धानुगस्तथा | तदलं मेधयानेन भूयो गत्वा दयानिधिम् || ५२ || अत्र हेतुः - फलमनालोच्येति | मेधया अविचारजनितनिश्चयेन | अनेन विचारेण सह गत्वा | यावद्विचारो न नश्येत्तावदिति तात्पर्यम् || ५२ || विजिज्ञासितजिज्ञास्यो विचिकित्साम्बुधेः परम् | पारं प्रपत्स्ये सुशुभं गुरुवाक्प्लवमाश्रितः || ५३ || विचिकित्सा सन्देहः | गुरुवागेव प्लवो नौः तमाश्रितः [क्: तामाश्रितः] || ५३ || प्. ९) इति व्यवस्य सहसा जामदग्न्यः शुभाशयः | प्रतस्थे तद्गिरिवराद् गुरुदर्शनकाङ्क्ष्या || ५४ || गन्धमादनशैलेन्द्रं प्राप्य शीघ्रमपश्यत | गुरुं पद्मासनासीनं भूभास्वन्तमिव स्थितम् || ५५ || प्रणनाम पादपीठपुरतो भुवि दण्डवत् | शिरसाऽपीडयत् पादपद्मं निजकराश्रितम् || ५६ || अथैवं प्रणतं रामं दत्तात्रेयः प्रसन्नधिः | आशिर्भिर्योजयामास समुत्थापयदादरात् || ५७ || वत्सोत्तिष्ठ चिरादद्य त्वां पश्यामि समागतम् | ब्रूहि स्वात्मभवं वृत्तं निरामयतया [क्: निरामयास्थितम्] स्थितम् || ५८ || आत्मभवं शरीरादौ भवमुत्पन्नम् || ५८ || अथोत्थाय गुरूक्त्या स गुर्वादिष्टाग्न्यविष्टरः | उपविश्य प्रसन्नात्मा बद्धाञ्जलिपुटोऽब्रवीत् || ५९ || श्रीगुरो करुणासिन्धो त्वत्कृपामृत आप्लुतः | कथं स परिभूयेत विधिसृष्टैरथामयैः || ६० || अथेति अप्यर्थः | विधिसृष्टैरपीत्यर्थः || ६० || त्वत्कृपात्मामृतकरमण्डलान्तः स्थितं तु माम् | सन्तापयेत् कथं व्याधिश्चण्डांशुरतिभीषणः || ६१ || आन्तरं बाह्यमपि ते कृपयानन्दितं मम | सदा स्थितं किन्तु भवत्पादाब्जवियुतिं विना || ६२ || आन्तरं मनः | बाह्यं शरीरम् | भवत्पादाब्जयोर्वियुतिर्वियोगः || ६२ || नान्यद्रुजावहं किञ्चिदासीन्मे लेशतः क्वचित् | तद्भवच्चरणाम्भोजदर्शनादद्य वै पुनः || ६३ || प्. १०) सम्पूर्णता समापना सर्वथा श्रीगुरो ननु | तत् किञ्चिच्चिरसंवृत्तं हृदि मे परिवर्तते || ६४ || आनन्दस्य सम्पूर्णता | चिरकालाद्धृदि संवृत्तम् उत्पन्नं प्रष्टव्यमिति || ६४ || तत्प्रष्टुं त्वाभिवाञ्छामि चिरसंशयितान्तरः | आज्ञप्तो भवताद्याहं पृच्छामि विचिकित्सितम् || ६५ || प्रष्टव्यार्थे चिरात् संशयितम् आन्तरं मनो यस्य || ६५ || संश्रुत्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः | सम्प्रहृष्टमना राममूचे प्रीत्याथ भार्गवम् || ६६ || पृच्छ भार्गव यत्तेऽद्य प्रष्टव्यं चिरसम्भृतम् | तव भक्त्या प्रसन्नोऽस्मि प्रब्रवीमि तवेप्सितम् || ६७ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये ज्ञानखण्डे भार्गवप्रश्ने प्रथमोऽध्यायः || इति श्रीत्रिपुरारहस्यज्ञानखण्डव्याख्यायां [ग्, घ्: श्रीत्रिपुरारहस्ये-] तात्पर्यदीपिकायां प्रथमोऽध्यायः || प्. ११) अथ द्वितीयोऽध्यायः इत्याज्ञप्तो [क्, ग्: अस्य श्लोकस्य पूर्वार्धोत्तरार्धयोः पुस्तकयोर्विपर्यस्तः पाठः] जामदग्न्यः प्रणम्याऽत्रिसुतं मुनिम् | प्रश्रयावनतो भूत्वा संप्रष्टुमुपचक्रमे || १ || अत्राध्याये वेदमितैः पद्यैः कर्तव्यदूषणम् | क्रियते सुविचारस्य जनिस्तुतिरपीर्यते || पृच्छेत्याज्ञप्तः | प्रश्रयः विनयः || १ || भगवन् गुरुनाथार्य सर्वज्ञ करुणानिधे | पुरा मे नृपवंशेषु क्रोधः कारणतो ह्यभूत् || २ || स्वस्य निर्वेदपाप्तिप्रकारमाह - पुरेति || २ || तद्भूयो निहितं क्षात्रं सगर्भं सस्तनन्धयम् | मया त्रिःसप्तकृत्वो वै क्षत्रासृग्भरिते ह्रदे || ३ || तत् क्रोधाद्धेतोः || ३ || सन्तर्पिताः पितृगणास्तुष्टा मद्भक्तिगौरवात् | मत्क्रोधं शामयामासुः शान्तः पित्राज्ञयाप्यहम् || ४ || सम्प्रत्ययोध्यामध्यास्ते यः श्रीरामो हरिः स्वयम् | क्रोधान्धस्तेन भूयोऽहं सङ्गतो बलदर्पितः || ५ || तेन दर्पाद्भगवता च्यावितश्च पराजितः | जीवन् कथञ्चिन्न्र्यातो ब्रह्मण्येनानुकम्पिना || ६ || अथ मामुपसंप्राप्तो निर्वेदः परिभावितम् [घ्: परिभावितः] | ततोऽत्यन्तं पथि मया बहुधा परिदेवितम् || ७ || परिदेवितं प्रलपितम् || ७ || संवर्तमवधूतेन्द्रं मार्गेऽकस्मात् समासदम् | भस्मच्छन्नाग्निवद् गूढं कथञ्चिदविदं तदा || ८ || समासदमासादितवान् || ८ || प्. १२) सन्तप्त इव नीहारं तं सर्वाङ्गसुशीतलम् | सङ्गम्यैवातिशिशिरभावमासादयं तदा || ९ || कीदृशं संवर्तं कथंविधो राम आसादितवान्? तदाह - सन्तप्तेति | सङ्गमफलमाह - सङ्गम्येति || ९ || मया स्वस्थितिमापृष्टः प्राहामृतसुपेशलम् | सुसारपिण्डवत् सर्वं निष्कृष्य प्रत्यपादयत् || १० || पेशलं सुन्दरम् | सर्वं प्रश्नार्थम् || १० || नाहं तदशकं स्प्रष्टुं रङ्को राज्ञीं यथा तथा | भूयः संप्रार्थितः सोऽथ भवन्तं मे विनिर्दिशत् || ११ || तत् संवर्तोक्तम् | रङ्कः दरिद्री || ११ || तद्भवच्चरणद्वन्द्वं [घ्: तन्मे अन्धो तद्भव इति पङ्क्तिक्रमः] तत आसादितं मया | अन्धो जनसमायोगमिवात्यन्तसुखावहम् || १२ || तन्मे न विदितं किञ्चित् संवर्तमुनिराह यत् | श्रुतं माहात्म्यमखिलं त्रिपुराभक्तिकारकम् || १३ || तत् संवर्तोक्तं श्रवणाधिकारं स्वस्मिन्नाह - श्रुतमिति || १३ || सा भवद्रूपिणी देवी हृदि नित्यं समाहिता | एवं मे वर्तमानस्य किं फलं समवाप्यते || १४ || भवद्रूपिणी गुरुरूपिणी | फलस्य देवताकारचित्तवृत्तेः प्राप्तत्वात् पुनरुपासनं पिष्टपेषणवदित्याह - एवमिति || १४ || भगवन् कृपया ब्रूहि यत्संवर्तः पुरावदत् | अविदित्वा च तन्नास्ति क्वचीच्च कृतकृत्यता || १५ || किं संवर्तोक्तेन उपासनमेव कुर्विति चेदाह - अविदित्वेति || १५ || तदुक्तमविदित्वा तु यद्यच्च क्रियते मया | तद्वालक्रीडनमिव प्रतिभाति समन्ततः || १६ || तदविदित्वोपासनमन्यद्वा कर्म सर्वं व्यर्थमित्याह - तदुक्तमिति || १६ || प्. १३) पुरा मया हि बहुशः क्रतुभिर्दक्षिणोच्छ्रयैः | प्रभूतान्नगणैरिष्टा देवाः शक्रमुखा ननु || १७ || ननु न व्यर्थं कर्मादीनां फलसत्त्वादिति चेन्नेत्याह - पुरेति | दक्षिणानाम् उच्छ्रय आधिक्यं येषु || १७ || तदल्पफलमेवेति श्रुतं संवर्तवक्त्रतः | मन्ये तदहमल्पं यत् दुःखमेवेति सर्वथा || १८ || तदल्पेति | एवंविधोत्तमकर्मणामल्पफलत्वे किमन्येषामिति भावः | अल्पफलत्वेऽपि न फलाभाव इत्याशङ्क्याल्पफलस्य दुःखात्मतैवेत्याह - मन्य इति || १८ || असुखं नहि दुःखं स्याद् दुःखमल्पं सुखं स्मृतम् | यतः सुखात्यये दुःखं भवेद् गुरुतरं किल || १९ || एतदेव निरूपयति - असुखमिति | तत्र हेतुः - यत इति || १९ || नैतावदेव चैतस्मादधिकं चास्ति वैभवम् | मृत्यूपयोगो यद्भूयो न तत्र स्यात् कदाचन || २० || ननु कृतकर्मधारयाल्पसुखधारा [ख्: सुखाधार] प्राप्तेः किं ज्ञानेनेति चेदाह - नैतावदेवेति | भयमेवाह - मृत्यूपेति | मृत्युग्रसनं कर्मभिर्दुर्निवारमिति भावः || २० || एवमेव भवेद्यन्मे क्रियते त्रिपुराविधौ | बालक्रीडेव मे भाति सर्वं तन्मानसं यतः || २१ || ननु कर्मैवंविधमेव | उपासनं तु परदेवतासम्बन्धान्नैवमित्याशङ्क्योपासनमपि शुष्ककर्मतुल्यमेव फलत इत्याह - एवमिति | मे मया त्रिपुरोपासनविधौ क्रियमाणं कर्मवदेवेत्यर्थः | अत एव बालक्रीडेवेति | तत्र हेतुः - मानसं यत इति || २१ || एतद्यदुक्तं भवता कर्तुं तत् [क्: तस्या] स्यादितोऽन्यथा | नियतं चाप्यन्यथा तद् वचोभेदसमाश्रयात् || २२ || उपासनस्य कर्मतुल्यतामाह - एतदिति | यद् उपासनम् | वचोभेदः शास्त्रभेदः | शास्त्राणां विविधत्वेन भवदुक्तप्रकारेणान्यथा वा नियमेनानियमेन वा कर्तुं शक्यमित्यर्थः || २२ || प्. १४) आलम्बभेदतश्चापि विविधं प्रतिपद्यते | कथमेतत् क्रतुसममसत्यफलसम्मितम् || २३ || शालिग्रामनार्मदाद्यालम्बनभेदेन चान्यथा कर्तुं शक्यम् | एवमनेकथा प्रतिपद्यमानत्वात् क्रत्वादिकर्मसममेतदुपासनमसत्यफलत्वेन सम्मितं निश्चितम् | क्रतुसमं कथं न भवेदिति शेषः || २३ || अप्यसत्यात्मकं यस्मात् कथं सत्यसमं भवेत् | अथापि नित्यं [क्: नित्य] कर्तव्यमेतन्नास्यावधिः क्वचित् || २४ || मानसत्वात् स्वरूपतोऽप्यसत्यं यस्मात्तस्मात् कथं सत्यफलजनकं भवेत् | नास्त्यकृतः कृतेन (मुण्ड० १|२|१२) इति वचनादिति भावः | शास्त्रस्येश्वरसङ्कल्परूपत्वेनाचिन्त्यत्वान्नैवं वक्तुं युक्तमिति चेदाह ##- लक्षितो मे स भगवान् [क्, घ्: भगवन्] संवर्तः सर्वशीतलः | कर्तव्यलेशविषमविषज्वालाविनिर्गतः || २५ || ननु यावज्जीवं कुर्वत एव परश्रेयःप्राप्तिरिति चेदाह - लक्षित इति | मे मया | न तेन श्रेयः प्राप्तमिति चेदाह - सर्वशीतल इति | न प्रत्यक्षदृष्टे विप्रतिपत्तिरित्याशयः | कुत एवं स सर्वशीतलस्त्वया ज्ञातः | तदाह - कर्तव्येति | यतो विनिर्गतः ततः शीतलः || २५ || हसन्निव लोकतन्त्रमभयं मार्गमाश्रितः | वने दावाग्निसङ्कीर्णे हिमाम्बुस्थगजोपमः || २६ || न च स केवलं मूढः पापफलभाक् यतोऽभयं मार्गमाश्रितो लोकव्यवहारं हसन्निवास्ते | तस्य सर्वशीतलत्वे दृष्टान्तः - वन इति || २६ || सर्वकर्तव्यवैकल्यामृतसंस्वादनन्दितः | कथमेतां दशां प्राप्तो यच्च मामाह तत्पुरा || २७ || कर्तव्यवैधुर्यमात्रेण कथं स महासुखी ? तदाह - सर्वेति | कर्तव्यतैव महादुःखहेतुः | व्यवहारे श्रान्तिदर्शनात् तदभावादेव सुखम् | सुषुप्तौ सुखदर्शनादिति भावः | एतां दशां कर्मत्यागादभयदशां संवर्तः प्राप्तः || २७ || प्. १५) सर्वमेतत् सुकृपया गुरो मे वक्तुमर्हसि | कर्तव्यकालभुजगनिगीर्णं मां विमोचय || २८ || किमेतेन ते प्रयोजनमिति चेदाह - कर्तव्येति || २८ || इत्युक्त्वा चरणौ मूर्ध्ना गृहीत्वा दण्डवन्नतः | अथ दृष्ट्वा तथाभूतं भार्गवं मुक्तिभाजनम् [घ्: भक्ति] || २९ || तथाभूतम् आर्तं मुमुक्षुम् || २९ || दयमानस्वभावोऽथ दत्तो वक्तुमुपाक्रमत् | वत्स भार्गव धन्योऽसि यस्य ते बुद्धिरीदृशी || ३० || कर्तव्यस्य दुःखहेतुत्वबुद्धिः || ३० || अब्धौ निमज्जतो नौकासम्प्राप्तिरिव सङ्गता | एतावदेव सुकृतिः क्रियाभिरुपसङ्गतः || ३१ || बुद्धिं स्तौति - अब्धाविति | ते सङ्गतेत्यन्वयः | उपासनं बालक्रीडनवद् व्यर्थमिति रामेणोक्तं फलप्रदर्शनेन प्रत्याह - एतावदिति | बुद्धिप्राप्तिमित्यर्थः || ३१ || स्वात्मानमारोहयति पदे परमपावने | सा देवी त्रिपुरा सर्वहृदयाकाशरूपिणी || ३२ || उपसङ्गत आरोहयतीति सम्बन्धः | परमपावने निर्दोषे मोक्षाख्ये | कथं क्रियाभिर्बुद्धिप्राप्त्या पदारोहस्तदाह - सेति | हृदयाकाशेऽभिव्यक्त्या तद्रूपिणी || ३२ || अनन्यशरणं भक्तं प्रत्येवंरूपिणी द्रुतम् | हृदयान्तः परिणता मोचयेद् मृत्युजालतः || ३३ || एवंरूपिणी प्रोक्तबुद्धिरूपिणी | प्रोक्तबुद्ध्यादिरूपेण [क्, ख्, ग्: बुद्ध्या रूपेण] परिणता सैव मोचयेदिति भावः || ३३ || यावत् कर्तव्यवेतालान्न बिभेति दृढं नरः | न तावत् सुखमाप्नोति वेतालाविष्टवत् सदा || ३४ || अस्या बुद्धेर्व्यतिरेकमुखेन पदसाधनतामाह - यावदिति || ३४ || प्. १६) नृणां कर्तव्यकालाहिसन्दष्टानां कथं शुभम् | करालगरलज्वालाक्रान्ताङ्गानामिव क्वचित् || ३५ || सर्पदष्टानामिव कर्तव्ययुतानां न सुखमित्याह - नृणामिति || ३५ || कर्तव्यविषसंसर्गमूर्च्छितं पश्य वै जगत् | अन्धीभूतं न जानाति क्रियां स्वस्य हितात्मिकाम् || ३६ || न जानाति | एवंरूपं जगत् पश्य || ३६ || अन्यथा चेष्टते भूयो मोहमापद्यते पुनः | एवंविधो हि लोकोअयं कर्तव्यविषमूर्च्छितः || ३७ || अन्यथेति | हितसाधनाय [क्, ख्, ग्: नायत्सा] तत्साधनं विहायान्यथा चेष्टते | अत्र हेतुर्विषमूर्च्छित इति || ३७ || अनादिकालतो भीमे पच्यते विषसागरे | यथा हि केचित् पथिकाः प्राप्ता विन्ध्यमहानगम् [क्: विन्ध्यं महा] || ३८ || एवं मोहो जीवस्य कदाप्रभृति [क्, ग्: भृतिसम्पन्न] सम्पन्न इति चेदाह - अनादीति | अत्र दृष्टान्तत्वेनाख्यायिकामुपक्रमते - यथेति || ३८ || क्षुधाभरसमाक्रान्ताः फलानि ददृशुर्वने | विषमुष्टिफलान्याशु तिन्दुकस्य फलेहया || ३९ || भक्षयामासुरत्यन्तक्षुधानष्टरसेन्द्रियाः | अथ ते तद्विषज्वालाज्वलिताङ्गाः सुपीडिताः || ४० || ननु विषमुष्टितिन्दुकफलयोराकृतिसाम्येऽपि न रससाम्यमित्यत आह - नष्टरसेन्द्रिया इति || ४० || अन्धीभूता विचिन्वन्तस्तद्विषोष्णप्रशान्तये | अविदित्वा मुष्टिफलं तिन्दूफलनिषेवणात् || ४१ || मुष्टिफलं भक्षितमित्यविदित्वा || ४१ || मत्वा ज्वालां निजे देहे धत्तुरफलमासदुः | भ्रान्त्या जम्बीरबुद्ध्या तत् सर्विरासीत् सुभक्षितम् || ४२ || तिन्दूफलजामेवाङ्गे ज्वालां मत्व आसदुः प्राप्ताः | तद् धत्तुरफलम् || ४२ || प्. १७) उन्मत्ताश्च ततोऽभूवन् मार्गाद् भ्रष्टाश्च ते तदा | अन्धीभूतातिगहने पतन्तो निम्नभूमिषु || ४३ || कण्टकैश्छिन्नसर्वाङ्गा [क्, घ्: श्चित्-] भग्नबाहूरुपादकाः | अधिक्षिपन्तश्चान्योन्यं कलहं चक्रुरुच्चकैः || ४४ || मुष्टिभिश्च शिलाभिश्च काष्ठैर्जघ्नुः परस्परम् | अथ ते दीर्णसर्वाङ्गाः पुरं कञ्चित् समासदुः || ४५ || निशीथे दैववशतः पुरद्वारमुपाययुः | पुरद्वाराधिपालैस्ते प्रतिरुद्धाः प्रवेशने || ४६ || देशकालानभिज्ञानात् कलहं चक्रुरुच्चकैः | अथ ते प्रहृता द्वारपालैरतितरां यदा || ४७ || द्वाराधिपैः कलहं चक्रुः || ४७ || तदा पलायनपरा बभूवुः परितस्तु ते | पतिताः परिखे केचिद् भक्षिता मकरादिभिः || ४८ || परिखाजलस्थमकरादिभिः || ४८ || केचित् खातेषु कूपेषु पतिताः प्राणमुत्सृजुः | अपरे तैर्विनिहताः केचिज्जीवग्रहं गताः || ४९ || एवं जना हितेच्छाभिः कर्तव्यविषमूर्च्छिताः | अहो विनाशं यान्त्युच्चैर्मोहेनान्धीकृताः खलु || ५० || दार्ष्टान्तिके योजयति - एवमिति || ५० || धन्योऽसि भार्गव त्वं तु यस्मादभ्युदयं गतः | विचारः सर्वमूलं हि सोपानं प्रथमं भवेत् || ५१ || मोहसागरोत्तीर्णत्वाद् धन्योऽसि | कोऽसावभ्युदयस्तदाह - विचार इति | मूलं भवेत् || ५१ || परश्रेयोमहासौधप्राप्तौ जानीहि सर्वथा | सुविचारमृते क्षेमप्राप्तिः कस्य कथं भवेत् || ५२ || यत एवमतः सौधप्राप्तौ प्रथमं सोपानं जानीहि | अत एवाह - सुविचारेति || ५२ || प्. १८) अविचारः परो मृत्युरविचारहता जनाः | विमृश्यकरी जयति सर्वत्राभीष्टसङ्गमात् || ५३ || अविचारहता दैत्या यातुधानाश्च सर्वशः | विचारपरमा देवाः सर्वतः सुखभागिनः || ५४ || अविचारेण के हताः के वा विचारेण सुखिनस्तदाह - अविचारेति || ५४ || विचाराद्विष्णुमाश्रित्य जयन्ति प्रत्यरीन् सदा | विचारः सुखवृक्षस्य बीजमङ्कुरशक्तिकम् || ५५ || देवाः प्रत्यरीन् दैत्यादीन् जयन्ति | अङ्कुरशक्तिकमिति | न निष्फलं बीजमिति भावः || ५५ || विराजते विचारेण पुरुषः सर्वतोऽधिकः | विचाराद्विधिरुत्कृष्टो विचारात् पूज्यते हरिः || ५६ || सर्वज्ञस्तु विचारेण शिव आसीन्महेश्वरः | अविचारान्मृगासक्तो रामो बुद्धिमतांवरः || ५७ || परमामापदं प्राप्तो विचारादथ वारिधिम् | बद्ध्वा लङ्कापुरीं रक्षोगणाकीर्णां समाक्रमत् || ५८ || अविचाराद्विधिरपि मूढो भूत्वाऽभिमानतः | शिरश्छेदं समगमदिति संश्रुतमेव ते || ५९ || महादेवोऽविचारेण वरं दत्वाऽसुराय वै | भस्मीभावात् स्वस्य भीतः पलायनपरोऽभवत् || ६० || अविचाराद्धरिः पूर्वं भृगुपत्नीं निहत्य तु | शापेन परमं दुःखमाप्तम्(मवापा)त्यन्तदुःसहम् || ६१ || एवमन्ये सुरा देवा यातुधाना नरा मृगाः | अविचारवशादेव विपदं प्राप्नुवन्ति हि || ६२ || महाभागास्ते हि धीरा यान् कुत्रापि च भार्गव | विजहाति विचारो नो नमस्तेभ्यो निरन्तरम् || ६३ || विचारपरान् स्तौति - महेति || ६३ || प्. १९) कर्तव्यमविचारेण प्राप्य मुह्यन्ति सर्वतः | विचार्य कृत्वा सर्वेभ्यो मुच्यतेऽपारसङ्कटैः || ६४ || अकर्तव्यमेव दुःखदमविचारात् कर्तव्यत्वेन प्राप्य सर्वतो मुह्यन्ति | अपारसङ्कटैः अपरिहार्यदुःखप्रापकैः सह सर्वेभ्यो दुःखेभ्यः || ६४ || एवं लोकांश्चिरादेषोऽविचारः सङ्गतोऽभवत् | यस्याविचारो यावत् स्यात् कुतस्तावद्विमर्शनम् || ६५ || विचाराविचारयोर्विरोधं सदृष्टान्तमाह - यस्येति || ६५ || ग्रीष्मभीष्मकरातप्ते मरौ क्व शिशिरं जलम् | एवं चिराविचाराग्निज्वालामालापरीवृते || ६६ || ननु ग्रीष्मेऽप्यकस्माद् वृष्ट्यागम इव विचारः स्वयमेवोदेष्यतीति चेन्नेत्याह - एवमिति || ६६ || विचारशीतलस्पर्शः कथं स्यात् साधनं विना | साधनं त्वेकमेवात्र परमं सर्वतोऽधिकम् || ६७ || साधनं प्रसिद्धं कर्म स्यादिति चेन्नेत्याह - एकमेवेति | सर्वतः इतरफलसाधकेभ्यः साधनेभ्योऽधिकम् | अवश्यफलपर्यवसानादिति भावः || ६७ || सर्वहृत्पद्मनिलयदेवतायाः परा कृप्ता | तां विना स्यात् कथं कस्य महाश्रेयः सुसाधनः || ६८ || तत् किम् ? तदाह - परा कृपेति || ६८ || विचारार्कोऽविचारान्धमहाध्वान्तनिबर्हणः | तत्र मूलं भवेद्भक्त्या देवतापरिराधनम् || ६९ || अन्धस्य जन्मान्धस्य यन्महाध्वान्तं सूर्याद्यैरनिवार्यम् | तत्र कृपायाम् || ६९ || राधिता परमा देवी सम्यक् तुष्टा सती तदा | विचाररूपतां याति चित्ताकाशे रविर्यथा || ७० || देवताराधनाद् विचारोदयप्रकारमाह - राधितेति | कृपया स्वयमेव विचाररूपा भवतीत्यर्थः | कृपोत्पत्तेः पूर्वं सैवाविचाररूपा चासीदिति तात्पर्यम् | अत एवोक्तं चण्डीस्तवे - संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी (१|५८) इति || ७० || प्. २०) तस्मान्निजात्मरूपां तां त्रिपुरां परमेश्वरीम् | सर्वान्तरनिकेतां श्रीमहेशीं चिन्मयीं शिवाम् || ७१ || तदप्याराधनं नेन्द्रचन्द्रादिरूपायाः किन्त्वन्तर्याभिरूपाया इत्याह - निजात्मेति || ७१ || आराधयेदकापट्यात् सद्गुरुद्वारतः क्रमात् | आराधनेऽपि मूलं स्याद्भक्तिः श्रद्धा च निर्मला || ७२ || आराधनप्रकारमाह - अकापट्यादिति | कापट्यम् फलाभिसन्धिः || ७२ || तत्रापि मूलं माहात्म्यश्रवणं परिकीर्तितम् | अतस्ते प्रथमं राम माहात्म्यं सम्प्रवर्तितम् || ७३ || तत्रापि भक्त्यादौ | सम्प्रवर्तितं श्रावितम् || ७३ || तेन श्रुतेनाधुना त्वं प्राप्तवानसि मङ्गलम् | विचारः [क्, ग्, घ्: विचारं] श्रेयसो मूलं यस्मात्ते नहि भीरितः || ७४ || विचारोदयपर्यन्तं भयमस्ति महत्तरम् | अविचारात्मदोषेण ग्रस्तस्य प्रतिवासरम् || ७५ || यथा हि सन्निपातेन ग्रस्तस्यौषधसेवनात् | अपि तावद्भवेद् भीतिर्यावद्धातोरशुद्धता || ७६ || अत्र दृष्टान्तः - यथेति | सन्निपातमहादोषवतो महौषधसेवनादपि यावद् धातुशुद्धिर्न भवति तावद् भयमस्त्येव क्वचिद्विपर्ययदर्शनात् एवं देवताराधनपरस्यापि विचारोदयपर्यन्तमविचारेण भयमस्तीति भावः || ७६ || प्राप्ते विचारे परमे फलितं जीवितं नृणाम् | यावत्सु जन्मसु नृणां विचारो न भवेत् परः || ७७ || परो मोक्षसाधनः || ७७ || प्. २१) तावन्तो जन्मतरवो वन्ध्या विफलहेतुतः | स एव सफलो जन्मवृक्षो यत्र विमर्शनम् || ७८ || कूपमण्डूकसदृशा ये नरा निर्विमर्शनाः | यथा कूपे समुत्पन्नो भेको नो वेद किञ्चन || ७९ || ते कूपमण्डुकसदृशः || ७९ || शुभं वाप्यशुभं वापि कूपे एव विनश्यति | तथा जना अपि वृथोत्पन्ना ब्रह्माण्डकूपके || ८० || शुभं वाप्यशुभं वापि न विदुः स्वात्मनः क्वचित् | उत्पद्योत्पद्य नश्यन्ति न जानन्ति स्वकं हितम् || ८१ || सुखबुद्धिं च दुःखेषु सुखे दुःखविनिश्चयम् | प्राप्याविचारमाहात्म्यात् पच्यन्ते सृतिपावके || ८२ || दुःखसाधनेषु पुत्रादिषु सुखसाधनत्वबुद्धिम् | सुखसाधने [क्: साधनवैरा-] वैराग्यादौ दुःखसाधनत्वविनिश्चयम् | सृतिर्जन्मादिरूपः संसारः || ८२ || दुःखेन क्लिश्यमानाश्च न कथञ्चित् त्यजन्ति तत् | यथा पादशताघातैस्ताडितोऽपि महाखरः || ८३ || तद् धनादिरूपं दुःखसाधनम् | अत्र दृष्टान्तः - यथेति || ८३ || रासभीमनुयात्येव तथा संसरणं जनः | त्वं तु राम विचारात्मा पारं दुःखस्य सङ्गतः || ८४ || तथेति | संसरणं घोरसंसारप्रवृत्तिम् [क्: घोरं संसारे] | भूयः क्लिश्यमानोऽपि न त्यजतीत्यर्थः || ८४ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे विचारमाहात्म्ये द्वितीयोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां द्वितीयोऽध्यायः || प्. २२) अथ तृतीयोऽध्यायः दत्तात्रेयप्रोक्तवचः श्रुत्वाऽत्यन्तसुकौतुकी | जामदग्न्यः पुनरपि पप्रच्छ विनयान्वितः || १ || पूर्वाध्याये माहात्म्यश्रवणाद् भक्तिस्तत उपासनं ततो विचारोदय इत्युक्तम् | तत्र माहात्म्यश्रवण एव किं कारणमिति पप्रच्छेत्याह हारितायनः [क्: ताय नमः] दत्तात्रेयेति || १ || भगवन् गुरुनाथोक्तं भवता यत्तथैव तत् | अविचारात् परो नाशः संप्राप्तः सर्वथा जनैः || २ || विचारेण भवेच्छ्रेयस्तन्निदानमपि श्रुतम् | माहात्म्यश्रुतिरित्येवं [क्: रित्येव; ख्: रिवेयम्] तत्र मे संशयो महान् || ३ || तत्र माहात्म्यश्रुतौ || ३ || कथं वा तदपि प्राप्यं साधनं तत्र किं भवेत् | स्वाभाविकं तद्यदि स्यात्तत्सर्वैर्न कुतः श्रुतम् || ४ || तदपि माहात्म्यश्रवणमपि | प्राणिमात्रस्याशनायापिपासादिवत् स्वाभाविकमेवैतदिति चेदाह - तत्सर्वैरिति || ४ || अहं वाद्यावधि कुतः प्रवृत्तिं नाप्तवानिह | दुःखं मत्तोऽधिकं प्राप्ता विहताश्च पदे पदे || ५ || शौर्यवीर्यादिवत् त्वादृशानामेवायं स्वभाव इति चेदाह - अहं वेति | इह माहात्म्यश्रवणे | दुःखप्राप्तिरेवात्र मूलमिति चेदाह - दुःखमिति || ५ || न कुतः साधनं प्राप्ता एतन्मे कृपया वद | इत्यापृष्टः प्राह भूयो हृष्टो दत्तो दयानिधिः || ६ || अहं यथा रामेण विहतः पराजित एवमन्ये पदे पदे विहता अपि कुतो न माहात्म्यं श्रुतवन्तः एतद्वदेत्यर्थः || ६ || प्. २३) शृणु राम प्रवक्ष्यामि निदानं श्रेयसः परम् | सद्भिः सङ्गः परं मूलं सर्वदुःखनिबर्हणम् || ७ || निदानमादिकारणम् | परं मूलमादिकारणम् || ७ || परमार्थफलप्राप्तौ बीजं सत्सङ्ग उच्यते | त्वं चापि तेन हि सता संवर्तेन महात्मना || ८ || सङ्गतः सन्निमां प्राप्तो दशां श्रेयःफलोदयाम् | सन्त एव हि संयाता दिशन्ति परमं सुखम् || ९ || तच्च राम एव निदर्शयति - त्वं चेति | सत्सङ्गं स्तौति - सन्त इति || ९ || विना सत्सङ्गतः केन प्राप्तं श्रेयः परं कदा | लोकेऽपि यादृशं सङ्गं यो यः प्राप्नोति मानवः || १० || तत्फलं स समाप्नोति सर्वथा नहि संशयः | अत्र [क्: अत्रेति] ते कीर्तयिष्यामि शृणु राम कथामिमाम् || ११ || तत्फलं सङ्गानुरूपं सदसद्वा | पूर्वाध्याये संवर्तोपदिष्टं विज्ञानं संवर्तस्य तादृशस्थितिं च वदेत्युक्तम् | तत्सर्वं सत्सङ्गफलत्वेन वक्तुमाख्यायिकामुपक्रमते - अत्रेति || ११ || पुरा दशार्णाधिपतिर्मुक्ताचूड इतीरितः | तस्य पुत्रौ हेमचूडमणिचूडौ बभूवतुः || १२ || सुरूपौ सुगुणौ चोभौ सर्वविद्याविशारदौ | कदाचिन्मृगयोत्साहात् सेनाभिः परिवारितौ || १३ || सह्याचलवनं भीमं सिंहव्याघ्रादिसङ्कुलम् | महाबलौ विविशतुर्धनुर्बाणधरौ किल || १४ || अथ तत्र मृगान् सिंहान् वराहान् महिषान् वृकान् | जघन्तुर्निशितैर्बाणैर्लाघवात् कार्मुकच्युतैः || १५ || प्. २४) पांशुभिर्नभ आक्रान्तमभूद् दर्शनिशोपमम् | न दृश्यते तत्र शिला वृक्षः पुरुष एव वा || १७ || कुतो नीचोच्चतां पश्येदेवं ध्वान्तावृतो गिरिः | निहता शर्करावर्षैः सेनात्यन्तं पलायिता || १८ || वृक्षान् केचिच्छिलाः केचिद् गुहाः केचिदुपासदुः | अश्वारूढौ राजपुत्रावपि दूरं पलायितौ || १९ || उपासदुः संश्रिता बभूवुः || १९ || हेमचूडः क्वचित्तत्र प्रपेदे [घ्: प्रदेशे] तापसाश्रमम् | कदलीखर्जूरवनैराक्रान्तमतिसुन्दरम् || २० || तत्रापश्यच्छुभां काञ्चित् कन्यामग्निशिखामिव | प्रद्योतमानां वपुषा तप्तहेमसुवर्चसा || २१ || तां दृष्ट्वा राजपुत्रोऽपि पद्मामिव सुरूपिणीम् | स्मयमान इवाऽपृच्छत् का त्वं पद्मानने वने || २२ || निर्जने भीतिजनने निर्भयेव [क्: निर्भये वश] समास्थिता | कस्य त्वमपि केनात्र निवसस्येकला कथम् || २३ || केन हेतोर्निवससि ? कथमेकला निवससीति सम्बन्धः || २३ || पृष्टैवं प्राह सा कन्या राजपुत्रमनिन्दिता | स्वागतं ते राजपुत्र विष्टरं प्रतिपद्यताम् || २४ || विष्टरम् आसनम् || २४ || तपस्विनामयं धर्मः पूजनं ह्यतिथेस्तु यत् | श्रान्तं त्वामभिपश्यामि व्यथितं चण्डवायुना || २५ || मत्प्रश्नस्योत्तरमनुक्त्वा कुत आदौ पूजनं क्रियत इति चेदाह - तपस्विनामिति | तत्रैव [क्: तत्रैव] हेत्वन्तरमाह - श्रान्तं त्वामिति || २५ || एवं विनिघ्नतोर्वन्यान् मृगान् राजकुमारयोः | चण्डवायुः प्रादुरासीच्छर्कराश्मप्रवर्षणः || १६ || [अत्र स्थापितः षोडशः श्लोकः २-३ पङ्क्त्योः स्थापनीयः |] प्. २५) बध्वा खर्जूरवृक्षेऽश्वमत्रासीनो गतश्रमः | मद्वृत्तमर्हसि श्रोतुमित्युक्तः स तथाऽकरोत् || २६ || फलानि भोजयामास पाययामास सद्रसम् | एवं तं विश्रमं प्राप्तं राजपुत्रमनिन्दिता || २७ || सद्रसं स्वादूदकम् || २७ || प्राह सा मधुसंस्रावपेशलाकारया गिरा | राजपुत्र व्याघ्रपादो मुनिः शिवपदाश्रयः || २८ || पेशलाकारया शोभनया || २८ || येन लोकाः पुण्यतमा जिताः स्वतपसो बलात् | परावरज्ञो ह्यनिशं पूजितो मुनिनायकैः || २९ || परावरज्ञो ब्रह्मज्ञः || २९ || तस्याहं धर्मतः पुत्री हेमलेखेति विश्रुता | विद्युत्प्रभाख्या विद्याध्री सा सर्वाङ्गमनोहरा || ३० || स्वस्य धर्मपुत्रीत्वमेव निरूपयितुमाह - धर्मत इति | न तनुजेत्यर्थः | विद्युदिति || ३० || इमां वेणामनु नदीं स्नातुमभ्याययौ क्वचित् | तधा तत्राजगामार्थात् सुषेणो वङ्गभूपतिः || ३१ || स ददर्श विगाहन्तीं नदीं तां लोकसुन्दरीम् | क्लिन्नांशुकान्तरत्यन्तव्यक्तपीनकुचद्वयीम् || ३२ || कामबाणहतस्तत्र तां प्रार्थयदथापि सा | सौन्दर्यमोहिता तस्य तदुक्तिं सममंसत || ३३ || अथ सापीत्यन्वयः | सममंसत अङ्गीचकार || ३३ || सङ्गम्याथ तया राजा ययौ स्वनगरं प्रतिं | दधार सापि विद्याध्री गर्भं राजर्षिवीर्यतः || ३४ || भीताऽपचारात् पत्युः सा गर्भं त्यक्त्वात्र संययौ | अमोघवीर्याद् राजर्षेर्जाताहं कन्यका ततः || ३५ || अत्र [क्: अत्र ...... रमोघ नास्ति] वेणातीरे | अमोघेति | राजर्षेरमोघवीर्यत्वादहं गर्भे परिपाकं विनैव तद्वीर्यात् कन्यका जातेति भावः || ३५ || प्. २६) मां ददर्श व्याघ्रपादः सन्ध्योपास्त्यर्थमागतः | दयया मामुपादायाऽपालयज्जननी यथा || ३६ || धर्मेण यः पालयिता प्रोच्यते हि पितैव सः | अहं तस्य धर्मपुत्री पितृसेवापरायणा || ३७ || तस्य माहात्म्यतो मेऽत्र भयं नास्त्येव कुत्रचित् | नायं सुरासुरैर्वापि कदाचिद् दुष्टबुद्धिभिः || ३८ || कथमेकला निवससीत्यस्योत्तरमाह - तस्येति || ३८ || प्रवेष्टुमाश्रमोऽर्हः स्यात् प्रविशन्नाशमाप्नुयात् | एतन्मेऽभिहितं वृत्तं तिष्ठ किञ्चिन्नृपात्मज || ३९ || आयास्यति स भगवान् पिता मे तं निशामय | प्रणम्य तं प्राप्य चेष्टं ततः कल्ये प्रयास्यसि || ४० || राजपुत्रस्य स्वस्मिन्नभिप्रायमालक्ष्य स्वाङ्गीकारं [क्: स्वाङ्गीकारे] द्योतयन्त्याह - प्राप्य चेष्टमिति | आवयोरनुरूपत्वाद् मां तुभ्यं दास्यत्येवेत्याशयः | कल्ये उषसि || ४० || हेमलेखावचः श्रुत्वा तत्सौन्दर्येण मोहितः | भितः किञ्चित् प्रवक्तुं तां विमना इव चाभवत् || ४१ || मुनिमाहात्म्याद्भीतः | किञ्चित् स्वाभिप्रायम् || ४१ || अथालक्ष्य राजपुत्रं कामस्य वशमागतम् | प्राह सा विदुषी भूयो राजपुत्र धृतिं भज || ४२ || आगच्छति पिता सद्यस्ततोऽभिलषितं भज | एवं वदन्त्यां तस्यां स व्याघपादो महामुनिः || ४३ || आजगाम वनात् [क्: वनाद्यत्र पुष्पा] पत्रपुष्पादेः कृतसञ्चयः | मुनिं समागतं दृष्ट्वा राजपुत्रः समुत्थितः || ४४ || प्. २७) प्रणम्य नाम संश्राव्योपविष्टस्तेन देशितः | अथ दृष्ट्वा राजपुत्रं कामेन विकृताकृतिम् || ४५ || देशित आज्ञप्तः || ४५ || ज्ञात्वा योगदृशा सर्वं मत्वा युक्तं च तत्तदा | दारक्रियार्थं तस्मै तां हेमलेखां ददौ मुनिः || ४६ || सर्वं तयोरभिप्रायम् | तत् तस्मै कन्यादानम् || ४६ || तुष्टो राजकुमारोऽपि तामादाय पुरं ययौ | मुक्ताचूडोऽतिसन्तुष्टो महोत्सवविधानतः || ४७ || विवाहमकरोत्तस्य विधानेन क्षितीश्वरः | अथ राजकुमारोऽपि तया क्रीडापरः सदा || ४८ || सौधेषु वनराजीषु पुलिनादिषु संबभौ | हेमलेखां राजपुत्रो भोगेष्वनतिकामिनीम् || ४९ || उदासीनां सदद् दृष्ट्वा पप्रच्छ रहसि क्वचित् | किं प्रिये नानुरक्तासि प्रिये मययनुरागिणि || ५० || कुतो भोगेषु नात्यन्तमासक्तासि शुचिस्मिते | किं भोगास्ते मनोयोग्या न सन्त्यत्र कुतस्त्विदम् || ५१ || कुतः कस्माद्धेतोः | भोगाः भोगसाधनानि | कुत इदमौदासीन्यम् || ५१ || अत्युत्तमेषु भोगेषु नासक्तेव विभासि मे | त्वययासक्तिविहीनायां कथं मे सुखदा रतिः || ५२ || भोगा अनुत्तमा एवेत्याशयेनाह - अत्युत्तमेष्विति | अत्युत्तमेऽलभ्येऽपि भोगे आसक्तेव न विभासि | किं मदासक्त्या तवेति चेदाह - त्वयीति | परस्परासक्त्यतिशयेनैव रतिः सुखदेत्याशयः || ५२ || आसक्ते मयि चापि त्वं भास्यन्यगतमानसा | भाषितापि मया भूयो न शृणोष्येव किञ्चन || ५३ || कथमनासक्तिर्मयि त्वया निश्चिता तदाह - आसक्त इति | मयि [क्: अपि] आसक्ते त्वदेकभावे सत्यपि त्वमन्यगतमानसेव भासीति शेषः | अन्यगतमानसत्वं वा कथं त्वयाऽवगतमिति चेदाह - भाषितेति || ५३ || प्. २८) आगतं कण्ठसंलग्नं चिरादपि विभाव्य च | कदा नाथागतं चेति पृच्छस्यविदिता यथा || ५४ || चिरात् कण्ठसंलग्नमपि कदा आगतमिति पृच्छसि || ५४ || पेशलेषूपभोगेषु दुर्लभेषु क्वचिन्न ते | मन आसज्जते कस्मान्न किञ्चिदनुमोदसि || ५५ || पेशलेषु सुन्दरेषु मनो नासज्जत [क्: न सज्जत] इत्यपि कथं विदितमिति चेदाह - न किञ्चिदिति | यतो न किञ्चिदलभ्यमपि भोग्यमहो अतिसुन्दरमिति ना(अ)नुमोदसि || ५५ || मया विरहितां त्वां वै निमील्य नयने स्थिताम् | यदा यदोपगच्छामि पश्यामि च तदा तदा || ५६ || विमुख्यां त्वयि भोगेषु विषयेषु सुखं मम | कथं भवेद्दारुयोषासङ्गतस्येव तद्वद || ५७ || न तवाभिमतं त्यक्त्वा किञ्चिन्मम समीहितम् | सर्वथा त्वामनुगतो ज्योत्स्नां कुमुदवत् किल || ५८ || न च त्वामननुगतोऽस्मीत्याह - न तवेति || ५८ || तदेवं ते कुतश्चित्तं ब्रूहि प्राणाधिकप्रिये | येन शुद्ध्येत्तु मच्चित्तं शापितासि मया प्रिये || ५९ || एवं विषयविमुखम् || ५९ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे सत्सङ्गमाहात्म्ये तृतीयोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां तृतीयोऽध्यायः || प्. २९) अथ चतुर्थोऽध्यायः प्रियस्य कण्ठासक्तस्य निशम्यैवं वचो हि सा | ईषत्स्मितानना प्राह राजपुत्रमनिन्दिता || १ || अध्याये मानपमितेऽस्मिन्नाख्यानेन सुस्फुटम् | वैरस्यं भोगजालेषु वैराग्याय निरूप्यते || अनिन्दितेति | न तस्या विदितवेद्याया विषयवैमुख्यं मौढ्यादिनेति भावः || १ || बुबोधयिषती राजपुत्रं युक्त्याऽब्रवीदिदम् | राजपुत्र शृणु वचो नाहं त्वयि विरागिणी || २ || बुबोधयिषती एनं बोधयिष्यामीतीच्छायुता [क्: ष्यती] युक्त्येति | केवलस्ववचसि तस्यानाश्वाससम्भवादिति भावः | इदं वक्ष्यमाणम् || २ || किं स्यात् प्रियतमं लोके किन्नु स्यादप्रियं त्विति | विचारपरमा नित्यं नान्तमेत्यत्र मे मतिः || ३ || यदि नासि विरागिणी तर्हि कुत एवमिति चेदाह - किं स्यादिति | विचार एव परमो मुख्यध्येयो यस्याः | अन्तं निश्चयम् || ३ || ध्यायाम्येतच्चिरान्नित्यं स्त्रीस्वभाववशादहम् | नैतज्जानामि तत्त्वं मे वक्तुमर्हसि तत्त्वतः || ४ || किमेतद्ध्यानेन ते फलमिति चेदाह - स्त्रीस्वभावेति | तत्त्वमिति | प्रियाप्रियस्वरूपस्य तत्त्वं याथार्थ्यम् || ४ || एवं प्रोक्तो हेमचूडः प्रहस्य प्राह तां प्रियाम् | नूनं स्त्रियो मूढधिय इति सत्यं न संशयः || ५ || प्रियाप्रिये हि जानन्ति पशुपक्षिसरीसृपाः | यतस्तेषां दृश्यते हि प्रियेष्वप्रियकेषु च || ६ || कुतो मूढधिय इति चेदाह - प्रियेति | यत्तिर्यञ्चोऽपि जानन्ति तत्र को.आं विचार इति भावः || ६ || प्. ३०) प्रवृत्तिश्च निवृत्तिश्च किमत्र बहु चिन्तनम् | सुखं यस्मात् तत् प्रियं स्यात् दुःखं यस्मात्तदप्रियम् || ७ || कथं त्वयैतत् पश्वादिज्ञानं विज्ञातमिति चेदाह - प्रवृत्तीति | प्रियाप्रिययोः प्रवृत्तिनिवृत्तिभ्यामनुमीयत इत्यर्थः | अत्र तिरश्चामपि प्रसिद्धेऽर्थं | ननु तर्हि प्रियाप्रिययोर्लक्षणं वदेति चेदाह - सुखमिति || ७ || किमत्र मुग्धभावेन नित्यं चिन्तयसि प्रिये | श्रुत्वा प्रियवचः प्राह हेमलेखा पुनः प्रियम् || ८ || अत्र प्रसिद्धेऽर्थे || ८ || सत्यं स्त्रियो मुग्धभावा नास्त्यासां सद्विमर्शनम् | तथाप्यहं बोधनीया त्वया सम्यग्विमर्शिना || ९ || सद्विमर्शनं सम्यग्विचारः || ९ || सुबोधिता त्वया चाहं चिन्तामेतां विसृज्य तु | त्वया भोगेषु सततं भवाम्यनुदिनं ततः || १० || भोगेष्वासक्ता भवामि | ततः बोधनानन्तरम् || १० || राजन् सुखञ्च दुःखञ्च याभ्यां भवति ते ननु | प्रियाप्रिये विनिर्दिष्टे त्वया सूक्ष्मविमर्शिना || ११ || तल्लक्षणं दूषयितुमनुवदति - राजन्नित्यादि || ११ || एकमेव सुखं दुःखं कालदेशाकृतेर्भिदा | जनयेदत्र तत् कस्मात् प्रतिष्ठाऽध्यवसायिनी || १२ || भिदा भेदेन | एकमेव वस्तु कालादिभेदेन सुखं दुःखञ्च जनयेत् | अत्र एवम्भूते वस्तुनि | प्रतिष्ठा सुखसाधनमेवेत्यव्यभिचारिप्रतिष्ठितस्वरूपता | अध्यवसायिनी निश्चयवती || १२ || यतो वह्निः कालभेदात् पृथगेव फलप्रदः | तथा देशविभेदेनाप्याकारस्य विभेदतः || १३ || तदेव निरूपयति - यत इति | पृथक्फलस्य सुखादेः प्रद एव || १३ || प्. ३१) शीतकाले प्रियो वह्निरूष्मे त्वप्रिय एव हि | हिमोष्णदेशभेदेन प्रियश्चाप्रिय एव च || १४ || एतदेव विविच्याह - शीतेति || १४ || शीतप्रकृतिजीवानां प्रियोअण्येषां तथेतरः | अथाप्यधिकभावेनाल्पभावेनैवमीरितः || १५ || प्रकृतिरूपाकारभेदेऽपि तथेत्याह - शीतेति | वह्नेरल्पानल्परूपाकारभेदेऽपि तथेत्याह - अथेति | एवं सुखासुखयोः साधकत्वेन प्रियोऽप्रियश्च || १५ || एवं शीतं धनं दाराः पुत्रा राज्यं तथेतरत् | अथाप्येवं महाराजो दारपुत्रधनैर्वृतः || १६ || उक्तमर्थमन्यत्रातिदिशति - एवमिति | इतरत् पश्वादि | एवं न कस्यचित् सुखमात्रसाधनत्वमित्युक्त्वा सुखसाधनत्वं नास्त्येवेत्याह - अथापीति | सर्वसुखसाधने सत्यपीत्यर्थः | महाराजो मुक्ताचूडः || १६ || शोचत्यनुदिनं कस्मान्न शोचन्तीतरे कुतः | योऽयं भोगः सुखार्थोऽस्ति सोऽप्यनन्तो भवेन्ननु [क्, ख्: न तु] || १७ || दाराद्यखिलसुखसाधनयुक्तोऽपि कस्मादनुदिनं शोचति | इतरे सुखसाधनरहिता विरागिणः | ननु मत्पितुरखिलविषयाप्राप्त्या शोकः | अतोऽखिलविषयाणां सम्भूय सुखसाधनत्वमिति चेदाह - योऽयमिति || १७ || न केनचित्तदखिलं प्राप्तं यस्मात् सुखं भवेत् | यत्किञ्चिल्लाभतो यत्स्यात् [क्: यस्मात्] सुखं तत्रापि संशृणु || १८ || तस्यानन्त्येन प्राप्त्यसम्भवान्नेत्याह - न केनचिदिति | मास्त्वखिललाभस्तथापि कदाचित् किञ्चिल्लाभे कस्यचित् सुखं भवत्येवेति चेदाह - तत्रापीति | तत्सुखविषयेऽपीत्यर्थः || १८ || न तत् सुखं भवेन्नाथ यतो दुःखविमिश्रितम् | दुःखं तु दिविधं प्रोक्तं बाह्यमान्तरमित्यपि || १९ || दुःखविमिश्रितमिति | प्रकाशान्धकारयोरिव सुखदुःखयोर्विरुद्धस्वभावत्वान्नैकदा सम्भवः | अतस्तत्काले दुःखस्यानुभूयमानत्वान्न त्वदभिमतं सुखमिति भावः | ननु न [क्: न नास्ति] तत्काले दुःखानुभवोऽस्तीत्याशङ्क्य तद्दुःखमुपपादयितुं विभजति - दुःखं त्विति || १९ || प्. ३२) बाह्यं शरीरसम्भूतं धातुदोषादिसम्भवम् | आन्तरं मानसं प्रोक्तं तच्च वाञ्छासमुद्भवम् || २० || धातवो वातपित्तादयः | आदिना स्फोटाभिघातादिः || २० || महत्तरं मानसं स्याद्येन ग्रस्तमिदं जगत् | वाञ्छैव दुःखविटपिबीजं सुदृढशक्तिकम् || २१ || शरीरान्मानसं महत्तरम् | कुतो महत्तरत्वं तदाह - येनेति | बीजस्वभावादपि तस्य महत्तरत्वमाह - वाञ्छैवेति | सुदृढशक्तिकम् अवश्यफलपर्यवसायीति भावः | नैवं धातुदोषादिः तस्य सुप्रतीकार्यत्वात् || २१ || यया किङ्करतां प्राप्ताः कुर्वन्त्येव दिवानिशम् | इन्द्रादयोऽपि विबुधाः स्वर्निवासाः सदोदिताः || २२ || अत एवामृताशिनामपि सा दृश्यत इत्याह - ययेति | वाञ्छयेत्यर्थः | स्वर्गात्मकगुणोत्तरदेशसेवनेन सदोदयनिमित्तामृतपानेन वा तां प्रतीकर्तुमसमर्था एव देवा इत्याशयः || २२ || सुखं वाञ्छावशेषेऽपि यदस्ति नृपसम्भव | तद् दुःखमेव जानीहि यत् कृमिष्वपि सम्भवेत् || २३ || ननु मन्दान्धकारे प्रकाशान्धकारयोरविरुद्धयोरिव वाञ्छाकाले सुखदुःखयोः सहभाव इष्यत इति चेदाह - सुखमिति | दुःखमिश्रितस्य सुखस्य कृमिष्वपि दुःखप्रकृतिकेषु सम्भवान्न तन्मुख्यं सुखम् | किन्तु मन्दान्धकारस्थप्रकाशाभासवत् [क्: मदा-; ग्, घ्: महा##- प्. ३३) वरं तिर्यक्कीटकृमिप्रभृतीनां सुखं तु यत् | स्वल्पवाञ्छासम्मिलितं नृणां किं स्यात् सुखं वद || २४ || ननु तत्सुखाभासमपि इतरजन्तुभ्यो मर्त्यस्योत्तममेवेति चेन्नेत्याह - वरमिति | तिर्यक् पशुः | कीटाः सपक्षाः | कृमयोऽपक्षाः | प्रभृतिना [क्, ख्: तत्प्रभृतीनां] वयांसि [ख्: वयांसि नास्ति] | तिर्यगादीनां स्वल्पवाञ्चासम्मिलितत्वात् प्रभातान्धकारमिलितप्रकाशाभासवत् सुखाभासम् | नृणां तु अनन्तवाञ्छामिलितत्वाद् गाढान्धकारस्थखद्योतप्रकाशवत् कार्याक्षमत्वात् तन्न सुखाभासमपीति भावः || २४ || वाञ्छाशतसमाविष्तो यदि किञ्चिदुपेत्य तु | सुखी भवेदिह तदा को हि न स्यात् सुखी वद || २५ || यद्येवंविधसुखेनापि सुखित्वे न कोऽपि दुःखी भवेदित्याह - वाञ्छेति | किञ्चित् स्रक्चन्दनादि || २५ || अखिलाङ्गे वह्निदग्धे सूक्ष्मपाटीरबिन्दुना | यदि शीतलदेहः स्यात्तदा सोऽपि सुखी भवेत् || २६ || एवं तर्हि महादुःखेऽपि सुखी स्यादित्याह - अखिलेति | पाटीरबिन्दुश्चन्दनबिन्दुः || २६ || प्रियायाः सम्परिष्वङ्गात् सुखं प्राप्नोति वै नरः | तत्रैवाङ्गस्य विस्ऽमबन्धाद् दुःखं भवेन्ननु || २७ || ननु प्रियापरिस्वङ्गे हि बाह्यसर्वविस्मृतेः केवलं सुखमस्तीति चेदाह - प्रियाया इति | तत्रैव परिष्वङ्गकाल एव | विषमः पीडाकरो बन्धः परस्पराङ्गसंश्लेषः | तद्दुःखयुतत्वान्न तदपि केवलं सुखमिति भावः || २७ || रत्यावेशात् परिश्रान्तिः सर्वेषां जायते किल | अनन्तरं भारवाहपशोरिव परिश्रमः || २८ || परिष्वङ्गादौ दुःखमस्तीत्यत्र सर्वेषामनुभवं निदर्शयति - रतीति | रत्यावेशादनन्तरम् | इयं परिश्रान्तिर्दुःखमूलेत्यत्र दृष्टान्तः - भारेति | इयं परिश्रान्तिर्दुःखजन्या परिश्रान्तित्वात् भारवाहपशुपरिश्रान्तिवत् || २८ || प्. ३४) कथं पश्यसि तत् सौख्यं नाथैतन्मे समुच्यताम् | यावत् सुखं प्रियासङ्गे नाडीसंघट्टसम्भवम् || २९ || एवमस्य दुःखयुक्तत्वात्तत्सौख्यं कथं पश्यसि || २९ || तवास्ति [क्: तदास्ति] तावन्न किमु शुनामस्तीह तद्वद | यत्ततो ह्यतिरिक्तं ते दृष्टसौन्दर्यसम्भवम् || ३० || नाडीसंघट्टः आनन्देन्द्रियसंघर्षः तज्जनितं सुखं शुनामप्यस्तीति न तत्सुखं बुधैरभिलषणीयमिति भावः | ततः नाडीसंघट्टजात् | अतिरिक्तम् अधिकम् | दृष्टसौन्दर्यसम्भवं सौन्दर्यदर्शनजम् || ३० || तत् केवलाभिमानोत्थं स्वाप्नस्त्रीसङ्गमे यथा | पुरा कश्चिद्राजसुतो मन्मथाधिकसुन्दरः || ३१ || सौन्दर्यदर्शनादिजसुखस्याभिमानोत्थत्वे आख्यायिकामाह - पुरेति || ३१ || काञ्चित् सुरूपिणीं प्राप्तः स्त्रियं सर्वमनोहराम् | अत्यन्तमनुरक्तः स तस्यां राजकुमारकः || ३२ || सा त्वन्यस्मिन् राजसुत भृत्ये संसक्तमानसा | स भृत्यो राजपुत्रं तं वञ्चयामास युक्तितः || ३३ || मदिरां मोहनार्थाय तस्मै दत्वातिमात्रकम् | ततो मदान्धाय चेटीं काञ्चित् प्रेष्य कुरूपिणीम् || ३४ || युक्तिमेवाह - मदिरामिति | अतिमात्रं पुष्कलम् || ३४ || बुभुजे तां तस्य पत्नीं सर्वलोकैकसुन्दरीम् | एवमेव चिरं तत्र मदान्धो नृपतेः सुतः || ३५ || स्वस्मै मदान्धाय प्रेषितां चेटीं दासीं राजकुमारो बुभुजे | तस्य राजकुमारस्य पत्नीम् | स भृत्यो बुभुज इति तात्पर्यम् || ३५ || प्. ३५) प्रत्यहं चेटिकां गच्छन् स्वात्मानं सममंसत | धन्योऽहमीदृशीं लोकसुन्दरीं प्राणप्रेयसीम् || ३६ || राजकुमारो धन्योऽहमित्याद्यात्मानमभिमनुते || ३६ || उपगच्छाम्यहं नित्यं न मेऽस्ति सदृशः क्वचित् | एवं वृत्ते चिरे काले कदाचिद् दैवयोगतः || ३७ || भृत्यो निधाय पानं स कार्ये चात्यन्तिके ययौ | अथ राजकुमारस्तत्पानं नात्यन्तिकं पपौ || ३८ || स भृत्यः | आत्यन्तिके आवश्यके कार्ये सति | आत्यन्तिकं पुष्कलम् || ३८ || निमित्ततो ययौ शीघ्रं रत्युत्सुकितमानसः | शयनीयं मनःकान्तं सर्वभोगर्द्धिसंयुतम् || ३९ || निमित्ततः केनचिन्निमित्तेन | न पपौ || ३९ || शचीगृहं देवपतिरिव नन्दनसंस्थितम् | परार्द्ध्यपर्यङ्कगतां तां चेटीमुपसङ्गतः || ४० || नन्दनवन [क्, ख्, ग्: वन नास्ति] संस्थितं शचीगृहम् | परार्द्ध्यमुत्तमम् | तां भृत्यप्रेषिताम् || ४० || कामवेगेन विवशो बुभुजेऽत्यन्तहर्षतः | उपलभ्याथ रत्यन्ते चेटीं तां विकृताकृतिम् || ४१ || कामवेगेन तामपरीक्ष्यैव || ४१ || शङ्कितोऽमर्षितश्चापि किमेतदिति चिन्तयन् | क्व सा मम प्रियतमेत्येवं तामन्वपृच्छत || ४२ || केयमिति शङ्कितः | अनया प्रतारितोऽहमिति मर्षितः | नेयं मां प्रतारयितुं सुमर्था अतः किमेतदिति चिन्तयन् क्व सेत्याद्यन्वपृच्छत् || ४२ || पृष्टैवं तेन सा चेटी विमदं तं निशाम्य [क्, ख्: निशम्य] तु | भीता न किञ्चित्तं प्राह वेपमाना तदा ततः || ४३ || तं कुमारम् | ततः चेटीवृत्तात् | आलक्ष्येति सम्बन्धः || ४३ || प्. ३६) आलक्ष्य राजपुत्रोऽपि वैषम्यं चात्मवञ्चनम् | वामेन जग्राह कचे चेटीं क्रोधारुणेक्षणः || ४४ || वैषम्यमनर्हं वचनम् || ४४ || कृपाणिमाददे [ख्: कृपाण] दक्षहस्तेन नृपसम्भवः | तर्जयंस्तां प्रत्युवाच वद वृत्तं यथातथम् || ४५ || कृपाणिं खड्गम् || ४५ || नो चेन्न स्याज्जीवितं ते क्षणमात्रमपि द्रुतम् | सैवं निशम्य तद्वाक्यं भीता प्राणपरीप्सया || ४६ || अतो द्रुतं वदेति योजना || ४६ || जगौ यथावत्तत् सर्वं चिराद् वृत्तं समास्थितम् | प्रादर्शयच्चापि तस्मै तां भृत्येन सुसङ्गताम् || ४७ || तत् प्रियावृत्तम् | वृत्तम् अतीतम् | समास्थितं तया समाचरितम् || ४७ || क्वचिद्भूमौ कटे भृत्यं कृष्णं पिङ्गललोचनम् | प्रांशुं मलिनसर्वाङ्गं रूक्षवक्त्रं जुगुप्सितम् || ४८ || प्रांशुम् उच्चम् || ४८ || समाश्लिष्य रतिश्रान्तां सर्वाङ्गैः प्रेमभावतः | मृदुबाहुलतावृत्तग्रीवस्य वदने स्वकम् || ४९ || सर्वाङ्गैः समाश्लिष्य | लतया वृता वेष्टिता ग्रीवा यस्य || ४९ || निवेश्य वक्त्रकमलं पद्भ्यामाश्लिष्य गाढतः | तस्योरुयुग्मं तद्धस्तसंसक्तगुरुसुस्तनीम् || ५० || वासन्तिकामिव लतां वृतां कुसुमकोरकैः | रोहिणीं राहुणोपेतामिवापश्यन्नृपात्मजः || ५१ || एवंविधां समालोक्य निद्रयाऽपगतस्मृतिम् | मोमुह्यमानश्चात्यन्तं क्षणं पश्चाद् धृतिं भजन् || ५२ || क्षणमत्यन्तं मोहं प्राप्तः || ५२ || यत् प्राह राजतनयस्तन्मत्तः श्रूयतां ननु | धिङ्मामनार्यमत्यन्तं मूढं मदविमोहितम् || ५३ || प्. ३७) धिग् ये स्त्रीष्वभिसंप्रीता धिक् तांश्च पुरुषाधमान् | न कामिन्यः कस्यचित् स्युर्वृक्षस्येव च शारिकाः || ५४ || पुरुषाधमान् धिक् [ख्, ग्: धिग् धिक्; घ्: धिक् धिग् माम्] | शारिका इति | यत्रेप्सितं फलं तत्र गच्छन्तीति भावः || ५४ || किमहं मां प्रवक्ष्यामि मुग्धं महिषपोतवत् | जानन्तमेनां प्राणेभ्यः प्रेष्ठां सुचिरकालतः || ५५ || महिषपोतः सद्योजात [क्: जातो] महिषः तद्वन्मुग्धम् अतिजडमिति तात्पर्यम् || ५५ || न स्त्रियः कस्यचिद्वा स्युर्वेश्या इव विटस्य हि | यः स्त्रीषु विश्रब्धमनाः स एव वनगर्दभः || ५६ || एवमेव सर्वाः स्त्रिय इत्याह - नेति | वनगर्दभ इति | पुरगर्दभो हि जनसङ्गात् किञ्चिदन्यभावज्ञः कदाचित् स्यादिति तात्पर्यम् || ५६ || या स्थितिः शारदाभ्रस्य क्षणिका ह्यनवस्थिता | ततोऽपि पेलवा स्त्रीणां स्थितिरत्यन्तचञ्चला || ५७ || पेलवा लघुतरा || ५७ || नाहमद्यावधि ह्येवं स्त्रीस्वभावमहोऽविदम् | यन्मां सर्वात्मनासक्तं त्यक्त्वा भृत्यमनुव्रता || ५८ || अन्यासक्ता गूढभावा मयि छद्मानुरागिणी | प्रदर्शयन्ती भक्तिं स्वां नटीव विटमण्डले || ५९ || छद्मानुरागे दृष्टान्तः - नटीवेति || ५९ || नाविदं लेशतोऽप्येनां मदिरामत्तमानसः | छायेव मां सङ्गतेति मत्वा विश्रब्धमानसः || ६० || अप्रेक्षणीयां चेटीं तां वञ्चितश्चिरसङ्गतः | नूनं मत्तो मूढतमः को भवेज्जगतीतले || ६१ || अनया वञ्चितोऽहं चेटीं सङ्गतः || ६१ || य एवं विस्रम्भपूर्वमनया चिरवञ्चितः | अहोऽयं भृत्यहतकः सर्वाङ्गविकृताकृतिः || ६२ || तत्र हेतुः - य एवमिति | हतकः अतिनिन्दितः || ६२ || प्. ३८) किमस्मिन्ननया दृष्टं सौन्दर्यं सर्वतोऽधिकम् | यतो मां निजसौन्दर्याहृतलोकावलोकनम् || ६३ || सौन्दर्येण आहृतं लोकानामवलोकनं निरीक्षणं येन || ६३ || अनुरक्तं सर्वथैव त्यक्त्वैनमुपसङ्गता | एवं प्रलप्य बहुधा निर्विण्णोऽतितरां तदा || ६४ || सर्वथाऽनुरक्तम् | निर्विण्णो विरक्तः || ६४ || राजपुत्रो वनं प्रागात् सर्वसङ्गविवर्जितः | तस्माद् राजकुमारैतत्सौन्दर्यं मनसोत्थितम् || ६५ || यस्मात्तेन राजकुमारेण मोहितेनातिबीभत्सरूपां चेटीं चिरं संगच्छता [क्, ख्, ग्: गच्छता] इयं सैव लोकसुन्दरीत्यभिमानमात्रेण तत् सुखं चिरं प्राप्तं तस्मादित्यर्थः | मनसोत्थितं मनसा परिकल्पितम् || ६५ || यथा त्वं मयि चात्यन्तसौभगेक्षणपूर्वकम् | रतिं विन्दस्यतितरां तथा वा तद्विशेषतः || ६६ || एतदेव दृष्टान्तेन द्रढयति - यथेति | तद्विशेषतः ततोऽप्यधिकरूपेण || ६६ || विन्दन्ति रतिमत्यन्तं योषित्सु विकृतास्वपि | अत्र ते प्रत्ययं वक्ष्ये शृणु प्रिय समाहितः || ६७ || अत्र सौन्दर्यस्य मानसत्वे | प्रत्ययं निश्चयानुकूलां प्रक्रियाम् || ६७ || विलोक्यते या हि योषित् सा बहिः सुव्यवस्थिता | या च तत्प्रतिबिम्बात्मरूपिणी चित्तसंश्रया || ६८ || बहिः चित्तादन्यत्र || ६८ || सङ्कल्परूपिणी तस्याः सौष्ठवं मनसोल्लिखन् | पौनःपुन्येन तदनु वाञ्छामुपसमागतः || ६९ || तस्याः सौष्ठवं सौन्दर्यं पौनःपुन्येनोल्लिखन् | तदनु सम्यगुल्लेखानन्तरम् | तद्विषयवाञ्छाम् || ६९ || प्. ३९) क्षुब्धेन्द्रियो नरस्तस्यां रतिमाप्नोति सर्वतः | अक्षुब्धे त्विन्द्रिये न स्यात् सुन्दर्यामपि वै रतिः || ७० || क्षुब्धम् उपस्थेन्द्रियं यस्य | सर्वतोऽन्यवाञ्छाभ्यो निवृत्त इति शेषः | पुरुषस्य वाञ्छासहस्रसमाक्रान्तस्य स्त्रीसौन्दर्याद्युल्लेखनेन दृढतरः स्त्रीरतिवाञ्छोदयो यदा तदा अन्यवाञ्छा न्यग्भवन्तीति [क्, ख्: भवती] भावः | एवं क्षोभाभावे न क्वचिद्रतिरित्याह - अक्षुब्धेति || ७० || तत्र मूलं समुल्लेखः सौष्ठवस्य पुनः पुनः | अतः क्षोभो नैव दृष्टो बालानां योगिनामपि || ७१ || तत्र क्षोभे | एतद्व्यतिरेकमुखेन द्रढयति - अत इति || ७१ || तथा च यो यो यस्यां तु रतिं विन्दति मानवः | सुन्दर्यां वापि चान्यस्यां तत्र सौष्ठवमुल्लिखेत् || ७२ || सौन्दर्योल्लेख एव क्षोभहेतुर्न सौन्दर्यमिन्याह - तथा चेति | सौष्टवं स्थितमस्थितं वा || ७२ || दृश्यन्ते योषितोऽत्यन्तबीभत्साकारविग्रहाः | तरुणैः सङ्गतास्ताश्च दृश्यन्तेऽपत्यहेतुतः || ७३ || अत्र निदर्शनमाह - दृश्यन्त इति | बीभत्साकारो विग्रहोऽवयवसंस्थानं यासां ताः | एवंविधा जगति या दृश्यन्ते तास्तरुणैः संगताश्च दृश्यन्ते | ननु संगतेः रहसि सम्भवात् कथमन्यैः संगता दृश्यन्त इति चेदाह - अपत्यहेतुत इति || ७३ || विरूपतोल्लेखनं वाप्यनुल्लेखस्तु सौष्ठवे | यदि स्यात्तत् कथं नॄणां रतिस्तासु हि सम्भवेत् || ७४ || ननु तत्र सौष्ठवोल्लेखनं विनापि सङ्गतिः स्यादिति चेदाह - विरूपेति | सौष्ठवेऽनुल्लेखः सौष्ठवविषयकानुल्लेखः | तासु विरूपासु || ७४ || किं वक्तव्यमहो नॄणां कामिनां क्षिप्तचेतसाम् | जघन्याङ्गेऽपि सौन्दर्यं भासते सर्वतोऽधिकम् || ७५ || ननु विरूपायां कथं सौन्दर्योल्लेखनमित्याशङ्क्य नैतत् कामिनां चित्रमित्याह - किमिति | क्षिप्तं विक्षिप्तं चेतो येषाम् | जघन्ये निकृष्टेऽपानोद्गारधूपिते मूत्रादिक्लिन्ने क्लिन्ननाडीव्रणसुषिरतुल्ये योन्याद्यङ्गेऽपि | सर्वतो मुखादिभ्योऽधिकम् || ७५ || प्. ४०) मलमूत्रपरिक्लिन्नं यदङ्गं तत्र सौभगम् | पश्येच्चेत् कुत्र नो पश्येत् सौन्दर्यं तन्ममेरय || ७६ || तस्मात् सौन्दर्यमेतद्वै राजपुत्र निशामय | अभिमानमृते नैष सुखहेतुर्भवेत् क्वचित् || ७७ || तस्मात् सौन्दर्यस्य मनःकल्पितमात्रत्वात् || ७७ || क्षौद्रमाधुर्यवद् देहे सौन्दर्यं सहजं यदि | तद्बालानां कुमाराणां कुतो नो भाति तद्वद || ७८ || न क्षौद्रमाधुर्यवत् सौन्दर्यं स्वाभाविकमिति प्रकारान्तरेण सौन्दर्यस्य मानसत्वं साधयति - क्षौद्रेति || ७८ || देशभेदेषु दृश्यन्ते विविधाकृतयो नराः | एकपादैकनयना लम्बकर्णा हयाननाः || ७९ || नास्ति विरूपासु कामिनां रतिः | क्वचिद् दृश्यमानापि न पूर्णसुखावहेत्याशङ्क्य देशान्तरस्थित्याख्यानेन परिहरति - देशेति || ७९ || कर्णप्रावरणाः फालवक्त्रा निर्गतदंष्ट्रकाः | विनसा दीर्घनासाश्च लोमच्छन्ना विलोमकाः || ८० || पिङ्गकेशाः श्वेतकेशा विकेशाः स्थूलकेशकाः | श्वित्रवर्णाः काकवर्णाः पिङ्गला लोहिताङ्गकाः || ८१ || एवं बहुविधा मर्त्याः सजातिवनितासु ते | रतिं विन्दन्ति त्वमिव राजपुत्र निशामय || ८२ || निशामय पश्य || ८२ || सुखसाधनभूतेषु मुख्यं यत् स्त्रीवपुः स्थितम् | सर्वप्रियं यत्र सर्वे मुह्यन्ति विबुधा अपि || ८३ || शरीरप्रकृतिं वर्णयितुमाह - सुखेति || ८३ || प्. ४१) पुंसां वपुस्तथा स्त्रीणां प्रियमत्यन्तसुन्दरम् | विमर्शय सुबुद्ध्या त्वं राजपुत्र यथास्थितम् || ८४ || मांसलिप्तमसृक्क्लिन्नं शिराबद्धं त्वगाततम् | अस्थिपञ्जरकं लोमच्छन्नं पित्तकफाहितम् || ८५ || पित्तकफाभ्याम् आहितं युक्तम् || ८५ || मलमूत्रकुसूलं तच्छुक्रशोणितसम्भवम् | मूत्रद्वारसमुद्भूतमहो प्रियमिहेष्यते || ८६ || य एवमतिबीभत्से वितन्वन्ति रतिं नराः | विट्कृमिभ्यः कुतस्तेषां भवेदन्तरमीरय || ८७ || राजपुत्र तनुरियं प्रिया हि नितरां तव | विभावय विवेकेन धातूनां च पृथक्स्थितिम् || ८८ || धातूनां त्वगसृगादीनां पृथक्स्थितिम् | विवेकेन विचारदृष्ट्या [क्: दृशा] | विभावय | एवं विभावने क्व सौन्दर्यादिकमिति भावः || ८८ || एवमन्यत्रोपयोज्ये मधुराम्लादिषड्रसे | परिणामस्वभावं तु सूक्ष्मदृष्ट्या विभावय || ८९ || एवं शरीरे प्रियत्वं सुखसाधनत्वरूपमपास्य भोज्ये निराकरोति - एवमिति | शरीरादन्यत्र | उपयोज्ये भोज्ये || ८९ || भक्षितस्यापि सर्वस्य विड्भावः परिणामके | सर्वथा नात्र सन्देहः सर्वैरेव विभावितः || ९० || परिणामस्वभावमेवाह - भक्षितेति || ९० || वदैवं संस्थिते लोके किं प्रियं स्यात् किमप्रियम् | इत्युक्तो हेमचूडोऽथ वैरस्यं विषये विदन् || ९१ || श्रुत्वाऽपूर्वं वाक्यजालं विस्मितोऽभवदञ्जसा | विचार्य भूयस्तत्सर्वं यदुक्तं हेमलेखया || ९२ || अपूर्वं कदाप्यश्रुतम् || ९२ || प्. ४२) भोगेषु जातनिर्वेदः परं वैराग्यमाप्तवान् | अथ क्रमेण पृष्ट्वा तां प्रियां ज्ञात्वा च तत्पदम् || ९३ || जातो निर्वेदः अलंबुद्धिर्यस्य | परं तीव्रम् | तत्पदम् आत्मपदम् || ९३ || केवलां चितिमात्मस्थां त्रिपुरामात्मरूपिणीम् | बुध्वाऽभवद् विमुक्तात्मा स्वात्मभूताखिलेक्षणः || ९४ || आत्मस्थां सर्वान्तराम् | आत्मरूपिणीम् प्रत्यग्रूपाम् | स्वात्मभूतमखिलेक्षणं यस्य || ९४ || जीवन्मुक्तः समभवत् ततस्तस्यानुजोऽपि हि | मणिचूडोऽविदद् भ्रातुर्मुक्ताचूडोऽपि पुत्रतः || ९५ || मुक्ताचूडप्रिया चापि स्नुषया ज्ञानमासदत् | मन्त्रिणश्चापि पौराश्च बभूवुर्ज्ञानशालिनः || ९६ || मुक्ताचूडप्रिया हेमचूडमाता | स्नुषया हेमलेखया | उपदिष्टमिति शेषः | परस्परोपदेशेन ज्ञानशालिनः || ९६ || न तत्र नगरे कश्चिदविद्वान् समजायत | आसीद् ब्रह्मपुरप्रख्यं शान्तसंसृतिवासनम् || ९७ || ब्रह्मपुरप्रख्यं सत्यलोकतुल्यम् | संसृतेर्वासना कामक्रोधादि || ९७ || विशालनगरं तच्च जगत्यत्युत्तमं बभौ | यत्र कीराः शारिकाश्च पञ्जरस्थाः पठन्ति वै || ९८ || अत्युत्तमत्वे हेतुः - यत्रेति || ९८ || चितिरूपं स्वमात्मानं भजध्वं चेत्यवर्जितम् | नास्ति चेत्यं चितेरन्यद् दर्पणप्रतिबिम्बवत् || ९९ || यत् पठन्ति तदाह - चितिरूपमिति | हे जनाः ! विषयभजनं त्यक्त्वा स्वमात्मानं भजध्वम् | विषयभजनस्य दुःखमूलत्वादिति तात्पर्यम् | कथंविधमात्मानं तदाह - चितिरूपम् | चितिः प्रज्ञानं तदेव रूपं यस्य | नात्र भजनं बाह्यपूजनादिकम् किन्तु तस्य पूजनमहन्तया स्थिति [मतिः इति मुद्रितचिद्विलासस्तवपाठः योगिनीहृदयदीपिकायामुद्धृतेऽस्मिन् श्लोकेऽपि मतिः इत्येव पाठः | द्रष्टव्यम् - पृ० २५०] (चि० स्त० ५) इति नीत्या सोऽहमस्मीति निष्प्रकम्प [क्, ख्: कम्पत्वनि] निश्चयवत्त्वमेव | तच्चास्माकं देहादिसंघातान्तर्भावे [क्, ख्: र्भावो] नास्त्येवेति चेदाह - चेत्यवर्जितमिति | चेत्यैर्देहाद्यैश्चित्प्रकाश्यैर्वर्जितम् | कुत एवमिति चेदाह - नास्तीति | चेत्यं देहाद्यं शशशृङ्गादिवन्नास्त्येवेति भावः | शशशृङ्गादिवन्नास्ति चेत् कथं प्रकाशत इति चेत् ? चितिरेव प्रकाशते नान्यदित्याह - चितेरन्यदिति | चितिरेव चेत् कथं देहाद्यात्मना भानमिति चेदाह - दर्पणप्रतिबिम्बवत् | प्. ४३) अत्रेदमागमतत्त्वम् - चितिरेवात्मतत्त्वम् इदम्प्रत्ययाविषयत्वात् | अन्यदनात्मरूपम् इदंप्रत्ययविषयत्वात् | तदात्मतत्त्वं [क्, ख्: यत्तदा] स्मृत्यनुसन्धानानुरोधेनैकमनेकावस्थास्वनुगतम् | तस्य चितिमात्ररूपत्वेन भेदकधर्माप्रसिद्ध्या [क्, घ्: प्रसिद्धासुरा] सुरासुरनृदेहादिष्वप्येकत्वमेव | कालदेशादीनां तदन्तः सर्वात्मना निमग्नानामन्यथा नरशृङ्गकल्पानां न तद्भेदकत्वशङ्कापि युक्ता | एवंविधमनवच्छिन्नचिदेकरसमात्मतत्त्वमेव शास्त्रप्रसिद्धः परमशिवः | तत्स्वातन्त्र्यशक्त्या मायाभिधयाऽघटितघटनाचतुरया स्वस्वरूपगोपनपरया अविद्यात्मकमलावभासनपूर्वकमिदं द्वैतावभासनम् | तच्च भासमानं द्वैतं दृश्यं न बीजादङ्कुरवत् कारणाच्छिवादारब्धम् | नापि मृत्पिण्डपरिणामघटवत् कारणपरिणामात्मकम् अविकृतकारणस्वरूपानुगमात् | नापि रज्जौ सर्प इव विवर्तितम् चितिचेत्ययोर्द्वित्वग्रहात् | अतो दर्पणस्य नैर्मल्यशक्त्या अविकृते स्वस्मिन् प्रतिबिमावभासनवच्चिति स्वशक्त्या चेत्यावभासनम् | न च बिम्बस्य स्वसमानाकारस्य दर्पणप्रतिबिम्बेऽपेक्षणादत्रापि चिति प्रतिबिम्बदृश्यापेक्षितस्व[ख्, ग्, घ्: समाकार]समानाकारबाह्यदृश्यसिद्धिरिति शङ्क्यम् यतो दर्पणप्रतिबिम्बे बाह्यं बिम्बं नोपादानम् कार्येऽननुगमात् किन्तु निमित्तम् | निमित्तञ्च घटादौ दण्डादिः | तच्च व्यभिचरितम् करपरावर्तितचक्रादिना घटोत्पत्तेः | तथा च चिति दृश्यप्रतिबिम्बने मायाख्या स्वातन्त्र्यशक्तिर्निमित्तत्वेनाभ्युपगतैवेति नानुपपत्तिः | नहि प्रतिबिम्बविधां विनाऽन्यथा दृश्यावभासनं युज्यते दृश्यस्य चिद्बाह्यत्वे प्रकाशानुपपत्तेः चित्सम्बन्धानुपपत्तेः [क्, ख्: चित्संबन्धानुपपत्तेः नास्ति] सम्बन्धस्यापि दृश्यत्वेनानवस्थादिना तदसिद्धेः [घ्: सिद्धिः] | चित्सम्बन्धानपेक्षणे सदा दृश्यस्यावभासोऽनवभासो वा स्यात् | इत्थमेव प्रकटताद्यखिलपक्षप्रतिक्षेपः [ज्ञाततापरपर्यायाः प्रकटतायाः स्वरूपं कुमारिलभट्टप्रतिपादितं तद्दर्शनप्रतिपादकग्रन्थेषु द्रष्टव्यम् |] एतद्विस्तारः प्रत्यभिज्ञादौ [आदिना अभिनवगुप्तविरचिततन्त्रालोकादीनां ग्रहणं कर्तव्यम्] द्रष्टव्यः | तस्मात् [घ्: तस्मात्तत्] प्रतिबिम्बविधयैव दृश्यावभासनमिति || ९९ || प्. ४४) चितिश्चेत्यं चितिरहं चितिः सर्वं चराचरम् | यतः सर्वं चितिमनु भाति सा तु स्वतन्त्रतः || १०० || बहुविधोऽपि प्रतिबिम्बो दर्पण एवेत्यत आह - चितिरिति | चेत्यं दृश्यम् | चराचरं मत्तोऽन्ये [ख्: अतो] प्रमातारः | सर्वं चितिरित्यत्र हेतुः - यत इति | यथा दर्पणमनुगतं गृहीत्वैव सर्वे प्रतिबिम्बाः प्रकाशन्त इति प्रतिबिम्बा दर्पणात्मकाः एवं सर्वमिदं चेत्यादि चितिमनुगतां गृहीत्वैव भातीति चेत्तस्याश्चिदात्मत्वादेव नान्याऽनुगत्यपेक्षेत्याह - सा त्विति | यतः स्वतन्त्रप्रकाशत्त्वमेव चित्त्वमिति भावः || १०० || प्. ४५) अतश्चितिं जनाः सर्वे भासिनीं सर्वसंश्रयाम् | भजध्वं भ्रान्तिमुत्सृज्य चितिमात्रसुदृष्टयः || १०१ || यतः प्रतिबिम्बात्म जगच्चितेर्नान्यदस्ति अतो दर्पणाच्चितेरधिकं सामर्थ्यमाह - सर्वभासिनीमिति | दर्पणः केवलं प्रतिबिम्बाश्रय एव न भासक इति भावः | भ्रान्तेरुत्सर्जनमप्रामाण्यग्रहः | अत एव चितिमात्रसुदृष्टय इति | सुदृष्टिः सत्यदृष्टिः | सर्वं ज्ञानं धर्मिण्यभ्रान्तमिति न्यायात् || १०१ || कदाचिदेवं कीराणां श्रुत्वा वाक्यं महोदयम् | ब्राह्मणा वामदेवाद्या नामाचख्युः पुरस्य तु || १०२ || महतो मोक्षस्योदयो यस्मात् || १०२ || यतोऽत्र विद्यां तिर्यञ्चोऽप्याहुस्तस्मादिदं पुरम् | प्रसिद्धविद्यानगरमिति नाम्ना प्रसिद्ध्यतु || १०३ || तदद्यापि च तेनैव नाम्ना तन्नगरं स्थितम् | राम तस्मात्तु सत्सङ्गो मूलं सर्वशुभोदये || १०४ || तत् तस्मान्नामकरणाद्धेतोः || १०४ || सङ्गेन हेमलेखायाः सर्वे विद्याविदोऽभवन् | तस्मात् सङ्गः परं मूलं राम जानीहि श्रेयसः || १०५ || उपसंहरति - तस्मादिति || १०५ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे हेमचूडोपाख्याने सत्सङ्गफलं चतुर्थोऽध्यायः || इति त्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां चतुर्थोऽध्यायः || अथ पञ्चमोऽध्यायः एवं सत्सङ्गमाहात्म्यं श्रुत्वाऽत्रिसुतभाषितम् | प्रहृष्टमानसो भूयः प्रष्टुमेवोपचक्रमे || १ || अत्र रावायपद्यैस्तु हेमलेखाऽत्मसंस्थितम् | बन्धं मोक्षं चाह गूढवाक्यैः प्रियहितेप्सया || रामः श्रुत्वा || १ || सत्यं प्रोक्तमिदं नाथ भवता शुभकारणम् | सत्सङ्गरूपमेतच्च प्रत्यक्षेणैव भावितम् || २ || भावितमनुभूतं संवर्तसङ्गात् || २ || यो यथा सङ्गमाप्नोति फलं तस्य तथा भवेत् | स्त्रियोऽपि हेमलेखायाः सङ्गात् सर्वे महाफलाः || ३ || सर्वे विशालनगरवासिनः || ३ || भूय इच्छम्यहं श्रोतुं हेमचूडस्तया कथम् | बोधितस्तन्ममाचक्ष्व विस्तरेण दयानिधे || ४ || एवं रामेणानुयुक्तो दत्तात्रेय उवाच तम् | शृणु भार्गव वक्ष्यामि कथां परमपावनीम् || ५ || अनुयुक्तः पृष्टः | संसृतिदोषशामकत्वात् परमपावनीम् || ५ || एवं तस्या वचः श्रुत्वा विषयान् विरसान् विदन् | तेषु सञ्जातनिर्वेदो विमना इव संबभौ || ६ || एवं विषयवैरस्यप्रतिपादकम् | संजातो निर्वेदो विषयभोगेऽलंबुद्धिर्यस्य | एवं सन् | विमना इव खिन्न इव || ६ || चिरस्थितविषयजवासनानां वशं गतः | त्यक्तुं वा संग्रहीतुंवा नाशकत् सहसा हि सः || ७ || वैमनस्ये हेतुमाह - चिरेति | विषयान् त्यक्तुं संग्रहीतुं भोक्तुं वा || ७ || प्. ४७) प्रियां न किञ्चित् प्रोवाच राजपुत्रोऽतिलज्जितः | कांश्चिच्च दिवसानेवमनयच्चिन्तयाकुलः || ८ || प्रियावचनं श्रुत्वा न किञ्चित् प्रोवाच | अतिलज्जितः स्त्रिया निरुत्तरीकृतत्वात् | एवं त्यागभोगयोरशक्तः सन् || ८ || विषयेषु प्रसक्तेषु स्मृत्वा तत् प्रिययोदितम् | विगर्हन्नेव स्वात्मानं बुभुजे वासनावशः || ९ || कथमुभयत्राशक्तिः एकतरपक्षस्यावश्यकत्वादिति चेदाह - विषयेष्विति | प्रसक्तेषु उपस्थितेषु | यत् प्रिययोक्तं वैरस्यकारणं तत् स्मृत्वा | धिड्यामीदृशं विषयं स्वीकरोमीति स्वात्मानं विगर्हन्नेव बुभुजे | ननु कुतो न परिहरति ? तदाह - वासनावश इति || ९ || वासनावेगवशतो विषयाननुगच्छति | दृष्ट्वैव विषयान् दोषान् प्रियाप्रोक्तान् विचिन्तयन् || १० || उपस्थितविषयभोगप्रकारमुक्त्वाऽनुपस्थितविषयेष्वाह - वासनेति | अनुगच्छति विषयसमीपं प्राप्नोति | प्रियाप्रोक्तान् विषयदोषान् || १० || शोकसंविग्नहृदयो विषीदति मुहुर्मुहुः | एवं तस्याभवच्चित्तं चलद्दोलास्थितं यथा || ११ || शोकेन संविग्नं प्रक्षुभितं हृदयं मनो यस्य | विषीदति दुःखं प्राप्नोति | चलद्दोलास्थितं वासनया विषयेषु पतति विषयप्राप्तौ तद्दोषस्मृत्या तत उच्चलति || ११ || भोज्यं वस्त्रं भूषणं वा योषिद् वाहनमेव वा | मित्राणि वापि सुहृदो नेषत्तं [क्, ख्: नैतत्तं; ग्: नैव तं] सुखयन्ति वै || १२ || एवं वासनादोषदृष्टिभ्यां युतं हेमचूडं भोज्यादीनि नेषदपि [नैषत् इति सार्वत्रिकः पाठः] सुखयन्तीत्याह - भोज्यमिति || १२ || नष्टाखिलार्थ इव स शोचत्येव निरन्तरम् | वासनाविवशः सर्वं त्यक्तुं नाशकदञ्जसा || १३ || नोपभोक्तुं तथा शक्तो दोषदृष्टियुतस्ततः | एवं तं शोकवशतो विवर्णवदनेक्षणम् || १४ || वासनया दोषदृष्ट्या च युक्त इति त्यक्तुं भोक्तुं वा न शक्तः परस्परप्रतिबन्धादिति भावः || १४ || प्. ४८) हेमलेखा समालक्ष्य कदाचित् सङ्गता रहः | किं नाथ पूर्ववत्त्वं नो लक्ष्यसेऽत्यन्तहर्षितः || १५ || रहः विविक्ते | तं परीक्षितुं पृच्छति - किं नाथेति || १५ || शोचन्तमिव पश्यामि कुत एवं तव स्थितिः | कच्चिच्छारीर आत्मा [क्, ख्: च्छरीरमात्मा] ते नामयैर्बाध्यते सदा || १६ || शारीरेति | शरीरतादात्म्यापन्न आत्मा | केवलयोः शरीरात्मनोर्दुःखाभावादिति भावः || १६ || भोगेषु रोगभीति वै प्रवदन्ति मनीषिणः | त्रिदोषसम्भवे देहे दोषवैषम्यसम्भवाः || १७ || मम महाराजकुमारस्य भिषक्श्रेष्ठैः सेवितस्य कुत आमयसम्भावनेति चेदाह - भोगेष्विति | शुभभोगेष्वित्यर्थः | त्रयाणां वातपित्तकफदोषाणां सम्यग् भवः स्थितिर्यत्र || १७ || आमयाः प्रायशः सर्वदेहान् व्याप्यैव संस्थिताः | सर्वथा ह्यप्रतीकार्यं वैषम्यं दोषजं ननु || १८ || विषमाशनादिभिर्दोषवैषम्यस्योक्तभोगवतामावश्यकत्वेन तद्देहेष्ववश्यं रोगव्याप्तिरिति भावः | ननु मादृशां कथं दोषवैषम्यं तत्प्रतीकारपराणामिति चेदाह - सर्वथेति | दोषवैषम्यजनितो रोगः प्रतीकार्यः न तु केवलं दोषवैषम्यम् रोगप्रागवस्थास्थकेवलदोषवैषम्यस्य प्रायो दुर्लक्ष्यत्वादिति भावः || १८ || अशनाद् वसनाद् वाचो दर्शनात् स्पर्शनादपि | कालाद् देशात् कर्मतश्च दोषा वैषम्यमाप्नुयुः || १९ || दोषेषु जायमानवैषम्यनिमित्तान्याह - अशनादित्यादि | अशनस्य शीतोष्णादिगुणः प्रसिद्धः | एवं पट्टोर्णादिवसनस्य | वाचो बहुलस्य प्रयुक्तस्योष्णगुणः [क्, ख्: प्रयुक्तस्य यो गुणः] | वह्निजलादिदर्शनस्पर्शनयोः ग्रीष्महेमन्तादिकालस्य जाङ्गला नूपादिदेशस्य [क्, ख्: लारूपा] च शीतोष्णादि प्रसिद्धम् | कर्मतोऽपि [ख्, ग्, घ्: कर्मणो] खननादितश्च यद्वा पापकर्मतो [ख्, ग्, घ्: कर्मणो] दोस्ऽवैषम्यम् || १९ || प्. ४९) अतस्तस्योद्भवो लोके सर्वथाऽलक्ष्यतां गतः | इत्यतः सति वैषम्ये चिकित्सा सम्प्रकीर्तिता || २० || अतो दोषवैषम्यहेतोरनेकत्वात् | तस्य वैषम्यस्य | ननु सूक्ष्मदृग्भिर्वैषम्योद्भवो ज्ञातुंइति चेन्नेत्याह - इत्यत इति | यतो वैषम्योद्भव आदावलक्ष्यः अतो हेतोः चिकित्सा शास्त्रे संप्रकीर्तिता || २० || नोक्ता चिकित्साऽनुत्पत्तौ वैषम्ये केनचित् क्वचित् | तद्वद प्रिय कस्माद्धि शोकस्य तव सम्भवः || २१ || वैषम्यविषयानुत्पत्तौ चिकित्सा नोक्ता || २१ || इति श्रुत्वा हेमलेखां प्राह राजसुतस्ततः | प्रिये शृणु प्रवक्ष्यामि यन्मे शोकस्य कारणम् || २२ || ततः प्रश्नानन्तरम् || २२ || त्वदुक्त्या यत् पुरा मेऽभूत् सुखदं तद्धतं ननु | न पश्याम्यधुना किञ्चिदपि मे सुखवर्द्धनम् || २३ || तत् सम्प्रति त्वदुक्त्या हतम् | कुत इति चेदाह - नेति || २३ || राज्ञा वितीर्णो विषयः सुखदोऽपि समन्ततः | वध्यं न सुखयेद् यद्वत्तथा तस्मान्न मे सुखम् || २४ || नष्टं चेदन्यत् सुखसाधनं सम्पादयेति चेदाह - राज्ञेति | न तत् स्वरूपतो नष्टम् | अपि तु वध्याय राज्ञा दत्तविषयाद्यथा तस्य सुखं न एवं साधनं सदपि न तस्मान्मे सुखम् || २४ || विषयान् सेवमानोऽहं सदा विष्टिगृहीतवत् | तत् पृच्छामि प्रिये ब्रूहि किं कृत्वा सुखमेम्यहम् || २५ || ननु विषयैर्न ते सुखं चेत्तान् परित्यजेति चेन्मया न परित्यक्तुं शक्यत इत्याह - विषयानिति | विष्टिगृहीतवत् | राजकार्यार्थं राजभटैर्गृहीता जनास्तत्कार्यं त्यक्तुमसमर्थाः कुर्वन्ति यथा एवं वासनाभिर्गृहीतोऽहं सदा विषयान् सेवमानो दुःखं प्राप्त [प्राप्तवानित्यर्थे कर्तरि क्तः] इति शेषः || २५ || प्. ५०) एवं तेन समापृष्टा हेमलेखा तदाऽब्रवीत् | नूनमेष सुनिर्वेदमागतो मद्वचःश्रुतेः || २६ || स्वमनस्यब्रवीत् | श्रुतेः श्रवणात् || २६ || अस्ति बीजं श्रेयसोऽस्मिन् यत एवंविधो भवान् | येषु श्रेयो ह्यसम्भाव्यं त एवं वाक्यगुम्फनैः || २७ || एवंविधः प्राप्तविषयवैरस्यः | एवं मदुक्तसदृशैर्वाचां गुम्फनैर्निबिडसमुदायैः || २७ || नह्यण्वपि विशेषेण विशिष्यन्ते कदाचन | चिरं संराधिता हृत्स्था प्रसन्ना स्वात्मदेवता || २८ || अण्वपि स्वल्पमपि पूर्वस्थितिं लेशतोऽपि न परित्यजन्तीति भावः | एवं वचःश्रुतिरेव वैरस्ये कारणं चेत् कुतो न सर्वेषां वैरस्योत्पत्तिरिति चेन्मूलकारणाभावादित्याह - चिरमिति || २८ || त्रिपुरा येन तस्यैव [क्, ख्: तेष्वेव] भवेदेवंविधा स्थितिः | इत्यालोच्यातिविदुषी बुबोधयिषती प्रियम् || २९ || एवंविधा विषयवैरस्यवती | देवताराधनरूपमूलकारणाभावान्न सर्वेषामियं स्थितिरिति भावः || २९ || गोपयन्ती स्ववैदुष्यं प्राहान्यव्यपदेशतः | शृणु राजकुमारेदं यन्मे वृत्तं पुरातनम् || ३० || गोपयन्तीति | स्ववैदुष्यप्रकटने विद्वत्ताभिमानशङ्काऽप्यस्य भवेत्ततो मद्वाक्ये नाश्वासो भवेदिति | अतः स्ववैदुष्यगोपनमिति भावः | अत्रान्यव्यपदेशेन स्वस्याः संसारबन्धनान्मुक्तिप्रकारमाह - शृण्विति | पुरातनं बन्धस्यानादिकालत्वात् [अनादिः कालो यस्येति बहुब्रीहिगर्भितं वाक्यम् | बन्धस्यानादिकालिकत्वादित्यर्थः] || ३० || प्. ५१) पुरा मे जननी काञ्चित् क्रीडनाय सखीं ददौ | सा स्वभावसती काञ्चिदसतीमनुसङ्गता || ३१ || पुरेति | कस्याश्चित् सृष्टेरादिकाले बन्धस्यानादित्वेन सर्वादिकालासम्भवात् | जननी स्वप्रकाशशुद्धचितिः | सखीं बुद्धिम् | काञ्चिदिति | अज्ञातकुलगोत्रेव निरूपणाल्लिङ्गदेहावयवत्वेनानादित्वं बुद्धेर्द्योतितम् | शुद्धचितेर्जननीत्वं स्वस्या जीवचितेस्तदंशभूतत्वात् | सुखदुःखाद्यनुभवक्रीडाया बुद्ध्यधीनत्वात् क्रीडनाय सखीं ददावित्युक्तम् | प्रलये बुद्धेर्लीनत्वात् सृष्ट्यादौ कर्मपरिपाकनिमित्तकबुद्ध्याविर्भावादपूर्ववत् [ग्, घ्: पूर्वेव] प्राप्तत्वादुक्तं ददाविति | सा बुद्धिः | सत्त्वगुणप्रधानत्वात् प्रकाशरूपत्वात् स्वभावेन सती | स्वसत्तायां वृत्त्यन्तरानपेक्षणात् स्वतः सती | बाह्यपक्षे स्वभावतः सती साध्वीत्यर्थः | असतीमविद्याम् | अनुसङ्गता | आत्माकारतां केवलां परित्यज्याविद्याकार्यदृश्यात्मतां प्राप्तेत्यर्थः | काञ्चिदिति तस्या अनिर्वचनीयताद्योतकं विशेषणम् | आगमपक्षे तु चितेः परिच्छिन्नत्वज्ञानमेवाज्ञानम् | एतच्च अज्ञानं [ग्, घ्: ज्ञानं] बन्धः (१|२) इति शिवसूत्रे वृत्तिकृता स्पष्टं निरूपितम् | एतत्पक्षेऽनिर्वचनीयत्वाभावेन काञ्चिदित्यज्ञानस्यापरिच्छेद्यशक्तित्वं ज्ञेयम् | तदुक्तम् - भ्रान्तेर्महती [रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् | इत्ययं श्लोकस्य पूर्वार्द्धः] शक्तिर्न विवेक्तुं शक्यते नाम (प० सा० २८) इति | पक्षद्वयेऽप्यसतीत्यसत्यात्मकत्वाज्ज्ञेयम् || ३१ || सा विचित्रविधाश्चर्यसृष्टिसामर्थ्यसंयुता | अलक्षिता मे जनन्या सख्या मे सङ्गताऽभवत् || ३२ || सा अविद्या | मे जनन्या शुद्धचिता अलक्षिता सती मे सख्या बुद्ध्या | मन्मातुः परोक्षे एव सा असती मत्सख्या सङ्गताऽभवदित्यर्थः | विद्याविद्ययोर्विरोधादविद्या कार्यविषया बुद्धिः केवलशुद्धचिद्विषयिणीति तात्पर्यम् | आगमपक्षे तु शुद्धचिन्मात्रस्फूर्तिदशा शक्तितत्त्वम् | चिदचिदोरिदं सर्वमहमिति सामानाधिकरण्यस्फूर्तिदशा शुद्धविद्यातत्त्वम् | परिच्छिन्नचिन्मात्रस्फूर्तिदशा अविद्यातत्त्वम् | परिच्छिन्नचितश्चेत्यस्य च स्फूर्तिदशा बुद्धितत्त्वमिति प्रक्रिया | तथा च बुद्धेः शुद्धचिदविषयकत्वादलक्षितेति ज्ञेयम् || ३२ || प्. ५२) असच्चारित्रयाऽत्यन्तं सङ्गता मम सा सखी | प्राणेभ्योऽपि प्रियतमा सदा तद्वशगा ह्यहम् || ३३ || बुद्धिर्दृश्यपरा सदाऽभवदित्याह - असदिति | असद् मिथ्यारूपं चारित्रं [क्: चरित्रं] यस्याः सा अविद्या | मम प्राणेभ्योऽपि प्रियतमा | अतस्तद्वशगाऽहमभवम् परस्परतादात्म्याध्यासात् || ३३ || न तां विहाय मे संस्था क्षणार्द्धं वा क्वचिद्भवेत् | सा निर्मलस्वभावेन मां वशीकृत्य संस्थिता || ३४ || न तामिति | तां बुद्धिम् | संस्था स्थितिः | बुद्ध्यसत्त्वे बुद्ध्यवच्छिन्नो [बुद्ध्यवच्छिन्नो जीवः इति वाचस्पतिमिश्रस्य भामतीप्रस्थानमाश्रित्य बुद्धिप्रतिबिम्बो जीवः इति च स्वयंप्रकाशयतिनो विवरणप्रस्थानमाश्रित्योक्तम् | अस्य विस्तरः सिद्धान्तलेशसंग्रहेऽप्पयदीक्षितविरचिते द्रष्टव्यः |] जीवो बुद्धिप्रतिबिम्बो जीव इत्युभयपक्षेऽपि जीवस्य स्थितिर्न भवेदिति स्पष्टमेव | आगमपक्षे तु व्याधकुलसंवर्द्धितराजकुमारवत् स्वस्वातन्त्र्यसमाच्छादितमाहैश्वर्यो महेश्वर एव जीवः | तस्य बुद्धिं विना संस्था सम्यक्स्थितिः भेदव्यवहारो न भवेदिति तात्पर्यम् | सा बुद्धिः | निर्मलस्वभावेन सत्त्वप्रधानरूपेण युता | मां जीवाख्यां परिच्छिन्नां प्रतिबिम्बभूतां वा तादात्म्यापन्नां वा | बाह्यपक्षे तु मां शुद्धकुलप्रसूतिम् | सा निर्मलस्वभावेन तुल्यशीलत्वाद्वशीकृत्य संस्थितेति युक्तमेवेति भावः || ३४ || निरन्तरं तद्गतात्मस्वभावाऽभवमञ्जसा | सा तया दुष्टया युक्ता नट्या चित्रस्वभावया || ३५ || तद्गतात्मस्वभावा बुद्धिसम्मिलितस्वरूपा | बाह्यपक्षे तु तद्गतचित्तेत्यर्थः | सा मत्सखी बुद्धिः | तया अविद्यया | दुष्टयेति | स्वनाशहेतुत्वात् | चित्रम् आश्चर्यमयमघटमानं [क्, ख्: मघटितज्ञानं] स्वभावः स्वरूपं यस्याः | स्वलीलाप्रदर्शनेनार्थहरत्वान्नट्येति || ३५ || प्. ५३) परोक्षवृत्तिमानीता स्वपुत्रेणाभियोजिता | तस्याः पुत्रोऽतिमूढात्मा मदिराघूर्णितेक्षणः || ३६ || परोक्षवृत्तिं स्वर्गादिपरोक्षकाम्यैकरूपताम् | आनीता प्रापिता | तया असत्या | मत्सखी बुद्धिः | अविद्यया स्वर्गादिकाम्यतत्परा बुद्धिरासीदिति भावः | बाह्यपक्षे असत्या परोक्षवृत्तिं रहसि स्थितिम् आनीता स्वपुत्रेणाभियोजिता मत्सखी जातेति | स्वस्या अविद्यायाः पुत्रो मोहः तेनाभियोजिता | अविद्यया काम्यतत्परतायां सद्विचारप्रतिबन्धकमोहात्मकवृत्तिविशेषं प्राप्ता बुद्धिरिति भावः | तस्या अविद्याया मौढ्ये [ख्: मौर्ख्यं] हेतुः मदिरेत्यादि || एतद्विशेषणं मोहिता मे बुद्धिः पापाचाराऽभवदिति द्योतनाय || ३६ || बुभुजे तां समाक्रम्य सर्वदा मत्समक्षतः | सा तेनाक्रान्तसर्वाङ्गी भुज्यमानानुवासरम् || ३७ || तां मत्सखीं बुद्धिम् | पापाचरणेन मोहप्रचुरा बुद्धिर्जातेत्याह - समाक्रम्येति | मत्समक्षत इति | बुद्धेश्चित्प्रकाशाधीनप्रकाशत्वादिति तात्पर्यम् | सा बुद्धिः | तेन मोहेन || ३७ || न मां जहौ कदाचिच्च तत्स्पृष्टा तेन चाप्यहम् | ततः पुत्रः समुत्पन्नो मूढस्य सदृशाकृतिः || ३८ || सा सखी मां कदाचिदपि प्रियसङ्गमकालेऽपि न जहौ | चित्प्रकाशाश्रयेणैव बुद्धिवृत्तीनामवभासनादिति तात्पर्यम् | यस्मान्मां न जहौ तत् तस्माद्धेतोः | तेन सखीप्रियेण मूढात्मना | स्पृष्टा जाता | घटावच्छिन्नाकाशस्यायःपिण्डतादात्म्यापन्नवह्नेर्वा वर्तुलाद्याकार इव बुद्ध्या परिच्छिन्नाया वा तादात्म्यापन्नाया वा चितेर्मोहादिरूपेतेति भावः | ततः चिरसङ्गानन्तरम् | मूढस्य मोहस्य स्वसदृशाकारो मनोरूपः पुत्रो जातः | यद्यपि मनः पूर्वमेवास्ति तथापि वीर्यात्मना पितृदेहे स्थितपुत्र इव प्राक् सूक्ष्मरूपं मनः | बुद्धौ मोहसम्बन्धानन्तरमेव विकल्पाद्याधिक्यात् पितुः प्रसूतः पुत्र इव मनः पुष्टमासीदिति तात्पर्यम् | असत्त्वरूपत्वेन सदृशाकृतिर्ज्ञेया || ३८ || प्. ५४) तरुणः सोऽभवत्तूर्णमतिचञ्चलसंस्थितिः | पितुर्मौढ्येन संयुक्तः पितामह्या गुणेन च || ३९ || तरुणो व्यवहारक्षमः पितुर्मोहस्य मौढ्येन जडत्वगुणेन | पितामह्या अविद्याया अनेकनिर्माणे उपादानं स्वातिरिक्तमनपेक्ष्य यत् सामर्थ्यं तेन गुणेन च समावृतः || ३९ || अनेकचित्रनिर्माणसामर्थ्येन समावृतः | पितामह्या शून्यनाम्न्या पित्रा मूढाभिधेन च || ४० || एतेषां नामकथनपूर्वकं मनसो गुणानाह - पितामह्या इति | मनसः पितामही अविद्या | विचारे कृते तत्स्वरूपविलयाच्छून्यनाम्नी सा | पिता मोहः | मूढताप्रयोजक इति मूढाभिधः सः | आभ्यामस्थिराह्वः शिक्षितोऽभूदिति सम्बन्धः || ४० || अस्थिराह्वः शिक्षितोऽभूत् स्वयं चातिविशारदः | गतिमप्रतिबद्धां वै शीघ्राच्छिघ्रां समासदत् || ४१ || पितृशिक्षया मूढतां प्राप्तः पितामहीशिक्षया विचित्रनिर्माणसामर्थ्यं प्राप्तः | स्वयमतिचतुरोऽप्रतिबद्धां गतिं प्राप्तवान् | शीघ्राच्छीघ्राम् अतिशीघ्रामित्यर्थः | एवं बुद्धेर्मोहवशान्मनः प्ररूढं सदतिचञ्चलत्वात् क्वचिदस्थिरम् अनन्तविचित्रकल्पनापरं मूढत्वाद्विचारविमुखं चासीदिति विशिष्टग्रन्थतातात्पर्यम् [क्: शिष्ट; ग्: वशिष्ट] || ४१ || एवं मम सखी स्वच्छस्वभावा जन्मतः सती | असतीसङ्गतोऽत्यन्तं मालिन्यं समुपागता || ४२ || प्. ५५) सख्या प्रियेण पुत्रेणासत्स्वभावयुतेन सा | चिरसङ्गात्तेषु दृढानुरागेण समायुता || ४३ || एवमुक्तप्रकारेण | मम सखी बुद्धिः | असतीसङ्गतः अविद्यासङ्गेन | अत्यन्तमालिन्यं सत्त्वस्वभावावरकं तामसं मोहं समुपागता | सख्या अविद्यया | असत्स्वभावेन प्रियेण मोहेन पुत्रेण मनसा च | दृढसङ्गात् सदा तद्रूपेण परिणतत्वात् | बुद्धिः स्वीयं सत्स्वरूपं परित्यज्य मोहात्मना मनःकल्पितवस्तुसौन्दर्यादिव्यवसायात्मना च सदा स्थितेति भावः || ४३ || जहौ मययनुरागं तु सर्वथा क्रमतः सखी | अहं स्वभावसरला हातुं तत्सङ्गमञ्जसा || ४४ || जहाविति | कालक्रमतो मूढादिषु दृढानुरागान्मययनुरागं प्रीतिं जहौ | परिच्छिन्नचितिरूपकर्तृभोक्त्रात्मकजीवस्वरूपविचारोऽपि बुद्धेर्नासीदिति तात्पर्यम् | नन्वेवं सति त्वयापि तदनुरागस्त्यक्तः [क्, ख्: तदानु] स्यादिति चेन्नेत्याह - अहमिति | स्वभावतः सरला | निसर्ग##- सरलानामन्यप्रीत्याद्यनिमित्तैव प्रीतिरिति तात्पर्यम् || ४४ || अनीशा तत्परैवासं सर्वथा तामनुव्रता | अथ तस्याः प्रियो मूढो भुञ्जानस्तां तु सर्वदा || ४५ || मत्प्रीतेरनिमित्तत्वात् प्रीतिं त्यक्तुमनीशा अत एव तत्परा सती सर्वथा तामनुव्रता | तत्समानशीलाअभवमित्यर्थः | मम चिन्मात्ररूपत्वात् प्रतिबिम्बभूतैर्बुद्धिधर्मैर्योगाद् बुद्ध्यनुकृतिं प्राप्तेति भावः | अथ एवं बुद्ध्यनुकारप्राप्त्यनन्तरम् || ४५ || प्रसह्य मां समाक्रान्तुमुद्युक्तः सर्वथाऽभवत् | नाहं स्वभावसंशुद्धा वस्तुतस्तद्वशं गता || ४६ || मत्प्रियामनुगतेयमिति मत्वा मामपि हठेन भोगायाक्रान्तुं स मूढ उद्युक्तोऽभवत् | एवं जातेऽपि स्वभावशुद्धा अहं न तद्वशं गता | बुद्धेर्विषयवासनानिबिडत्वेऽपि न जीवतादात्म्यमप गच्छति | एवं बुद्धितादात्म्यापन्नचितेर्बुद्धिवृत्तिरूपमोहसम्पर्काभासेऽपि दर्पणस्य प्रतिबिम्बेनेव [क्, ख्: दर्पणप्रतिबिम्बन्यानेन | अस्मिन् पाठे पूर्वतनं दर्पणस्य इति पदमनावश्यकम् |] न वस्तुतो मोहसम्पर्क इति भावः || ४६ || प्. ५६) तथापि लोके मेऽत्यन्तं परीवादो महानभूत् | मूढेन सर्वथेयं च भुज्यते इति सर्वतः || ४७ || परीवादोऽपवादः | परीवादस्वरूपमेवाह - मूढेनेति | सर्वतः सर्वत्र | अविवेकिनो बुद्धिधर्मानात्मन्यारोपयन्तीति तात्पर्यम् || ४७ || अस्थिराख्यं स्वपुत्रं सा मयि न्यस्य सखी मम | प्रियेण संपरिष्वक्ता सर्वथा तत्पराऽभवत् || ४८ || सा बुद्धिः सखी | तत्परा मूढपरा | मनःकल्पितमपि निश्चेतुमसमर्था [क्: निश्चेष्टु] बुद्धिर्मोहैकरूपाऽभवदिति भावः || ४८ || अथास्थिरो मया सम्यग् लालितः पोषितस्ततः | प्रौढस्त्रियं पितामह्या अनुमत्योपसङ्गतः || ४९ || अथ मयि पुत्रन्यासानन्तरम् | पितामह्या मूढमातुः अविद्याया इति यावत् | स्त्रियं कल्पनाम् | बुद्धेरतिमोहात्मताप्राप्त्यनन्तरं चित्तादात्म्यापन्नं मनः कल्पनायां समर्थं सत् कल्पनैकपरमभवदित्याशयः | कल्पनेऽविद्यानुकूलेति तदनुमतिर्ज्ञंया || ४९ || सा प्रिया तस्य चपलाभिधाना हि प्रतिक्षणम् | प्रियस्य सम्मतं रूपं भिन्नं भिन्नं मनोहरम् || ५० || कल्पनायाश्चपलेति नाम | प्रियस्य मनसः || ५० || गृह्णात्याश्चर्यजननं प्रियमेवं स्वके वशे | चक्रे साऽत्यन्तनिपुणा स्वनैपुण्यवशात् खलु || ५१ || स्वनैपुण्यवशाद्वशे चक्रे | मनो विचित्रकल्पनापरं प्रतिक्षणमभवदित्याशयः || ५१ || प्. ५७) अस्थिरोऽपि क्षणेनैव त्वसंख्यशतयोजनम् | प्रयात्यायाति च सदा न श्रान्तिमुपगच्छति || ५२ || अस्थिरो मनः || ५२ || समीहते यत्र गन्तुमस्थिरश्च यदा यदा | तस्येष्टं च स्वरूपं तु कृत्वा सा चपलापि हि || ५३ || समीहत इति | यत्र यत्र मनो गच्छति तत्र तत्र विचित्रानेककल्पनां करोत्येवेति भावः || ५३ || तत्र तत्र स्थिता भूत्वा रमयत्येव स्वं प्रियम् | एवं सा चपला सम्यगस्थिरेण युता सती || ५४ || रमयत्येवेति | स्वयमेव मनोराज्यादिकमन्तःसङ्कल्प्य तत्प्रयुक्तसुखाभासं प्राप्नोतीति भावः | युता सती तनयान् सुषुवे इति योजना || ५४ || सुषुवे पञ्चतनयान् मातापितृपरायणान् | ते समर्थाः पञ्चविधा मयि सख्या निवेशिताः || ५५ || सुषुव इति | तनयान् ज्ञानेन्द्रियाणि | मनसो निर्विकल्पत्वे इन्द्रियवृत्त्यनुदयाद् मनसा विकल्पनायामिन्द्रियप्रसृतिः [ख्, ग्, घ्: प्रसूतिः] | इन्द्रियप्रसरस्य मनःकल्पनोपयुक्तत्वान्मातापितृपरायणानिति ज्ञेयम् | सख्या मयि निवेशिता इति चित्तादात्म्यापत्तिरुक्ता || ५५ || अहं सख्यनुरक्ता तानकुर्वं बलवत्तरान् | अथ ते पञ्चतनयाश्चपलायाः पृथक् पृथक् || ५६ || तान् पुत्रान् बलवत्तरान् | चित्तादात्म्यप्रकर्षेण स्वतन्त्रप्रकाशतुल्यानिति भावः || ५६ || चक्रुरायतनं श्रेष्ठं विचित्रमतिविस्तृतम् | पितरं स्ववशे चक्रुर्मात्रा सम्यग् विभाविताः || ५७ || विचित्रं विविधगन्धाद्युपलब्धिस्थानम् [क्: विविधं] | अतिविस्तृतम् असंख्यविषयग्रहणेऽपि तदुदरापूर्तेः | सर्वव्यवहारस्य तदधीनत्वात् श्रेष्ठम् आयतनं चक्रुरिति | तत्तद्गोलकाधिष्ठिता बभूवुरित्याशयः | मात्रा कल्पनया विभाविताः पोषिताः | विकल्पपरं मनः सदेन्द्रियद्वारेण बहिर्मुखमभव्दिति तात्पर्यम् || ५७ || प्. ५८) आनयन्ति स्वायतनं पितरं तं क्षणे क्षणे | तत्रास्थिरो ज्येष्ठसुतायतनं विनिविश्य तु || ५८ || पितुर्वशीकरणमेव विविच्य दर्शयति - आनयन्तीति | ज्येष्ठसुतः श्रोत्रेन्द्रियम् || ५८ || अशृणोद्विविधान् शब्दान् सुस्वरानितरानपि | क्वचिन्मधुरसङ्गीतं क्वचिद्वाद्यं सुमञ्जुलम् [क्, ग्, घ्: सुमङ्गलम्] || ५९ || इतरान् विस्वरान् | एतदेवाह - क्वचिदिति || ५९ || ऋचो यजूंषि सामानि मन्त्रानाथर्वणानपि | शास्त्रागमेतिहासांश्च भूषणानां च सिञ्जितम् || ६० || भृङ्गसङ्घस्य गीतं च पिकपञ्चमसुस्वरम् | एवं मनोहरान् शब्दान् शृण्वन् पुत्रनिदेशतः || ६१ || मनः श्रोत्रेन्द्रियमाविश्य श्रोत्रद्वारा तत्तच्छब्दाकारेण परिणतमिति भावः || ६१ || प्रीतः पुत्रवशं प्रागादथ पुत्रोऽन्यथाऽदिशत् | विरुद्धान् कर्णकटुकानशृणोद् भैरवान् रवान् || ६२ || पुत्रवशं श्रोत्रे दृढनिवेशम् | अन्यथाऽदिशदिति | मनसो बाह्यविषयग्रहणस्येन्द्रियाधीनत्वादिन्द्रियादेशेनाऽशृणोदिति || ६२ || सिंहादिगर्जितं मेघनिर्घोषमशनेस्तथा | ब्रह्माण्डभेदनं गर्भस्रावणं सुभयङ्करम् || ६३ || अशनिनिर्घोषविशेषणं ब्रह्माण्डेत्यादि || ६३ || एवं [क्: अत्र श्लोके पूर्वाद्धोत्तरार्द्धयोर्विपर्यस्तः पाठः] श्रुत्वा सुचकितश्चान्यत्राप्यशृणोत्तथा | रुदितं विप्रलपितं शोचितादिविचित्रितम् || ६४ || द्वितीयसुतनीतोऽथास्थिरस्तद्भवनं ययौ | तत्रापश्यद् मृदुस्पर्शान्यासनानि शुभानि च || ६५ || द्वितीयसुतस्त्वगिन्द्रियम् || ६५ || प्. ५९) शयनानि च वासांसि कठिनस्पर्शकान्यपि | शीतस्पर्शानि वस्तूनि तथोष्णस्पर्शकानि च || ६६ || अनुष्णाशीतस्पर्शानि विचित्राण्यभिवीक्ष्य तु | हितान् दृष्ट्वा प्रमुदितो विषण्णस्त्वहितानपि || ६७ || अथ तृतीयतनयभवनं प्राप्य सोऽस्थिरः | अपश्यद्रुचिराकारान् भावान् विविधवर्णकान् || ६८ || तृतीयश्चक्षुः || ६८ || रक्तान् श्वेतान् पीतनीलान् हरितान् पाटलानपि | धूम्रान् कडारान् कपिशान् मेचकान् कर्बुरांस्तथा || ६९ || स्थूलान् कृशानणून् दीर्घानायतान् वर्तुलांस्तथा | अर्द्धवृत्तान् दीर्घवृत्तान् सुन्दरांश्च विभीषणान् || ७० || नेत्रस्य रूपान्यपरिमाणादिविषयत्वादाह - स्थूलानित्यादि || ७० || बीभत्सान् भास्वरान् रौद्राननालोकांश्च दृङ्मुषः | क्वचिद्धितं ततोऽन्यच्च पश्यन्तं पितरं पुनः || ७१ || अनालोकानन्धकारान् | कीदृशान् ? दृङ्मुषः || ७१ || अनयत्तुर्यतनयो भवनं स्वं विचित्रितम् | तत्राससाद पुष्पाणि फलान्यन्नानि [क्, ख्: फलान्यन्या] च क्रमात् || ७२ || तुर्यो रासनं रसानुमितं पुष्पादि ज्ञेयम् || ७२ || पेयानि लेह्यचोष्याणि भक्ष्याणि रसवन्ति वै | सुधास्वादूनि मधुराण्यन्यान्यम्लरसानि च || ७३ || कटुकानि च तिक्तानि कषायाण्यपि कानिचित् | क्षाराणि मधुराम्लानि कट्वम्ललवणानि च || ७४ || मधुराम्लानीत्यादि मिश्ररसः || ७४ || कटुतिक्तानि चित्रात्मरसानि विविधान्यपि | आस्वादयन्नात्मजेन समेतोऽथान्तिमः सुतः || ७५ || अन्तिमो घ्राणम् || ७५ || प्. ६०) निनाय पितरं स्थाने स्वीयेऽत्यन्तविचित्रिते | तत्रोपालभतानेकपुष्पाणि च फलानि च || ७६ || तृणान्यन्नान्योषधीश्च [क्: तृणान्यन्या] भावानन्यांश्च सर्वतः | सुगन्धान् पूतिगन्धांश्च मृदुगन्धोग्रगन्धकान् || ७७ || भावान् अर्थान् | तानेवाह - सुगन्धानित्यादि || ७७ || मोहगन्धान् ज्ञानगन्धान् मूर्छागन्धान् विचित्रितान् | पुत्राणां भवने चैवं प्रविशन् निविशन्नपि || ७८ || मोहजनको मोहगन्धः | एवमग्रेऽपि || ७८ || हितेषु रमते क्वापि विषीदत्यहिते क्वचित् | सदा गमागमपरः पुत्राणां भवने बभौ || ७९ || ते पुत्राः पितृवात्सल्यात् पितृहीना न च क्वचित् | स्पृशन्ति विषयांश्चित्रान् स्वल्पं वापि कदाचन || ८० || ते पुत्रा इति | मनो विहाय स्वातन्त्र्येणेन्द्रियाणां विषयग्रहणासामर्थ्यमिति भावः || ८० || अस्थिरस्तु पुत्रगृहे भुक्त्वा तान् विषयान् बहून् | मुषित्वान्यांश्च विषयान् गुप्त्या नयति स्वं पदम् || ८१ || मन इन्द्रियाभिनिविष्टं बाह्यविषयमासाद्य तत्कृतसुखादिकं तत्काल एवानुभवति | कांश्चिच्च विषयान् संस्कारद्वारेणान्तर्गुप्त्याऽप्रकटरूपेण गृहीत्वा स्वपदे हृदि स्थित्वा तं विषयं स्मृत्यादिना विकल्प्य तत्सुखमनुभवतीत्याह - अस्थिर इति || ८१ || पत्न्या चपलया साकं रहः पुत्रैर्विना स्वयम् | भुनक्त्यतितरां नित्यमथान्या चपला स्वसा || ८२ || रहः स्वप्नादौ | अन्या आशा || ८२ || प्. ६१) महाशना पतिं वव्रे मनःकान्तं तमस्थिरम् | तस्यामतितरां सक्तो यदाऽभूदस्थिरोऽपि वै || ८३ || तम् अस्थिरम् | नित्यं [क्: नित्य] विषयभोगेनाशा प्रवृद्धेति भावः || ८३ || तदा तस्याः प्रीतये स भोगाहरणतत्परः | तेनानीतं बह्वपि च भक्षित्वा क्षणमात्रतः || ८४ || तस्यां महाशनायामत्यन्तासक्तिहेतुना तस्याः प्रीतये सदा भोगाहरणतत्परोऽभवत् || ८४ || पुनर्बुभुक्षयाक्रान्ता भोगाहरणहेतवे | सदा प्रियं सन्दिशति सोऽप्याहर्तुं सदेक्षते || ८५ || दुष्पूराशाविष्टं मनः सर्वदा विषयसाधनपरमभवदिति तात्पर्यम् || ८५ || पुत्रैः पञ्चभिरानीतं प्रियेणापि सुसंभृतम् | भुक्त्वा क्षणेन भूयोऽपि सा बुभुक्षाप्रपीडिता || ८६ || सपत्न्याः पुत्रैरिन्द्रियैः || ८६ || भोगाहृतौ सन्दिशति प्रियं पुत्रांश्च सर्वदा | ततः सा स्वल्पकालेन सुषुवे पुत्रयोर्युगम् || ८७ || भोगानाम् आहृतौ आहरणविषये || ८७ || ज्वालामुखस्तयोर्ज्येष्ठो निन्द्यवृत्तस्तथापरः | सदा मातुः प्रियतमौ तौ पुत्रौ संबभूवतुः || ८८ || तयोः पुत्रयोर्मध्ये ज्येष्ठो ज्वालामुखः क्रोधः | परो निन्द्यवृत्तो लोभः | मातुराशायाः | आशाधिक्यात् क्रोधलोभयोः प्राबल्यमभवदित्याशयः || ८८ || महाशनायामासक्तः संश्लिष्यति यदाऽस्थिरः | तदा ज्वालामुखज्वालालीढसर्वकलेवरः || ८९ || यदा यदा आशापरवशस्तदा तदा क्रोधलोभकृतं महादुःखं प्राप्नोतीति तात्पर्यम् || ८९ || अस्थिरः पीडितोऽत्यन्तं गाढमूर्छामुपैति हि | कदाचिन्निन्द्यवृत्तेन सङ्गतः प्रियसूनुना || ९० || सर्वैर्विनिन्द्यतामेति मृततुल्यो हि जायते | एवं यदाऽस्थिरो जातो दुःखभोगैकतत्परः || ९१ || लोभेन निन्द्यता ततो मृततुल्यता च स्पष्टा || ९१ || प्. ६२) तदा सखी मे स्वभावसती पुत्रेऽस्थिराह्वये | अतिवात्सल्यतस्तेन सङ्गता तस्य दुःखतः || ९२ || एवं मनसोऽतिदुःखप्राप्तौ मनोबुद्ध्योरैकात्म्याद् बुद्धेरपि दुःखप्राप्तिरित्याह - तदेति | सखी बुद्धिः | पुत्रे मनसि || ९२ || दुःखभारसमाक्रान्ता निन्द्यवृत्तेन सङ्गता | ज्वालामुखेन च तथा पौत्रेणाश्लेषिता सती || ९३ || सुदग्धा निन्दिता लोकैर्मृतप्राया बभूव ह | तां सदानुगता चाहं लुप्तप्रायाऽभवं प्रिय || ९४ || तां सखीम् | स्वोपाधेर्बुद्धेः रजस्तमोव्याप्तत्वेन स्वरूपस्यानवभासाल्लुप्तप्रायत्वं ज्ञेयम् || ९४ || एवं बहूनि वर्षाणि सख्या दुःखेन दुःखिता | अस्थिरोऽभूदस्वतन्त्रो महाशनापरिग्रहात् || ९५ || दुःखिताऽभवमिति सम्बन्धः || ९५ || पुरं प्राप दशद्वारं केनचित् कर्मणा क्वचित् | तस्मिन् महाशनायुक्तो पुत्रैर्मात्रादिभिर्युतः || ९६ || पुरं शरीरं ब्रह्मरन्ध्रेण सह दशद्वारम् | केनचिद् प्रारब्धेन कर्मणा | बाह्यपक्षे तु युद्धादिकर्मणा | क्वचित् प्रल्यानन्तरं सृष्टिकाले || ९६ || न्यवसत् स सुखप्रेप्सुर्दुःखं भुञ्जन् दिवानिशम् | पुत्राभ्यां दग्धसर्वाङ्गो निन्दितश्चानुवासरम् || ९७ || सुखप्रेप्सुरिति | सुखस्येच्छामात्रम् दुःखमेव प्राप्यत इति भावः || ९७ || इतस्ततः समाकृष्टः प्रियाभ्यां सर्वदा हि सः | पुत्राणां पञ्चभवनं प्रविशन् निविशन्नपि || ९८ || प्रियाभ्यां विकल्पाशाभ्याम् | पुत्राणाम् इन्द्रियाणाम् || ९८ || अत्यन्तं श्रान्तिमायाति न सुखं लभते क्वचित् | एवं पुत्रस्य दुःखेन सखी मेऽत्यन्तदुःखिता || ९९ || पुत्रस्य मनसः | सखी बुद्धिः || ९९ || प्. ६३) अभून्मूर्च्छितकल्पा सा एवं तत्पुर आवसत् | ज्वालामुखनिन्द्यवृत्तयुता या सा महाशना || १०० || सात्त्विकांशापगमान्मूर्च्छितकल्पा | तत्पुरे देहे | महाशना आशा || १०० || शून्याख्यया पोषिता च मूढेन श्वशुरेण च | तथा सपत्न्या चपलाख्ययाऽत्यन्तं समेधिता || १०१ || शून्याख्यया भर्तुः पितामह्या अविद्यया || १०१ || अस्थिरं स्ववशे चक्रे पतिं तत्पुरसंस्थिता [घ्: यत्] | सखीप्रीत्या तत्र चाहमवसं तत्परा सती || १०२ || अविद्यामोहकल्पनाभिः प्ररूढया आशया मनः समाक्रान्तमित्येतदाह - अस्थिरमिति | सखीति | बुद्धितादात्म्यापन्नायाश्चितो बुद्ध्यनुकृतिर्नियतैवेति भावः || १०२ || सखीदुःखाद्धतप्राया सर्वेषां रक्षणोद्यता | यद्यहं तत्र न स्यां वै क्षणमात्रमपि प्रिय || १०३ || यद्यहमिति | दर्पणं विना प्रतिबिम्बवद् अधिष्ठानमन्तरा न किञ्चिदारोपितं भवेदिति भावः || १०३ || न भवेत्तत्र चैकोऽपि मया सर्वं हि रक्षितम् | शून्यया शुन्यतां प्राप्ता मूढेन मूढतामपि || १०४ || सर्वाधिष्ठानत्वात् स्वस्य सर्वानुकृतिमाह [सर्वस्य अनुकृतिम् अनुसृतिम् सर्वरूपतया प्रतिभासमित्यर्थः |] - शून्ययेत्यादि | शून्यया युता || १०४ || अस्थिरेणास्थिरत्वं च चापल्यं चपलायुता | ज्वालामुखाज्ज्वलत्तां च निन्द्यवृत्तात्तदात्मताम् || १०५ || सखीसंयोगतश्चैवमभवं तत्तदाकृतिः | सखीं यदि विमुञ्चामि सा नश्येत् क्षणमात्रतः || १०६ || मम चिद्रूपाया अनेकरूपता बुद्धितादात्म्यादेवेत्याह - सखीसंयोगत इति | सखीमिति | अहं बुद्धेरप्यधिष्ठानमिति मां विना बुद्धिरपि न भवेदित्याशयः || १०६ || प्. ६४) मां सङ्गतेन तेषां वै समाहुर्व्यभिचारिणीम् | जना मूढाः सर्व एव कुशला निर्मलां विदुः || १०७ || तेषां बुद्ध्यादीनां सङ्गतेन सहभावेन मां शुद्धामपि व्यभिचारिणीमाहुः सर्वे जनाः | अत एव ते मूढाः | शुद्धाखण्डचिद्रूपमप्यात्मानं क्षणिकदृश्याकारानुकारमात्रेण क्षणिकमाहुर्बौद्धादय इति तात्पर्यम् | कुशलाः सूक्ष्मधियस्तु स्मृत्यनुसन्धानादिमूलसर्वव्यवहारानुपपत्त्या तन्मतमुपेक्ष्य निर्मलां कालदेशादिपरिच्छेदमलनिर्गतां मां विदुः || १०७ || महासती मे जननी विशुद्धा निर्मलाकृतिः | आकाशादपि विस्तीर्णा सूक्ष्मा च परमाणुतः || १०८ || ननु कथं ते दुष्टसङ्गताया निर्मलत्वमिति चेन्मातुः सकाशात् प्राप्तमहामन्त्रमाहात्म्यादिति वक्तुमादौ मातरं स्तौति - महासतीत्यादि | बाह्यपक्षे महासती महापतिव्रता | अत एव शुद्धा मानसदोषरहिता | निर्मलाकृतिः शरीरदोषरहिता [क्: शरीर] च | आकाशादपि विस्तीर्णा यशसा [क्,ख्: या सा] | परमाणुतः सूक्ष्मबुद्ध्याद्युपेतत्वात् सूक्ष्मा | आन्तरपक्षेऽनवच्छिन्नसत्तारूपेति महासती | विशुद्धा शुद्धचिदेकरूपत्वादेकरसेत्यर्थः | निर्मलाकृतिः अज्ञानादिस्वरूपावरकमलानाक्रान्ता | कारणत्वेन भासकत्वेन च व्यापकत्वादाकाशादपि विस्तीर्णा | परमाणोरप्यन्तरनुस्यूतत्वाद् दुर्ज्ञेयत्वाच्च परमाणुतः सूक्ष्मा || १०८ || सर्वज्ञानाप्यकिञ्चिज्ज्ञा सर्वकर्त्र्यपि निष्क्रिया | सर्वाश्रयाप्यनाधारा सर्वाधाराप्यनाश्रिता || १०९ || बाह्यपक्षे स्वभावतः सर्वज्ञानापि तत्प्रयुक्ताभिमानाभावादकिञ्चिज्ज्ञेव तिष्ठतीति | एवमग्रेऽपि | सर्वेषां पोषकत्वेनाश्रया | सर्वकलानामाधारापि | आन्तरपक्षे तु सर्वज्ञत्वादिकं दृश्यकृतमिति स्वतः किञ्चिज्ज्ञत्वादिकम् | सर्वत्र भासमानत्वात् सर्वाधारा || १०९ || प्. ६५) सर्वरूपाप्यरूपा सा सर्वयुक्ताप्यसंयुता | सर्वत्र भासमानापि न ज्ञेया केनचित् क्वचित् || ११० || बाह्यपक्षे सर्वरूपा सर्वावयवसौन्दर्यवती [क्: वत्] सर्वैर्धनधान्यादिभिर्युक्ता सर्वत्र कारुण्यसौशील्यादिस्त्रीगुणैर्भासमाना प्रसिद्धापि क्वचित् केनचिन्न् ज्ञेया सदान्तःपुरस्थत्वात् | आन्तरपक्षे तु सर्वप्रतिबिम्बरूपस्यापि दर्पणस्य यथा प्रतिबिम्बरूपराहित्यमेवं नेयम् | सर्वत्र प्रतिबिम्बांशे भासमानोऽपि दर्पणो न केनचित् प्रतिबिम्बव्यतिरेकेण ज्ञायते एवं भावेषु सर्वत्र भासमाना चितिर्भावव्यतिरेकेण न ज्ञायते || ११० || महानन्दाप्यनानन्दा मातापितृविवर्जिताः | मादृश्यस्तनयास्तस्याः सन्ति संख्याविवर्जिताः || १११ || बाह्यपक्षे महानानन्दो विभवनिमित्तो यस्याः | एवंविधाप्यानन्दनिमित्तहर्षानुत्सेकादन्यैरलक्ष्यमाणानन्दत्वादनानन्दा | मातापितरौ वर्जितौ यया | महासतीत्वेन पतिपरायणत्वात् त्यक्तमातापितृस्नेहेति तात्पर्यम् | आन्तर पक्षे महानन्दरूपापि स्वरूपातिरिक्तानन्दायोगादनानन्दा | नित्यत्वान्मातापितृविवर्जिता | संख्याविवर्जिता असंख्याः || १११ || यथा तरङ्गा जलधेरसंख्यः सोदरीगणः | सर्वास्ता मत्समाचारा राजपुत्र भवन्ति वै || ११२ || यथा तरङ्गा असंख्यास्तथा मे असंख्यः सोदरीगणः | एतद्दृष्टान्तेन वस्तुतो जनन्यव्यतिरिक्तत्वं कन्यानामुक्तं ज्ञेयम् | समाचाराः सखीकुटुम्बपरायणाः || ११२ || महामन्त्रवती चाहं सर्वैरेतैः सखीगणैः | सङ्गता तत्परा चापि मातृतुल्या स्वरूपतः || ११३ || एवं दुष्टैः सङ्गता तत्पराऽप्यहं तेषां दोषैरस्पृष्टा | कुत एवमिति चेदेवंविधमेव मन्त्रसामर्थ्यं ममस्तीत्याह - महामन्त्रेति | आन्तरपक्षे तु महामन्त्रो मायाशक्तिः | तयाऽहमघटितमपि शुद्धस्वरूपे संसारावभासनं सम्पादयामीति तात्पर्यम् || ११३ || प्. ६६) अस्मिन् पुरे सखीपुत्रो यदा श्रान्तो भवत्यलम् | तदा मातुः समुत्सङ्गेऽस्थिरः शेते सुनिर्भरम् || ११४ || एवं प्रसङ्गात् स्ववृत्तमभिधाय पुनः सखीपुत्रादिवृत्तं निरूपयति ##- आन्तरपक्षे तु परिपक्वकर्मणां भोगेन क्षयादन्येषामपरिपाकाद् मध्ये मातुर्बुद्धेरुत्सङ्ग मनः शेते लयं प्राप्नोति || ११४ || अस्थिरस्तु यदा सुप्तस्तदा तस्य सुतादयः | स्वापं समधिगच्छन्ति नान्यो जागर्ति कश्चनः || ११५ || सुता इन्द्रियाणि क्रोधलोभौ च | आदिपदेन पत्नी माता च | आन्तरपक्षे तु मनसि विलीने इन्द्रियादि सर्वं विलीनमिति तापर्यम् || ११५ || तदा तद्रक्षति पुरमस्थिरस्य प्रियः सखा | प्रचाराख्यः प्रतिचरन् पूर्वद्वारयुगे मुहुः || ११६ || अस्थिरस्यापि या माता सखी मे तनयेन सा | तस्याः सखी च या श्वश्रूरसती या स्वभावतः || ११७ || तदा सर्वस्वापकाले सुषुप्तौ | प्रचारः प्राणः | मनःप्राणयोरन्यतररोधे द्वयोः रोधसम्भवात् प्रियत्वं सखित्वं प्राणस्य | पूर्वद्वारयुगं नासापुटद्वयम् | मे सखी अस्थिरमाता या सा तनयेन तनयादिना सह यदा सुप्ता तदेति शेषः | तस्याः अस्थिरमातुः या सखी श्वश्रूश्च शून्यनाम्नी अविद्या || ११७ || सा समाच्छाद्य तान् सर्वान् पुत्रेण सह रक्षति | एवं सर्वेषु सुप्तेषु प्राप्य स्वां मातरं तदा || ११८ || सर्वान् अस्थिरादीन् सुप्तान् | पुत्रेन मूढाख्येन सहिता [क्: सह] रक्षति | आन्तरपक्षे मोहात्मिकया अविद्यया सर्वमावृतं भवतीति तात्पर्यम् || ११८ || प्. ६७) आनन्दिताऽहं भवामि मात्राश्लिष्टा चिरं ननु | पुनस्तानुत्थितान् शीघ्रमनुसंयामि चान्वहम् || ११९ || आन्तरपक्षे तु सुषुप्तौ परिच्छेदकोपाधिलयात् पूर्णरूपतासम्पत्त्या आनन्दिता आनन्दरूपा भवामीति तात्पर्यम् | अनुसंयामि तत्तत्तादात्म्यं प्राप्नोमीत्यर्थः || ११९ || अस्थिरस्य सखा योऽयं प्रचाराख्यो महाबलः | स सर्वानस्थिरमुखान् पोषयत्यनुवासरम् || १२० || प्रचाराख्यः प्राणः | अस्थिरमुखान् मनःश्रोत्रादीन् | पोषयतीति | प्राणसमेधितजठराग्निपाचितान्नरसमूलकसामर्थ्यवत्त्वान्मनःप्रभृतीन् आमिति भावः || १२० || स एको बहुधा भूत्वा पुरं च पुरवासिनः | व्याप्य रक्षत्यनुदिनं सर्वान् संश्लेषयत्यपि || १२१ || स प्राणः | बहुधा प्राणादिवृत्तिभेदेन | संश्लेषयति स्वस्वविषयैः संयोजयति || १२१ || तं विना ते हि विश्लिष्टा नष्टाः स्युरपि सर्वथा | सूत्रेण हीना मणयो मालाबद्धा यथा पृथक् || १२२ || मनःप्रभृतिषु क्रियाशक्तिरूपेणायमेव प्रोत इत्याह दृष्टान्तेन - तं विनेति | विश्लिष्टाः विषयासंवद्धाः [क्: यसम्बन्धाः] | नष्टाः कार्याक्षमत्वेन नष्टप्रायाः | मालाकारतया बद्धा मणयः | तेषां पृथग्भूतानां मालाकारता यथा नश्यतीति भावः || १२२ || स एवं [क्: एव] मां च सङ्गम्य सर्वैः संयोजयत् परम् [क्: पुरम्] | मया संजीवितोऽत्यन्तं सूत्रधारो हि तत्पुरे || १२३ || सङ्गम्य मत्तादात्म्यं प्राप्य | सर्वैर्मां संयोजयति | अन्तःकरणादीनां चित्तादात्म्यं प्राणद्वारकमेवेति तात्पर्यम् | एतच्चाग्रे भविष्यति [अक्षान्तःकरणादीनां प्राणसूत्रं यदान्तरम् (२०|३५) इत्यादिना | ] | सूत्रधार इति | यथा सूत्रधारो नाट्यप्रवर्तकः एवं प्राण एव मनःप्रभृतिव्यापारप्रवर्तकः || १२३ || प्. ६८) जीर्णे तु तत्पुरे चान्यत्पुरं तां नयति द्रुतम् | एवं प्रचारं संश्रित्य पुराणामधिपोऽभवत् || १२४ || तत्पुरे शरीरे | तान् बुद्ध्यादीन् | नयतीति | उत्क्रमणकाले बुद्ध्यादीनां प्राणे लयात् प्राणो नयतीति भावः | अधिपः अस्थिराभिधं मनोऽभवत् || १२४ || बहूनामस्थिरो नूनं विचित्राणां क्रमेण वै | सतीपुत्रोऽप्यस्थिरः स संश्रितोऽपि महाबलम् || १२५ || बहूनां पुराणामिति पूर्वेण सम्बन्धः | महाबलं प्राणम् || १२५ || मया च भावितोऽत्यन्तं सर्वथा दुःखभागभूत् | चपलामहाशनाभ्यां पत्नीभ्यां सुसमागमात् [क्, ख्: गमत्] || १२६ || त्वया महामन्त्रवत्या भावितस्य महाबलसंश्रयस्य सतीपुत्रस्यापि दुःखभाक्त्वं [क्: दुःखत्वं तु] कुत इति चेत् पत्न्याद्यसत्समागमादित्याह - चपलेत्यादि || १२६ || ज्वाला[घ्: मुखा]मुखनिन्द्यवृत्ताभिधपुत्रयुगेन च | अन्यैः पुत्रैः पञ्चभिः स सर्वत्राभिविकर्षितः || १२७ || अभिविकर्षित इति | विकल्पेन आशोदयः तत इन्द्रियार्थेषु प्रवृत्तिः तन्निमित्तः क्रोधलोभोदयः तेन दुःखभागभूदित्याशयः || १२७ || महाक्लेशपरीतात्मा सुखलेशविवर्जितः | इतस्ततः क्वचित् पुत्रैः पञ्चभिः स विकर्षितः || १२८ || महाक्लेशप्राप्तिप्रकारमाह - इत इत्यादि || १२८ || क्वचिच्चपलयाऽत्यन्तं चालितः खेदमीयिवान् [ग्, घ्: मेयिवान्] | क्वचिन्महाशनाहेतोरशनार्थं प्रधावति || १२९ || खेदमीयिवान् [ग्, घ्: मेयिवान्] दुःखं प्राप्तवान् || १२९ || क्वचिज्ज्वालामुखाक्षिप्तो निर्दग्धापादमस्तकः | महामूर्च्छां समायाति चाविदंस्तत्प्रतिक्रियाम् || १३० || तत्प्रतिक्रियां क्रोधप्रतिक्रियां शान्तिम् || १३० || प्. ६९) निन्द्यवृतं क्वचित् प्राप्य गर्हितो भर्त्सितः परैः | मृततुल्यं स्वमात्मानं मन्यते शोकसन्ततः || १३१ || गर्हणभर्त्सनाभ्यां मृततुल्यमात्मानं मन्यते तेन शोकसन्तप्तो [ख्, ग्: सन्ततो] भवति || १३१ || दुष्पत्नीपुत्रसहितो मोहितो दुष्कुलोद्भवः | पत्नीपुत्रैः समाक्रान्तो नीयमानस्तु तैः सदा || १३२ || मूढपुत्रत्वाद् दुष्कुलोद्भवत्वम् || १३२ || उवास तैर्विचित्रेषु पुरेषूच्चावचेषु हि | क्वचित् कान्तारकीर्णेषु क्रव्यादकुलभूमिषु || १३३ || तैः सहीवास | उच्चावचेषु उत्कृष्टेष्वपकृष्टेषु च | एवंविधस्य नरकप्राप्तिमाह - क्वचिदिति | कान्तारैररण्यैः कीर्णेषु व्याप्तेषु पुरेषु | क्रव्यादकुलं मांसाशिकाकादिसमुदायः तदाश्रितेषु [क्: सदा] | महारण्यस्थं काकादिव्याप्तं च स्वदेहं पश्यतीति तात्पर्यम् || १३३ || क्वचिदत्यन्ततप्तेषु क्वचिच्छितजडेषुच | क्वचित् पूतिवहास्थेषु क्वचिद् गाढतमःसु च || १३४ || पूतीति | दुर्गन्धवहात्मकनदीस्थेषु | गाढतमःसु तर्वादिदेहेषु उवासेत्यन्वयः || १३४ || एवं भूयोऽतिदुःखेन दुःखिते [क्, ख्: दुह्खितं] तनयेऽस्थिरे | सखी च मे दुःखमूढाऽभवद् दुःसङ्गतः सदा || १३५ || स्वभावसत्यपि मुधा तामन्वहमपि प्रिय | मूढेवात्यन्तमभवं तत्कुटुम्बपरायणा || १३६ || अहं स्वभावसती | वस्तुतस्तत्सङ्गाभावात् स्वच्छस्वभावापि | मुधा व्यर्थं निर्निमित्तेनेत्यर्थः || १३६ || को हि दुःसङ्गतः सौख्यं प्राप्नुयाल्लेशतः क्वचित् | गच्छन् मरुस्थले [क्: महा-] ग्रीष्मे तृष्णाशान्तिं यथा [क्, ख्: ययौ] नरः || १३७ || ननु किमर्थं त्वया मूढत्वं प्राप्तमिति चेद् दुःसङ्गत इत्याह - को हीति || १३७ || प्. ७०) एवं चिरतरे काले संवृत्ते मम सा सखी | मोहिताऽत्यन्तखेदेन मया रहसि सङ्गता || १३८ || एवं दुःखभोगेन | संवृत्ते अतीते | सङ्गतेति | कथञ्चित्प्राप्तेश्वरानुग्रहेण | रहसि विविक्ते विषयानवभासदशायां मया [क्: मया नास्ति] सङ्गता शुद्धचिदाकाराऽभवदिति आन्तरपक्षे ज्ञेयम् || १३८ || मदेकसङ्गाद्युक्तिं सा प्राप्यासाद्य च सत्पतिम् | जित्वा स्वतनयं हत्वा बध्वा तत्तनयादिकान् || १३९ || मदेकसङ्गात् | शुद्धमद्रूपाभिव्यक्तेर्युक्तिं वैराग्यम् वैराग्यात्मदर्शनयोः परस्परकारणत्वात् | तदुक्तं - भक्तिः परेशानुभवो विरक्तिः [ख्: विमुक्तिः] (भा० पु० ११|२|४२) इत्यादि परं दृष्ट्वा निवर्तते (भ० गी० २|५५) इति च | वैराग्यात् सत्पतिं विवेकम् | तनयं मनः | क्रोधलोभौ हत्वा | इन्द्रियाणि बध्वा || १३९ || मया सङ्गम्य मन्मातृपुरमासादयद् द्रुतम् | मन्मातरं परिष्वज्य मुहुर्मुहुरकल्मषा || १४० || मया सङ्गम्य सम्यगेकतां निर्विकल्पसमाधिं प्राप्य | सङ्गतेति पूर्वं श्रवणेन परीक्षज्ञानमुक्तम् | इदानीं मनननिदिध्यासनाभ्यामपरोक्षमिति [क्: भ्यां समप-] वा विवेकः | मन्मातृपुरम् अनवच्छिन्नशुद्धचिदात्मताम् | द्रुतमिति [क्: उद्भूत] ज्ञानोत्तरक्षणे | मुहुर्मुहुर्मन्मातरं परिष्वज्येति जीवन्मुक्तिदशोक्ता ज्ञेया | मुहुर्मुहुरिति बुद्धेर्मध्ये मध्ये द्वैताभासरूपतोक्ता | अत एवाह अकल्मषेति | दग्धपटाकारस्य [क्: स्थ] द्वैताभासस्य न पूर्ववत् संसारमूलवासनात्मककल्मषाधायकत्वमिति भावः | एतदेवोक्तम् - हत्वापि स इमान् लोकान् न हन्ति न निवध्यते (भ० गी० १८|१७) इति || १४० || प्. ७१) आनन्दार्णवनिर्मग्नस्वभावाऽभवदञ्जसा | एवं त्वमपि दुर्वृत्तं निगृह्य सखिसम्भवम् || १४१ || ननु संसारमूलवासनाभावेऽपि दृष्टदुःखं स्यादित्याशङ्क्याह - आनन्देति | वासनाहेतोरभिमानस्यैव दुःखहेतुत्वादिति तात्पर्यम् | अभवदिति प्रथमपुरुषेण बुद्धेरेव बन्धमोक्षौ [क्: रेवंविधमोक्षो] न ममेत्युक्तं भवति | सखिसम्भवं मनः || १४१ || प्राप्य स्वमातरं नाथ सुखं नित्यं समाप्नुहि | एतत्ते कथितं नाथ स्वानुभूतं सुखास्पदम् || १४२ || प्राप्येति | बुद्ध्या सह [क्: महा] परिच्छिन्नचिदेकरूपतां प्राप्येत्यर्थः || १४२ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे हेमचूडोपाख्याने बन्धाख्यायिका पञ्चमोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां पञ्चमोऽध्यायः || अथ षष्ठोऽध्यायः एवं प्रियावचः श्रुत्वा हेमचूडोऽतिविस्मितः | हसन् पप्रच्छ तां कान्तामविद्वान् विदुषीं तदा || १ || अत्राध्याये चेतिपद्यैः श्रद्धा श्रेयःसुसाधनम् | कुतर्कस्यानर्थलाभ इति सम्यग्निरूप्यते || प्रिये प्रोक्तं यदेतत्ते खचित्रमिव भाति मे | निरालम्बं वचस्तेऽद्य [क्: वचस्तेऽद्य नास्ति] जानाम्येतदशेषतः || २ || खचित्रमिव | असम्भावितमिवेत्यर्थः | निरालम्बं निर्विषयम् || २ || नूनं त्वमप्सरोद्भूता [क्: तद] ऋषिणा वर्द्धिता वने | संस्पृष्टयौवनाद्यापि [क्: संसृष्ट] न तारुण्यमलं गता || ३ || कुत इति चेदाह - नूनमिति | अलम् अत्यन्तम् || ३ || वक्ष्यस्यनेकसाहस्रवर्षाणामिव संस्थितिम् | भूतग्रस्तोक्तिसदृशवचसा तेऽतिमात्रतः || ४ || अतिमात्रतोऽतिमात्रेण बहुलेन वचसा || ४ || असन्दर्भेण किमहं विबुद्ध्यामि यथार्थतः | वद ते सा सखी क्वास्ते बद्धश्च सखिपुत्रकः || ५ || कुतो [मद्वचसि असन्दर्भता इतिच्छेदः]मद्वचस्यसन्दर्भतेति [क्, ग्: चस्थ] चेदाह - वदेति || ५ || पुराणि तानि वा कुत्र संस्थितानि तदीरय | अस्तु किं तेन वृत्तेन वद मे क्व च सा सखी || ६ || प्. ७३) सखीं न प्राप्तवान् मातुरहं तत् प्रविचारय | आर्यास्ति मेऽवरोधे स्वे पितुर्मेऽन्या नहि प्रिया || ७ || अहं मात्रा दत्तां सखीं न प्राप्तवानस्मि | मे आर्या माता अवरोधेऽन्तःपुरेऽस्ति तां विचारय पृच्छ | अन्यापि माता मे नास्ति यया [क्, ख्, ग्: यथा] सखी दत्ता [क्: दत्तास्था] स्यादित्याह पितुरिति || ७ || सा वा सखी मे कुत्रास्ते तत्पुत्रो वा वद द्रुतम् | मन्येऽहं ते वचो लोके वन्ध्यापुत्रसमाश्रयम् || ८ || लोके प्रसिद्धं वन्ध्यापुत्रसमाश्रयं वच इव ते वचः || ८ || यथाह कश्चिन्नटिको [क्: नटीको] विदूषकवचोविधौ | वन्ध्यापुत्रः समारूढः प्रतिबिम्बमहारथम् || ९ || तदेवाह - यथेति | नटिको नटः || ९ || शुक्त्यारोपितहैरण्यभूषणैर्भूषिताङ्गकः | आयुधैर्नरशृङ्गोत्थैर्युध्वा गगनकानने || १० || हत्वा भविष्यद्राजानं जित्वा गन्धर्वपत्तनम् | मरीचिस्रोतसि स्वाप्नकामिनीभिर्हि खेलति || ११ || तथा तव वचो मन्ये सर्वथाऽसङ्गतं ननु [ख्: न तु] | श्रुत्वैवं प्रियवाक्यं सा चतुरा प्राह तं पुनः || १२ || तथा प्रोक्तविदूषकवाक्यवत् | असङ्गतम् || १२ || नाथ प्रोक्तं मया यत्ते तत् कथं स्यादपार्थकम् | न मादृशानां वचनं निरालम्बं क्वचिद्भवेत् || १३ || मृषा हि तपसां हन्त्री सत्यशीलेषु सा कुतः | तपस्विनां कुले कस्माच्छ्वित्रे [घ्: कस्मि] [श्वित्रे कुष्ठे इत्यर्थः] सौन्दर्यवद्भवेत् || १४ || कुतस्ते वचो मृषा नेति चेदाह - मृषेति | तपस्विनां मध्ये विशेषतः सत्यशीलेष्वस्मासु सा असम्भाव्यैवेति सदृष्टान्तमाह - तपस्विनामिति || १४ || प्. ७४) यो योजयति जिज्ञासुमन्यार्थेन ह्यसत्यतः | तस्य नोर्द्ध्वं न चाधस्ताल्लोकोऽस्ति [क्: लोके] सुखसाधनम् || १५ || जिज्ञासुविषये असत्येन वचसा पुण्यलोकनाश इत्याह - य इति | अन्यार्थेन अपार्थवचसा असत्यात् | न लोकः || १५ || शृणु राजसुतोक्तिं [ख्, ग्, घ्: क्तं] मे लोके तैमिरिकः क्वचित् | समदृष्टिं नैति शीघ्रमञ्जनानां वचोगणैः || १६ || मदुक्तं सकृच्छ्रवणमात्रेण त्वया मूढेन ज्ञातुमशक्यमित्याशयेनाह - शृण्विति || १६ || असत्यमेव जानाति हितप्रोक्तं च मूढधीः | तत्त्वां [क्: तत्त्वं प्रियार्ह] प्रियाऽहं जिज्ञासुमसत्यैर्योजयामि किम् || १७ || हितेन प्रियेण प्रोक्तमपि मूढधीरसत्यमिति जानाति | तत् तस्मात् त्वयैवं यद्विज्ञातं तदनुचितमेव | यदहं तपस्विनी सत्यशीला तव प्रिया च भूत्वा त्वां [क्, ख्, ग्: त्वां नास्ति] जिज्ञासुम् [क्, ख्, ग्: जिज्ञासुः] असत्यैर्योजयामि किम् | न योजयाम्येवेत्यर्थः || १७ || अप्यसत्यं मयोक्तं यत्तद्विमर्शय सद्धिया [क्, घ्: सिद्धया] | लोके हि कुशलो मर्त्यः सर्वव्यवहृतौ ननु || १८ || ननु असत्यं साहसं क्रौर्यं स्त्रीणां सहजसम्भवम् इति चेत्त्वं कुशलोऽस्यभिज्ञातुमत [क्: कुशलोऽभि] एतत् परीक्षयेत्याह [क्: क्षस्वे] अपीति | सद्धिया सूक्ष्मतर्कयुक्तबुद्ध्या | नन्वहं कुशलोऽप्यतीतार्थं त्वद्वचनं कथं परीक्षिष्यामीति चेदाह - लोक इति || १८ || परीक्ष्यैकांशतः सर्वामभिजानाति संस्थितिम् | निदर्शनं प्रदास्यामि तुभ्यमत्र समीक्षय [क्: समीक्षया] || १९ || लोके सत्यशीलसंस्थितिम् एकांशतः [क्: एवांशतः] क्वचिद् व्यवहारे परीक्ष्यैव जानाति | अतो मया प्रागुक्तं यत्तत्त्वया सत्यत्वेनानुभूतमिति निदर्शनं प्रदास्यामि अनुभूतं स्मारयामि | अत्र मद्वचनपरीक्षायाम् || १९ || प्. ७५) यः पुरा विषयः सर्वो बभूवाभीष्टसाधनम् | चिरान्मद्वचनात् सोऽद्य कुतो न सुखसाधनम् || २० || य इति | यो विषयः पुरा सुखसाधनतया गृहीतः सोऽद्य मद्वचसाऽन्यथैवानुभूयते | एवं प्रागुक्तस्य सत्यत्वादिदमपि सत्यं भवेदेवेति जानीहीति भावः || २० || स एवाद्य साधयति सुखमन्येषु वै कुतः | एतन्निदर्शनेनैव स्वमतं वेत्तुमर्हसि || २१ || ननु कालभेदान्न स विषयः सुखसाधनम् [क्: धनं मत्तो] अतो नैतत्त्वद्वचनकृतमिति चेदाह - स एवेति | एतन्निदर्शनेन मदुक्तानुभवेन | स्वमतं मदुक्तमसत्यमिति निश्चयं प्रमाणमप्रमाणं वेति वेत्तुम् || २१ || शृणु राजन् यद्ब्रवीमि [क्: यद्धवी ऋज्या] ऋज्ज्व्या निर्मलया धिया | अनाश्वासो [लोके आप्तोक्तिषु अनाश्वासः स्थिरो रिपुर्भवेदित्यन्वयः] रिपुर्लोके [क्: रिपुलोको] भवेदाप्तोक्तिषु स्थिरः || २२ || मद्वचने श्रद्धस्वेति वक्तुं [क्, ख्: वाक्ये तु] श्रद्धां स्तौति ##- अनाश्वासः अश्रद्धा || २२ || श्रद्धा माता प्रपन्नं सा वत्सलेव सुतं सदा | रक्षति प्रौढभीतिभ्यः सर्वथा नहि संशयः || २३ || आप्तेष्वश्रद्धिनं [क्, ग्: द्धितं] मूढं जहाति श्रीः सुखं यशः | स भवेत् सर्वतो हीनो यः श्रद्धारहितो नरः || २४ || अत एव सर्वतो हीनो भवेत् || २४ || प्. ७६) श्रद्धा हि जगतां धात्री श्रद्धा सर्वस्य जीवनम् | अश्रद्धो मातृविषये बालो जीवेत् कथं वद || २५ || अश्रद्ध इति | माता मे हितमेव [क्: हीन] कुर्यादिति श्रद्धाभावे तद्दत्ताहारादेस्त्याज्यत्वेन बालो न जीविष्यतीति भावः || २५ || अश्रद्धस्तरुणः पत्न्यां कथं स सुखमेधते | तथाऽपत्येषु स्थविरः कथमीयात् सतीं गतिम् || २६ || मयि निद्रिते मामियं न हन्यादिति पत्न्यां श्रद्धामकुर्वतो विपरीतसम्भावनोदयात् सुखं न स्यात् | एवंस्थविरोऽपि | सतीं गतिं सुखस्थितिम् || २६ || अश्रद्धो वा भुवं कस्माद् विकर्षेत् कर्षकः किल | न प्रवृत्तिर्भवेत् क्वापि त्यागे वा संग्रहेऽपि वा || २७ || अश्रद्धस्य न क्वापि प्रवृत्तिः स्यात् इष्टसाधनत्वनिश्चयासम्भवादित्याह - अश्रद्ध इति || २७ || श्रद्धावैधुर्ययोगेन विनश्येज्जगतां स्थितिः | एकान्तग्रहणाल्लोकप्रवृत्तिरिति चेच्छृणु || २८ || प्रवृत्त्यभावे इष्टापत्तिरिति चेन्नैवमित्याह - श्रद्धेति | श्रद्धावैधुर्यं श्रद्धाभावः तद्योगेन तत्सत्त्वेन हेतुना प्रवृत्त्यभावे साधिते सतीति शेषः | जगतां प्राणिनां स्थितिः सुखाद्यनुभवात्मा व्यवहारः | नश्येद् नाशः सम्भवेत् [व्यवहारपदसंनिधानेन व्यवहारस्य नाशः संभवेदित्यर्थो विभक्तिविपरिणामेन संपद्यते |] | प्रत्यक्षसिद्धा जगत्स्थितिरपह्नोतुं न शक्या | अतस्तन्मूलभूतश्रद्धासिद्धिरिति भावः | ननु न जगत्स्थितिनिमित्तप्रवृत्त्यन्यथानुपपत्त्या श्रद्धासिद्धिरिति प्रवृत्तेरन्यथा सिद्धेरित्याह - एकान्तेति | एकान्तग्रहणात् व्याप्तिग्रहादित्यर्थः | कर्षको भूविकर्षणे कृतेऽकृते च धान्यप्राप्तिमप्राप्तिश्च भूयो गृहीत्वा कर्षणव्याप्तिं धान्यप्राप्तौ विनिश्चित्य कर्षणे प्रवर्तते न श्रद्धया प्रवर्तत इति भावः | अत्राह - शृण्विति || २८ || एकान्तग्रहणे वापि श्रद्धा कस्मात् प्रतिष्ठिता | तत्राप्येकान्तशरणः श्रद्धाशरण एव हि || २९ || श्रद्धानाम सम्भावनात्मा निश्चयः इदमित्थमेव स्यादिति | एवं सति एकान्तग्रहणे वा श्रद्धा तव कथं प्रतिष्ठिता स्थिता | श्रद्धामपह्नुवानस्य [ख्: ह्नुवतः] तव केषुचित् स्थानेषु कार्यकारणयोः साहचर्यानुभवमात्रेण परोक्षे भाविकार्येऽपि कारणसाहचर्यसम्भावना कुत इत्यभिप्रायः | यद्वा सुखाद्यनुभवरूपफलादपह्नोतुमशक्यात् प्रवृत्तिः सिद्धा | सिद्धायां प्रवृत्तौ श्रद्धामूलकत्वं न भवेदेकान्तग्रहणमूलकत्वमेव भवेदिति वा श्रद्धा कुत इति - तत्रापीति | एकान्तग्रहणात् प्रवृत्तिरिति [ग्: प्रवृत्तिस्वी] स्वीकारेऽपि | एवं सत्यपि श्रद्धा त्वयाऽभ्युपगतेति भावः || २९ || प्. ७७) तस्माच्छ्रद्धामृते लोकोऽवसीदेदश्वसन् ध्रुवम् | तस्माच्छ्रद्धां दृढां प्राप्य सुखमात्यन्तिकं व्रज || ३० || यस्माच्छ्रद्धां विना प्रवृत्तिर्न घटते तस्मात् श्रद्धामृते प्रवृत्त्यभावाल्लोकव्यवहारो नश्येत् | अश्वसन्निति | उच्छ्वासनिश्वासयोस्तन्निरोधे च संशयादप्रवृत्तिः स्यादिति तात्पर्यम् | यस्माच्छ्रद्धां विना व्यावहारिकमपि सुखं न भवेत्तस्मात् | मदुक्तौ श्रद्धां प्राप्य || ३० || श्रद्धाऽवरे न कार्येति मन्यसे यदि तच्छृणु | इयं च श्रद्धयैवास्ते प्रवृत्तिर्नृपतेः सुत || ३१ || ननु श्रद्धा विद्वद्वचनेषु कार्या नावरे निकृष्टे स्रीमूढादिवचन इति तदाक्षेपमनूद्य परिहरति - श्रद्धेति | इयमिति | अवरे श्रद्धा न कर्तव्येत्यभ्युपगमरूपा प्रवृत्तिरपि श्रद्धयैव भवेदिति भावः || ३१ || तत् कथं ते प्रवृत्तिः स्यादिति श्रुत्वा प्रियावचः | हेमचूडः प्राह पुनः प्रियां कुशलभाषिणीम् || ३२ || यदि श्रद्धा न स्यात्तदा प्रोक्ताभ्युपगमरूपा प्रवृत्तिः कथं स्यादित्याह - तदिति || ३२ || नूनं प्रिये सर्वथैव श्रद्धातव्यं यदा भवेत् | श्रद्धा सत्सु विधातव्या यया [क्, ख्: यथा] श्रेयः समाप्नुयात् || ३३ || सर्वथा वरावरत्वविचारं विना | तदा श्रद्धा सत्स्वित्यादि महाजनोक्तवत् मीनानामिव नाशमाप्नुयादिति व्यवहितेन सम्बन्धः || ३३ || प्. ७८) असत्सु नो विधातव्या श्रद्धा श्रेयोऽभिवाञ्छिना | अन्यथान्तः सुनिशिते कुटिले बडिशे यथा || ३४ || अन्यथा असति [असति असज्जनस्थानीये न त्वविद्यमाने] बडिशे श्रद्धया मीना यं नाशमाप्नुयुस्तं नाशमाप्नुयात् | यतोऽसति श्रद्धया नाशः तस्मात् || ३४ || बहिःसमे सुपिष्टेन मीनानां नाशमाप्नुयात् | तस्मात् सत्स्वेव कर्तव्या श्रद्धा नासत्सु कुत्रचित् || ३५ || असत्सु कृत्वा श्रद्धां ये नाशमीयुः परेऽपि च | सत्सु श्रेयोयुजः श्रद्धावशतस्ते निदर्शनम् || ३६ || ये मीना इवासत्सु श्रद्धया नष्टाः ये च सत्सु श्रद्धया श्रेयोयुक्तास्ते सर्वे मदुक्तौ निदर्शनम् उदाहरणम् || ३६ || अतः प्रतीत्यैव युक्ता कर्तुं श्रद्धा न चान्यथा | तत् कथं ते प्रवृत्तिः स्यादिति प्रश्नः कथं तव || ३७ || सदिति प्रतीत्या ज्ञात्वैव श्रद्धा कर्तुं युक्ता | एवं सति तत् कथं ते प्रवृत्तिरिति [ग्: इति नास्ति] प्राक्कृतः प्रश्न आक्षेपः कथम् ? न सर्वथाऽहं श्रद्धाप्रतिषेधपरः सत्सु श्रद्धा कार्या नान्यत्रेति सतां महाजनानां वाक्यादेवमहं प्रवृत्त इति भावः || ३७ || इत्युक्ता हेमलेखा सा पुनराह पतिं प्रियम् | शृणु राजकुमारेदं प्रोच्यमानं मया वचः || ३८ || यदात्थ त्वं कथं प्रश्न इति तत्र ब्रवीमि ते | अयं [क्: अथ] सन् वा ह्यसन् वायमिति ते निश्चयः कुतः || ३९ || सत्सु श्रद्धा कार्येति यद्वाक्ये तव श्रद्धा सोऽयं पुरुषः सन्नेवेति कथं ते निश्चयः || ३९ || प्. ७९) सत्यस्मिन् निश्चये भूयाच्छुभं सच्छ्रद्धयेह वै | सोऽपि लक्षणतः स्याच्चेच्छ्रद्धा लक्षणसङ्गता || ४० || अन्यवाक्येनेति चेदनवस्थेत्यभिप्रेत्याह - सत्यस्मिन्निति | अयं निश्चय एव न घटत इति तात्पर्यम् | सोऽपि सन्निति निश्चयोऽपि | लक्षणतः असद्व्यावृत्तिधर्मेण | श्रद्धेति | इदमस्त्य लक्षणमित्यन्यवाक्येनेदं लक्षणज्ञानं भवितव्यं चेदनवस्था तदवस्थैवेति भावः || ४० || प्रमाणाल्लक्षणज्ञानमिति चेत्तत्र संशृणु | अश्रद्धस्य प्रमाणं किं भवेत्तत् सुनिरूप्यताम् || ४१ || प्रमाणादिति | अन्वयव्यतिरेकाभ्यामित्यर्थः | अश्रद्धस्य प्रमाणं किमिति | अयमाशयः - परे ह्यागमे श्रद्धयैव प्रवृत्तिरुपपद्यते न शुष्कतर्केण | पार्थिवत्वलोहलेख्यत्वयोः सहचारस्य भूयो गृहीतत्वेऽपि हीरके व्यभिचारदर्शनान्न केवलतर्केण किञ्चिज्ज्ञातुं शक्यत इति || ४१ || अन्यथा हि प्रमाता नो विसंवाद्येत कुत्रचित् | तस्माच्छ्रद्धां समाश्रित्य लोकः सर्वः प्रवर्तते || ४२ || तस्मात् पुरुषार्थसाधनप्रवर्तकमविसंवादिप्रमाणमागमान्नान्यदित्याह - अन्यथेति | सदागमस्येवान्यप्रमाणानामपि दुष्टत्वाभावसम्भावनया [क्, ख्: दृष्ट-] सर्वथाऽविसंवादकत्वे प्रवृत्तः प्रमाता न क्वापि विसंवाद्येत प्रवृत्त्युद्दिष्टफलाप्राप्त्या [घ्: फल] परिभूयत | यस्मादन्यप्रमाणानां विसंवादकत्वसम्भावना तस्मात् | सदागमे श्रद्धामाश्रित्यैव कृषीबलोऽप्यागमाश्रयेण सुमुहूर्तविघ्ननिरसनादिपूर्वकं प्रवर्तते | तत्र च दृश्यमानः क्वचिद्विसंवादा न प्रमाणदोषकृतः किन्तु सामग्रीवैकल्यकृत एव | अत एव तस्यैव तत्रैव भूयः सामग्रीसाकल्यसम्पादनाभिमानेन प्रवृत्तिरुपपद्यत इति भावः || ४२ || तत्प्रकारं प्रवक्ष्यामि शृणु निश्चलचेतसा | अनवस्थिततर्को वा ह्यतर्को वापि सर्वथा || ४३ || तत्प्रकारं श्रद्धया श्रेयःप्राप्तिप्रकारम् | अनवस्थिततर्कः शुष्कतर्कवान् | अतर्को मूढः || ४३ || प्. ८०) श्रेयो न प्राप्नुयाल्लोक इह वापि परत्र वा | तत्रातर्कस्य कालेन भवेच्छ्रेयः कदाचन || ४४ || श्रेयो नेति | आद्यस्यानाश्वासेनाप्रवृत्तेः | द्वितीयस्य सामग्रीवैकल्यसम्भवात् | अन्धप्रक्षिप्तलोष्टाघातेन [ग्, घ्: लोष्ट] फलपातवद् द्वितीयस्य श्रेयः कदाचित् सम्भाव्यत इत्याह - तत्रेति | तयोर्मध्ये इत्यर्थः || ४४ || अनवस्थिततर्कस्य न श्रेयः स्यात् कथञ्चन | पुरा सह्यगिरौ गोदावरीतीरे हि कौशिकः || ४५ || अनवस्थिततर्कस्य श्रेयो न कथञ्चिदित्यत्रेतिहासमाह - पुरेति || ४५ || न्यवसच्छान्तसुमतिर्ज्ञातलोकसतत्त्वकः | तस्य शिष्यास्तु शतशः [ग्: बहुशः] स्थिता गुरुसमाश्रयात् || ४६ || शान्तश्चासौ सुमतिश्च | कामाद्यनाहतस्वभावः श्रद्धाभक्तिप्रचुरमतिश्च | अत एव ज्ञातलोकसतत्त्वकः | लोक्यते दृश्यते इति लोको दृश्यम् | दृश्यस्य हि परं तत्त्वं यत्प्रकाशः परः शिवः इत्यागमरीत्या अधिष्ठानप्रकाशमात्रं सतत्त्वं स्वरूपं ज्ञातं येन || ४६ || त एकदा गुरुमनु गता लोकस्य संस्थितिम् | निर्णेतुं बुद्ध्यनुगुणं तदा प्रोचुः परस्परम् || ४७ || ते शिष्याः | गुरुमनु पश्चात् | गुरोः परोक्ष इति यावत् | लोकस्य स्थितिं निर्णेतुं गताः सङ्गताः सन्तः तदा तन्निर्णयाय स्वबुद्ध्यौगुणं यथा तथा परस्परं प्रोचुः || ४७ || तत्राजगाम शुङ्गाख्यो विप्रः कश्चिन्महाबुधः | स सर्वेषां मतं प्रोक्तं दूषयद्बुद्धिकौशलात् || ४८ || तत्र कौशिकशिष्यसमाजे | महाबुधः शुष्कतर्कनिपुणः | यद्वा महांश्चासावबुधश्च अज्ञातलोकसतत्त्व इति भावः | स शुङ्गः | सर्वेषां कौशिकशिष्याणाम् | बुद्धिकौशलात् | नागमानुरुद्धयुक्त्याऽदूषयत् किन्तु केवलं बुद्धिकौशलात् | शुष्कतर्कैरिति भावः || ४८ || प्. ८१) अश्रद्धया हतप्रज्ञो विवादनिपुणस्तदा | प्रमाणात् प्रमितं सत्यमित्युक्तेषु द्विजेष्वथ || ४९ || कुतस्तस्यागमानादर इति चेदाह - अश्रद्धयेति | अत एव विवादनिपुणः सन् वितण्डामाश्रित्येति यावत् | तदा कौशिकशिष्याणां दृश्यतत्त्वनिर्णयोपयुक्तकथाकाले | निर्दुष्टप्रमाणप्रमितं सत्यमिति तेषूक्तेषु | अथाहेत्यन्वयः || ४९ || अनवस्थिततर्को वै प्राह तर्कैकसंश्रयः | शुङ्गाख्य आक्षिपन् सर्वान् तत्र वादकथान्तरे || ५० || अनवस्थिततर्कः शुङ्गाख्यः | शुष्कतर्काश्रयः | वादकथान्तरे | जल्पवितण्डाभिन्नकथामध्ये || ५० || विप्राः शृणुध्वं मद्वाक्यं सत्यं न क्वापि सिध्यति | प्रमितं यत् प्रमाणेन तत् सत्यमिति हीरितम् || ५१ || शुङ्गवाक्यं विप्रा इत्यादि | भवद्भिर्यत् साध्यते सत्यम् न तत् क्वापि कालत्रयेऽपि सिद्ध्यतीत्याक्षेपः | प्रमितमित्यादि कौशिकशिष्यमतानुवादः | इति हि भवद्भिरीरितम् || ५१ || तत्र तेन दोषयुजा भवेदप्रमितं ननु [ग्: न तु] | निश्चेतव्या ततस्त्वादौ प्रमाणानामदुष्टता || ५२ || तत्र प्रमाणेषु मध्ये दोषयुक्तप्रमाणेन भातमप्रमितमसत्यं ननु | अत आदौ सत्यासत्यपरीक्षकेण प्रमाणानामदुष्टता निश्चेतव्येत्याह - निश्चेतव्येति | नहि भासनमात्रेण सत्यत्वं कस्यचित् शुक्तिरजतादेः सत्यत्वप्रसङ्गात् | अतोऽदुष्टप्रमाणप्रमितस्यैव सत्यत्वात् | प्रमाणादुष्टत्वनिश्चयाधीन एव भावसत्यत्वनिश्चय इति भावः || ५२ || सा प्रमाणान्तरकृता तत्राप्येवं विचिन्त्यताम् | इत्येवमनवस्थानाद् न किञ्चित् प्रमितं भवेत् || ५३ || प्रमाणादुष्टत्वनिश्चयोऽपि प्रमाणान्तराधीन इत्यनवस्थया मूलक्षतिकर्या न क्वचित् सत्यत्वं सिध्यतीत्याह - सा प्रमाणेति || ५३ || प्. ८२) अतः प्रमाता प्रमितं प्रमाणं वा न सिध्यति | तस्माच्छून्याश्रयो ह्येष विकल्पो विविधः स्थितः || ५४ || अतः प्रमाणादुष्टत्वानिश्चयात् | प्रमितं दृश्यम् | सत्यं न सिध्यति | तस्मात् सत्यत्वासिद्धेः | अहमिदं चक्षुषा पश्यामीत्यादि विविधो विकल्पः शुन्यालम्बन एव | न चानुमानादिप्रमाणैरभिमतसिद्धिः उक्तदोषग्रस्तत्वात् तेषां प्रत्यक्षोपजीव्यत्वाच्च | न च शून्यं वा तव [ख्, ग्: तर्केण] कथं सिद्ध्यतीति वाच्यम् शून्यसिद्धौ प्रमाणव्यापारानुपयोगात् इतरासिद्धिमात्रात्मकत्वात् तस्येति || ५४ || सोऽपि शून्यात्मता प्राप्तः प्रमाणाविषयत्वतः | तस्माच्छून्यं न किञ्चित् सदित्येष [क्, ख्, घ्: स्यादि] प्रविनिर्णयः || ५५ || अत एवाह - सोऽपीति | शून्यपदार्थोऽपि शून्यतां प्राप्तः निश्चितादुष्टप्रमाणाविषयत्वात् | तस्मात् शून्यमिति न किञ्चिद्वस्तु स्यात् इतरासिद्धिमात्रात्मकत्वात् तस्य | यद्वा ननु प्रमातृप्रमाणप्रमेयसिद्धावपि विकल्पधारायाः स्वप्रकाशायाः सत्त्वान्न शून्यमात्रशेष इति चेदाह - सोऽपीति | विकल्पोऽपीत्यर्थः | तस्यानवस्थया प्रमाणान्तराविषयत्वात् स्वप्रकाशत्वे कर्तृकर्मभावविरोधात् सोऽपि शून्यात्मतां प्राप्तः | तस्माद्विकल्परूपमपि सन्न सिध्यतीति शून्यमेवेति प्रविनिर्णयः || ५५ || इति शुङ्गवचः श्रुत्वा तेषु केचिद् द्विजाधमाः | तं श्रिता निश्चयाभासं बभूवुः शून्यवादिनः || ५६ || तेषु कौशिकशिष्येषु मध्ये | द्विजाधमाः असारहृदयाः | तं शुङ्गसिद्धान्तम् || ५६ || विनाशमीयुस्तन्निष्ठाः शून्यभावं परं गताः | ये द्विजाः सारहृदयास्ते शुङ्गस्य प्रभाषितम् || ५७ || सर्वस्य शून्यतानिश्चयेन स्वात्मानमपि शून्यं मन्यमानाः शून्यभावं स्थावरतां प्राप्ताः | न त्वभावरूपतां गताः वस्तुतो भावस्याभावत्वानुपपत्तेः | सारहृदयाः सारं विचारपरं हृदयं मनो येषाम् || ५७ || प्. ८३) निरूप्य कौशिके तेन समाहितहृदोऽभवन् | तस्मात् सर्वात्मना त्यक्त्वा तर्कं तमनवस्थितम् || ५८ || तेन कौशिकोक्तेन | शङ्काया नाशात् समाहितहृदः | यतोऽनवस्थिततर्कस्यानर्थसम्पत्तिः तस्मात् || ५८ || सदा सदागमायत्ततर्कः श्रेयः समाप्नुयात् | इति प्रोक्तो हेमचूडः प्रिययाऽत्यन्तधीरया || ५९ || सदागमस्यायत्तोऽनुकूलस्तर्को यस्य | धीरया पण्डितया || ५९ || पुनः पप्रच्छ चात्यन्तविस्मितस्तां महाशयाम् | अहो प्रिये ते वैदुष्यमीदृशं नाविदं पुरा || ६० || असम्भाव्यमानां योषिति विद्वत्तां दृष्ट्वा विस्मितः || ६० || धन्यासि त्वमहं चापि धन्यो यस्त्वामुपागतः | ब्रवीषि श्रद्धया सर्वश्रेयःसिद्धिं हि तत् कथम् || ६१ || उपागतः सङ्गतः || ६१ || कुत्र श्रद्धा विधातव्या कुत्र वा सा न शस्यते | आनन्त्यादागमानां वै विरुद्धार्थसमाश्रयात् || ६२ || आगमे श्रद्धा विधेयेत्युक्ते आगमानामप्यनैक्यात् कुत्र श्रद्धा कर्तव्येति पृच्छति - कुत्रेति | सा श्रद्धा | अनैक्येऽप्यागमानामर्थैक्याद्यत्र क्वचिच्छ्रद्धां कुर्विति चेदाह - विरुद्धेति || ६२ || आचार्यमतभेदाच्च व्याख्यातृमतभेदतः | स्वबुद्धेरनवस्थानात् किमादेयं न वापि किम् || ६३ || न विरुद्धार्थत्वं बौधार्हतवेदाद्यागमानामेव परस्परम् अपि त्वेकैकागमेऽप्याचार्यमतभेदादपि विरोध इत्याह - आचार्येति | स्पष्टं चैतत् | तथाहि - वैदिकाद्यागमाचार्याणां जैमिनिपतञ्जलिप्रभृतीनां परस्परं मतविरोध इति | तथा जैमिनिशास्त्रव्याख्यातॄणां शबरकुमारिलप्रभृतीनां परस्परं व्याख्याविरोधः | नन्वेवं परस्परविरोधेऽपि स्वबुद्ध्या विचार्य यच्छ्रेष्ठं तच्छ्रद्धेयमिति चेदाह ##- बुद्धेः कालभेदेन स्थितिभेदादेकस्यैव पुरुषस्य कालभेदेन विविधतर्कसम्भवादनवस्थानमिति भावः || ६३ || प्. ८४) यद्यस्याभिमतं तत् [ख्: तत्तत् सदित्येव] स वदत्येव सुनिश्चितम् | अन्यच्चाप्यव्यवसितं हानिप्रदमपि प्रिये || ६४ || आचार्यादिपरस्परविरोधमेवाह - यदिति | तत् साधनत्वेन वदति | अन्यत् अनभिमतम् | अव्यवसितं साधनत्वेनानिश्चितम् || ६४ || तत्रैव सति नैवान्तं कश्चिदत्रापि गच्छति | यः शून्यमाह तत्त्वं सोऽप्यशून्यं दूषयेत् परम् || ६५ || तत्र आगमेषु | एवं सति विरोधे सति | अन्तं निश्चयम् | अत्रापि विचारे कृतेऽपि || ६५ || अश्रद्धेयं कुतो वा तत् सङ्गतं चागमेन हि | एतद् ब्रूहि प्रिये सम्यग् नह्येतत्तेऽस्त्यचिन्तितम् || ६६ || शून्यवादिनापि शुङ्गेन शून्यं [क्: शून्यतत्त्व] तत्त्वमुक्तम् | अशून्यतत्त्ववादो दूषितः | आगमेन च तन्मतं सङ्गतमेव तस्मात्तन्मतं कुतो न श्रद्धेयमेतन्मे वदेत्याह - अश्रद्धेयमिति | यद्यप्येष दुरुद्धराक्षेपः तथाप्येतत् त्वया चिन्तिमस्तीति सम्भाव्यते तव सर्वज्ञकल्पत्वादित्याशयेनाह - नह्येतदिति || ६६ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये ज्ञानखण्डे हेमचूडोपाख्याने श्रद्धाप्रशंसनं नाम षष्ठोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां षष्ठोऽध्यायः || ६ || प्. ८५) अथ सप्तमोऽध्यायः इति पृष्टा हेमलेखा भर्त्रा प्रियतरेण सा | प्रोवाच विदुषी सम्यग् विज्ञातलोकसंस्थितिः || १ || अत्राध्याये वेद(ध)पद्यैः श्रद्धापौरुषतर्कतः | शिवं ज्ञात्वाराध्य ततो लभेच्छ्रेय इतीर्यते || विज्ञाता लोकस्य संस्थिरिरधिष्ठानं स्वरूपं [क्: स्वरूपं नास्ति] वा यया || १ || शृणु वक्ष्ये प्रियतम स्थिरस्वान्तः [क्: स्थिरशान्त] समादरात् | मनो हि मर्कटप्रायमस्थिरं सर्वदैव तत् || २ || स्थिरस्वान्तोऽनन्यचित्तः | समादारात् इदं मया श्रोतव्यमेवेत्यभिनिवेशात् | एतद्द्वयस्यापि क्रमेण फलमाह - मन इति | न स्वभावतो मनसः स्थैर्यमिति भावः | यत एवं तत् तस्मात् स्थिरस्वन्त इति योजना || २ || यत एवं महानर्थं प्राप्तवान् प्राकृतो जनः | चलन्मनः सर्वदुःखानिदानं दृष्टमेव हि || ३ || तदस्थैर्यण किं मे भवेदिति चेदाह - यत इति | मनसश्चलनादित्यर्थः || ३ || यतः सुषुप्तौ चलनाभावाद्विन्दति वै सुखम् | तस्मान्मनः स्थिरीकृत्य शृणु यत्ते ब्रवीम्यहम् || ४ || मनसश्चलनादेव दुःखमिति व्यतिरेकतो दर्शयति - यत इति | सर्वोऽपि विन्दति | तस्मादिति | नित्यप्राप्तस्वरूपसुखफलविघटकस्य मनश्चलनस्य श्रवणफलविघटकत्वं सुतरां भवेदेवेति [क्: भवेदिति] तात्पर्यम् || ४ || अनादरेण श्रुतं च भवेदश्रुतसम्मितम् | अफलं स्यात्तदत्यन्तं यथा चित्रतरुश्रयः || ५ || अनादरेण श्रुतम् | अश्रद्धया असमाहितमनसा आपाततः श्रुतम् | अफलमिति | नास्ति फलं यस्य तत् | नह्येतद्वक्ष्यमाणं गानमिव श्रुतिमात्रेण फलावहम् किन्तु मननादिद्वारेण [ख्: मननाद्विचारेण] | तथा चादराभावे मननादावप्रवृत्तेः चित्रलिखितवृक्षाश्रयवद् व्यर्थं श्राणं स्यादिति भावः | तत् श्रवणम् || ५ || प्. ८६) अनवस्थिततर्कत्व(र्कं तं)मपहाय विनाशनम् | सत्तर्कमाश्रित्य जनः प्राप्नुयात् सुफलं द्रुतम् || ६ || सत्तर्कसंश्रयेणाशु साधनैकपरो भवेत् | सत्तर्कजनितां श्रद्धां प्राप्येह फलभाग् नरः || ७ || ननु मम शुष्कतर्कं सन्त्यज्य त्वदुक्तौ विश्रब्धस्यापि सत्तर्कपरस्य न फलप्राप्तिर्दृश्यते ? इति चेदाह - साधनैकपर इति | नन्वलं सत्तर्केण कुतर्कयापि मे साधनपरत्वेनैव फलं भवेदिति चेदाह - सत्तर्केति | कुतर्कस्य वक्ष्यमाणसत्तर्कमूलकेश्वरसिद्धेर्दुर्घटत्वेन तदाराधनश्रद्धा दूरतोऽपास्तेति केवलाराधनस्य अश्रद्धया हुतं दत्तम् .... न च तत् प्रेत्य नो इह (भ्० गी० १७|२८) इति नीत्या निष्फलत्वमिति [क्: निष्फलमिति] सत्तर्कजनितश्रद्धया साधनपर एव फलभाग् भवतीत्याशयः || ७ || अनवस्थिततर्कं तं विहायालोकय प्रिय | प्रवृत्तिमेतां जगतः श्रद्धया फलशालिनीम् || ८ || तं प्रसिद्धत्वेन [क्: प्रसिद्धं] त्वयि स्थितम् | अनवस्थिततर्करहितानां श्रद्धावतां फलशालिनीं प्रवृत्तिमवलोकय | तत्फलस्य न परोक्षत्वमिति भावः || ८ || सुतर्कितेन कालेन कर्षकः क्ष्मां विकर्षति | श्रद्धयैव तथा रूप्यस्वर्णरत्नौषधादिकम् || ९ || तां प्रवृत्तिमेवाह - सुतर्कितेनेति | आगमाविरुद्धस्तर्कः सुतर्कः | शास्त्रोक्तहलप्रवाहणयोग्यस्तर्कितानावृष्ट्यादिसस्यप्रतिबन्धाभाववांश्च् अ यः कालः तेन निमित्तेन कर्षति | न तु तर्कानवस्थित्या सर्वत्राश्रद्धया त्वमिव तूष्णीं तिष्ठतीति भावः || ९ || प्. ८७) व्यवस्यन्ति सुतर्केण त्यक्त्वा तर्कानवस्थितिम् | तस्मात् सुतर्कश्रद्धाभ्यां व्यवस्य श्रेय आत्मनः || १० || तथा पूर्वस्मादिदमतिसूक्ष्मलक्षणमपि स्वर्णादिकमेतावन्मौल्यार्हमेवंविधगुणमेतद्रोगहरमिति परीक्षका आगमतर्काभ्यामेव व्यवस्यन्ति प्रायो न विसंवाद्यन्ते चेत्याह - व्यवस्यन्तीति | सुतर्कः पुरुषः क्वचिद्विसंवाद्यते न त्वनवस्थिततर्कवत् सर्वशून्यत्वेनात्मापहारं प्राप्नोतीति यतः तस्मात् | आत्मनः श्रेयो व्यवस्य निश्चित्य तत्साधनाय येतेदिति सम्बन्धः || १० || प्रयतेत्तत्साधनाय [क्: प्रयतेत सा] नहि तर्कानवस्थितेः | विरमेत् पौरुषाद् यत्नाच्छुङ्गानुगनरा इव || ११ || शुङ्गानुगता नरा इवासत्तर्केण सर्वशून्यत्वं सम्भाव्य पौरुषयत्नविमुखो न भवेदित्याह - नहीति || ११ || श्रद्धया पौरुषपरो न विहन्येत [क्: न्यते] सर्वथा | दृढं पौरुषमाश्रित्य न प्राप्येत कथं फलम् || १२ || पौरुषं पुरुषयत्नः [घ्: प्रयत्नः] | फलाप्राप्त्या [क्, ख्: फल] न विहन्येत [क्: न्यते] | केषाञ्चित् फलाभावो ह्यदृढपौरुषादित्याह [घ्: ह्यदृष्ट] दृढमिति || १२ || पौरुषात् कर्षका धान्यं वणिजो धनमेव च | राज्यलक्ष्मीं नृपा विप्रा विद्यां सर्वसुखाश्रयाम् || १३ || दृढपौरुषयोगान्नाफलमिति [क्: न्न फलमिति; घ्: नां फलमिति; ख्: न्न फलं कथमिति] सप्रत्ययमाह - पौरुषादिति || १३ || शूद्रा भृतिं सुधां देवास्तापसा लोकमुत्तमम् | प्रापुरन्येऽप्यभिमतं पौरुषेणैव कर्मणा || १४ || अनवस्थिततर्केणाश्रद्धेन पुरुषेण किम् | कदा किञ्चित् कथं प्राप्तं फलं वद विमृश्य तत् || १५ || किञ्चिदपि किं फलं कदा काले साधनं विना कथं प्राप्तम् || १५ || प्. ८८) क्वचित् फलविसंवादात् सर्वत्राश्वासवर्जने | विजानीयाद् दैवहतं तं स्वात्मरिपुरूपिणम् || १६ || ननु कर्षकादीनामपि क्वचित् फलाभावो दृश्यत इति चेत्तावतैवाप्रवृत्तिर्मर्ख्यमूलैवेत्याह - क्वचिदिति | आश्वासः श्रद्धा || १६ || अतः पौरुषमाश्रित्य श्रद्धासत्तर्कपोषितम् | श्रेयसां यन्मुख्यतमं साधनं तत् समाश्रयेत् || १७ || श्रद्धासत्तर्काभ्यां पोषितम् | सत्तर्केण श्रद्धोदयः श्रद्धया च पौरुषस्य वृद्धिर्भवेदिति भावः | ननु श्रेयःसाधनमपि कर्मयोगादिकं शात्रेषु बहुविधं प्रसिद्धम् तत्र कतमं (मत्) साधनं समाश्रयेदिति चेदाह - श्रेयसामिति || १७ || तत्र दृष्टं [क्: दृष्टसाध] साधनानां वैचित्र्यं च पृथग्विधम् | तेषु यत् सर्वथा साध्यं साधयेत्तद्धि मुख्यकम् || १८ || ननु [क्: ननु नास्ति] श्रेयःसाधनस्य मुख्यत्वं किं तदिति चेदाह ##- विचित्रत्वेन पृथग्दृष्टेषु साधनेषु | साध्यं फलं सर्वथा यत् साधयेत् | नेहाभिक्रमनाशोऽस्ति (भ० गी० २|४०) इत्यादिनीत्या फलविपर्ययो नेत्युक्तम् - सर्वथेति || १८ || तत् सुतर्कानुभूतिभ्यां व्यवस्याशु समारभेत् | तत्ते सर्वं प्रवक्ष्यामि सावधानः [ख्: धानं] शृणुष्व तत् || १९ || एतदपि वा कथं निश्चेतव्यमिति चेदाह - तदिति | व्यवस्य निश्चित्य | तत्र नृदेहस्य श्रेयोनिदानस्य दुर्लभस्य मृत्युग्रस्तत्वेनाह - आश्विति | निश्चयो वा मम कथं स्यादिति चेदाह - तदिति | मुख्यं श्रेयस्तत्साधनं चेत्यर्थः || १९ || श्रेयस्तद्धि विजानीयाद्यस्माद् भूयो न शोचति | शोकः सर्वत एव [ख्: एवास्य] स्याद् दृश्यते सूक्ष्मया दृशा || २० || तत्रादौ मुख्यं श्रेयःपदार्थमाह - श्रेय इति | ननु तादृशं धनादिकमेवेति चेन्नेत्याह - शोक इति | कथं धनादेः शोक इति चेदाह ##- दृश्यते || २० || प्. ८९) यच्छोकैरनुसंभिन्नं न तच्छ्रेयो हि सर्वथा | धनं पुत्रास्तथा दारा राज्यं कोशो बलं यशः || २१ || तदेवाह - यदिति | अनुसंभिन्नं युतम् || २१ || विद्या बुद्धिर्दर्शनं च देहः सौन्दर्यसम्पदः | सर्वमेतदस्थिरत्वात् कालसर्पमुखस्थितम् || २२ || अन्तरमाह - विद्येत्यादि | दर्शनं करणम् | सौन्दर्यस्य सम्पदः प्राप्तयः | एतत् सर्वं नाशग्रस्तमिति शोकावहत्वाद् दुःखयुतमित्याह [ग्: युत नास्ति] सर्वमिति || २२ || शोकाङ्कुरमहाशक्तिबीजात्मकतया स्थितम् | कुत आत्यन्तिकश्रेयःसाधनत्वं समर्हति || २३ || शोकाङ्कुरोत्पादने महाशक्तियुतबीजवद् अङ्कुरशक्तेः साधारणोपायैरनाश्यत्वमिति भावः | तस्मादेवंविधस्य नैवात्यन्तिकश्रेयःसाधनत्वमित्याह - कुत इति || २३ || अतः परमकं श्रेय एतद्वै मुख्यतो भवेत् | एवं धनादिविषये यदादेयत्वविभ्रमः || २४ || अतो धनादेरसाधनत्वात् [क्: देः साध] | श्रेयः श्रेयः साधनम् | एतद् वक्ष्यमाणं देवताराधनम् | कथं देवताराधनेनैव श्रेयोलाभ इत्येतन्निरूपयितुमिह - एवमिति | श्रेयःसाधनत्वेनेत्यर्थः | यदिति | यो विभ्रम इत्यर्थः || २४ || मोहादेव समुद्भूतो मोहको हि महेश्वरः | यो हि सर्वजगत्कर्ता तस्मात् सर्वे हि मोहिताः || २५ || कोऽयं मोहक इति चेदाह - महेश्वर इति | कथम्भूतो महेश्वर इति चेज्जगत्कर्तृत्वेन सिद्धो नापह्नवनीय इत्याह - यो हीति || २५ || प्. ९०) मोहयत्यल्पकोऽपीह विद्याभागसमाश्रयत् | कांश्चिदेव न सर्वान् स यस्माद्विद्या हि सा मिता || २६ || कथमस्यैवं सामर्थ्यमिति चेदाह - मोहयतीति | अल्पको देहादिपरिच्छिन्न ऐन्द्रजालिकः | अस्य विद्या मितेति न सर्वमोहकत्वम् || २६ || अल्पविद्यं मायिनं चाप्यनुत्क्रान्ता जना यतः | महादेवं महामायं कः समुत्क्रान्तुमर्हति || २७ || मायिनमप्रसाद्य तन्मोहतरणमशक्यमित्याह - अल्पविद्यमिति || २७ || यो हि लोकेऽल्पमायां च जानाति प्रतिविद्यया | स मोहान्निर्गतः स्वस्थः सुखमाप्नोत्यनश्वरम् || २८ || अल्पमायाम् | निरोद्धुमिति शेषः | स्वस्थः तन्निर्मितसर्पादिभयरहितः | अनश्वरं तन्माययाऽविनाश्यम् || २८ || एवंविधापि विद्या तमनाश्रित्य तु मायिनम् | न लभ्या सर्वथा यावदप्रसाद्य तु सर्वथा || २९ || एवंविधापि अल्पमायाप्रतिरोध्री [क्, ख्: रोधिविद्या] विद्यापि | तम् अल्पमायिनम् | यावत् यस्मात् | अनाश्रित्य सर्वथा धनदानसेवनाद्यैरप्रसाद्य न लभ्या | सर्वथा तमप्रसाद्येत्यग्रिमेण सम्बन्धः || २९ || तस्मान्महामायिनं तमप्रसाद्य कथं भवेत् | महामोहस्य तरणं तस्मात्तं सर्वथा श्रयेत् || ३० || तस्मात् अप्रसादने मोहतरणाभावात् || ३० || यस्तं प्रसादयेत् सम्यक् प्राप्य तस्य प्रसादतः | महाविद्यां स तन्मोहाद् ध्रुवमुत्क्रान्तिमेष्यति || ३१ || सम्यक् अकापट्येन | महाविद्याम् अद्वितीयशिवात्मविद्यां प्राप्य महामायास्वरूपं वेदेति शेषः | तन्मोहात् महामायाकृतमोहात् || ३१ || अन्येऽपि योगाः कथिताः श्रेयःसाधनकर्मणि | महेश्वरप्रसादात्ते विना न स्युः फलाप्तये || ३२ || योगाः युक्तयः प्रणायामादिरूपाः | श्रेयःसाधनकर्मणि हेतुत्वेनेति शेषः || ३२ || प्. ९१) तस्मादाराधयेदादौ महेशं विश्वकारणम् | भक्त्या स साधयेदाशु योगान्मोहविनाशनान् || ३३ || तस्मादिति | यस्मादीश्वराराधनं विना किमपि साधनं फलपर्यवसाइ न भवेत्तस्मादित्यर्थः | आदाविति | सर्वसाधनोपक्रम इत्यर्थः | कुत एवमिति चेदाह - विश्वकारणमिति | तस्य सर्वकर्तृत्वेन तदनुग्रहं विना न किञ्चित् सेत्स्यतीति भावः || ३३ || एतज्जगत् कार्यभूतं प्रत्यक्षं परिदृश्यते | सांशमेवं पृथिव्याद्यमदृष्टारम्भमप्यलम् || ३४ || कथमेष ईश्वरो जगत्कर्तृत्वेन सिध्यतीत्याशङ्क्येश्वरं प्रसाधयितुमुपक्रमते - एतदिति | प्रत्यक्षेण दृश्यमानमित्यर्थः | तच्च जगत् कार्यभूतमेव [क्: मेवं] प्रत्यक्षं यथा तथा [ग्: तथा नास्ति] परिदृश्यते] | ननु घटादीनां कार्यभूतमेव [घ्: तु नास्ति] पृथ्वीसमुद्रगिर्यादीनामिति चेत् तेषामपि सांशत्वेन हेतुना कार्यत्वं सेत्स्यतीत्याह - सांशमिति | अदृष्टारम्भमपि अदृष्टोत्पत्तिकमपि पृथिव्यादि || ३४ || कार्यं स्यादिति तर्केण बह्वागमदृढेन तु | व्यवस्येत्तत्र कर्तारं सर्वकर्तृविलक्षणम् || ३५ || यत् सावयवं तत् कार्यमिति तर्केण पृथिव्याद्युत्पत्तिमदिति भावः | नन्वेवमपि परमाण्वाकाशादीनां निरवयवत्वेनाकार्यत्वान्न जगन्मात्रं कार्यभूतमिति चेन्न वेद्यत्वेन हेतुना कार्यत्वसिद्धेः | न च निरवयत्वेन कार्यत्वाभावः साधयितुं शक्यः वेद्यत्वहेतुकानुमानस्य [क्: वेद्यत्वे] वह्वागमसंवादेन दृढतरत्वादित्याह - वह्वागमेति | तथा चागमः - द्यावाभूमी जनयन् देव एकः (ऋग्० १०|८१|३) आत्मन आकाशः सम्भूतः (तैत्ति० उ० २|१|१) आकाशवायुप्रमुखं दृश्यं सर्वं ससर्ज सः इत्यादयः | तथा च दृश्यमात्रस्य जगतः कार्यत्वे सिद्धे तत्र जगति कार्यत्वेन कर्तृपूर्वकत्वं साधयेदित्याह - व्यवस्येदिति | तत्र पृथिव्यादौ कर्तारं निश्चयविषयीकुर्यादित्यर्थः | ननु घटादितत्तत्कार्येषु सिद्धकुलालादिभिः सिद्धसाधनमित्याशङ्क्याह - सर्वकर्तृविलक्षणमिति | नासदासीन्नो सदासीत्तदानीम् (ऋग्० १०|१२९|१) पुरा सृष्टेरिदं दृश्यं नाणुमात्रमपि स्थितम् इत्याद्यागमानुरोधेनानादिसृष्टाबुपादानाद्यभावात्तदनपेक्षणात् सर्वकर्तृविलक्षण एष कर्ता साधित इति भावः || ३५ || प्. ९२) यद्यप्यकर्तृकं लोकमाह कश्चिदिहागमः | तदनेकैरागमैस्तु तर्करूढैः सुबाधितम् || ३६ || नन्वागमसंवादाद्यथा जगत्कार्यत्वगमकस्तर्को दृढस्तथाऽकार्यत्वानुमापकस्तर्कोऽपि दृढः कुतो न भवेत् ? अकर्तृको ह्ययं लोकः स्वभावैकसमाश्रयः इत्यादिबार्हस्पत्यागमसंवादादित्याशङ्क्य नैष सदागमः किन्त्वागमाभास एवेति चार्वाकमतप्रक्षेपायोपक्रमते यद्यपीति | कश्चिदागमश्वार्कागमः | अत्रेयं चार्वाकप्रक्रिया - भूमिरापोऽनलो वायुरिति तत्त्वचतुष्टयम् | प्रत्यक्षमानसंसिद्धं पञ्चमं नहि विद्यते || एतत्संघात्मको लोकः प्रतिक्षणविभेदितः | पूर्वपूर्वजगज्जालसदृशं चोत्तरोत्तरम् || एवंस्वभाव एवैष लोकः स्वस्मिन् प्रतिष्ठितः | गुडोदकादौ स्वाभाव्याद् मदशक्तिर्यथोद्भवेत् || एवं स्त्रीगर्भनिहिते शुक्रशोणितबुद्बुदे | उत्पद्यते हि चैतन्यं क्रियाज्ञानसमाश्रयम् || मदशक्तियुतं तोयं मद्यमित्युच्यते यथा | एवं चैतन्यसंयुक्तो देहः पुरुष उच्यते || सुखं पुमर्थः स्वर्गः स्याद् दुःखं तु नरको भवेत् | प्रवर्तते [क्: र्तकदय] द्वयं चैतत् स्वभावादेव नान्यथा || सुखदुःखाभास एव [क्: एवं] संसारः प्रणिगद्यते | मदिरामदशक्तेस्तु यथा नाशः स्वभावतः || एवं चैतन्यनाशो हि मोक्ष इत्युच्यते बुधैः | मृतस्य नास्ति स्वर्गो वा नरको वापि कश्चन || इति [क्: इति नास्ति] | तत् चार्वाकशास्त्रम् अनेकैः आस्तिकनास्तिकसम्बन्धिभिः आगमैः तर्करूढैः अनुगततर्कैर्बाधितम् अतस्त्याज्यमेवेति सम्बन्धः || ३६ || प्. ९३) यत्रात्मनाश एवार्थः प्रत्यक्षैकसमाश्रयात् | तदागमाभासमेव न तद्धि महदाश्रयम् || ३७ || अनेकागमविरोधादाभासत्वमुक्तम् | सम्प्रति सर्वानुभवविरोधाच्च तथात्वमाह - यत्रेति | जननमरणादिप्रवाहरूपः संसारो दुःखरूपत्वाद्धेयः | एतस्य [क्: एतत्सं] संसारस्य निमित्ताभावसम्पादनेनाभावे [क्: भावा] सति महासुखस्वरूपानुभवो मोक्षः परमपुरुषार्थरूपोऽत एव सर्वैरुपादेय इति हि मोक्षस्य पुरुषार्थत्ववादिनां मतं तर्कागमाद्यैर्व्यवस्थितम् | एवं सति प्रत्यक्षैकप्रमाणसमाश्रयादात्मनाश एव पुरुषार्थ इति यत्र शास्त्रे उक्तम् तदागमाभासमेव | अत एव तच्छास्त्रं न महतां सारासारविवेचकानामाश्रयं पुरुषार्थप्रयोजकत्वेनोपादेयम् | आत्मनाशः पुरुषार्थ इति वदन् चार्वाकः प्रष्टव्यः - किमात्मनाशो यः [क्: नाशोऽयं] कश्चन पुरुषार्थः ? उत तत्समुदायः ? आहोस्विदात्मसामान्यनाशः ? नाद्यः आत्मनस्तव मते क्षणिकत्वेन यत्किञ्चिदात्मनाशस्य प्राप्तत्वात् इतरयोरसम्भवात् | नापि स्वात्मसन्ताननाशः स्वात्मनाशकाले स्वस्यासत्त्वेन स्वात्मनाशस्याप्राप्तव्यत्वेनापुरुषार्थत्वात् | अप्राप्तव्यस्यापि पुरुषार्थत्वेऽन्यात्मनाशस्यापि पुमर्थत्वप्रसक्तेः | अथ च स्वात्मनाशः प्रमाणेन सिद्धोऽसिद्धो [क्: असिद्दो ...... प्रमाणेन सिद्धः? नास्ति] वा पुरुषार्थ इत्युच्यते ? असिद्ध इति चेत् नरविषाणस्यापि तथात्वापत्ति | सिद्ध इति चेत् ? केन प्रमाणेन सिद्धः ? प्रत्यक्षं हि सन्निकर्षनिमित्तकं नातीतानागतयोः सम्भवति | न ततोऽन्यत् प्रमाणमनुमानाद्यभ्युपगम्यते त्वया | प्रत्यक्षमात्रं प्रमाणं वदता त्वया गुडोदकादौ मदशक्त्युद्भवादेर्दृष्टान्तत्वनिरूपणेन चैतन्याद्युद्भवादिसाधनमपि नास्ति [क्: तन्नास्ति] मे जिह्वेति कथनतुल्यमित्यादि ज्ञेयम् || ३७ || प्. ९४) शुष्कतर्कैकसंकॢप्तं शास्त्रं तत् त्याज्यमेव हि | अन्यैरप्युच्यते कैश्चिद् जगदेतत् सनातनम् || ३८ || न तच्छास्त्रं सर्वज्ञप्रणीतमित्याह - शुष्केति | शुष्कः उपपत्तिरहितो यस्तर्कः | तदेकसकॢप्तं तन्मात्रमूलकमित्यर्थः | एवं प्रकृतपक्षप्रतिपक्षभूतं चार्वाकमतं निरस्य तथाविधमेव सांख्यमतं निराकर्तुमनुक्रमते - अन्यैरिति | सनातनं सद्रूपमित्यर्थः | ते हि परिणामवादिनो जगत् कारणान्तर्भावेन सदेवेत्याहुः || ३८ || अबुद्धिमत्कर्तृकं चेत्येतच्चाप्यसमञ्जसम् | क्रियाया बुद्धिपूर्वत्वादबुद्धौ तददर्शनात् || ३९ || अबुद्धिमदिति | गुणसाम्यावस्थात्मकं प्रकृतितत्त्वं जगन्मूलकारणम् | तच्च अबुद्धिमत् [क्, घ्: बुद्धि] चितिक्रिअयारहितं जडम् | यथा हि मृत्पिण्डो घटात्मना परिणममानः कुलालं कर्तारमपेक्षते न तथा प्रकृतितत्त्वं जगद्रूपेण परिणममानं स्वातिरिक्तं कञ्चित् कर्तारमपेक्षते | अतो जगत्क्रियायां स्वतन्त्रमिति जगत्कर्तृभूतमित्यर्थ इत्येतदनीश्वरं सांख्यमतम् | अत्र हि प्रकृतिः सत्त्वांशेन दर्पणतुल्येन स्वान्तः शुद्धचिद्रूपं पुरुषं स्वीयतमोऽशमयं च दृश्यं प्रतिबिम्बत्वेन गृह्णाति | एवं प्रतिबिम्बभूतद्रष्टृदृश्यसम्बन्धादेव प्रकृत्यविवेकमापन्नः पुरुषो घटमहं जानामिति मृषाभिमानेन युज्यते | अयमेव पुरुषस्य संसारः | यदा हि पुरुषो विचारेण प्रकृतेर्विविक्तमात्मानं जानाति तदा ज्ञातचोर इव तत्पुरुषविषये प्रकृतेरनुपसरणात् पुरुषप्रतिबिम्बाग्रहणेन मृषाभिमानाभावान्मुच्यत इति तन्मतम् | अत्र हि प्रकृतौ प्रतिबिम्बभूतचित्सम्बन्धाद् दृशप्रकाशोऽभ्युपगतः | तत्र प्रतिबिम्बभूता चित् किमाश्रयवज्जडरूपा ? उत स्वनिमित्तमुख्य(चिद्वच)चिद्रूपा वा? आद्ये जडस्य दृश्यप्रकाशत्वानुपपत्तिः | जडस्य दृश्यप्रकाशत्वाभ्युपगमे प्रकृतिसत्त्वांशसम्बन्धेनैव सर्वोपपत्तौ चित्प्रतिबिम्बकल्पनवैयर्थ्यापत्तेः | द्वितीयेऽपि दृश्यस्य मुख्यचित्सम्बन्धोपगमाच्चित्प्रतिबिम्बवैयर्थ्यमेव | न च दर्पणस्य घटाद्यप्रकाशकत्वेऽपि तत्प्रतिबिम्बितसौरातपस्य गौणस्य घटादिप्रकाशकत्ववच्चितिप्रतिबिम्बस्यैव दृश्यप्रकाशकत्वमिति वाच्यम् सौरातपप्रतिबिम्बस्यालोकवद् घटादिप्रकाशसहकारित्वेनाप्रकाशकत्वात् | नापि प्रतिबिम्बभूतचितश्चिज्जडोभयरूपत्वमुभयविलक्षणत्वं वा [क्: वा नास्ति] वक्तुं युज्यते विरोधादपसिद्धान्ताच्च | अथ च स्वभावस्यान्यथाभावानुपपत्तेः पुरुषं प्रति प्रवृत्तिस्वभावायाः प्रकृतेर्विवेकज्ञानानन्तरं [ख्, ग्, घ्: नोत्तरं] निवृत्तिस्वभावताऽनुपपत्त्या बन्धस्य परिहार्यत्वमित्याद्यभिसन्धायाह ##- कुलालादिबुद्धिपूर्वत्वात् एवम्भूतं घटमेवं करोमीति बुद्धिमत्पूर्वकत्वाद् घटाद्युत्पत्तेरबुद्धिमत्प्रकृतिकर्तृकत्वं न जगत् इति भावः | अबुद्धाविति | चित्रलिखितकुलालादौ घटादिक्रियादर्शनात् || ३९ || प्. ९५) वह्वागमोपष्टम्भाच्च कर्ताऽत्र स्याद्धि बुद्धिमान् | बुद्धिमत्कर्तृकं कार्यं सर्वत्रैव हि दर्शनात् || ४० || बह्विति | स ईक्षत लोकान्नु सृजा (ऐत० उ० १|१) इति नामरूपे व्याकरवाणि (छा० उ० ६|३|२) इति आदिकर्ता हि भगवानादावालोच्य वै जगत् | योगीव निरुपादानं प्रविविक्तमकल्पयत् || इत्यादि बह्वागमः उपष्टम्भ आश्रयभूतोऽनुकूलो यस्यैवंविधाद् जगद् बुद्धिमत्कर्तृकं कार्यत्वाद् घटादिवदिति बलवत्तर्काद् बुद्धिमानेव जगत्कर्ता भवेन्नाबुद्धिमतो प्रकृतिरित्यर्थः | कार्यस्य बुद्धिमत्कर्तृकत्वे दृष्टान्तदौर्लभ्यं परिहरति - सर्वत्रैवेति [क्: सर्वत्रैवेति] | सांख्यमते जडस्य प्रकृतितत्त्वस्य कर्तृत्वसाधने दृष्टान्तदौर्लभ्यवन्नात्रेति भावः || ४० || प्. ९६) एवं सत्तर्कागमाभ्यां जगदेतत् सकर्तृकम् | स कर्ता लौकिकेभ्यस्तु कर्तृभ्यः स्याद्विलक्षणः || ४१ || सकर्तृकं सिद्धमिति शेषः | ननु घटादिकर्ता कुलालादिरिवादिकर्तापि पुरुषः कश्चन सिद्ध्यतु तस्य पुनर्न परमेश्वरत्वं सिद्ध्यतीत्याशङ्क्याह - स कर्तेति || ४१ || कार्यस्याचिन्त्यरूपत्वादचिन्त्यानन्तशक्तिकः | अपरिच्छिन्नसामर्थ्यः कार्यस्यानुगुणत्वतः || ४२ || तत्र हेतुः - अचिन्त्यरूपत्वादिति | कथं जले स्थिता पृथ्वी जलं वापि कथं दिवि इत्यादिरीत्या कार्यस्याचिन्त्यता [क्: काय] ज्ञेया | लौकिककर्तृवैलक्षण्यमेवाह - अचिन्त्येति | एवंविधा एतावतीति तच्छक्तिर्न चिन्त्या नापि सान्ता | एतदेव निष्कृष्याह - अपरिच्छिन्नेति | लोके कार्यानुगुण [क्: कार्यगुण] ज्ञेया | लौकिककर्तृवैलक्षण्यमेवाह - अचिन्त्येति | एवंविधा एतावतीति तच्छक्तिर्न चिन्त्या नापि सान्ता | एतदेव निष्कृष्याह - अपरिच्छिन्नेति | लोके कार्यानुगुण [क्: कार्यगुण] एव कर्ता दृष्ट इत्यपरिच्छिन्नजगतोऽपरिच्छिन्नसामर्थ्य एव कर्तेति भावः || ४२ || स प्रपन्नान् समुद्धर्तुं प्रभवत्येव सर्वथा | अतस्तं सर्वभावेन शरणीकुरु सर्वदा || ४३ || एवावता ग्रन्थेनेश्वरं प्रसाध्य सम्प्रति तस्य शरण्यत्वमाह - स प्रपन्नानिति | यत एवमतस्तं जगत्कर्तारम् | सर्वभावेन निष्कामत्वेनेत्यर्थः | ये कामिनस्तेषाम् अर्धो भावोऽर्धं चित्तं काम्ये तिष्ठति अर्धमीश्वर इति भावः || ४३ || निदर्शनं तेऽभिधास्ये शृणु प्रत्ययकारणम् | मितेश्वरोऽप्यत्र [ग्: प्रीतेश्वरो; घ्: मितेश्वरे] लोके चाकापट्यात् प्रसादितः || ४४ || सर्वभावेन शरणीकृता ते फलप्राप्तौ निदर्शनं दृष्टान्तः | प्रत्ययो विश्वासः | अकापट्यात् सर्वभावेन || ४४ || प्. ९७) सर्वात्मना योजयति स्वेष्टार्थैः श्रेयसे नरम् | एष लोकेश्वरो देवः सम्यग् येन प्रसादितः || ४५ || सर्वात्मना कायवाङ्मनोभिः प्रसादित इति सम्बन्धः | श्रेयसे सुखाय || ४५ || तस्मै किं न दिशेद् ब्रूहि भक्तलोकैकवत्सलः | पुरुषा हीश्वरा लोके चानवस्था अवत्सलाः || ४६ || तस्मै उपासकाय | इष्टं न दिशेत् किम्? अपि तु दिशेदेवेत्यर्थः | यद्वा किमिष्टं न दिशेदपि तु सर्वं दिशेदेव | ननु मितेश्वराणां स्वस्य समीहितसेव्यभावसम्पत्त्या सन्तोषादिष्टार्थप्रदानं युज्यते | परमेश्वरस्य [मितैश्वरस्याप्राप्तकामत्वेन कामाप्तौ संतोषानुभवो युज्यते परमेश्वरस्य तु प्राप्तकामत्वेन नैव तत्र संतोषस्यासंतोस्ऽस्य वा संभावना संतोषानुभव एव चोपासितस्येप्सितफलदातृत्वे प्रयोजक इति नन्वित्यादि चेदाहेत्यन्तस्य ग्रन्थस्याशयः] प्राप्तकामत्वेन [ख्, ग्, घ्: आप्त] संतोषाभावात् कथमुपासितस्येप्सितदातृत्वमिति चेदाह - भक्तलोकैकवत्सल इति | तस्य भक्तेषु वत्सलस्वभावत्वादेव फलदानं युज्यत इति भावः | किञ्च मितेश्वरेभ्यः फलप्राप्तिरनियता परमेश्वरात्तु नियतेत्याह - पुरुषा इति || ४६ || निर्दयाश्च कृतघ्नाश्च तस्मात् तत्फलमस्थिरम् | परमेशो दयासिन्धुः कृतज्ञः [क्: कृतिज्ञः] सुव्यवस्थितः || ४७ || तस्मात् अनवस्थात्वादिधर्मचतुष्टययुतत्वात् [क्: युक्तात्] | अस्थिरम् अनियतम् | ईश्वरस्तु नैवंविध इत्याह - परमेश इति | यत एवमतः फलप्राप्तिर्भवेदेवेति शेषः || ४७ || अन्यथाऽनादिसंसारे कुतोऽनिन्द्यत्वमाप्नुयात् | व्यवस्थिता जगद्यात्रा [क्: जगद्धात्रा] चापि वा स्यात् कथं वद || ४८ || कुत एतन्निश्चितमिति चेदाह - अन्यथेति | अवत्सलत्वादिसत्त्वेऽनिन्द्यो न भवेत् अनवस्थश्चेत् तत्कृता लोकयात्रा व्यवस्थिता न भवेदिति भावः || ४८ || प्. ९८) अनवस्थस्य राज्यं तु नष्टमालोक्यते यतः | तस्मादेष [क्: तस्मादेव] दयासिन्धुः सुव्यवस्थश्च कीर्तितः || ४९ || अनवस्थेति | ईश्वरस्यानवस्थितत्वे तत्सृष्टः संसारोऽकाल एव नश्येदिति भावः || ४९ || तमेव सर्वभावेन भक्त्याशु शरणीकुरु | श्रेयसि त्वां योजयेत् स त्वं न तत्परतां व्रज || ५० || सर्वभावेन निष्कामत्वेन | श्रेयसि परश्रेयःसाधने | त्वं न तत्परतां व्रजेति | परश्रेयःसाधनस्य दुर्विज्ञेयत्वेन त्वं न तत्परो भव किन्तु त्वं सम्प्रतीश्वरमाराधय | त्वदाराधनेन प्रसन्न ईश्वरस्त्वां तत्र योजयेदिति भावः | एतेन मतभेदेषु साधनभेदसत्त्वात् किं साधनमुपादेयमिति शङ्का प्रक्षिप्ता ज्ञेया || ५० || उपासनं [क्: सने] बहुविधमार्त्त्यार्थार्थित्वतोऽपि च | निर्हेतुकं तु क्वाचित्कं तत् सत्योपासनं भवेत् || ५१ || निष्कामत्वेनेश्वरभजनमेव सर्वथा फलप्रदमिति [क्: फलमिति] वक्तुमाह - उपासनमिति | आर्त्या रोगादिकृतपीटया अर्थार्थित्वतः धनादिलिप्सया वा | आभ्यां कृतमुपासनं प्रसिद्धं सर्वत्र | निर्हेतुकं निष्कामोपासनं सत्योपासनम् सत्यफलसहितत्वात् || ५१ || दृष्टमेतत् सर्वतो वै चार्तेनोपासितः प्रभुः | कदाचिद् दययाविष्ट वार्त्ति तस्य विमोचयेत् || ५२ || एतदेव लौकिकदृष्टान्तेनोपपादयति - दृष्टमेतदिति || ५२ || उपेक्षेत कदाचिद्वोपास्तेर्वै तारतम्यतः | एवमेवार्थार्थिनोऽपि मितं चानियतं फलम् || ५३ || तारतम्यत इति | उपास्तेराधिक्ये आर्ति मोचयेदन्यथोपेक्षेतेति भावः | एवमिति | उपास्तितारतम्यादर्थप्राप्तिरप्राप्तिर्वा | एवं कामिनामुपासनफलमनियतं मितं च यदर्थमुपासनं तस्य परिमितत्वात् उपास्यस्य कृतघ्नत्वे फलाप्राप्तेश्चेति भावः || ५३ || प्. ९९) निर्हेतुकोपासकस्य ज्ञात्वा निर्हेतुतां चिरात् | मितेश्वरोऽप्यव्यवस्थस्तदधीनो भवत्बलम् || ५४ || तदधीनः उपासकाधीनः || ५४ || निर्हेतुकत्वज्ञानाय चिरं स्यादज्ञभावतः | एष सर्वेश्वरो देवो हृदयेशोऽखिलस्य तु || ५५ || मितेश्वरस्य स्वोपासकनिर्हेतुकत्वज्ञानाय [क्: उपा] कालविलम्बापेक्षास्ति ईश्वरस्य तु न साऽपीत्याह - एष इति | अन्तर्यामित्वेनाखिलहृदयस्थितत्वाद् हृदयेशः || ५५ || सर्वं जानाति तत्काले फलं दद्याच्च सत्वरम् | आर्तमर्थार्थिनं देवस्तदर्थेनाभियोजितुम् || ५६ || यतः सर्वमुपासकहृद्गतमपि स्वभावत एव जानाति अतस्तत्काले उपासनारम्भकाले एव | अत्रार्थार्थार्थिनोरपि [क्, घ्: र्तार्थि] नैव सत्वरं फलं प्रयच्छति किन्तु कर्मपरिपाकानन्तरमित्याह - आर्तमिति | तदर्थेन कामितार्थेन || ५६ || स्वनियत्या कर्मपाकं प्रतीक्ष्य फलमादिशेत् | निर्हेतुकोपासकं स्वमनन्यशरणं विभुः || ५७ || स्वनियतिः स्वकृत [ख्: स्वकृत] इदमित्थं भवेदिति संकल्पः | तया युतः | तामनुल्ल्ङ्घ्येति यावत् | कर्मपाकमिति | अत्रेदमवधेयम् - कर्मणः पाकः फलप्रदानसामर्थ्यम् | तच्च क्वचित् कर्मणां कालविशेषकृतम् क्वचित् कर्मान्तरसहकारकृतम् | कर्मान्तरसहकृतमेवोत्कटं कर्मेत्युच्यते | यदुक्तं शिवागमे - कर्मणः परिपाकस्तु कालात् कर्मान्तरादपि इति | अन्यत्रापि - अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते इति | एवंविधकर्मपाकं प्रतीक्ष्येत्यर्थः | स्वं स्वीयमित्यर्थः || ५७ || प्. १००) ज्ञात्वा सर्वात्मना तस्य योगक्षेमवहो भवेत् | अप्रतीक्ष्य [क्: अप्रतीक्ष्यं] कर्मपाकं नियतिं स्वां विधूय च || ५८ || तं स्वीयं ज्ञात्वा | सर्वात्मना मनोवागादिभिः | योगक्षेमवहः | अप्राप्तस्य प्राप्तिर्योगः प्राप्तस्य रक्षणं क्षेमः | एतदुभयं तस्य स्वयमेव करोतीति भावः | नियतिरिति प्रारब्धोपलक्षकम् | नियतिं प्रारब्धं च विधूयेत्यर्थः || ५८ || तत्साधनं सम्प्रसाध्य द्रुतं संयोजयेत् फले | एतदेव महेशत्वं स्वातन्त्र्यमहतं तु यत् || ५९ || तस्य निष्कामिनो यत् साधनं तद् विघ्नापनयनेन सम्यक् प्रसाध्य | ननु नियतिः सर्वथाऽनुल्लङ्घनीयेति चेदाह - एतदेवेति | नियत्यादेरुल्लङ्घनमेवेत्यर्थः || ५९ || प्रारब्धं नियतिर्वापि महेशविमुखे [क्: विमुखं] भवेत् | एतन्मृकण्डुतनयेऽत्यन्तमीश्वरतत्परे [एका कथा पद्मपुराणे सृष्टिखण्डे त्रयस्त्रिंशेऽध्याये द्रष्टव्या |] || ६० || ननु प्रारब्धनियत्योरप्युल्लङ्घने प्रारब्धं नो नाशमियान्नियतिर्नान्यथा भवेत् इत्यागमविरोध इति चेदाह - प्रारब्धमिति | महेशविमुखे एव प्रारब्धनियत्योर्माहात्म्यमित्यागमतात्पर्यमिति भावः | नैतदागमैकसिद्धम् किन्त्वैतिह्यसिद्धमपीत्याह - एतदिति || ६० || सर्वैर्ज्ञातं महेशस्य नियत्यारब्धलङ्घनम् | अत्रोपपत्तिं ते वक्ष्ये शृणु प्राणप्रियेरिताम् [क्: रितम्] || ६१ || नियत्यारब्धयोर्लङ्घनम् | अत्र अनुल्लङ्घ्यप्रारब्धनियत्युल्लङ्घने | उपपत्तिं युक्तिम् || ६१ || यद्यप्यनुल्लङ्घनीये प्रारब्धनियती खलु | तथाप्यपौरुषाणां तत् प्रारब्धमनपोहनम् || ६२ || अपौरुषाणां पुरुषयत्नरहितानाम् || ६२ || अत एव प्राणयमैः प्रारब्धं परिजीयते | न तान् दृष्टेषु दुःखेषु प्रारब्धं योजयत्यलम् || ६३ || कुत एतदिति चेदाह - अत एवेति | प्राणयमैः प्राणायामपरैर्योगिभिः | कथमेतज्ज्ञातमिति चेत् प्रत्यक्षेणेत्याह - न तानिति || ६३ || प्. १०१) प्रारब्धाहिनिगीर्णास्ते ये पौरुषपराङ्मुखाः | एतन्नियतिसंकॢप्तं तथैवानुभवान्ननु [ख्: न तु] || ६४ || कुत एवं पौरुषात् प्रारब्धपराभव इति चेत्तथैव नियतिस्वभावादित्याह - एतदिति | पौरुषेण प्रारब्धापोहनमित्यर्थः | तथैवेति | अनुभवानुरोधेन नियतेः कल्पनीयत्वादिति भावः || ६४ || नियतिः स्यादीशशक्तिः सङ्कल्पैकस्वरूपिणी | सत्यसङ्कल्प एवेशोऽनुल्लङ्घ्या ह्यत एव सा || ६५ || अत एव सत्यसङ्कल्पत्वादेव || ६५ || कुण्ठिता सापि भवति परमेशपरायणे | अकुण्ठितापि भवति यतः सा तादृशी भवेत् || ६६ || सापि अनुल्लङ्घ्या नियत्यपि | नन्वनुल्लङ्घ्यत्वं कुण्ठितत्वमित्युभयं विरुद्धमिति चेदाह - अकुण्ठितेति | यतः सा नियतिः तादृशी परमेशपरायणे कुण्ठितस्वभावैव | अयं भावः - प्रारब्धं हि फलोन्मुखं कर्म तच्च योगिना जीयत इति तथैव तन्नियत्या नियतं परिकल्प्यते | प्रकृते निष्कायु(मो)पासकोऽपि कर्मयोगित्वेन योगी भवेदित्यनेनापि तज्जियते | तथा च प्रारब्धमयोगिन एवानुल्लङ्घ्यम् | नियतिश्च भगवत्सङ्कल्परूपा सा सर्वथानुल्लङ्घ्यस्वभावैव | तथापि भगवत्परायणे सा कुण्ठिता भवतीति च तस्याः स्वभाव एवेति सा सर्वत्राकुण्ठितैवेति || ६६ || तस्मात् कुतर्कं सन्त्यज्य महेशं शरणीकुरु | अहेतुकतया स त्वां नियोजयति श्रेयसि || ६७ || यस्माद् भगवत्परे प्रारब्धनियत्योरप्यनन्तरायत्वं तस्मात् | अहेतुकतया निष्कामत्वेन | सः महेशः || ६७ || एतावदेव सोपानं प्रथमं क्षेमसौधके [क्: सौधकम्] | एतद्विहाय [क्: एतद्विधाय] चान्यत्र नास्तीषत्फलसम्भवः || ६८ || एतावदेव अहेतुकत्वेनोपासनमेव | अन्यत्र साधने || ६८ || प्. १०२) श्रुत्वेत्थं वचनं राम हेमचूडः प्रियोदितम् | पप्रच्छ भूयस्तां कान्तामतिहृष्टमनास्तदा || ६९ || प्रिये महेश्वरं ब्रूहि यः शरण्यो भवेन्मम | सर्वकर्ता स्वतन्त्रात्मा यच्छक्त्या नियतं जगत् || ७० || एवं जगदादिकर्ता परमेश्वरः सेव्य इति श्रुत्वा कर्तुर्हि शरीरवत्त्वं नियतमिति मत्वा शिवादिशरीरिषु ईश्वरत्वं क्व त्वया निश्चितमिति पृच्छति ##- तं विष्णुमाहुः केचिद्वै शिवमन्ये [क्: केचित् शिव] गणेश्वरम् | तथा सूर्यं नृसिंहादीन् बुद्धं सुगतमेव च || ७१ || कुतस्तवात्र शङ्केति चेत्तत्रापि शास्त्रानैक्यादित्याह - तमिति [क्: बुद्ध] | बुद्धं सुगतं च बौद्धैकदेशिनः || ७१ || अर्हन्तं वासुदेवं च प्राणं सोमं च पावकम् | कर्म प्रधानमणव इत्यादि बहुधा जगुः || ७२ || अर्हन्तं जैना आहुः | वासुदेवं पाञ्चरात्राः | प्राणादीन् प्राणाद्युपासकाः | कर्मादीनां कर्तृत्वं प्राक् परिहृतम् तथापि प्रसङ्गात् पुनस्तद्गणनम् || ७२ || जगत्कारणरूपं वै विचित्रमतभेदितम् | तत्र क्वेश्वरबुद्धिस्तु कर्तव्या तत् समीरय || ७३ || एवं जगतः कारणस्य कर्तुः स्वरूपं विचित्रमतैर्भेदितम् [क्: मतभे] अत आह - तत्रेति || ७३ || न ते ह्यविदितं किञ्चिद् भवेदिति हि निश्चयः | यतः स भगवान् व्याघ्रपादो दृष्टपरावरः || ७४ || व्याघ्रपादः ते पिता || ७४ || अतस्ते योषितोऽप्येवं ज्ञानमेतद्विराजते | ब्रूहि मे श्रद्दधानाय प्रियायामृतभाषिणि क्: प्रियामृतप्रभाषिणी] || ७५ || अतः तत्सम्बन्धात् || ७५ || प्. १०३) पृष्टैवं सा हेमलेखा प्रियेण प्राह हर्षिता | नाथ ते सम्प्रवक्ष्यामि शृण्वीश्वरविनिर्णयम् || ७६ || ईश्वरो हि जगज्जालप्रलयोत्पादकृद् भवेत् | स विष्णुः स शिवो धाता स सूर्यः सोम एव च || ७७ || स एव सर्वथा सर्वः सर्वैरपि निरूपितः | न शिवो नापि विष्णुर्वा न धाता नान्य एव च || ७८ || सर्वैः वैष्णवाद्यैः निरूपितः सर्वोऽपि विष्णुशिवादिः स एव विष्णुशिवादिमूर्तिषु सर्वत्रानुगतं पारमेश्वरं स्वतन्त्रचिद्रूपमिति सर्वात्मतां तस्योक्त्वा परस्परं व्यवृत्तं दृश्यं स्थूलशरीरं न तस्य वास्तवं रूपमिति निषेधति - न शिव इत्यादि || ७८ || एतत्ते सम्प्रवक्ष्यामि शृण्वत्यन्तसमाहितः | कर्तारं शिवमाहुस्ते पञ्चवक्त्रं त्रिलोचनम् || ७९ || एतत् शिवो न शिवश्चेत्येतत् | ते शैवाः || ७९ || स कर्ता घटकर्तेव चेतनः सशरीरकः | लोकेऽपि चेतनः कर्ता सशरीरो हि दृश्यते || ८० || सः स्थूलशरीरसहकृतः | कुत एवमिति चेद्विभज्याह - लोक इति | कर्ता कुलालादिः || ८० || अशरीरोऽचेतनो वा न कर्ता क्वचिदीक्षितः | तत्र मुख्यं हि कर्तृत्वं चेतनस्यैव सम्भवेत् || ८१ || एवं शरीरविशिष्टचेतनस्यैव कर्तृत्वमीक्षितम् तथापि तत्र शरीरचेतनयोर्मध्ये || ८१ || यतः स्वप्नेष्वयं जीवो हित्वा स्थूलं शरीरकम् | चैतन्यमयदेहेन सर्वानभिमतान् सृजेत् || ८२ || कुत एवमिति चेद् भौतिकदेहस्य व्यभिचारान्न कर्तृत्वमित्याह - स्वप्नेष्विति | स्वाप्नो देहो नैवंविध इत्याह - चैतन्येति || ८२ || अतः शरीरं करणं कार्ये कर्तुश्चिदात्मनः | जीवानां करणापेक्षा यतोऽपूर्णा स्वतन्त्रता || ८३ || अतः स्थूलशरीरं विनापि कार्यसम्भवेन व्यभिचारात् | अस्तु करणत्वेऽपि स्थूलं चिन्मयं वा शरीरमीश्वरस्यापेक्षितमिति चेन्नेत्याह - जीवानामिति || ८३ || प्. १०४) भगवांस्तु जगत्कर्ता पूर्णस्वातन्त्र्ययोगतः | अनपेक्ष्यैव यत्किञ्चित् सृजत्यविकलं जगत् || ८४ || जीवानामपूर्णस्वातन्त्र्येण करणाद्यपेक्षायामपि न पूर्णस्वातन्त्र्यस्येश्वरस्य यत्किञ्चिदपेक्षेत्याह - भगवानिति | अविकलं सम्पूर्णम् || ८४ || अतः शरीरं नास्त्येव ह्येष मुख्यविनिश्चयः | अन्यथा लोकवत्कर्तुरुपादानाश्रयो भवेत् || ८५ || अतः शरीरकल्पने प्रयोजनाभावात् | अन्यथा कुलालादिवत् करणाद्यपेक्षत्वे | कर्तुः ईश्वरस्य उपादानस्याप्याश्रयः अपेक्षा भवेत् || ८५ || तथा च देशकालादिकारणप्रचयैर्युतः | जगत् सृजन्महेशानो जीव एव भवेत्तथा || ८६ || प्रचयैः समूहैः सामग्र्येति यावत् | ज्जिव एव भवेत् | ईश्वरत्वं विहन्येतेति भावः | तथा कुलालादिवत् || ८६ || प्. १०५) पूर्णैश्वर्यं विहन्येत जगत्सृष्टेः पुरापि च | सिद्ध्येत्तत्सर्वकर्तृत्वं विहतं स्यान्न संशयः || ८७ || इष्टापत्तावाह - जगदिति | उपादानादिकं [क्, घ्: दिकजग] जगत्सृष्टेः पूर्वमपि सिद्ध्येत् | ईश्वरस्य जगत्क्रियायामुपादानाद्यपेक्षणे उपादानादेर्नित्यता सिद्धेति भावः | तत् उपादानादिकम्| अस्त्विति चेदाह - सर्वकर्तृत्वमिति | उपादानादेः सृष्टेः पूर्वं सिद्धत्वेन तं प्रत्यकर्तृत्वेन सर्वकर्तृत्वं विहन्येतेत्यर्थः | तथा च कर्तुर्निमित्तत्वेनोपादानत्वाभावेनेश्वरत्वमेव न सङ्गच्छत इति [क्:च्छेत] भावः | यदुक्तं क्षेमराजाचार्यैः - ये [एष श्लोकः स्पन्दप्रदीपिकायाम् (पृ० २३) आगमरहस्यश्लोकत्वेनोद्धृतः] त्वीश्वरं व्यपदिशन्ति निमित्तहेतुं दत्तस्तिलाञ्जलिरमीभिरिहेशितायै | अन्याङ्गतोपगमनेन वशीकृतस्य कामीश्वरस्थितिममी बत सङ्गिरन्ते || इति | अथ च नहीश्वरस्य केवलनिमित्तत्वे [क्: नित्यत्वे] कार्यं सम्भवितुमर्हति | तथा हि सृष्टेः पुरा विशरारवः परमाणव ईश्वरेच्छया संघटिताः कार्यारम्भका भवन्तीति ह्यारम्भवादिन आहुः | नैतदुपपन्नम् लोके चेतनो ह्यन्येच्छामनुरुध्य किञ्चित् करोति नाचेतनः | तथा च परमाणूनामीश्वरेच्छानुरोधोऽनुपपन्न एव | नन्वीश्वरस्यैवंविधमेव सामर्थ्यम् यत् परमाणवोऽपि तदिच्छामनुरुध्येरन्निति | सत्यमेतत् ईश्वरोऽपरिच्छिन्नसामर्थ्य एव | तेनैवालौककसामर्थ्येन भगवानुपादानाद्यनपेक्ष्यैव जगत्क्रियासमर्थः | एवं सत्यपि भगवतो जगत्क्रियायां परमाण्वाद्यपेक्षाभ्युपगमो द्वैतवादश्रद्धामात्रविलास इति ज्ञेयम् | एतेन सेश्वरसांख्योऽपि प्रत्युक्तो ज्ञेयः | अस्माकमागमैकसमाश्रयाणामभ्युपगताखिलव्यवहारसमर्थनसमर्थप् अरमेश्वरैश्वर्याणां नानुपपत्तिगन्धोऽपि | ननु वैषम्यनैर्घृण्यदोषदूरीकरणाय जगत्क्रियायां कर्म निमित्तमिति सर्वैरभ्युपेयम् | तथा चान्यापेक्षेश्वरस्य सिद्धेति चेदुच्यते - सत्यमेतदप्रतिसमाधेयमेव द्वैतवादिनाम् | अद्वैतवादिनामस्माकं तु दर्पणप्रतिबिम्बन्यायेन सर्वस्य जगतश्चिदेकरसत्वेन कर्मणोऽपि परमेश्वरस्वरूपानन्यत्वेनान्यानपेक्षणान्न दोषावकाशलेशोऽपि | नन्वेवमपि घटादिकर्तृत्वस्य कुलालादिनिष्ठत्वान्नेश्वरः सर्वकर्तेति चेन्न कुलालात्मन ईश्वरानन्यत्वेनादोषात् | अथ च राजपुरुषकृते राजकृतत्ववद् ब्रहादिकृतस्यापीश्वरकृतत्वात् | तदुक्तं प्रत्यभिज्ञायाम् - तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया | तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् || (१|४१) इति || ८७ || प्. १०६) अतो हि दृश्यदेहाद्यमनपेक्ष्य जगत् सृजेत् | नास्ति तस्मात् स्थूलदेहो वस्तुतः प्राणवल्लभ || ८८ || अतः शरीराद्यपेक्षायामैश्वर्यविहतेः || ८८ || पररूपे ह्यदेहेऽस्मिन् मुह्यन्ति स्थूलबुद्धयः | भक्तुयुक्ताश्च तैर्ध्यातो यत्र यत्र यथा यथा || ८९ || ननु यदि वस्तुतो देहो नास्ति तर्हि कुतोऽयं विष्ण्वादिदेह इति चेदाह - परेति | अस्मिन् ईश्वरे | मुह्यन्ति मोहं प्राप्नुवन्ति न विदन्तीति यावत् | ये [क्: ये नास्ति] एवंविधा भक्तियुक्ताश्च | यत्र यत्र कैलासवैकुण्ठादिदेशे | यथा यथा पञ्चवक्त्रैकवक्त्रादिरूपेण || ८९ || तथा धत्तेऽनेकरूपं भक्तचिन्तामणिः स्वयम् | अतश्चेतन एवेशस्तद्देहः [क्: एतेन] स्याच्चितिः परा || ९० || स्वयमिति | न मातृपित्राद्यपेक्षयेति भावः | अतः एवंविधदेहानामिच्छामात्रपरिकल्पितत्वात् | परा अपरिच्छिन्ना चितिः || ९० || चितिरेव महासत्ता सम्राज्ञी [ख्, ग्, घ्: साम्राज्ञी] परमेश्वरी | त्रिपुरा भासते यस्यामविभिन्नं [क्: भिन्ना] विभिन्नवत् || ९१ || चितिरेवेति | चितिर्हि स्वरूपपरिनिष्ठिता निस्तरङ्गाब्धिकल्पा तुरीया त्रिपुआ | सैव यदा स्वस्वातन्त्र्याच्चितिक्रियाकर्तृत्वरूपचेतनतामासादयति तदेश्वर इत्युच्यते | कार्यब्रह्मेति [क्: कार्यं ब्रह्मेति] यं वेदान्तिन आहुः | सा चितिर्महासत्ता अपरिच्छिन्नसद्रूपा | सम्राज्ञी [ख्, ग्, घ्: साम्राज्ञी] स्वतन्त्रा | परमेश्वरी अनुत्तरैश्वर्यवती | त्रिपुरा तुर्या | भासते अविशेषात् सर्वत्र सर्वदेत्यर्थः || ९१ || आदर्शनगरप्रख्यं जगदेतच्चराचरम् | तद्रूपैकत्वतस्तत्र नोत्तमाधमभावना || ९२ || ननु न [क्: न नास्ति] सा चितिः क्वचिद्भासते किन्तु जगदेव भासत इति चेदाह - आदर्शेति | यथा ह्यादर्शाऽविभिन्नमपि प्रतिबिम्बनगरमादर्शं भिन्नवद्भासते एवमस्यां चिति [क्: चितिश्चरा] चराचरात्मकं जगत्तदभिन्नमपि विभिन्नवद्भासते | यथा हि बालाः प्रतिबिम्बं पश्यन्तो दर्पणं न विदुरेवं मूढा जगत् पश्यन्तोऽपि न चितिं विदुः | एवं च विष्णुशिवादिष्वपीयमेवेश्वराख्या एका अतस्तत्र विष्णुशिवादौ नोत्तमाधमभावना कर्तव्या || ९२ || प्. १०७) अपरे तु स्वरूपे हि कल्पितं [ख्: कल्पिता] मुख्यतादि हि [ख्: नहि] | तस्मात् प्राज्ञ उपासीत परं रूपं हि निष्कलम् || ९३ || ननु शास्त्रेषूत्तमत्वादि कथमुक्तमिति चेदाह - अपरे इति | स्थूले | तस्मात् यतः सा मुख्यता कल्पिता न वास्तवी | निष्कलमशरीरम् || ९३ || असमर्थः स्थूलरूपं यद् बुद्धौ सङ्गतं दृढम् | तदुपास्याहेतुतस्तु श्रेयः प्राप्नोत्यनुत्तमम् | नान्यथास्य गतिः क्वापि भवेद्वै कोटिजन्मभिः || ९४ || ननु तद्रूपं प्राज्ञेनोपासितुं शक्यमन्येन किं कर्तव्यमिति चेदाह - असमर्थ इति | यद् बुद्धौ दृढं संगतमिति | यद्रूपे बुद्धिर्दृढानुरक्ता सा मूर्तिरुपास्येति भावः | अन्यथा ईश्वरमनाराध्य | गतिः परश्रेयःसाधनप्राप्तिः | षट्चरणः श्लोकः || ९४ || इति श्रीमज्ज्ञानखण्डे हेमचूडोपाख्याने ईश्वरस्वरूपनिरूप सप्तमोध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां सप्तमोऽध्यायः || प्. १०८) अथ अष्टमोऽध्यायः एवं प्रियावचः श्रुत्वा ज्ञात्वा तत्त्वं महेशितुः | त्रैपुरं चिन्मयं हेमलेखावाक्येन निश्चितम् || १ || अत्राध्याये भागमितपद्यैः स्तुत्वा विरागताम् | हेमलेखोक्तिगूढार्थव्याख्यानं सुनिरूप्यते || त्रैपुरं तुर्यम् | तद्रूपं चिन्मयमेवेश्वरस्य तत्त्वमिति परोक्षतया ज्ञात्वा || १ || आश्वस्तचित्तस्त्रिपुरां गुणरूपां महेश्वरीम् | ज्ञात्वा गुरुभ्यः परमां माहैश्वर्यविभावितः || २ || गुणरूपां सगुणरूपां सगुणमूर्तिम् | गुरुभ्यस्तन्मन्त्रादिकं च ज्ञात्वेति शेषः | माहैश्वर्यविभावितः परमेश्वरानुग्रहशक्तिविद्धः | एतदुक्तम् ##- तामेकभावानुगतो हेमचूडोऽभवद् दृढम् | एवं परोपासनेन व्यतीयुः केऽपि मासकाः || ३ || तां [क्: तां त्रिपुराम् नास्ति] त्रिपुराम् | एकभावो दृढभक्तिः | अनुगतिरुपासनम् || ३ || त्रिपुरा परमेशानी प्रसादमकरोद् हृदि | विषयाद्विमुखं चित्तं विचारपरमं बभौ || ४ || किंविधं प्रसादमकरोत्तदाह - विषयादिति | विचारपरमं स्वरूपविचारतत्परम् || ४ || एतावद् दुर्लभं लोके परानुग्रहमन्तरा | विचारप्रवणं चित्तं यन्मुख्यं मोक्षकारणम् || ५ || एतावद् विषयवैमुख्यपूर्वकं विचारप्रवणत्वम् | कुत एतस्य दुर्लभता तदाह - यदिति || ५ || राम यावन्न जायेत विचारपरमं मनः | न तावच्छ्रेयसा योग उपायानां शतैः क्वचित् || ६ || प्. १०९) अथ भूयः स कस्मिंश्चिद्दिने रहसि वै तया | सङ्गतः प्रिययाऽत्यन्तविचारपरमानसः || ७ || अथ विचारपरतासम्पत्त्यनन्तरम् || ७ || आयान्तं स्वनिकेतं तं दूरात् कान्तं ददर्श सा | उत्थाय तं समानीय स्वासने विनिवेश्य च || ८ || निकेतं गृहम् || ८ || पादप्रक्षालनाद्यैस्तं पूजयित्वा यथाविधि | प्रोवाचामृतनिष्यन्दसुन्दरं परमं वचः || ९ || प्रेष्ठ ! त्वामद्य पश्यामि चिराय ननु ते वपुः | नीरुजं कच्चिदासीद्वै यतो रोगास्पदं वपुः || १० || प्रेष्ठ अतिप्रियतम || १० || तन्ममाचक्ष्व [क्: तन्मामा] वृत्तान्तं यतो नाहं स्मृता त्वया | ननु मामसमालोक्य चाप्रभाष्य कदापि ते || ११ || तत् शरीरवृत्तान्तम् [ग्: शारीरं] | कुतस्तवेयं सम्भावनेति चेदाह - यत इति || ११ || नात्यगाद्दिनभागोऽपि तदेवं कुत आस्थितम् | मन्येऽहं तेऽनभिमते वर्तनं नहि वर्त्मनि || १२ || एवं मामस्मृत्वा अदृष्ट्वा [क्: अदृष्ट्वा नास्ति] वा त्वया आस्थितं तत् कुतः | स्वप्नेऽपि न मन्ये || १२ || स्वप्ने वापि कुतोऽन्यत्र कुत एवमभूद् वद | कथं रात्रिस्त्वया नीता चैकापि युगसम्मिता || १३ || अन्यत्र जाग्रति कुत एतत्सम्भावनेति भावः | एवं सति कुत एवं ते स्थितिरभूत् || १३ || मां [क्: विना मां च क्षणो] विना प्राक् क्षणोऽप्येको युगकल्पः सुदुःसहः | इत्युक्त्वा सा समाश्लिष्य खिन्नेवाभूत्क्षणं ततः || १४ || मां विना क्षणोऽपि [क्: क्षणमपि सुदुःसहमिति] || १४ || प्. ११०) सोऽपि प्रियासमाश्लिष्टो नेषद्विकृतिमाययौ | प्राह प्रिये न मामेवं विमोहयितुमर्हसि || १५ || दृढवैराग्येण नेषदपि [क्: नैषोऽपि] प्रियाश्लेषादिना विकृतिं प्राप्तवान् | मामियं मोहयितुं प्रवृत्तेति ज्ञात्वा आह - प्रिये इति || १५ || ज्ञाता मयाऽसि सुदृढं नास्ति ते शोककारणम् | परावरज्ञा त्वं धीरा मोहस्त्वां वै कथं स्पृशेत् || १६ || कुतस्त्वद्वियोगे शोको न भवेत्तदाह - परावरेति || १६ || तत्त्वां प्रष्टुं समायातो यत्तद्वक्ष्यामि संशृणु | यत् प्राक् स्ववृत्तं कथितं तत् स्फुटं मे समीरय || १७ || नाहं प्रागिव क्रीडितुं समागत इत्याह - तत्त्वामिति | महासती मे जननी (५|१०८) इत्यादि प्रागुक्तं स्ववृत्तम् || १७ || का सा ते जननी प्रोक्ता सखी वा तत्पतिश्च कः | तत्पुत्राद्या अपि च के मम वा ते क्व संवद || १८ || ते जनन्यादयः || १८ || न तनया सुविदितं न तन्मन्ये मृषोदितम् | किन्तु त्वया निगदितं व्यपदेशेन सर्वथा || १९ || तत् त्वदुक्तम् | न तन्मृषोदितम् किन्त्वन्यव्यपदेशेनोक्तम् || १९ || तद्विविच्य प्रकथय यथा ज्ञास्ये त्वहं स्फुटम् | अहं त्वां सुप्रपन्नोऽस्मि [क्, ख्: सुप्रसन्नो] छिन्धि मे हृदि संशयम् || २० || एवमुक्ता हेमलेखा प्रसन्नवदनेक्षणा | मत्वा सुनिर्मलधियं परानुग्रहसंयुतम् || २१ || परायास्त्रिपुराया अनुग्रहयुतम् || २१ || नूनमेषोऽतिविमुखो विषयेभ्योऽतिधैर्यतः | विद्धः [क्: विष्णुशक्त्या] शक्त्या महेशान्या [ख्, ग्, घ्: महैश्वर्या] फलितः पुण्यसञ्चयः || २२ || अनुग्रहशक्त्या || २२ || प्. १११) कालः प्रबोधने चायं बोधयामि ततस्त्विमम् | नाथ तेऽहो महाभाग्यं प्राप्तमीशकृपावशात् || २३ || यतोऽयं बोधने कालस्तत इति मत्वा प्राहेति शेषः | ते त्वया || २३ || अन्यथा नैव विषयवैरस्यं पश्यति क्वचित् | एतल्लक्षणमीशस्यानुग्रहे ज्ञेयमादितः || २४ || अन्यथा भाग्याभावे क्वचित् कालादौ | एतत् वक्ष्यमाणम् | लक्षणं ज्ञापकम् | आदित इति | ईशानुग्रहे सत्यादावेव [ख्, ग्, घ्: वेत] तज्जायत इति भावः || २४ || भोगवैरस्यमपरं विचारप्रवणं मनः | हन्त ते सम्प्रवक्ष्यामि वृत्तिं प्रोक्तां सदात्मनः || २५ || अपरं द्वितीयम् | वृत्तिं स्थितिम् सदा स्थितामिति शेषः || २५ || परा चितिर्मे जननी सखी बुद्धिर्मता मम | अविद्या त्वसती सोक्ता यया बुद्धिः सुसङ्गता || २६ || अविद्यायास्तु सामर्थ्यं लोके स्पष्टं विचित्रितम् | यद्रज्जौ सर्पमाभास्य महाभीतिं प्रयच्छति || २७ || महामोहस्तु तत्पुत्रो मनस्तस्य सुतोऽभवत् | तस्य पत्नी कल्पना स्यात्तत्सुताः पञ्च येऽभवन् || २८ || ज्ञानेन्द्रियाणि ते पञ्च तत्स्थानं गोलकं भवेत् | विषयाणां प्रमोषस्तु संस्कारो मनसो भवेत् || २९ || तद्भोगः स्वप्नभोगः स्यात् कल्पनायाः स्वसा तु या | महाशना भवेदाशा तस्या यौ तनुजावुभौ || ३० || तद्भोगः प्रमुषितविषयभोगः || ३० || क्रोधो लोभश्च तावुक्तौ तत्पुरं तु शरीरकम् | मम यस्तु महामन्त्रः स्वरूपस्फुरणं हि तत् || ३१ || प्राणः प्रचारः सम्प्रोक्तो मनसस्तु प्रियः सखा | कान्ताराद्यास्तु नरका [क्: नवका] एवं सर्वं प्रकीर्तितम् || ३२ || प्. ११२) मया बुद्धेः सङ्गमस्तु समाधिरभिधीयते | मन्मातृलोकसंप्राप्तिर्मोक्षः प्रिय उदाहृतः || ३३ || एवं प्रोक्तः स्ववृत्तान्तस्त्वमप्येवंविधो [क्: विधौ] ननु | तद्युक्त्यैतत् सुविज्ञाय परं श्रेयः समाप्नुहि || ३४ || एतत् स्ववृत्तान्तम् || ३४ || इति श्रीमज्ज्ञानखण्डे हेमचूडोपाख्याने संसाराख्यायिकाविवरणे अष्टमोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायाम् अष्टमोऽध्यायः || प्. ११३) अथ नवमोऽध्यायः श्रुत्वेत्थं प्रियया प्रोक्तं हेमचूडोऽतिविस्मितः | हर्षगद्गदया वाचा पुनर्वक्तुं प्रचक्रमे || १ || अत्र नोनाकपद्यैः [क्: नोनाङ्क] स्वमात्मतत्त्वं विविच्य वै | हेमचूडः स्वात्मसंस्थां प्राप्त इत्येतदुच्यते || पुनः हेमलेखां वक्तुम् || १ || धन्या प्रियेऽसि निपुणा अहो ते ज्ञानवैभवम् | किं वर्णयामि यत् प्रोक्तमाख्यारूपतयाऽखिलम् || २ || ज्ञानस्य वैभवं माहात्म्यम् | यत् यस्मात् | स्वात्मवृत्तमखिलमन्यापदेशेनाख्यानतया प्रोक्तम् अतः किं वर्णयामि || २ || एवंविधं स्ववृत्तं मे नाभवद्विदितं क्वचित् | त्वदुक्त्याऽहं सम्प्रति तत् करामलकवत् स्फुटम् || ३ || क्वचित् काले | तत् स्वात्मवृत्तं क्रोधलोभादिना दुःखानुभवरूपम् || ३ || स्मराम्यनुभवाम्यन्तरहो लोकक्रियाऽद्भुता | का सा परा चितिर्माता कथं तस्यास्तु नो जनिः || ४ || स्फुटमतीतं स्मरामि वर्तमानमनुभवामि | अन्तः स्वात्मनि | लोकानां क्रिया व्यवहारः || ४ || के वा वयं स्वरूपं किमस्माकं तद् ब्रवीहि मे | इति पृष्टा हेमलेखा रामोवाच प्रियं प्रति || ५ || महासती मे जननी (५|१०८) इत्याद्याख्यानेन परचितेरुपेयतोक्ता स्वस्य तदंशात्मत्वं चोक्तम् | तत्र का सा परा (९|४) इत्युपेयस्वरूपं पृष्ट्वा स्वात्मरूपं पृच्छति - के वा वयमिति | देहस्य पुरत्वश्रवणेन प्राणादेः परिवारत्वश्रवणेन [क्: परीवारत्व] च देहादेरनात्मत्वनिश्चयात् पुरुषादिसंज्ञायाः सङ्घातनिष्ठत्वेन के इत्यात्मनः संज्ञाविषयोऽयं प्रश्नो ज्ञेयः || ५ || प्. ११४) नाथ शृणु प्रवक्ष्यामि गूढार्थमिदमादरात् | विचारयात्मनो रूपं बुद्ध्याऽत्यन्तविशुद्धया || ६ || गूढार्थमिति | अयं प्रश्नार्थो गूढो वक्तुमशक्य एव तथापि किञ्चिदुत्तरं वक्ष्यामि | तदेवाह - विचारयेति | आत्मनः शुद्धस्वरूपे विदिते परा चितिर्विदितप्रायैवेति प्रथमप्रश्नमुपेक्ष्य द्वितीये उत्तरं क्रियत इति भावः | स्वयमेव विचारय | तत्रोपायमाह - अत्यन्तविशुद्धयेति | बुद्धेरन्तःकरणस्येन्द्रियादिद्वारा बहिर्मुखत्वमशुद्धिः तत्परित्यागेनान्तर्मुखत्वं हि शुद्धिः | तथा च वाह्यदेहादावनात्मत्वं निश्चित्य बुद्धेरन्तर्मुखतासम्पादनेनात्मस्वरूपं स्वयमेव ज्ञातुं शक्यमिति भावः || ६ || न दृश्यं नापि तद्वाच्यमतो वक्ष्यामि तत् कथम् | ज्ञाते [क्: ज्ञातस्वात्मस्वरूपो] स्वात्मस्वरूपे वै ततो ज्ञास्यसि मातरम् || ७ || ननु त्वया विदितमात्मतत्त्वं कुतो नोच्यत इति चेदशक्यं वक्तुमित्याह - न दृश्यमित्यादि | न ज्ञेयमित्यर्थः | ज्ञेयमन्योपदेशेन [क्: मन्या] ज्ञातुं शक्यमिति भावः | तस्य निर्धर्मत्वेन वचनप्रवृत्तिनिमित्तधर्माभावान्नापि तद्वाच्यमिति तात्पर्यम् | ननु तर्हि परा चितिर्या माता तां वदेति चेदाह - ज्ञात इति || ७ || नह्यादेशः [क्: देशस्व] स्वरूपेऽस्ति तत आदेष्टृवर्जितम् | स्वं [ग्, घ्: स्वरूपं] रूपं स्वात्मना पश्य शुद्धबुद्धिसमाश्रयम् || ८ || यतो न दृश्यं न वाच्यमात्मरूपमतस्तस्य न साक्षादुपदेश इत्याह - नहीति | आदेश उपदेशः | ननु तर्हि तत् कथं ज्ञेयमिति चेदाह - स्वात्मनेति | शुद्धात्मरूपेण स्थितमित्यर्थः | विषयविनिर्मुक्तं शुद्धचिद्रूपेण स्थितमिति भावः | यद्वा स्वात्मना स्थितं दृश्याऽनात्मव्यावृत्तद्रष्टृमात्रात्मना स्थितमिति भावः | एवंविधं क्व पश्यामीति चेदाह - शुद्धेति | शुद्धायां विषयाकाररहितायां बुद्धौ करणव्यापारानपेक्षमेव स्वरूपं ज्ञेयमिति भावः || ८ || प्. ११५) देवादितिर्यगन्तानां भान्तं भानैरभासितम् | भान्तं सर्वत्र सर्वस्य सर्वदा मानवर्जितम् || ९ || नन्वदृश्यं तत् कथं पश्यामीति चेदाह - देवेति | देवः सदाशिवो हिरण्यगर्भः तिर्यग् [क्: तिर्यग्गति] अतिसूक्ष्मस्तम्बाख्यः कृमिः देवादितिर्यगन्तानामात्मत्वेन भासमानः | ननु तर्हि मम कुतो न भासत इति चेदाह - भानैरभासितम् | भानैः परिच्छिन्नैर्दृश्याकारैर्ज्ञानैः | नास्ति भासितं यस्य | बुद्धेर्दृश्याकारैराच्छादितत्वान्नात्यन्तं भासते किन्तु घनाच्छन्नार्कवद्भासत [ख्, ग्, घ्: घन] एव | दृश्याकाररहितायां बुद्धौ तु निरभ्रनभोगतार्कवदत्यन्तं भासत इति भावः | ननु बुद्धावेव भासमानत्वात् परिच्छेदः प्राप्त इति चेदाह - सर्वत्रेति | सर्वस्य सर्वत्र सर्वदा घटादिकं भासमानं तद्भासैव भासते | सर्वत्र भासमानसूर्यालोकस्य [क्: मानसूर्यो लो] भित्तावत्यन्ताभिव्यक्तिवच्छुद्धबुद्धावभिव्यक्तिरिति भावः | ननु प्रमाणव्यापारोपरमे [क्: ब्रह्मणि] न तस्य भासनं स्यात्तत् कथं सर्वदेति चेदाह - मानवर्जितमिति | प्रमाणव्यापाराविषयमित्यर्थः | करणव्यापारस्य [क्: कारण] कर्तर्यप्रवृत्तेरत एवादृश्यमपीति भावः || ९ || कथं कुत्र कदा केन निरूप्येतापि लेशतः | मन्नेत्रं दर्शयेत्येवमुक्तमेतत् प्रियाधुना || १० || तत्र प्रमाणाप्रवृत्तेः कथं केन रूपेण कुत्र देशे कदा काले केन प्रमाणेन लेशतोऽपि निरूप्येत [क्: निरूप्यते] ? प्रमाणाविषयत्वादत्रेदानीमीदृशोऽयमिति [क्: दानीं मादृ] निरूपयितुमशक्य एवेति तात्पर्यम् | अत्र दृष्टान्तः - मन्नेत्रमिति | एतत् आत्मानं निरूपयेति [ख्, ग्: यति] || १० || प्. ११६) नात्राचार्यस्योपयोगो यथा नयनदर्शने | निपुणोऽपि महाचार्यः कथं नेत्रं प्रदर्शयेत् || ११ || आत्मनोऽनिरूपणीयत्वादेवात्मदर्शने [क्, ख्: निरू] न साक्षादाचार्यस्योपयोग इत्याह - नात्रेति | निपुणः कुशलः | महान् तपोमाहात्म्यादियुक्तः || ११ || अतो गुरुरुपायोऽत्र तदुपायप्रदर्शनात् | तत्ते वक्ष्याम्युपायं तच्छृणु संयतमानसः || १२ || नन्वेवं चेद् गुरुः शिष्यस्य किं कुर्यात्तदाह - अत इति | निरूपणासमर्थत्वात् | उप समीपे अयति गच्छति येन सः | शिष्यस्य पराग् दृशोऽतिदूरायितमात्मानं प्रत्यग्दृष्ट्युत्पादनेन समीपीकरोति गुरुरिति तात्पर्यम् | अत्र आत्मावगमे | गुरावुपायपदं योजयति - तदुपायेति | तस्यात्मदर्शनस्योपायः साधनं तस्य प्रदर्शनात् | तत्तस्माद् गुरोरुपायप्रदर्शकत्वात् | उपायमहं वक्ष्यामि || १२ || यावत् त्वमात्मनि ममेत्येवं तु प्रतिपश्यसि | ततः परं निजं रूपं यन्ममेति न भाति ते || १३ || आत्मविषये यावन्ममेति पश्यसि ततः परं तेभ्यो भिन्नं यत्तव ममेति न भाति तन्निजं रूपं विविच्येति सम्बन्धः || १३ || गत्वैकान्ते विविच्यैतद्यद्यद् भाति ममत्वतः | तत्तत् परित्यज्य परं स्वात्मानमभिलक्षय || १४ || एकान्तस्थाने गत्वा | एतत् मयोक्तं यन्ममेति न भाति तत् | विविच्य विवेचय | एवं विवेचनकाले ममत्वेन यद् यद् भाति तत्तत् परित्यज्य अनात्मेति निश्चित्य ततः परं यन्ममत्वाऽनाक्रान्तं तत् स्वात्मत्वेनाभिलक्षय || १४ || यथाहं ते ममत्वेन भासनान्नात्मता मयि | सम्बन्धमात्रादात्मीया न स्वरूपगता [ख्: तास्म्य] ह्यहम् || १५ || एतदेव विविच्योपपादयति - यथेति | न स्वरूपगता न स्वरूपान्तर्भूता || १५ || प्. ११७) ममार्थमखिलं त्यक्त्वा यत्त्यक्तुं नैव शक्यते | तमात्मानं समालक्ष्य परं श्रेयः समाप्नुहि || १६ || एवं ममेति भासमानमखिलमर्थं नाहमिति निश्चयेन त्यक्त्वा यत्त्यक्तुः स्वरूपं केवलचित्प्रकाशरूपमखिलत्यागावधिभूतं त्यक्तुं न शक्यते || १६ || इत्युक्तः प्रियया हेमचूड उत्थाय वै द्रुतम् | ययावश्वं समारुह्य तत्क्षणे नगराद् बहिः || १७ || उद्यानं नन्दनसमं प्रविश्य क्षणमात्रतः | वनान्तः सौधमुन्नम्रं स्फाटिकं प्रविवेश ह || १८ || उद्यानं क्रीडावनम् | उन्नम्रमुच्चम् || १८ || विसृज्यानुचरान् सर्वान् द्वारपालानशासयत् | न कोऽप्यत्र प्रविशतु मययेकान्तविचारणे || १९ || अत्र मत्समीपे | एकः अद्वितीयः अन्तः सर्वनिषेधावधिभूत आत्मा तस्य विचारणं विवेचनम् | तत्परे मयि सतीति यावत् || १९ || राजामात्याश्च गुरवो राजा वाऽप्यत्र सङ्गतः | अप्रवेश्या एव यावदहमाज्ञां दिशामि वः || २० || इत्युक्त्वारुह्य सौधाग्र्यं नवमीं भूमिमाविशत् | तत्र वातायने चित्रे सर्वलोकावलोकने || २१ || उपर्युपरि विद्यमानभूमिषु नवमीं भूमिम् | सर्वलोकानामवलोकनं यत्र | अत्युच्चामिति यावत् || २१ || आसने मृदुतूलाढ्ये विवेशान्यविवर्जितः | मनः समाधाय दृढं विचारमकरोत्तदा || २२ || नूनमेते जनाः सर्वे कथमेवं विमोहिताः | नैकोऽप्यत्र [क्: न को] विजानाति स्वात्मानं लेशतोऽपि वै [क्: च] || २३ || प्. ११८) सर्वोऽपि स्वात्मनो हेतोः करोति विविधाः क्रियाः | केचित् पठन्ति शास्त्राणि साम्नायाङ्गानि [क्: यानि च] नित्यशः || २४ || स्वत्मनः सुखहेतोः | आम्नायो वेदः || २४ || केचिद्धनान्यर्जयन्ति केचिच्छासति चावनिम् | अन्ये युध्यन्ति रिपुभिरन्ये भोगैकलम्पटाः || २५ || कुर्वन्त्येतत् स्वार्थमेते स [क्, घ्: स्वस्वात्मा] कतमो भवेत् | नैनं जानाति कोऽप्यत्र कुत एवमयं भ्रमः || २६ || अहो यथावदात्मानमविदित्वैव वै कृतम् | व्यर्थं स्वप्ने कृतमिव तदद्य विमृशामि तम् || २७ || मया कृतम् | यस्मादज्ञानात् कृतं व्यर्थं तत् तस्मात् || २७ || गृहधान्यराज्यधनयोषित्पश्वादि [घ्: धान्यं; क्: दिकञ्च न] किञ्चन | न मे स्वरूपं भवति त्वनहन्ताश्रयत्वतः || २८ || विमर्शनप्रकारमाह - गृहेत्यादि | अनहन्तेति | अहमित्यभासनेनाहन्ताश्रयत्वाभावात् || २८ || मदर्थं भूतताहेतोर्देहोऽहं स्यां हि सर्वथा | नूनं क्षत्रियदायादो गौराङ्गोऽहं न संशयः || २९ || मदर्थेति | अहमित्यस्मत्प्रत्ययविषयभूतत्वाद्धेतोर्देहोऽहं स्याम् | एतदेव द्रढयति - नूनमिति || २९ || अहन्तया समाक्रान्तास्तथैतेऽपि जनाः परे | इति निश्चित्य दध्यौ तं देहं राजकुमारकः || ३० || एतेषां जनानामप्यात्मा [क्: प्यात्मदेह] देह एवेति संभावयति - अहन्तेति | तथैते देहात्मान एव | देहमात्मत्वेन दध्यौ चिन्तयामास || ३० || अथ देहस्य चात्मत्वं प्रतिषेद्धुं प्रचक्रमे | अहो कथं देह एष ममतायाः समाश्रयः || ३१ || अथ ध्यानानन्तरम् | देहस्वभावमुपलभ्य ममताश्रयस्याऽनात्मत्वमिति हेमलेखोक्तं स्मृत्वाह - अहो इति || ३१ || प्. ११९) रुधिरास्थ्यादिसंघातः प्रतिक्षणविकारवान् | मम रूपं भवेन्नूनं छिन्नमेतत्तु लक्ष्यते || ३२ || कथं मम रूपं भवेत् | हेत्वन्तरमप्याह - छिन्नमिति || ३२ || काष्ठलोष्टसमत्वेन स्वप्नादौ चान्यथा स्थितः | नाहं देहोऽन्य एव स्यां प्राणोऽप्येष तथाविधः || ३३ || देहैकदेशरूपं हस्ताद्यङ्गं छिन्नं सदहन्तानाश्रयत्वेन काष्ठलोष्टसमत्वेन यस्माल्लक्ष्यते अतो मम रूपं देहः कथम् ? अथ च स्वप्नादौ अन्यथैवायं देहः स्थितो लक्ष्यते | अनुसंधानेन जाग्रत्स्वप्नयोरेकात्मत्वनिश्चयाद्देहस्य पृथग्रूपत्वान्नात्मत्वमिति भावः | आदिपदेन सुषुप्तिर्जन्मान्तरं वा | तथाविधो ममत्वाद्याश्रयः || ३३ || मनो बुद्धिश्च नाहं स्यां यत एतन्ममेरितम् | अतो देहादिबुद्ध्यन्तादन्य [क्: द्ध्यन्तस्त] एव न संशयः || ३४ || ममेरितं ममत्वेनोक्तम् | अतो देहादेर्ममत्वाश्रयत्वात् || ३४ || अहं कदाचिन्नास्मीति भासनाभावहेतुतः | सर्वदाऽहं भासमानः स्थित एव न संशयः || ३५ || देहादीनां ममत्वाश्रयत्वेनाऽनात्मत्वादन्यस्याऽनुपलम्भात् सुषुप्तौ शून्योपलम्भाच्च शून्यमात्मेति प्राप्ते आह - अहमिति | अहं नास्मीति कदाचिदपि भासनाभावाद्धेतोः सर्वदा भासमानोऽहं स्थित एव सद्रूप एव न शून्यरूप इत्यर्थः | सुषुप्तावपि नास्मीति न प्रामाणिकः प्रत्ययः | तदाऽनुभवितुरभावे व्युत्थितस्य न किञ्चिदवेदिषम् इति दृश्यसामान्यादर्शनस्मृत्यनुपपत्तेः | तथा चात्माऽशून्यरूपः सर्वदाऽस्मीति भासत एव | कदाचिदपि नाहमस्मीति भासनाभावादिति भावः || ३५ || भासमानस्य तु मम केन भानमिति स्फुटम् | नहि जानामि तत् कस्मादेतन्न विदितं मया || ३६ || केन हेतुना | घनाच्छन्नार्कवत् सामान्येन भासमानस्य केन विशेषहेतुना स्फुटं भानमयमहमस्मीति विज्ञानं स्यादिति नहि जानामि तदेतत् कस्मान्निमित्तान्न विदितम् || ३६ || प्. १२०) घटादिकं चक्षुराद्यैर्भासते भुवि नान्यतः | प्राणस्त्वचा विभात्येष मनो ज्ञानेन चोहितम् || ३७ || ज्ञानेन ज्ञानात्मककार्यहेतुना | ऊहितं कार्यकारणत्वेनानुमितम् || ३७ || एवं बुद्धिः केन च मे भासनं नाविदं त्विदम् | अथैषां भासनादेव नात्मा भासेत मे यदि || ३८ || एवं बुद्धिः कार्येणानुमितेत्यर्थः | मे मम | अथेति निमित्तसम्भावनाद्योतकम् | यथा हि प्रतिबिम्बभासनकाले शुद्धदर्पणो न भासते एवमेषामनात्मना भासनादात्मा न भासत इति सम्भावयति - एषामिति || ३८ || तर्हि नो विमृशाम्येतांस्ततो मे भासनं भवेत् | इति निश्चित्य मनसा जहौ मानसगोचरम् || ३९ || एवं दृश्यभासनसामान्या भावमात्मविज्ञाने [घ्: सामान्य] निमित्तं निश्चित्याह - तर्हीति | यद्यनात्मभासनादात्मा न भासते तर्ह्येताननात्मभावान्न विमृशामि | नह्येते स्वतो भासन्ते अविमृष्टानामभासनात् | यथा हि घटविमर्शनकाले ततोऽन्यन्न भासते तथा अनात्मविमर्शनकाले [क्: अन्त्य] आत्मा न भासत इति | अन्याविमर्शने [क्: विमर्शनेन] आत्मभासनं भवेदिति भावः | विमर्शः अयमीदृश इत्यादि मानसोल्लेखः | मनसा मननात्मकेन सूक्ष्मबुद्धिरूपेणान्तःकरणेन मानसगोचरं [क्: सोऽगोचरः] मानसोल्लेखम् [क्: ल्लेखः] || ३९ || अथाऽपश्यदन्धकारं गाढं तत् क्षणमात्रतः | इदं ममात्मनो रूपमिति निश्चितमानसः || ४० || अथ यत्किञ्चिद्भावमात्रानुल्लेखानन्तरम् तत् तमः तदिदमात्मनो रूपमिति योजना | क्षणमात्रतः अन्धकारदर्शनोत्तरक्षणे | निश्चितमानसः निश्चितं मानसं मनोविकारात्मक तमो येन || ४० || प्. १२१) प्रहर्षमतुलं [क्, घ्: तुमुलं] लेभे चाथ भूयो व्यचिन्तयत् | नूनं पुनः प्रपश्यामीत्येवं चित्तं रुरोध वै || ४१ || प्रहर्षम् आत्मा दृष्ट इति भ्रमजनितम् [क्: श्रम] || ४१ || चञ्चलं हठयोगेन निरुद्धं [घ्: निरुद्धे] समवैक्षत | तेजःपुञ्जमनाद्यन्तं भास्वरं क्षणमात्रतः || ४२ || चञ्चलं मनो हठयोगेन किञ्चिदनुल्लिखामीति दृढसङ्कल्परूपाभिनिवेशमात्रेण न तु [क्, ख्, ग्: ननु] प्राणायामनिरोधाद्यभ्यासेन | भास्वरं प्रकाशैकनिबिडम् || ४२ || प्रबुद्धश्चिन्तयामास किमेतदिति विस्मितः | अहो पश्यामि विविधं किमात्मानं कथं त्विदम् || ४३ || क्षणमात्रतः प्रबुद्ध्य [क्: प्रबुद्धः] निरोधात् परावृत्त्य | एतत्तमस्तेजश्च [क्: एतन्मे तेज] इदं विरुद्धरूपत्वमात्मनः कथमिति विस्मितः || ४३ || भूयः पश्यामि चेत्येवं रुरोध स्वमनस्तदा | विलीनं निद्रया चित्तं बभौ चिरतरं दृढम् || ४४ || तदा रोधानन्तरम् [घ्: रोधना] निद्रया परिपक्वकर्मसामान्याभावरूपया [ख्: सामान्य] | हेतौ तृतीया | निद्राहेतुना चित्तं विलीनम् || ४४ || तत्रापश्यत् स्वप्नजालं विचित्रानेकदर्शनम् | अथ प्रबुद्धोऽत्यन्तं वै चिन्तां प्राप महत्तराम् || ४५ || किमहं निद्रयाच्छन्नः स्वप्नान् समवलोकयम् | तमस्तेजश्चापि दृष्टमहो स्वप्नात्मकं [क्: त्मको] भवेत् || ४६ || तमः प्रमुखं दृष्टमपि स्वप्नात्मकमेव स्यादिति सम्भावयति - तम इति || ४६ || प्. १२२) स्वप्नस्तु मानसोल्लासस्तदेतं वर्जये कथम् | भूयो निगृह्य पश्यामीत्येवं निश्चित्य वै दृढम् || ४७ || मनो निग्रहीतुं प्रवृत्तस्य मे मानसं प्रसरत्येव तत् कथमत्र कर्तव्यमिति चिन्तयति - स्वप्न इति | एतं स्वप्नम् || ४७ || रुरोध चित्तं तु हठात्तदेतदभवत् स्थिरम् | तदानन्दसमुद्रान्तर्निमग्न इव सोऽभवत् || ४८ || चित्तं दृढं रुरोधेत्यन्वयः | तदा रोधानन्तरम् | ईषत् किञ्चित्कालं चित्तं स्थिरमभवत् | तदा निरुद्धचित्तदशायाम् || ४८ || पुनश्चित्तप्रचलनात् प्रबुद्धोऽभवदञ्जसा | किमेष मेऽभवत् स्वप्नश्चाऽथवा चित्तविभ्रमः || ४९ || प्रबुद्धः निरोधच्युतः | निरोधकालिकं सुखमात्ररूपं स्वात्मानमविदन् [क्: दन्निव कल्प] विकल्पयति - किमेष इति || ४९ || आहोस्वित् सत्य एष स्यादविचिन्त्यं विभाति मे | नाऽन्वभूवं किञ्चिदपि सुखमाप्तं कथं मया || ५० || विषयानुभवेन सर्वत्र सुखानुभवः तत् कथं किञ्चिदप्यननुभूय निरोधकाले सुखानुभव इति शङ्कते - नान्वभूवमिति || ५० || अहोऽस्य सुखलेशस्य तुल्यं नास्त्यत्र किञ्चन | अहं सुषुप्तवन्मूढः कथमेतत् सुखं स्थितम् || ५१ || किञ्चन सुखम् | सुषुप्तवत् बाह्यान्तराग्रहणेन मोहग्रस्तोऽहं स्थितः | तत्र कथमेष सुखानुभवः || ५१ || नात्र हेतुं कञ्चिदपि लक्षये तत् कथं भवेत् | आत्मावगमनायाहं प्रवृत्तोऽप्यद्य नाविदम् || ५२ || अत्र सुखोपलब्धौ तत् सुखं हेतुं विना कथं भवेत् || ५२ || आत्मानमन्यच्चान्यच्च पश्यामि किमिदं भवेत् | प्रकाशो वान्धकारो वा सुखं वान्यदथापि वा || ५३ || आत्मानं नाविदमित्यन्वयः | अन्यच्चान्यच्च तमःप्रकाशादिरूपम् | अपिरेवार्थे | अथ प्रकाशादिभ्योऽन्यदेव वेत्यर्थः || ५३ || प्. १२३) आत्मा भवेन्मम तथा क्रमिकैतत्स्वरूपकः | नान्तमेम्यत्र भूयस्तां पृच्छामि विदुषीं प्रियाम् || ५४ || अथवा तथाऽनुभूततमःप्रभृतिभावक्रमयुक्तसङ्घस्वरूपक आत्मा भवेत् | अत्रान्तं निश्चयं नैमि न प्राप्नोमि || ५४ || इति निश्चित्य द्वारेशमाहूयाज्ञां समादिशत् | स्वसन्निधानमानेतुं हेमलेखां नृपात्मजः || ५५ || अथ प्राप्ता मुहूर्तेन द्वारिकस्य निदेशतः | आरुरोह महासौधं मेरुमिन्दुप्रभेव सा || ५६ || अथापश्यद् राजसुतं प्रियं शान्तात्ममानसम् | निश्चलं निर्विकारं च संहृतेन्द्रियमण्डलम् || ५७ || हेमलेखा अपश्यत् | शान्तं निश्चेष्टम् | आत्मा शरीरं मानसञ्च | चलनं [ख्, ग्, घ्: चलः] प्राणचारः | विकारः कामादिः || ५७ || समीपमुपसृत्याशु तद्विष्टरमुपारुहत् | एकासनोपविष्टायां तस्यां स निमिषार्द्धतः || ५८ || भर्तृसमीपम् | तस्यां हेमलेखायां स हेमचूडः || ५८ || उन्मील्य नयने पार्श्वे समालोकयदास्थिताम् | आलोकिता प्रियं शीघ्रं प्रणयात् परिषस्वजे || ५९ || प्रियां समालोकयत् | आलोकिता सा || ५९ || ततः प्राहामृतस्यन्दि सुन्दरं वचनं प्रिया | नाथ किं भवताहूता कच्चित्ते नीरुजं तनौ || ६० || वदाहूतौ कारणं मे यदर्थमहमागता | एवं प्रियानुयुक्तः स बभाषे स्वात्मनः प्रियाम् || ६१ || प्रिये त्वयानुशिष्टोऽहं विविक्तेऽत्र समास्थितः | विचारपरमः स्वात्मरूपलक्षणहेतवे || ६२ || विचारः परम उपादेयो यस्य तत्पर इति यावत् | स्वात्मरूपस्य लक्षणं विज्ञानम् तद्धेतुर्यय मोक्षस्य तदर्थं विचारपरम इति सम्बन्धः || ६२ || प्. १२४) तत्परेणापि चित्रं तु लक्षितं तत् पृथक् किमु | आत्मनः सर्वदा प्राप्तेर्भासमानत्वतोऽपि च || ६३ || तत्परेणापि अनन्यमानसेनापि | चित्रम् अनेकविधम् | पृथग् अत्यन्तभिन्नम् प्रकाशान्धकारादिरूपम् | स्वेन यथा विचारितं तदाह - आत्मन इति | आत्मत्वादेव प्राप्तत्वम् प्रकाशरूपत्वाद्भासमानत्वम् || ६३ || असम्यग् भासनं चान्यभासनस्य निमित्ततः | इति मत्वा निरुध्यान्यभासनं सुव्यवस्थितः || ६४ || एवंविधस्याप्यसम्यग्भासनमन्यभासननिमित्तात् | अन्येषां भासनं भासनकरणमिन्द्रियादि [क्: दिनिरुक्तम्] निरुद्ध्य || ६४ || अपश्यमन्धकारं च प्रकाशमन्यदेव च | क्वचित् सुखं महत् प्राप्तं किमेतद्वद मे प्रिये || ६५ || इदमेवात्मनो रूपमथवाऽन्यद् भवेत् क्वचित् | सम्यग् विविच्य कथय यथा तमभिलक्षये || ६६ || इदमेव प्रकाशान्धकाराद्यन्यतमम् | अन्यत् प्रकाशान्धकारादिभ्यः | क्वचित् समाधेरन्यत्र || ६६ || इत्युक्ता साऽब्रवीद् हेमलेखा ज्ञातपरावरा | शृणु प्रिय प्रवक्ष्यामि समाहितधियाऽखिलम् || ६७ || यस्त्वया बाह्यसंरोधे व्यवसायः समेधितः | स शुभः सम्मतः सर्वैः सुमुख्यश्चात्मवेदिभिः || ६८ || व्यवसायः यत्नः | शुभफलप्रदत्वाच्छुभः | अनन्तरसाधनत्वात् सुमुख्यः || ६८ || विना तेन न तत् प्राप्तं केनापि कुत्रचित् क्वचित् | न तत् कारणतामेति तत्प्राप्तौ प्राप्तभावतः || ६९ || तेन निरोधेन | तत् अद्वैतात्मविज्ञानम् | कुत्रचित् काले क्वचिद्देशे | नन्वेवमात्मज्ञानस्य साधनसाध्यत्वेन घटादिज्ञानतुल्यत्वे घटवदात्मनो जडत्वमनात्मत्वञ्च स्यादित्यत आह - न तदिति | तत् निरोधनम् | तत्प्राप्तौ आत्मविज्ञानप्राप्तौ | प्रकृते आत्मरूपमेव विज्ञानं विवक्षितम् न त्वात्मनो विज्ञानम् | अतस्तस्य प्राप्तत्वमिति भावः || ६९ || प्. १२५) अप्राप्तावात्मता न स्यादात्मत्वेऽनाप्तता कुतः | अप्राप्यः सर्वथैवात्मा प्राप्तिस्तस्य न विद्यते || ७० || एतदेव साधयति - अप्राप्ताविति || ७० || अप्रातस्य भवेत् प्राप्तिरात्मत्वान्नाप्तिरस्त्यतः | तन्निरोधोऽपि नाप्त्यर्थस्त्वत्र पश्य निदर्शनम् || ७१ || तन्निरोधः मनोनिरोधः | निदर्शनं दृष्टान्तम् || ७१ || अन्धकारसमाच्छन्नं किञ्चित् तस्य निरोधतः | दीपाद्यैराप्यते प्राप्तमिव लोके यथा तथा || ७२ || किञ्चित् घटादि | तस्य अन्धकारस्य दीपसूर्यादिभिर्निरोधतः परिहारतः घटाद्याप्यते | अत्र स्थितमपि घटादि यथा तमोनिरोधात् प्राप्तमिव भवति तथा स्वप्रकाशचिदेकरूपमात्मतत्त्वं वासनोद्भूतविकल्पैराच्छन्नमिव स्थितं विकल्पनिरोधेन प्राप्तमिव भवति | तथा च निरोधस्य न स्वरूपप्रापकत्वमिति भावः || ७२ || यथा कश्चिद् भ्रान्तचित्तः क्वचिद्विस्मृतनिष्ककः [क्: कश्चि] | अन्यचिन्तानिरोधेन समाहिततया पुनः || ७३ || नात्रान्धकारवत् स्वरूपातिरिक्तमाच्छादकं सम्भवतीत्याशयेन दृष्टान्तान्तरमाह - यथेति | निष्कं सुवर्णम् || ७३ || आसादयति तन्निष्कं नष्टं प्राप्तं यथा तथा | न निरोधोऽत्र हेतुः स्यान्निष्काप्तौ तु यथा तथा || ७४ || प्राप्तं यथा प्राप्तमिवेति द्वितीयं यथापदं योजनीयम् | अत्र यथा अनष्टं निष्कं नष्टं प्राप्तमिति चोच्यते तथा अप्राप्त आत्मा प्राप्तो भवति | अत्र यथाऽन्यचिन्तानिरोधो न निष्कप्राप्तौ हेतुस्तथा प्रकृतेऽपि निरोधो न हेतुः || ७४ || प्. १२६) आत्मलाभे न हेतुः स्यान्निरोधो बाह्यवस्तुनः | त्वया न लक्षितः स्वात्मा तत्र व्युत्पत्तिवर्जनात् || ७५ || बाह्यवस्तुनो निरोधः | ननु तर्ह्यात्मा मया निरोधेनापि कुतो न लक्षित इति चेदाह - तत्रेति | व्युत्पत्तिः वस्तुपरिचयः || ७५ || यथा प्रकाशेऽव्युत्पन्नो रात्रौ राजसभां गतः | पश्यन् सभ्यांश्च दीपांश्च न जानाति प्रकाशकम् || ७६ || अव्युत्पत्त्या दृश्यमानमपि नोपलक्षयतीत्यत्र दृष्टान्तमाह - यथेति | अव्युत्पन्नः प्रकाशो हि प्रदीपप्रसृतो भास्वररूपवान् भावावभासक इति परिचयहीनः | एवं त्वया न लक्षित इति योज्यम् || ७६ || शृणु प्रिय निरोधान्ते ह्यन्धकारो विलोकितः | अन्धकारावलोकादौ शेषभावस्तव स्थितः || ७७ || एवं स्वरूपानुपलक्षणेऽव्युत्पत्तिं निमित्तम्क्त्वा तद्व्युत्पत्त्यर्थमाह - शृण्विति | निरोधो ह्यविकल्पदशा | तत्रान्धकारावलोकनरूपविकल्पासम्भवान्निरोधान्ते इत्युक्तम् | तादृशान्धकारावलोकनस्यादौ [ख्, ग्, घ्: लोकस्यादौ] पूर्वदशायां निर्विकल्परूपायाम् | यस्तव शेषभावः स्थितः परिशिष्टं रूपं स्थितम् | तथा [क्: यथा] हि देहाद्यतिरिक्तं ज्ञानमात्मनो रूपम् तच्च विकल्पकाले दृश्यसंवलितमेव [क्, ख्: दृश्यं सं] प्रकाशते | निरोधकाले दृश्यपरिच्युतौ यद् ज्ञानमात्रं स्थितं तत्परिशिष्टं रूपं शेषभाव इत्युच्यते | न च तादृशशेषभावोऽपह्नोतुं शक्यः स्वप्रकाशत्वेन तस्य प्रकाशमानत्वात् व्युत्थितस्य तस्यैतावन्तं कालं किञ्चिदविदन्नासमित्यनुसन्धानाच्चेति || ७७ || तं भावं भावय सदा परमानन्ददायकम् | अत्र सर्वे महामोहग्रहग्रस्ताः पराग्दृशः || ७८ || तं भावं शेषभावम् दृश्यरहितदृङ्मात्ररूपम् | सदा अहमस्मीति भावय अनुसन्धिपरो भव | दुःखमूलद्वैताभासवैधुर्येण [क्: दृश्य-; क्: भासन] दुःखादिरूपानन्दाच्छादकाभावादभिव्यक्तपरमानन्दरूपत्वेन [क्: दृश्या-; क्: व्यक्तदृश्यप] प्रकाशमानत्वात् परमानन्ददायकमिति | अत्र एवंविधे स्वरूपे सर्वं शास्त्रज्ञा योगिनश्च | पराग्दृशः [क्: यः सदृशः] बहिर्मुखान्तःकरणाः [क्: करण] पश्यामीति परिच्छिन्नाभिनिवेशपरा [क्: पर] इति यावत् | यदुक्तम् - पश्यामीति पराग्दृष्टेरलभ्यं तत् परं पदम् इति || ७८ || प्. १२७) अन्विष्यान्विष्य विहता न तां प्रापुश्च भावनाम् | सन्ति लोके शास्त्रविदः कुशलाश्च सुतार्किकाः || ७९ || यतः सर्वे तत्र महामोहग्रस्ताः अत आह - अन्विष्येति | तद्भावाप्राप्त्या विहताः श्रान्ताः | तां भावनां शेषभावानुसन्धिरूपाम् | ननु मास्त्वेषा भावना शास्त्राभयसतर्कादिभिरेव लब्धपुरुषार्था भवाम इति चेन्नेत्याह - सन्तीति | शास्त्रविदः श्रवणपराः | कुशलाः तार्किका मननपराः | एवंविधा अपि पराग्दृशो निदिध्यासनराहित्येन पुरुषार्थाप्राप्त्या शोचन्त्येवेति भावः || ७९ || अविदित्वा भावममुं शोचन्त्येव दिवानिशम् | शब्दार्थशिल्पमात्रेण नहि तत्पदमाप्यते || ८० || शब्दार्थे श्रुतार्थे शिल्पो मननं तन्मात्रेण || ८० || यावदन्वेषणं कुर्याद्विचारं वापि पण्डितः | तावन्न प्राप्यते तद्वै यतो न ग्राह्यमेव तत् || ८१ || नन्वतिसूक्ष्मोऽपि शास्त्रार्थो भूयः श्रवणमननाभ्यां चित्तमुपारोहति एवमेष भावोऽपि श्रवणमननाभ्यामेव भूयःकृताभ्यां चित्तारूढो भवेत् किं रोधरूपनिदिध्यासनेनेति चेन्नेत्यह - यावदिति | अन्वेषणं श्रवणम् [क्: श्रवणम् नास्ति] विचारं मननम् | कुत एवमिति चेदाह - यत इति | अस्याग्राह्यत्वेनालौकिकत्वान्न केवलश्रवणमननाभ्यां चित्तारूढतेति भावः || ८१ || प्. १२८) गत्वा दूरं न तत् प्राप्यं स्थित्वा प्राप्तं हि सर्वदा | न तद्विचार्य विज्ञेयमविचाराद् विभासते || ८२ || अलौकिकत्वमेव तस्याह - गत्वेति [क्: यत इति] | अत्र गमनमिन्द्रियप्रसारः | स्थितिस्तदप्रसारः | विचारश्चिन्तनं चित्तप्रसारः [ख्: प्रसादो] अविचारस्तदभावः | पराग् वस्तु हि बाह्यमिन्द्रियव्यापारेण आन्तरं विचारेण ज्ञातुं शक्यम् अस्य तु प्रत्यग्रूपत्वेनेन्द्रियमनोनिरोधमन्तरा दुर्विज्ञेयत्वमिति भावः || ८२ || धावन् स्वमूर्धच्छायेव न प्राप्यं क्रियया क्वचित् | यथा हि निर्मलादर्शे प्रतिबिम्बसहस्रकम् || ८३ || सव्यापारेण न प्राप्यमित्यत्र दृष्टान्तमाह - धावन्निति | प्रमाणव्यापारस्य प्रमातर्यप्रसर इति तात्पर्यम् | वस्तुन्यव्युत्पन्नेन निरोधवतापि तद् दुर्विज्ञेयमिति वस्तुव्युत्पत्तये भूयः सदृष्टान्तं निरूपयति - यथेति || ८३ || पश्यन् बालोऽपि नादर्शं पश्यत्येवं जनः खलु | पश्यन् स्वात्ममहादर्शे प्रतिबिम्बं हि जागतम् || ८४ || बालः आदर्शेऽव्युत्पन्नः पश्यन्नपीति सम्बन्धः | न पश्यति एष आदर्श इति न विजानाति | दार्ष्टान्तिके योजयति - एवं जन इति | जागतं जगत्सम्बन्धि प्रतिबिम्बम् || ८४ || स्वात्मानं न विजानाति तद्व्युत्पत्तिविवर्जनात् | यथा परिचिताकाशः पश्यन्नाकाशसंश्रितम् || ८५ || चित्तसमारोहाय दृष्टान्तरमाह - यथेति | व्युत्पत्तिहि वस्तुपरिचयः | यथा ह्याकाशमवकाशात्मकमिति कथञ्चित् परिचिताकाशः पुरुषः सर्वत्र जगत् पश्यन् [क्, ख्: पश्येत्] तदाश्रयमाकाशं च पश्यति | कथञ्चिदप्यपरिचिताकाशस्तु सर्वमाकाशाश्रितं जगत् पश्यन्नपि नाकाशं पश्यति | एवमपरिचितात्मस्वरूपः स्वात्मप्रतिबिम्बितं जगत् पश्यन्नपि नात्मानं पश्यतीति भावः || ८५ || प्. १२९) जगन्नावैति चाकाशं तथा स्वात्मस्वरूपकम् | नाथ सूक्ष्मदृशा पश्य ज्ञानज्ञेयात्मकं जगत् || ८६ || अव्युत्पत्त्या निरोधेनाप्यात्मा नोपलक्षित इति तत्र व्युत्पादनाय शेषभावस्तव स्थितः (९|७७) इत्याद्युक्तम् तथापि तत्र प्रियस्याव्युत्पत्तिमालक्ष्य प्रकारान्तरेण तत्र व्युत्पादयितुं भूय आह - नाथेति | जगदस्तीति शेषः || ८६ || तत्र ज्ञानं स्वतः सिद्धं तदभावे न किञ्चन | प्रमाणानां प्रमाणं तदप्रमाणं स्वतो भवेत् || ८७ || अनेकविधमपि जगत् संक्षेपेण ज्ञानं ज्ञेयमिति द्विरूपम् | तत्र ज्ञेयं प्रत्यक्षादिप्रमाणैः सिद्धमनात्मरूपं [ख्, घ्: स्वरूपं] चेति तन्निरूपणमप्रयोजकमिति ज्ञानमेव निरूपयति - तत्रेति | तयोर्मध्ये इत्यर्थः | स्वतः प्रमाणमनपेक्ष्य | तदभावे न किञ्चिद् भायात् [क्, ख्: भूयात्; घ्: भायादिति तात्पर्यम्] अतस्तदपह्नोतुमशक्यमिति तात्पर्यम् | ननु तदभावे न किञ्चनेत्यनुपपन्नम् प्रमाणैः [क्: प्रमाणं] प्रमेयस्य सिद्धत्वादित्याशङ्क्य प्रमाणानां प्रमाणत्वे सिद्धे प्रमाणैः प्रमेयं सेत्स्यति प्रमाणत्वं च प्रमेये व्यावृत्ति(पृति)क्रियामन्तरा [क्: अव्या] न सिध्यति तस्यां च क्रियायां न [ख्, ग्: न नास्ति] प्रमाणस्य स्वातन्त्र्यम् करणत्वात् कुठारवत् | अतः प्रमाणानां प्रमातारमन्तरा प्रमाणत्वासिद्धौ प्रमेयं न सिध्यतीति तात्पर्येणाह - प्रमाणानामिति | प्रमाणानां प्रमाणं स्वरूपसाधकमित्यर्थः | ननु प्रमाणं प्रमितं ह्यस्ति तथा च प्रमातरि प्रमाणापेक्षायां तत्रापि प्रमात्रन्तरापेक्षायामनवस्थानं स्यादित्याशङ्क्याह - अप्रमाणमिति | न प्रमाणं यस्य तत् [क्, ख्: तम्] | ननु तर्हि कथं तदस्ति ? तदाह - स्वत इति | स्वसत्तायामनन्यापेक्षमिति भावः || ८७ || प्. १३०) यतः प्रमाणानपेक्षमादिसिद्धमतस्तु तत् | सिद्धिसाधकभावेन [ग्: सिद्ध] न तत्सिद्धिः कदाचन || ८८ || कुत एवमिति चेदाह - यत इति | प्रमाणानपेक्षमिति | प्रमातु श्चिद्रूपत्वेन सदा प्रकाशमानत्वात् नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते (प्० प्० १२) इति रीत्याऽप्रकाशितप्रकाशकप्रमाणस्य तत्रानुपयोग इति तात्पर्यम् | अतः साधनानपेक्षणात् | सिद्धिसाधकेति [क्: सिद्ध] | सिद्धिरुत्पत्तिर्ज्ञप्तिर्वा [क्: स्तत्प्रति] साधकं तयोः साधनम् उत्पत्तिसाधनं ज्ञप्तिसाधनं वेत्यर्थः | सिद्धिसाधकस्य भावः सत्त्वम् | उत्पत्त्यादिसाधकसत्त्वेन कदाचिदपि न तत्सिद्धिः चिदात्मन उत्पत्तिर्ज्ञप्तिर्वा न साधनान्तरेण युज्यत इति भावः | चिदात्मन उत्पत्तौ ज्ञप्तौ वा कर्तृकरणयोरपेक्षास्ति | तथा च चितिभेदासम्भवेनैक्यात् स्वस्य स्वसिद्धिकर्तृत्वकरणत्वानुपपत्तिः | अचिदात्मा तु चितिमन्तरा स्वयमेवासिद्धः कथं परसिद्धिं कुर्यादिति तात्पर्यम् | एतच श्रीप्रत्यभिज्ञायां कर्तरि ज्ञातरि (१|२) इति सूत्रेण [क्, घ्: सूत्रे] वितानितम् || ८८ || तत्र विप्रतिपन्नस्य न प्रश्नो नापि चोत्तरम् | अनपह्नवनीयं तन्महादर्शतलं भवेत् || ८९ || तत्र ज्ञानस्वरूपे | विप्रतिपन्नस्य नास्ति ज्ञानमित्याक्षेपपरस्य | न प्रश्नो नापि चोत्तरम् | सिध्यतीति शेषः | ज्ञेयस्य जडस्य स्वरूपमात्रपरिनिष्ठितस्वभावस्यान्यत्रास्ति नास्तीति विकल्पनसामर्थ्याभावात् | ज्ञानाधीनत्वादखिलसिद्धेस्तदाक्षेपे न प्रश्नादिकं सिद्ध्यतीति तात्पर्यम् यतस्तदपह्नवेऽस्ति नास्ति वेति प्रश्नाद्यसिद्धिरत आह - अनपह्नवनीयमिति | ननु ज्ञानं ज्ञेयमिति वस्तुद्वयम् तत्र ज्ञानापह्नवे ज्ञेयस्य प्रकाश एवोपहतः स्यात् न तु ज्ञेयस्वरूपस्योपहतिः तथा च तदभावे न किञ्चनेति कथमित्याशङ्क्य ज्ञेयं ज्ञानान्न पृथगिति वक्तुमाह - तन्महादर्शेति || ८९ || प्. १३१) तत्र सर्वं भासते वै दर्पणप्रतिबिम्बवत् | देशेन वापि कालेन परिच्छित्तिर्न विद्यते || ९० || तत्र महादर्शतलनिभे ज्ञानात्मनि | यथा हि दर्पणं विना प्रतिबिम्बं न किञ्चित् एवं ज्ञानं विना ज्ञेयं न किञ्चिदिति भावः | ननु न तदन्तः सर्वं भासते येन सर्वं प्रतिबिम्बात्मकं भवेत् | देशकालयोस्तत्परिच्छेदकयोस्तदनन्तर्गतत्वादित्याशङ्क्य नेत्याह - देशेनेति || ९० || तदन्तर्भासमानत्वात् कथं ताभ्यां परिच्छिदिः | परिच्छेदस्य भानं तु गगने वस्तुभिर्यथा || ९१ || देशकालाभ्यां ज्ञातस्य [घ्: ज्ञानस्य] कुतो न परिच्छित्तिरिति चेदाह - तदन्तरिति | यथा हि दीपेन प्रकाशमानो घटादिर्दीपप्रकाशान्तर्निमग्न एव यावान् [क्: यावान् नास्ति] घटादेरंशो दीपप्रकाशाव्याप्तस्तावान्न प्रकाशमानः तथा ज्ञानेन प्रकाशमानं ज्ञानान्तर्निमग्नमेव निखिलं ज्ञेयम् | एवं घटाकारं ज्ञानमित्याद्यनुभवादपि भासमानो घटाद्याकारो ज्ञानान्तर्गत एव | नहि ज्ञानान्तर्भाअमानघटाद्याकारादन्यो घटादिर्ज्ञानाद् बहिरभ्युपेयते प्रमाणाभावात् प्रयोजनाभावाच्च प्रतिबिम्बानुमितबिम्बात्मकघटादेरनुमितिज्ञानभास्यत्वेन तदन्तर्निमग्नत्वेन ज्ञानान्तर्गतत्वसिद्धेश्च | तथा च देशकालयोरपि ज्ञेयत्वेन ज्ञानान्तर्गतत्वे सिद्धे स्वान्तर्गतेन न स्वपरिच्छेद इति भावः | परिच्छिदिः परिच्छित्तिः | ननु कथं तर्ह्यवेदानीमेतदज्ञानमिति परिच्छेदभानमिति चेद् व्यापकस्या परिच्छिन्नस्याकाशस्य [क्: परिच्छिन्नस्या नास्ति] स्वान्तर्निमग्नैर्घटाद्यैरिव परिच्छेदाभास एवेत्याह - परिच्छेदस्येति | वस्तुभिः घटाद्यैः || ९१ || प्. १३२) राजपुत्र ! सूक्ष्मदृशा तल्लक्षय निजं वपुः | यत्र सामान्यचैतन्ये जगदेतद् विराजते || ९२ || एवमखण्डमपरिच्छिन्नं स्वप्रकाशंज्ञानं निष्कृष्य तदेव समाधौ लक्षणीयं तव निजं वपुरित्याह - राजपुत्रेति | सूक्ष्मदृशेति विषयाकाररहितयाऽन्तर्मुख्येत्यर्थः | यथा हि घटादेः स्थूलं रूपमाकारः सूक्ष्मं तु निखिलपार्थिवविकारानुस्यूतं पृथिवीसामान्यम् एवं तत्तदाकाराखिलदृगनुस्यूता सामान्यचितिः सामान्यचैतन्यं तद्रूपं निजं वपुर्लक्षय | जगदिति | समाधौ सामान्यचिद्रूपं यत् प्रकाशते व्युत्थाने विकल्पदशायां तदेव प्रतिबिम्बानां दर्पणवद् जगदाश्रयमिति भावः || ९२ || तत्समावेशसंसिद्ध्या सर्वकर्तृत्वमाप्नुयात् | तस्योपलब्धिं वक्ष्यामि यतः प्राप्नोषि [क्: प्राप्नोति] तत्पदम् || ९३ || नन्वेवं महता प्रयासेन स्वरूप उपलक्षितेऽपि न किञ्चित् फलं दृश्यत इति चेदाह - तत्समावेशेति | तस्य जगत्प्रकाशाधिष्ठानसामान्यचैतन्यस्योपलक्षितस्य समावेशः सोऽहमस्मीत्यविच्छेदेनानुसन्धानम् निदिध्यासनमिति यावत् | तस्य सिद्धिः परिपाकः अयत्नेनानुवृत्तिरित्येतत् | सर्वकर्तृत्वं परमेश्वरतन्मयत्वम् | यदुक्तम् [घ्: तदुक्तम्] - ख्यातिमपूर्णाम्पूर्णख्यातिसमावेशदार्ढ्यतः क्षपय | सृज भुवनानि यथेष्टं [यथेच्छं स्थाप्य हर तिरय भासय च इति मुद्रितग्रन्थपाठः] भज शम्भुं भव गुरुर्जगतः || (वि० प० ५२) इति | ननु सामान्यचैतन्यमित्यपि सुषुप्तिवद्दशाविशेषः तत् कथं तस्य सर्वदशानुस्यूतत्वमिति चेत्तस्य [क्: चित्तस्य] सर्वत्रोपलब्धिरस्तीत्याह - तस्येति | सामान्यचैतन्यस्येत्यर्थः | उपलब्धिम् उपलब्धिस्थानम् | यतः यस्माद् मद्वचनात् | तत्पदं सामान्यचैतन्यस्थानम् || ९३ || प्. १३३) निद्राजाग्रन्मध्यभागे संविद्भेदान्तरे तथा | मध्ये संविद्वेद्ययोश्च सूक्ष्मबुद्ध्याऽभिलक्षय || ९४ || तदेवाह - निद्रेत्यादि | सामान्यचैतन्यं नाम विषयाकाररहितं निर्विकल्पं ज्ञानम् तच्च निद्राजाग्रन्मध्यभागे स्थितमभिलक्षयेति सम्बन्धः | निद्रा सुषुप्तिः | जाग्रद् विकल्पज्ञानधारा | अन्तःकरणात् पृथग्भृतैः स्थूलैरिन्द्रियैर्जाग्रति विषयग्रहणम् स्वप्ने तु [क्: अनु] मनोऽन्तःप्रविष्टैः प्राप्ततदैक्यकल्पैर्जलनिमग्नकरकासदृशैः संस्कारात्मकमानसविषयग्रहणम् | सुषुप्तौ पुनरिन्द्रियविशिष्टं मनः स्वयोनौ प्रकृतौ विलीयते | प्रकृतिश्च तदोन्मिषत्तमोंऽशेन सत्त्वांशं रजोंऽशं चाच्छाद्य तिष्ठति | तदा घनच्छन्नार्कवदात्मापि तमसाच्छन्नः स्वयं मन्दं प्रकाशते | तथा च जाग्रत्सुषुप्त्योर्मध्यक्षणे मनसो विलयाभिमुखत्वान्न विषयग्रहणम् | प्राकृततमसोऽत्यन्तमनुन्मेषान्न स्वरूपाच्छादनमिति चिदात्मा विषयाकारमप्राप्तः [क्: समाप्तः] प्रकाशमानः सामान्यचैतन्यरूपः | एवं संविद्भेदान्तरे संविदां भेदो घटाकारता पटाकारतेत्यादि | एवं भिन्नसंविदामन्तरे मध्ये नहि ज्ञानस्य घटाकारतैव [क्, ग्: तैव] पटाकारता तद्भेदस्य प्रसिद्धत्वात् | सिद्धे च तद्भेदे घटाद्याकारशून्या शुद्धान्तरालदशाऽनिवार्यैव | एवं संविद्वेद्ययोर्मध्ये संविदित्यहङ्कारात्मा द्रष्टा | यथा मुक्तद्वारं [क्: द्वारेण] तडाकोदकं कुल्याद्वारा केदारोदकेनैकीभवति तथा विषयग्रहणकाले द्रष्टृसंविद् दृश्यसंवित्पर्यन्तं करणद्वारैकीभवति | तत्र द्रष्टृ स्थाने शरीरादि (दौ) द्रष्ट्राकारं चैतन्यम् नभसि दृश्ये सूर्यमण्डले च तदाकारम् मध्ये तु शुद्धमाकारवर्जितमिति | विषयाकारवर्जितं चैतन्यमात्मनो वास्तवं रूपम् | तस्योअपलब्धिस्थानान्येतानीति भावः || ९४ || प्. १३४) एतत्पदं निजं रूपं यत् प्राप्य न विमुह्यति [क्, ग्: ह्यसि] | एतदज्ञानमात्रेण प्रवृत्तं जगदीदृशम् || ९५ || नन्वेतदात्मोपलब्धिस्थानम् तथा च [क्: च तत्रोपलभ्य नास्ति] तत्रोपलभ्य आत्मा कीदृश चेदाह एतदिति | एतत्पदमेव निजं रूपम् न ततोऽतिरिक्तं किञ्चित् | परित्यक्तदृश्याकारं शुद्धचैतन्यमेव द्रष्टुर्वास्तवं रूपमिति भावः | यत् प्राप्य अहमस्मीति दृढमुपलभ्य | एतदज्ञानमात्रेण अहमस्मीत्यनुपलम्भनेन | ईदृशं महादुःखमयम् | शुद्धचैतन्यं वास्तवमात्मनो रूपमिति ज्ञाते तत्तदाकारस्य दर्पणे प्रतिबिम्बवत् कल्पितत्वनिश्चये प्रतिबिम्बव्याघ्रादेर्यथा न दुःखदत्वमेवं दृश्याभासस्यापीति भावः || ९५ || नात्र रूपं रसो वापि न गन्धस्पर्शशब्दनम् [क्: कम्] | न दुःखं न सुखं वा तु न ग्राह्यं ग्राहकं च न || ९६ || यत एवंविधदशासूपलभ्यं [घ्: दृशा सूप] शुद्धचैतन्यमेवात्मनो वास्तवं रूपमतो विषयाकाराभासदशायामपि दर्पणे प्रतिबिम्बवत् स्वरूपातिरिक्तं न किञ्चिदित्याह - नेति | अत्र आत्मनि | शब्दनं शब्दः | न ग्राह्यमिति विशेषरूपेण निषिद्धानां रूपादीनां सामान्यरूपेण निषेधः | ग्राहकमिन्द्रियादि || ९६ || सर्वाश्रयं सर्वरूपमपि सर्वविवर्जितम् | एष सर्वेश्वरो धाता विष्णुरीशः सदाशिवः || ९७ || प्रतिबिम्बानां दर्पण इव सर्वस्य दृश्यस्याश्रयम् तथा सर्वरूपम् | एवमपि वस्तुतः सर्वविवर्जितम् | दर्पणस्य यथा सर्वप्रतिबिम्बाश्रयादित्वेऽपि वस्तुतः सर्ववर्जितत्वं तथेति भावः | का सा परा चितिर्माता (९|४) इति के वा वयम् (९|५) इति च पृष्टम् | ततः ज्ञाए स्वात्मस्वरूपे वै ततो ज्ञास्यसि मातरम् (९|७) इत्युत्तरमुक्तं प्राक् | तत्र पुनः पृष्टा हेमलेखा महता प्रबन्धेन स्वात्मरूपं विविच्य प्रोवाच | सम्प्रत्येवंविधं शुद्धं स्वात्मरूपमेव परचिदात्मकं मातृरूपमित्युपदिशति - एषेति | शुद्धः सामान्यचैतन्यरूप आत्मेत्यर्थः | सर्वेषां ब्रह्मादीनाम् ईश्वरस्तुर्य ईशस्तिरोधानक्रिय ईशो रुद्रः | सदाशिवः पञ्चमोऽनुग्रहकारी | यथा हि दर्पणे तत्तत्प्रतिबिम्बपरिच्छिन्नदर्पणांशानां तत्तद्रूपेण भेदेऽपि दर्पणसामान्यरूपेणाऽखिलदर्पणानुस्यूतता तस्य तथा [क्: यथा] प्रतिबिम्बकल्पतत्तद्देहाद्यवच्छिन्नचैतन्यरूपेण भेदेऽपि समाध्याद्युपलब्धसामान्यचैतन्यरूपेण सर्वानुस्यूतत्वादेष एव सर्वेश्वरादिरिति भावः || ९७ || प्. १३५) पश्येषदन्तः संरुध्य स्वात्मानं स्वात्मना सता | त्यक्त्वा बहिःप्रसरतामन्तःप्रसरणोद्यतः || ९८ || एवंविधमात्मतत्त्वं मदुपदेशैर्व्युत्पन्नस्य तव [क्, ख्: तव नास्ति] न दुर्लक्ष्यमित्याह - पश्येति | ईषदिति न चिरं संरोधापेक्षा किन्तु क्षणं दृश्याकारानुल्लेखेन मनः संरुध्य तद्रूपं पश्येति भावः | तद्रूपस्यादृश्यत्वात् कथं पश्यामीति चेदाह - स्वात्मना सतेति | नहि तदिदमीदृशमिति द्रष्टुं शक्यम् किन्तु निरोधावधिभूतस्वात्माभिन्नसामान्यसद्रूपेण सद्यो जनितशिशोर्जडव्यावर्तकान्तरुल्लसत्स्वरूपाभिन्नविशेषवदस्मीति सामान्याभ्युपगमरूपेणेति भावः | कथं मनः संरोद्धव्यं तदाह ##- उद्यमवान् सन्नित्यर्थः | अत्रान्तःप्रसरणं बहिःप्रसरणत्यागस्य दृढावष्टम्भरूपोऽभिनिवेश एव नान्यद् व्यापारान्तरम् स्वरूपे [क्, ख्: स्वरूपं] व्यापारानुपपत्तेः || ९८ || त्यक्त्वा पश्यामीति भावमन्धवन्निश्चलात्मना | दर्शनादर्शने त्यक्त्वा योऽसि सोऽसि द्रुतं भज || ९९ || एवमप्यहं मां पश्यामीत्यभिनिविशतः स्वरूपं दुर्लक्ष्यमित्यत आह ##- निश्चलात्मना वृत्तिसामान्यशून्यरूपेण स्थितं पश्येति सम्बन्धः | यदुक्तम् - पश्यामीत्यपि यावत्ते द्रष्टृभावो विजृम्भते | तावद्यत्नशतैश्चापि न पश्यस्यात्मवैभवम् || इति | एतदेव विविच्य पुनराह ##- सुषुप्तिरूपं मूढत्वम् तदुभयं व्यावृत्तरूपं त्यक्त्वा नाहमस्मीति दृढं निश्चित्य स्थितस्त्वं योऽसि यद्रूपोऽसि परिशेषादवस्थात्रयानुगतयादृश[क्: तया दृशा सा]सामान्यचैतन्यतुर्य[घ्: तुर्य नास्ति]रूपोऽसि सोऽसि तद्रूप एवासि तमेवात्मत्वेन भज | अवस्थात्रयसाक्षितुर्यरूपमात्मत्वेन कालविलम्बमपहाय द्रुतं भजेति भावः || ९९ || प्. १३६) इत्युक्तः प्रियया हेमचूड आलक्ष्य तत् [ख्, ग्, घ्: तं] पदम् | चिरं विश्रान्तिमालभ्य बहिर्विस्मरणं ययौ || १०० || तथा कृत्वा तत् [ख्, ग्, घ्: तं] पदमालक्ष्य | विश्रान्तिः निर्विकल्पसमाधिः || १०० || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे हेमचूडविश्रान्तिर्नाम नवमोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां नवमोऽध्यायः || प्. १३७) अथ दशमोऽध्यायः अथाऽपश्यद्धेमलेखा प्रियं प्राप्तपरस्थितिम् | न चालयत् परपदात्ततः सोऽपि मुहूर्ततः || १ || अत्राध्याये धातुपद्यैः प्रियया बोधितः पुनः | प्राप्य बाह्यसमाधिं स जीवन्मुक्तोऽभवद् दृढम् || प्राप्ता परस्मिन् सामान्यचिद्रूपे स्थितिर्येन | न चालयत् नोद्वोधयत् || १ || प्रबुद्ध उन्मील्य नेत्रे अपश्यत् सप्रियं जगत् | भूयस्तत्पदविश्रान्तिमीहमानोऽतिवेगतः || २ || सप्रियं प्रियासहितम् | तत्पदविश्रान्तिः समाधिः || २ || नेत्रे नि(न्य)मीलयद्यावदब्रवीत्तावदेव सा | प्रियं हस्ते समादाय सुधासुन्दरभाषिणी || ३ || सा हेमलेखा || ३ || नाथ किं ते व्यवसितं ब्रूहि नेत्रनिमीलनात् | उन्मीलनाद्वा किं स्यात्ते लाभालाभौ समीरय || ४ || व्यवसितं निश्चितम् | निमीलनादिना यद्भवेद् लाभोऽलाभो वा तौ समीरय || ४ || उन्मील्य न प्राप्यते किं निमील्य प्राप्यते च किम् | तन्मे ब्रूहि प्रियतम श्रोतुमिच्छामि ते स्थितिम् || ५ || एतस्यैव विवेचनम् - उन्मील्येति | स्थितिम् अभ्युपगमम् || ५ || एवं पृष्टस्तया प्राह मदमत्त इवालसः | अनिच्छन्नपि वक्तुं तामालस्यभरमन्थरः || ६ || मन्थरः मन्दव्यवहारः || ६ || प्रिये विश्रान्तिमत्यन्तं प्राप्तवानस्मि वै चिरात् | न बाह्ये दुःखभूयिष्ठे विश्रमोऽस्ति क्वचिन्मम || ७ || विश्रान्तिं विश्रमणं दुःखासम्भिन्नसुखमित्येतत् | बाह्ये व्यवहारे || ७ || प्. १३८) अलमृजीषरोमन्थप्रायव्यवहृतैर्बहिः [ग्, घ्: हृतेर्बहिः] | दौर्भाग्यान्धो नाद्य यावदविदं स्वात्मसत्सुखम् [घ्: स्वात्मनः सुखम्] || ८ || ऋजीषं हृतरसेक्षुखण्डांशः | रोमन्थः चर्वितचर्वणं पशुषु प्रसिद्धम् | तदेवान्नं च पानं च प्रियाङ्गं मोहकं च तत् | एतदास्वादनं नूनं पशुरोममन्थवत् सदा || इत्युक्तरीत्या नह्यपूर्वं किञ्चिदिति भावः | अनन्धोऽपि दौर्भाग्येनान्धप्रायः | स्वात्मसम्बन्धि सत्सुखम् | न तु वैषयिकसुखवदसत् क्षणिकमिति भावः || ८ || यथा कश्चिदटन् भिक्षां निधानं स्वं न वेद वै | तथाऽहं स्वसुखाम्भोध्मविदित्वा पुनः पुनः || ९ || स्वात्मसम्बन्धिसुखाम्भोधिम् || ९ || सुखं वैषयिकं श्रेष्ठं दुःखसंघाभिसंप्लुतम् | विद्युद्विलयनं मत्वा स्थिरं तत्परतावशात् || १० || श्रेष्ठं स्थिरं च मत्वेति योजना | विद्युद्विलयनं विद्युदिव क्षणमात्रेण विलयनं नाशो यस्य | तत्परता तदाश्रयणम् || १० || दुःखैरभिहतो नूनं विश्रान्तिं न तु लब्धवान् | अहो जना दुःखसुखविवेकज्ञानवर्जिताः || ११ || विश्रान्तिं दुःखासम्भिन्नसुखम् | जनास्तु दुःखेषु सुखाभिमानाद् दुःखमेवानुभवन्तीत्याह - अहो इति || ११ || सुखार्थिनो दुःखसंघं सञ्चिन्वन्ति मुधा सदा | तदलं दुःखभोगेन स्वयत्नासादितेन वै || १२ || दुःखसङ्घं दुःखसाधनजालं धनगृहादिकम् || १२ || प्रिये कृपां मयि कुरु प्रार्थयामि कृताञ्जलिः | विश्रान्तिमभिवाञ्छामि चिरं स्वस्मिन् सुखात्मनि || १३ || विश्रान्तिं प्रोक्तसुखात्मकस्वस्वरूपावस्थानात्मकं समाधिम् || १३ || अहो दैवहता भासि ज्ञात्वापि त्वमिदं पदम् | तद्विश्रान्तिं परित्यज्य मुधा दुःखाय चेष्टसे [ख्, ग्, घ्: चेष्टसि] || १४ || चेष्टसे [ख्, ग्, घ्: चेष्टसि] व्यवहारपरासि || १४ || प्. १३९) इत्युक्ता सा प्रियं प्राह स्मयित्वेषन्मनीषिणी | नाथ ते तन्न विदितं पदं परमपावनम् || १५ || स्मयित्वा स्मितं कृत्वा | तत् अपरिच्छिन्नं सामान्यसंविद्रूपम् | न विदितम् अहमस्मीति न प्रत्यभिज्ञातम् | परमपावनं द्वैतमललेशरहितम् || १५ || यत्र स्थिता न मुह्यन्ति पण्डिताः पावनाशयाः | तत्पदं दूरतस्तेऽस्ति भूस्थस्येव नभस्तलम् || १६ || यत्र अद्वैतचिद्रूपे पूर्णे पदे | स्थिताः अहमस्मीति दृढाभिनिवेशं गताः | न मुह्यन्ति नेत्रोन्मीलननिमीलनाभ्यां स्वरूपे विशेषं नाधिगच्छन्तीति भावः | पावनाशयाः द्वैतवासनोत्क्रान्तचित्तः | तत्पदं पण्डितासादितम् || १६ || त्वया किञ्चित् सुविदितं भवेदविदितोपमम् | निमील्योन्मील्य वा नेत्रे तत्पदं न समीक्ष्यते || १७ || त्वया निरोधपरतन्त्रेण किञ्चित् परिच्छिन्नं विदितमपि तत्र परिच्छेदस्यावस्तुत्वेन शुद्धं न विदितमित्यविदितोपममेव | कुत एवमिति चेदाह - निमील्येति || १७ || अकृत्वा वापि कृत्वा वा न तल्लभ्येत कर्हिचित् | अगत्वा चापि वा गत्वा न तदासादयेत् पदम् || १८ || अकृत्वेति | स्वप्रकाशत्वान्नित्यसत्त्वात् [क्: नित्यत्वात्] सर्वगतत्वाच्च | तत्स्वरूपे निमीलनकरणगमनादिभिर्न विशेष इति भावः || १८ || निमील्य कृत्वा गत्वा वा प्राप्तं पूर्णं कथं भवेत् | यवाष्टकमितेनैव पक्ष्मणोन्मीलितेन तु || १९ || अन्यथा पूर्णत्वादिहानिरित्याह - निमील्येति | पूर्णमिति स्वप्रकाशं नित्यमित्यनयोरुपलक्षणम् | पूर्णस्य नेत्रोन्मीलनेन तिरोहितताऽत्यन्तविरुद्धेति सोपहासमाह - यवाष्टकेति || १९ || प्. १४०) अन्तर्हितं यदि तदा ननु पूर्णं भवेत्पदम् | अहो ते मोहमाहात्म्यमाश्चर्यं किमहं ब्रुवे || २० || अन्तर्हितत्वे पूर्णं भवेत् ! नन्विति सावहेलं वाक्यम् | एतदेव स्पष्टमाह - अहो इति || २० || यस्मिन् ब्रह्माण्डकोटीनां कोटयः कोणसंस्थिताः | पक्ष्मणोऽङ्गुलिमानस्योन्मीलनात्तत्तिरोहितम् || २१ || यस्मिन् सामान्यचिद्रूपे आत्मनि | तिरोहितमित्याश्चर्यमिति सम्बन्धः || २१ || शृणु राजकुमारैतत् तत्त्वसारं वदामि यत् | यावत् ग्रन्थिविभेदो न न तावत् सुखमृच्छति || २२ || एवं मोहे हेतुं वक्तुमाह - शृण्विति | तत्त्वसारमिति | तत्त्वस्य सामान्यसंविदात्मनः सारं निष्कृष्टं रूपम् | यदेतद्वदामि तच्छृण्विति सम्बन्धः | ग्रन्थिभेदाभावाद्विदितमप्यविदितप्रायमित्याह ##- ग्रन्थयः कोटिशः सन्ति मोहरज्जुविवर्तिताः | तत्र स्वरूपासंवित्तिर्मोहरज्जुरुदीरिता || २३ || रज्ज्वादिविवर्तनेनोद्ग्रथिता ग्रन्थिरित्युच्यते | प्रकृतग्रन्थयस्तु मोहरज्जोर्विवर्तनोद्ग्रथनात्मिकाः | कतमा सा [क्, ग्: सा नास्ति] मोहरज्जुरिति चेदाह - तत्रेति || २३ || यत्र ता ग्रन्थयः सन्ति विपरीतग्रहात्म(त्मि)काः | तत्राद्या देहमुख्येषु भवेदात्मत्वनिश्चयः || २४ || यत्र यस्यां मोहरज्जौ | तत्र तासु ग्रन्थिषु मध्ये | देहमुख्येषु देहेन्द्रियादिषु | देहादावात्मत्वनिश्चयस्य स्वरूपाज्ञानमूलकत्वेन तदाश्रयत्वम् | यथा सुदृढग्रन्थेः स्वाश्रयरज्जुच्छेदनमन्तरा न विस्रंसनम् एवं स्वरूपाज्ञानरज्जुच्छेदनमन्तरा देहाद्यात्मभावो दुष्परिहर इत्यस्य ग्रन्थित्वं ज्ञेयम् || २४ || यद्वशादेष संसार आततो दुष्प्रतिक्रियः | तथा जगत्यनात्मत्वबुद्धिर्भानसमाश्रये || २५ || यद्वशात् देहाद्यहं भाववशात् | एस्ऽ प्रसिद्धः | संसारः [ख्, घ्: संसारः नास्ति] सुखदुःखानुभवप्रवाहः | द्वितीयां ग्रन्थिमाह तथेति | दर्पणप्रतिबिम्ब [क्: बिम्बाद्भा] वद्भानसमाश्रये भानमात्रात्मके जगति | अनात्मबुद्धिर्द्वितीयेत्यर्थः | देहाद्यात्मकद्रष्टृभासनपूर्वकत्वादनात्मदृश्यभासनस्य द्वितीयग्रन्थित्वं ज्ञेयम् || २५ || प्. १४१) एवं जीवेशभेदादिनिश्चया ग्रन्थयो मताः | एतच्चिरात् समुद्भूतं भूयः संवर्तितं च वै || २६ || आदिना जीवपरस्परभेदनिश्चयादिः | एतत् स्वरूपाज्ञानम् | चिरात् अनादिकालात् | भूयः संवर्तितं ग्रन्थिरूपं समापन्नमिति सम्बन्धः | तथा रज्जुरेव भूयःसंवर्तनेन ग्रथिता ग्रन्थिरित्युच्यते एवं स्वरूपाज्ञानमेव देहाद्याश्रयचिदात्मप्रदेशसंवर्तनेन परिच्छेदाद्याभासत्वेन ग्रथितं ग्रन्थिरित्युच्यत इति तात्पर्यम् || २६ || ग्रन्थिरूपं समापन्नं पुरुषः पाशितस्ततः | तद्ग्रन्थिविस्रंसनतो बन्धान्मुक्तिः समीरिता || २७ || ततोऽज्ञानरज्ज्वा यथा रज्जुग्रन्थिविस्रंसनतः पाशिताः पशवो मुक्ताः एवं पुरुषा अपीति भावः || २७ || यत्त्वं निमील्य नेत्रे स्वे पदमासादयस्यलम् | तत्पदं निजरूपं ते शुद्धसंविदनुत्तरम् || २८ || ननु केयं ममाज्ञानग्रन्थिर्या विस्रंसनीयेत्याशङ्क्यान्तःकरणानिरोधे मम न स्वरूपविश्रान्तिरित्येषैव भ्रमरूपेति वक्तुमाह - यत्त्वमिति | अलं पर्याप्तं पूर्णं पदमित्यर्थः | तदेव पदं ते निजरूपम् | अनुत्तरं सर्वनिषेधावधिभूतम् || २८ || तदेवाखिलसंसारचित्रादर्शतलं महत् | कदा क्व केन रूपेण नास्ति तन्मे निरूपय || २९ || चित्रस्यादर्शतलम् | महत् अपरिच्छिन्नम् | कदा क्व केनेति कालदेशाकारपरिच्छेदनिरासः || २९ || प्. १४२) यदा यद्रूपतो यस्मिन्नेति ब्रूयाः स्वसंविदम् | तर्हि तत्कालदेशादेर्वन्ध्यापुत्रत्वमेव हि || ३० || कुत एवमिति चेदाह - यदेति | स्वसंविदं सामान्यचितिम् | इदानीमत्रैतद्रूपेण संविन्नास्तीति यदि ब्रूयास्तर्हि तत्कालादीनां वन्ध्यापुत्रत्वमेव | यस्मिन् काले देशे वा यदाकारेण संविन्नास्ति तत्कालादिकं प्रकाशते न वा ? आद्ये कालादीनां जडत्वेनास्वप्रकाशानां संवित्तादात्म्यमृते प्रकाशानुपपत्तेः सिद्धा संवित् | द्वितीयेऽप्रकाशमानानां तुच्छत्वं दुरपोहमित्यभिसन्धिः || ३० || प्रतिबिम्बो निरादर्शो यथा नाथ तथैव तत् | तस्मात्तत्पदसंत्यागान्नास्ति कुत्रापि किञ्चन || ३१ || संवित्तादात्म्यरहितानां कालादीनां निरादर्शप्रतिबिम्बवदसत्त्वमेवेत्याह - प्रतिबिम्ब इति | तत्पदं सामान्यचैतन्यम् || ३१ || तत्ते नेतोर्न्मीलनेन किमन्तरिततामियात् | यावदेवं विजानामीत्येवं ग्रन्थिर्दृढा भवेत् || ३२ || तत् तस्मात् संविदात्मनोऽपरिच्छिन्नत्वादित्यर्थः | एवं क्रियया आत्मानं विजानामि इत्येवमभिमानरूपा ग्रन्थिः || ३२ || तावन्न तत्पदं प्राप्तं यत्प्राप्तं स्यान्न तद्भवेत् | निमील्योन्मील्य वा नेत्रे यत्प्राप्तं मन्यसे पदम् || ३३ || प्राप्तं न भवति | नन्वनुभूयमानस्य कथमपलाप् इति चेदाह - यत्प्राप्तमिति | न तद्भवेदिति | सर्वत्रानुपलभ्यमानस्य परिच्छिन्नत्वेन सामान्यचैतन्यात्मकपूर्णपदत्वाभावादिति [क्: भावत्वा] तात्पर्यम् | एतदेव विशदयति - निमील्येति || ३३ || तन्न पूर्णपदं यस्मात् परिच्छेदात् क्रियादितः | कुत्र नाथ महासंविन्नास्ति कालानलप्रभा || ३४ || क्रिया निरोधरूपा | आदिना कालः | निरोधक्रियया तत्काले बाह्ये भासमानत्वेन परिच्छेद इति भावः || ३४ || प्. १४३) स्वात्मीकरोति याऽनल्पकल्पनेन्धनसंचयम् | न ते कर्तव्यसंशेषो विज्ञाय परमं पदम् || ३५ || कालानलत्वमेव निरूपयति - स्वात्मीति | यथा कालानलः स्वात्मनि पतितं सर्वं स्वात्मीकरोति तथा स्वात्मनि तादात्म्येन भासमानमखिलं स्वात्मीयं करोतीति भावः | मनो निरोद्धव्यमिति योऽयं भ्रमः स परिहर्तव्य इत्याह - न त इति | शेषो भवेदिति शेषः || ३५ || त्यज ग्रन्थिं सन्निरुध्य पश्यामीति हृदि स्थिताम् | इदं नाहमिति ग्रन्थिमुन्मूलय परां दृढाम् || ३६ || सन्निरुध्यैव स्वरूपं पश्यामि नान्यथेति भ्रमरूपां ग्रन्थिं त्यज | एतद्ग्रन्थिमूलभूतामपरां ग्रन्थिं त्यजेत्याह - इदमिति | यथा निरोधकाले भासमानं दृश्यासंभिन्नमात्मरूपम् एवमनिरोधकाले भासमानमपि विषयसंभिन्नरूपं स्वात्मन एव रूपम् | तच्चापि शुद्धमेव दृश्यस्य प्रतिबिम्बतुल्यत्वादिति भावः || ३६ || पश्य सर्वत्र चात्मानमखण्डानन्दबृंहितम् | पश्यात्मन्यखिलं लोकं दर्पणप्रतिबिम्बवत् || ३७ || एतदेवोपपादयति - पश्येति | सर्वत्र दृश्यावभासजाले अभासमानस्यासिद्धेर्भासमानस्य [क्, ख्: आभास] सर्वस्य भानव्याप्तत्वाद् भानस्यैवात्मत्वादिति भावः | ननु सर्वत्र भानात्मा भासते तथाप्ययं निरोधे [ग्: निरोधे नास्ति] भासमान इव नानन्दैकरूप इति चेदाह - अखण्डानन्दबृंहितमिति | अपरिच्छिन्नानन्देन बृंहितं भरितमित्यर्थः | इदमत्राकूतम् - स्वात्मनः संविद्रूपतैवानन्दरूपता नातिरिक्ता द्वैतापत्तेः | अखण्डैकवस्तुन्यात्मनि निर्धर्मके जडात्मत्वव्यावृत्तये यथा संविच्छब्दव्यवहारः तथा दुःखरूपताव्यावृत्तये आनन्दशब्दव्यवहारः | यश्च निरोधकाले आनन्दानुभवः स न स्वरूपविशेषकृतः स्वरूपस्य निर्विशेषत्वात् | अपि तु काम [ख्, ग्, घ्: कामा] एव महद् दुःखं निष्कामस्य कुतस्तु तत् इति नीत्या कामवासनाऽनन्तसन्ततिसमाक्रान्तस्वभावो दावाग्निसंकीर्ण इव दुःखभागयं जनः | निरोधकाले पुनरयमेव द्वैतभासाभावात्तन्मूलककामवासनानामनुन्मेषान्मस्तकन्यस्तभारत्याग् अ इव सविशेष एव सुखी संवृत्तो भवति | तथा च कामवासनाहानमूलैव निरोधे सुखात्मतानुभूतिरित्यनिरोधेऽपि कामवासनाहाने प्रजहाति यदा कामान् (भ्० गी० २|५५) इति भगवदुक्तनीत्या आनन्दरूपतानुभूतिरनिवार्यैवेति | नन्वनिरोधे कामवासनामूलस्य द्वैतभासस्यानपोह्यत्वेन कामवासनानामुन्मेषावश्यम्भावात्तन्निमित्तं दुःखं कथं न भवेदित्याशङ्क्याह - पश्येति | अनिरोधे भासमानमखिलं द्वैतं न स्वात्मनः पृथगस्ति दर्पणप्रतिबिम्बवदित्यर्थः | यथा हि प्रतिबिम्बत्वेन दृष्टे वस्तुनि न कामवासनोदयः तथा निखिलस्य दृश्यस्य स्वात्मादर्शप्रतिबिम्बत्वनिश्चये सति न कामवासना नापि दुःखमिति भावः || ३७ || प्. १४४) सर्वत्राखिलमात्मानमिति भूयो न भावयन् | शेषमभ्युपगम्यान्तः स्वस्थो भव निजात्मना || ३८ || ननु सर्वमात्मनि प्रतिबिम्बात्मकं चेत् सर्वत्राखिलमात्मानमेव पश्यामीति मन्वानं प्रत्याह - सर्वत्रेति | आन्तरे बाह्ये चेत्यर्थः | अखिलमिति | भासमानमखिलं सुखादिकं घटादिकं चेत्यर्थः | सर्वत्राखिलमात्मानं पश्यामीति शेषः | तथा च सर्वत्र भासमानमखिलमात्मानं पश्यामीति प्रथमं निश्चित्य | भूयः सर्वत्र अखिलमात्मानमित्याद्यंशं न भावयन् | शेषं रूपं भाव्यांशरिक्तं भावकरूपं सामान्यचैतन्यम् अहमस्मीत्यन्तरभ्युपगम्य | चेत्यातिरिक्तचितिमात्ररूपोऽहमस्मीति संस्कारशेषः सन्निति भावः | एवंविधेन निजात्मना अकृत्रिमस्वस्वरूपेण स्वस्थो भव | एवंविधस्वस्वरूपावष्टम्भादप्रच्युतो भवेत्यर्थः | यदाह वसिष्ठः ##- ज्ञात्वा नानुशोचति || (यो० वा० ३|७|९) इति || ३८ || प्. १४५) इति प्रियोदितं श्रुत्वा हेमचूडःसिताशयः | विदित्वा पूर्णमात्मानं सर्वत्र भ्रान्तिवर्जितः || ३९ || सिताशयः सर्वभ्रान्त्यपगमाच्छुद्धान्तःकरणः | पूर्णमात्मानं निरोधेतरदशयोरेकरूपेण भासमानम् | निरोध एव शुद्धात्मा भासत इति भ्रान्तिविवर्जितः || ३९ || क्रमात् पूर्णसमावेशासादनात् स्थिरभावनः | विहरन् सर्वदा हेमलेखादियुवतीगणैः || ४० || प्रोक्तरूपाहंभावभावनाक्रमात् पूर्णे प्रोक्तरूपे समावेशो निष्प्रकम्पाभिमानः | प्राक्स्थितदेहसमावेशवत् | यदाहुः - देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् | आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते || इति | स्थिरभावन इति | समावेशसिद्ध्युत्तरं स्थिरतत्संस्कार इत्यर्थः | विहरन् भुवि स्थित इति दूरस्थेन संबन्धः || ४० || शासन् राज्यं समृद्धं स्वं जित्वा शत्रुगणं रणे | शास्त्राणि श्रावयन् शृण्वन्नर्जयन् धनसंचयम् || ४१ || अश्वमेधराजसूयाद्यैर्यजन् क्रतुमुख्यकैः | वर्षाणामयुते द्वे वै जीवन्मुक्तो भुवि स्थितः || ४२ || जीवन्मुक्तदशासंस्थं निशाम्य तनयं नृपः | मुक्ताचूडश्च तद्भ्राता मणिचूडोऽप्यचिन्तयत् || ४३ || हेमचूडपिता मुक्ताचूडो नृपः || ४३ || किमयं पूर्ववन्नेह लक्ष्यते सर्वथा किल | सुखे न हृष्यत्यत्यन्तं दुःखे नोद्विजते तथा || ४४ || तच्चिन्तनप्रकारमाह - किमयमिति | अयं हेमचूडः || ४४ || लाभालाभौ शत्रुमित्रे साम्यात् पश्यति वै कुतः | करोति राजकार्याणि नटवद् रङ्गमण्डले || ४५ || नटवच्छन्नान्तरभिप्रायः || ४५ || प्. १४६) कापिशायनपायीव सदा मत्तोऽभिलक्ष्यते | सदान्यत्र गतस्वान्त इव कृत्यं करोत्यलम् || ४६ || कापिशायनं मद्यम् || ४६ || तत्केन हेतुना चेति तमासाद्य रहः क्वचित् | अपृच्छतां हेमचूडं कुत एवं भवानिति || ४७ || तं हेमचूडम् | मुक्ताचूडमणिचूडावपृच्छताम् || ४७ || ततः स्वस्थितिमाचख्यौ हेमचूडस्तयोः क्रमात् | तावुभौ भ्रातृपितरौ हेमदूडेन बोधितौ || ४८ || तयोः पितृभ्रात्रोः || ४८ || आसादितपरंतत्त्वौ [क्: परतत्त्वौ] जीवन्मुक्तौ बभूवतुः | अथ मन्त्रिगणोऽप्येवं राज्ञः श्रुत्वा जगद्गतिम् || ४९ || जगद्गतिं जगत आत्माऽव्यतिरिक्तरूपत्वेन स्थितिम् || ४९ || विचार्य स्वात्मनो भावं ज्ञातज्ञेयोऽभवत्तदा | एवं विशालनगरे क्रमेणैव परस्परम् || ५० || आत्मनस्तादृशं भावं विचार्य निश्चित्य | परस्परमुपदेशाद्विदुरिति संबन्धः || ५० || उपदेशाद् विदुः सर्वे तत्त्वमाबालगोपकाः | नरा नार्यो बालवृद्धा दासा दासीगणा अपि || ५१ || तत्त्वं वस्तुयाथात्म्यम् || ५१ || ज्ञातज्ञेयास्त्यक्तदेहाहंभावा अभवन् खलु | न तत्र कस्यचित् कामः क्रोधो वा लोभ एव वा || ५२ || ज्ञातं ज्ञेयं शास्त्रेषु मुख्यज्ञेयत्वेनाभिमतं यैः | लोभ एव वा अनाहृतो नास्तीति संबन्धः || ५२ || अनाहृतोऽस्ति बालस्य स्थविरस्यापि वा क्वचित् | आहृतैः क्रोधकामाद्यैर्व्यवहारपरायणाः || ५३ || बालस्येति | बालवृद्धयोरविचारस्वभावयोः प्रायः सदा क्रोधादिसंभवस्तथापि सम्यक्तत्त्ववेदनमाहात्म्येन कामादिमूलदेहाहंभावस्योन्मूलितत्वान्न तन्मूलकामादिरनाहृतोऽस्तीति तात्पर्यम् | किमर्थं कामादेराहरणमिति चेद् व्यवहारार्थमित्याह - आहृतेति | यथा हि नटानामाहृतकामाद्यैः प्रासङ्किको नाट्यव्यवहारः एवं तत्र सर्वेषामिति भावः || ५३ || प्. १४७) बालं माता खेलयति अरतत्त्वस्य वार्तया | दासा दास्यः स्वामिनं स्वं सदा परिचरन्ति वै || ५४ || ननु सदा व्यवहारपराणां केषाञ्चिदपरिपक्वचित्तानां तत्त्वानुसंधानं शिथिलीभवेदित्याशङ्क्य तद्व्यवहारस्य तत्त्वानुसंधानानुकूलत्वान्नेत्याह - बालमित्यादि | परतत्त्वस्य वार्तया | मा रुद त्वं महेश्वरोऽसि न ते वस्तुतो दुःखमित्यादिरूपया | एवमग्रेऽपि ज्ञेयम् || ५४ || परतत्त्वपरैर्वाक्यैर्व्याहरन्तः परस्परम् | नटा नाट्यं वितन्वन्ति पात्रैस्तत्त्वप्रसङ्गजैः || ५५ || तत्त्वप्रसङ्गजैः पात्रैः विवेकमोहादिवेषैः || ५५ || विवेकवार्तापरमं वचो गायन्ति गायकाः | विदूषका दूषयन्ति लोकव्यवहृतिं सदा || ५६ || शास्त्राणि पाठयन्ति स्म विद्वांसः पाठकान् जनान् | परतत्त्वविचारार्हैरुदाहरणमण्डलैः || ५७ || एवं तत्र नरा नार्यो दासा दास्यो नटा विटाः | भृत्या भटा मन्त्रिणश्च शिल्पिनो वारयोषितः || ५८ || सर्वे वेदितवेद्यान्ते विशालनगरेऽभवन् | प्राक्संस्कारबलेनैव व्यवहारपरायणाः || ५९ || ननु सर्वेषां तत्र विदितवेद्यत्वे कथं तत्र भूपालादेः सर्वो राज्यादिव्यवहार इत्याशङ्क्याह - प्रागिति | यथा हि मदिरामत्तः शूरः प्राक्संस्कारमात्रेण शस्त्रवर्त्मस्वस्खलन् युध्यति तथेति भावः || ५९ || प्. १४८) न संस्मरति संवृत्तं शुभं वाप्यशुभं तथा | भविष्यद् नानुसन्धत्ते हर्षशोकादिसाधनम् || ६० || ननु तत्रत्यजनस्य कथं संस्कारमात्राद् व्यवहारः कीदृशश्चेति चेदाह - न संस्मरतीति | संवृत्तम् अतीतम् दुःखादिसाधनं प्राप्तं दृष्ट्वा भविष्यशोकादि नानुसंधत्ते || ६० || वर्तमाने स्मयन् हृष्यन् खिद्यन् क्रुध्यन्निवान्वहम् | मधुक्षीब इवात्यन्तं व्यवहारपरो जनः || ६१ || वर्तमाने हर्षसुखादौ || ६१ || एवंविधं तन्नगरमृषयः सनकादयः | प्रसिद्धविद्यानगरमित्याख्यमूचुरागताः || ६२ || सनकादयः सनकवामदेवाद्याः | नगरमागता इति संबन्धः || ६२ || यत्र कीराः पञ्जरस्था अपि वाचो वदन्ति वै | चितिरूपं स्वमात्मानं भजध्वं चेत्यवर्जितम् || ६३ || यत्रेत्यादिश्लोकचतुष्टयं चतुर्थाध्यायान्तगतं प्राग् व्याख्यातम् || ६३ || नास्ति चेत्यं चितेरन्यद् दर्पणप्रतिबिम्बवत् | चितिश्चेत्यं चितिरहं चितिः सर्वं चराचरम् || ६४ || यतः सर्वं चितिमनु भाति सा तु स्वतन्त्रतः | अतश्चितिं जनाः सर्वभासिनीं सर्वसंश्रयाम् || ६५ || भजध्वं भ्रान्तिमुत्सृज्य चितिमात्रं सुदृष्टयः | तिर्यञ्चोऽप्येवमत्यन्तं यत्र वाचो वदन्ति वै || ६६ || प्रसिद्धविद्यानगरं तदद्यापि प्रचक्षते | एवं तत्र पुरा हेमलेखया खलु बोधितः || ६७ || हेमचूडोऽभवद् विद्वान् जीवन्मुक्तस्तथेतरे | स्त्रीबालप्रमुखाः सर्वे जाता ज्ञातपरावराः || ६८ || प्. १४९) तस्माच्छ्रेयोनिदानं तु सत्सङ्गः प्रथमं भवेत् | तस्माच्छ्रेयोवाञ्छने तु सत्संश्रयपरो भवेत् || ६९ || यस्माद्धेमलेखासङ्गात् सर्वे मुक्ता जातास्तस्मात् सज्जनसंश्रयपरः || ६९ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे हेमचूडोपाख्यानसमाप्तिर्नाम दशमोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां दशमोऽध्यायः || प्. १५०) अथ एकादशोऽध्यायः श्रुत्वैवं हेमचूडस्य कथामत्यद्भुतां तदा | भार्गवः सन्दिग्धमनाः प्रष्टुं समुपचक्रमे || १ || अत्राध्याये मोदपद्यैर्दत्त आह भृगूद्वहम् | उपलब्ध्युपपत्तिभ्यां चेत्यं नान्यच्चितेरिति || ते त्वया | ज्ञानं शुद्धाद्वयात्मरूपम् | विषमं सर्वानुभवविरुद्धम् | सर्वतः साधनैरसाध्यं च || १ || भगवन् श्रीगुरो यत्ते प्रोक्तं ज्ञानं महाद्भुतम् | भाति मे विषमं ह्येतदसाध्यं चापि सर्वतः || २ || कथमेतज्जगद् दृश्यं चितिमात्रस्वरूपकम् | अदृष्टं केवलं ह्येतच्छ्रद्धोपेयं न चान्यथा || ३ || विषमत्वमेवाह - कथमिति | दृग्दृश्ययोर्द्वित्वस्य प्रामाणिकत्वेन चितिमात्रत्वमदृष्टम् | एतच्च श्रद्धामात्रेणाङ्गीकर्तव्यं नोपलब्ध्युपपत्तिभ्यामिति तात्पर्यम् || ३ || चितिश्चेत्यविनिर्मुक्ता नानुभाव्या कथञ्चन | नोपपन्नं सर्वथैतत् कथं चित्तं समारुहेत् || ४ || उपलब्ध्यभावमेवाह - चितिरिति | कथञ्चन केनापि प्रमाणव्यापारेण | नानुभाव्या नानुभवविषयीकार्या | एवंविधा चितिरस्तीति सर्वथा नोपपन्नं न युक्तियुक्तम् | कथमिति | एवं चैवंविधा चितिरस्तीति कथं निश्चेतव्यमिति भावः || ४ || कृपया बोधनीयोऽहमत्र सर्वात्मना खलु | इत्यापृष्टो दत्तगुरुरवदद् भार्गवं प्रति || ५ || एवमाक्षेपेण स्वस्मिन् गुरोर्धार्ष्ट्यशङ्का भवेदिति मत्वाह - कृपयेति | अत्र शुद्धचितिविषये || ५ || प्. १५१) शृणु राम प्रवक्ष्यामि दृश्यतत्त्वं यथास्थितम् | एतद् दृश्यमशेषं तु दृशिमात्रं न चेतरत् || ६ || चेत्यस्य [ख्: चैत्य] चिदतिरेकेण नरशृङ्गप्रायत्वात् चेत्यनिर्मुक्ता [ख्: चैत्य] चितिरुपपन्नैवेति वक्तुं दृश्यतत्त्वं निरूपयति - शृण्विति | दृश्यस्य चेत्यस्य तत्त्वं स्वरूपम् | यथास्थितम् अनन्यथेत्यर्थः | तदेवाह - एतदिति || ६ || अत्रोपपत्तिं वक्ष्यामि शृणु सम्यक् समाहितः | एतद् दृश्यं कार्यभूतमुत्पत्तेरुपलम्भतः || ७ || अत्र दृश्यस्य चितिमात्रत्वे [ग्, घ्: दृशि] | उपपत्तिं युक्तिम् | उपलब्धिप्रकारस्य हेमचूडोपाख्यानेन सम्यगुक्तत्वेन प्रकृते उपपत्तिरेवोच्यत इति ज्ञेयम् | तत्रादौ दृश्यस्य दृक्कार्यतां साधयति - एतदिति | कार्यं कर्तृव्यापारविषयम् || ७ || उत्पत्तिर्नूतनाभासः प्रतिक्षणमिदं जगत् | नूतनत्वेनैव भाति तत्क्षणोत्पत्तिमज्जगत् || ८ || ननु केयमुत्पत्तिरिति चेदाह - नूतनाभास इति | नूतनत्वेनाभासनमित्यर्थः | लोके हि नूतनत्वेनाभासमानमेवोत्पन्नमित्युच्यते | यस्मादिदं जगन्नूतनत्वेनैव प्रतिक्षणं भाति तस्मादित्यर्थः | एतच्चाग्रे भविष्यति || ८ || केचित् प्राहुर्जगदिदमखण्डैकक्षणोद्भवम् | अन्ये पदार्थसंघातमयं स्थिरचरात्मकम् || ९ || ननु घटादिदृश्यसमुदायो हि जगदिति व्यवह्रियते समुदायातिरिक्तं न किञ्चिदेकं वस्तु जगदित्याशङ्क्य विज्ञानवाद्यभ्युपगतां जगतः क्षणिकैकरूपतां स्वाभिमतां प्रदर्शयति - केचिदिति | अत्र विज्ञानवादिनामयमभ्युपगमः क्षणिकविज्ञानसंतानरूपाः प्रमातारः पूर्वपूर्वसंस्कारजन्य एवोत्तरोत्तरविज्ञाने दृश्याकाराः | घटाकारं ज्ञानं पटाकारं ज्ञानमित्याद्यनुभवेन विज्ञानेष्वाकारस्यावश्याभ्युपेयत्वेन तावतैव व्यवहारोपपत्तौ बाह्यं नाभ्युपेयम् | यस्मिन् ज्ञाने हि यावान् देशकालवस्त्वाकारो भासते तावानखण्डैकरसस्तत्क्षणे | कुण्डक्षणो बदरक्षणः कुण्डबदरक्षण इति क्रमेण जगत् क्षणिकं तत्तत्कालदेशाकारात्मकमखण्डैकरसं विज्ञानमेवेति | अन्ये हि काणादप्रभृतयः पदार्थसंघात एव जगत् तच्चाकाशादिरूपं स्थिरं नित्यम् घटादिरूपं चरमनित्यम् | स्थिरचरोभयवस्तुसमुदाय एव जगदित्याहुः | अत्र काणादप्रमुखैर्वादिभिर्बाह्यार्थे न किञ्चित् प्रमाणं वक्तुं शक्यम् सर्वव्यवहारस्यावश्याभ्युपेयज्ञानाकारमात्रपर्यवसितत्वात् | एवमपि कथञ्चिद् व्यवहारास्पृष्टं बाह्यं कल्पितमजागलस्तनायितमेव [क्, ख्: मेवाह] | विज्ञानवादिमतं तु चिदात्मनि जगत्प्रतिबिम्बवादिनः स्वस्यानुकूलम् अंशेन प्रतिक्षणपरिणामिनो [प्रतिक्षणपरिणामिनो हि सर्वे एव भावाः ऋते चितिशक्तेः इति सांख्यतत्त्वकौमुदीस्थितः पाठः | द्रष्टव्या - सां० का० ५] हि भावा ऋते चितिशक्तिम् इत्याद्यन्यमताविरुद्धं चेति तस्य प्रथममुपपादनमिति ध्येयम् || ९ || प्. १५२) सर्वथा तु समुत्पत्तिमदित्येव विनिश्चितम् | तत्र स्वभाववादस्तु नोचितोऽतिप्रसङ्गतः || १० || अन्यैर्यथेच्छमुक्तमपि जगद् दृश्यत्वहेतुकानुमानेन वह्वागमानुकूलेनोत्पत्तिमदेव सिद्ध्यतीत्याह - सर्वथेति | स्थिरं क्षणिकमित्युभयथा [क्: भयं यथा] स्थितमपीत्यर्थः | दृश्यस्य नित्यत्वपक्षव्यावर्तकस्तुशब्दः | जगतो नरविषाणतुल्यतां सम्पादयितुं प्रवृत्तस्य तत्क्षणिकत्वाक्स्ऽणिकत्वसाधनं वध्यमण्डनतुल्यमिति तदुपेक्षणं सर्वथेत्यनेन सूचितम् | अथ जगतो न किञ्चिदुपादानं प्रमाणेन सिध्यतीति निरुपादानैन्द्रजालिकसृष्टभावतुल्यतां वक्तुमादौ जगतः सत्यत्वं सोपादानत्वं च वदतां मतं क्रमेण प्रतिक्षेप्तुमुपक्रमते - तत्रेति | जगतः [क्: जगतः नास्ति] कार्यत्वे सिद्धे [क्: सिद्धेति] सति | स्वभाववाद इति | कारणमनपेक्ष्यैव कार्यमुत्पद्यते तथा स्वभावात् कार्यस्योत्पत्तेः पूर्वं कार्यस्यासत्त्वादेव कः कमपेक्षेत | उत्पन्नश्च स्वयंसिद्धोऽन्यं किमित्यपेक्षेत | तस्माद्यथा कारणस्य कार्यानपेक्षत्वं स्वाभाविकमुच्यते एवं कार्यस्यापीति हि चार्वाकः स्वभाववादमाह | तं दूषयति - नोचित इति | न युक्त इत्यर्थः | अतिप्रसङ्गत इति | कारणमनपेक्ष्य जायमानो घटः पटोऽपि भवेदिति भावः | मम तु घटपटकारणयोर्वैचित्र्यान्न घटः पटो भवेत् | ननु घटकारणमेव पटकारणं कुतो न भवेदिति चेत् स्वकारणवैचित्यादिति गृहाण || १० || प्. १५३) अन्वयव्यतिरेकाभ्यां कार्यकारणनिश्चयात् | संवादतः प्रवृत्तीनां कथमाकस्मिकं भवेत् || ११ || ननु कपालः कार्यं घटः कारणमिति कुतो न भवेदिति चेदाह - अन्वयेति | अन्वयो हि कार्ये समग्रकारणव्याप्तिः | व्यतिरेकस्तु कारणाभावे कार्याभावव्याप्तिः | एतज्ज्ञानेन कार्यकारणयोर्नियतरूपतानिश्चयात् | नन्वन्वयव्यतिरेकयोर्ज्ञानस्य भ्रमत्वसम्भवात् कथमुक्तनिश्चयः प्रमाणं स्यादिति चेदाह - संवादत इति | तज्ज्ञानस्य भ्रमत्वे कारणमुपादाय कार्यार्थं प्रवृत्तो विसंवाद्येतेति भावः | तस्मात् कार्यमाकस्मिकं निष्कारणं कथं भवेत् || ११ || क्वचित्तु कारणेऽदृष्टेऽप्यदृष्टं कल्प्यमेव तत् | बहूनामनुरोधो हि न्याययः सर्वैरुदाहृतः || १२ || नन्वाकस्मिकदुःखादिसमागमे न किञ्चित् कारणं दृष्टमिति चेदाह - क्वचिदिति | अदृष्टं कारणम् | ननु दृष्टकारणदृष्टान्तेनादृष्टकारणे कारणं कल्पनीयम् अथवा दृष्टकारणाभावेनाकारणकमेव [क्: कारणमेव] कार्यं [क्, ख्, ग्: कारणं] कल्पनीयमिति [वेति इति सार्वत्रिकः पाठः | स चानावश्यकः] चेदाह - बहूनामिति || १२ || भूयो दृष्टं सपूर्वं हि कार्यं क्वचिददर्शने [घ्: नम्] | दृष्टवत् परिकल्प्यं स्यादन्यथा सार्वलौकिकी || १३ || ननु कस्य बहुत्वमिति चेदाह - भूय इति | बहुश इत्यर्थः | प्रायः सर्वं हि जगद् दृष्टकारणकमेवेति भावः | विपरीते दोषमाह - अन्यथेति | आकस्मिकत्वाभ्युपगम इत्यर्थः | सार्वलौकिकी संप्रवृत्तिरित्यन्वयः || १३ || प्. १५४) सम्प्रवृत्तिर्विरुध्येत तस्मात् सर्वं सकारणम् | अत एव कार्यहेतोः किञ्चित्कारणतत्परः || १४ || कार्यार्थं [क्, ख्: कार्यार्थ] कारणोपादाने समीचीना फलपर्यवसायिनी प्रवृत्तिर्विरुद्ध्येत विसंवाद्येत | नियमेन फलपर्यवसायिनी न भवेदिति यावत् | क्वचित् प्रवृत्तेः फलापर्यवसानं तु समग्रकारणवैकल्यादिति तात्पर्यम् | यस्मात् प्रवृत्तेः फलपर्यवसानं तस्मात् | कार्यार्थं कारणे प्रवृत्तिं निदर्शयति - अत एवेति | तत्परो [क्: तत्परा] दृश्यत इति सम्बन्धः || १४ || सर्वत्र दृश्यते लोकस्तस्मादेतन्न किञ्चन | केचिदाहुरसत्कल्पैरणुभिः कार्यमुद्यतम् || १५ || एतच्चार्वाकाभ्युपगतं न किञ्चन विचारासहमित्यर्थः | अथात्र काणादमतमुत्थापयति निराकर्तुम् - केचिदिति | असत्कल्पैरदृष्टैः | उद्यतम् उत्पन्नम् || १५ || तेभ्योऽत्यन्तं विभिन्नं चाप्यसदत्यन्ततो भवेत् | असत्सतोरेकता हि विरुद्धा [कुतो न विरुद्धा भवेदित्यन्वयः | विरुद्धा भवेदेवेति तात्पर्यम्] न कुतो भवेत् || १६ || तेभ्यः अणुभ्यः | विभिन्नं कार्यम् | परमाणवो हि जालमरीच्युपलब्धत्रसरेणोरारम्भकद्व्यणुककारणभूताः कार्यस्य द्व्यणुकस्य सावयवत्वहेतुनानुमिताः | तत्रायं सृष्टिक्रमः - परिपक्वप्राण्यदृष्टसहकृतेश्वरेच्छया विशरारुषु स्थिरेषु परमाणुषु क्रियोत्पद्यते ततः क्रमेण परमाणुद्वयं संयुज्यते | तस्मात् संयुक्ताद् द्व्यणुकम् | पुनरीश्वरेच्छयैव द्व्यणुकेषु क्रिया ततः क्रमेण त्रिभिर्द्व्यणुकैः संयुक्तैस्त्रसरेणुरिति रीत्या घटाद्यन्तकर्योत्पत्तिः | द्व्यणुकादिकार्यं च परमाण्वादिकारणेभ्योऽत्यन्तभिन्नम् नाशानन्तरं चात्यन्तमसद् नरशृङ्गतुल्यमिति तन्मतम् | एतन्निराकरोति - असदिति | नह्येक एव घट उत्पत्तेः पुरा असत् ततः सन्नाशोत्तरमसन्निति युक्तम् सत्त्वासत्त्वयोर्विरोधात् || १६ || प्. १५५) नहि पीतमपीतं च प्रकाशं चाप्रकाशकम् | एकं भवेद् विरुद्धत्वात् साङ्कर्यादिप्रसक्तितः || १७ || ननु सत्त्वासत्त्वयोर्भावाभावत्वेऽपि संयोगतदभावयोरिव न विरोध इत्याशङ्क्याह - नहीति | संयोगस्याव्याप्यवृत्तित्वान्न तदभावविरोधः | सत्त्वं तु घटादौ समवायेन सत्तावत्त्वम् | तच्च व्याप्यवृत्तीति स्वाभावविरुद्धमेव [क्: स्वभाव] | पीतमिति | अत एव पीतमपीतं चैकं न भवेदिति भावः | ननु वस्तुस्वभावो ह्यनुभवानुरोधेन कल्पनीयः तथा च समवायिनामवयविनां दैशिकव्याप्यवृत्तित्वेऽपि घटोऽस्ति नास्तीत्यनुभवानुरोधात् कालिकाव्याप्यवृत्तित्वमिष्यत इति चेदाह - प्रकाशमिति | अप्रकाशकमिति स्वार्थं कः | प्रकाशमप्रकाशं च वस्तु नैकं भवेत् | अन्यथाऽनुभवमात्रानुरोधेनैकस्य विरुद्धोभयरूपत्वाभ्युपगमे नीलं तमश्चलतीत्यनुभवानुरोधेन तमसो द्रव्यत्वे एकस्मिन्नेव द्रव्ये भास्वरशुक्लरूपोत्पत्त्या प्रकाशत्वं कृष्णरूपोत्पत्त्या तमस्त्वमिति वक्तुं शक्यत्वेन तमःप्रकाशयोरैक्यप्रसङ्ग [क्: ङ्गादिति] इति भावः | पीतमपीतं प्रकाशमप्रकाशं च वस्तु नैकं भवेद्विरुद्धत्वादिति सम्बन्धः | तस्माद्भावाभावयोः कालदेशभेदेनापि विरोध इति सिद्धम् | ननु तमसो द्रव्यत्वे द्रव्यचाक्षुषमालोकसहकृतमिति नियमभङ्गप्रसङ्ग इति चेन्न अनुभवानुरोधेन नियमस्यैवान्यथा कल्पयितुं युक्तत्वात् | अथ चावयविवादे दूषणान्तराण्यप्याह - साङ्कर्यादिप्रसक्तित इति | सत्त्वासत्त्वादिरूपविरुद्धधर्माध्यासात्मकसाङ्कर्यप्रसक्तेरित्यर्थः | आदिना परमाणोरवयवसिद्धिः तत्संयोगस्याव्याप्यवृत्तित्वभङ्ग इत्यादिदोषोऽवसेयः | नौ प्रोक्तसाङ्कर्यादिदोषाणां सर्वमतसाधारण्येन नेदृशैर्दोस्ऽइरहमेव पर्यनुयोज्य इति चेत् सत्यमुक्तम् | अत [घ्: एत] एव द्वैतसत्यत्ववादिनः सर्वानधिक्षेप्तुमेवाणुवादनिरसनमिषेणेमानि दूषणान्युक्तानि [क्: न्युक्तानि......डूषणानि नास्ति] दत्तगुरुणा | द्वैतानुपपत्त्यन्वेषणपराणामद्वैतिनां पुनरिमानि दूषणानि वासुदेवस्य भगदत्तप्रयुक्तवैष्ऽवास्त्रवद् [भगदत्तप्रयुक्तं वैष्णवास्त्रं वासुदेवस्योरसि वैजयन्तीरूपेण परिणतमित्येषा कथा महाभारते द्रोणपर्व.इ २९ अध्याये द्रष्टव्या] भूषणान्येवेति [क्: ददूषणा] ज्ञेयम् [ग्, घ्: ध्येयम्] || १७ || प्. १५६) ईश्वरेच्छादितो वापि कथमादिक्रियोद्भवः | गुणसाम्यप्रकृतिकं जगदित्यप्यसंभवि || १८ || एवं परैः साधितं जगदभ्युपगम्य साङ्कर्यादिभिर्दूषयित्वा सम्प्रति जगदुत्पत्तिरेव न सम्भवतीति मूलच्छेदकं दूषणमाह - ईश्वरेति | ईश्वरेच्छया हि परमाणुषु कथमादौ क्रियोद्भवः क्वचिदपि कस्यचिदिच्छया कस्मिंश्चिदचेतने क्रियोत्पत्त्यदर्शनात् | यदि प्रभोरिच्छामचेतना अनुरुद्ध्येरन् तर्हि भटान् विना राजेच्छामनुरुध्य शस्त्रण्येव शत्रुभिर्युध्येरन् | तस्मान्नैष आरम्भवादो युक्त इति भावः | एवमारम्भवादं प्रतिक्षिप्य [क्: प्रक्षिप्य] परिणामवादमधिक्षेप्तुं तन्मतमनुवदति - गुणसाम्येति | अनीश्वराः साङ्ख्यास्तु सत्त्वरजस्तमोगुणानां साम्यावस्था प्रकृतिः स्वत एव गुणवैषम्यद्वारा जगदाकारेण परिणमत इत्याहुः | एतन्मतमप्यसम्भवि || १८ || वैषम्यहेतोर्मृग्यत्वात् साम्यहेतोश्च हीनतः | चेतनेनानधिष्ठानाद् दृष्टान्तानुपलम्भतः || १९ || कुत इति चेदाह - वैषम्येति | प्रकृतिर्हि प्रलये गुणसाम्यरूपा | प्रलयान्ते च निर्हेतुकं तद्गुणवैषम्यमयुक्तम् [क्, ख्: वैषम्ययुक्तम्] | नापि प्रकृतेरन्यत् प्रलये किञ्चिदस्ति यद्गुणवैषम्ये हेतुतामियात् | कथञ्चिद्विषमगुणायाः प्रकृतेः पुनः सृष्ट्यन्ते प्रलयनिमित्तसाम्यहेतोरसम्भवश्च | नन्वस्ति हेतुर्गुणानां साम्ये वैषम्ये च यद्धि सेश्वरैः परैरीश्वरस्य वैषम्यनैर्घृण्यपरिहाराय कर्माभ्युपगतं तदेव गुणवैषम्यादौ हेतुरिति चेदाह - चेतनेति | चेतनेनानधिष्ठानात् प्रकृतेः परिणामो नोपपद्यत इति शेषः | सर्वत्र चेतनव्यापारमन्तरा जडेषु क्रियाऽदर्शनात् स्वतः प्रकृतेर्जगद्रूपेण परिणतिः बन्धाय पुरुषं प्रति प्रवृत्तिः मोक्षाय निवृत्तिश्च नोपपद्यते | चेतनप्रेरणं विना जडेष्वदृष्टमात्रेण प्रवृत्तिर्निवृत्तिर्वा न क्वचिद् दृष्टेति दृष्टान्ताभावान्नानुमानेनाप्येतत्सिद्धिरित्याह - दृष्टान्तेति || १९ || प्. १५७) तस्माज्जागतकार्यस्य कारणं नोपलभ्यते | अदृष्टे तु श्रुतिर्मूलं नान्यमानस्य [क्, ख्: मानसुस] सङ्गमः || २० || यस्मादेवं जगतः कारणनिरूपणं नोपपद्यते तस्मादुपपन्नमुपादानं कारणं नोपलभ्यते | ननु जगद्रूपं कार्यं प्रमाणसिद्धमनपह्नवनीयम् तस्याकारणकत्वाभ्युपगमे परमतप्रवेशः तस्मात् कारणोपपादनं [क्: पादने] चास्मदुक्तमार्गेणैव भवतिअव्यमिति चेदाह - अदृष्टे त्विति | परोक्षे विषय इत्यर्थः | श्रुति आगमः | मूलं निश्चायकं प्रमाणमित्यर्थः | कुत एवमिति चेदाह - नान्येति [क्: नान्येति नास्ति] | अन्यस्य प्रत्यक्षादेर्नसङ्गमो [क्, ख्: क्षादिर्न] न प्रवृत्तिरित्यर्थः || २० || प्रमातॄणामपूर्णत्वात् प्रमाणस्यानवस्थितेः | कार्यकर्त्रवियोगस्य [क्, ख्: कर्तृ] भूयोदर्शनहेतुतः || २१ || कुत एवमिति चेदाह - प्रमातॄणमिति | इन्द्रियसंनिकृष्टे हि प्रत्यक्षं प्रमाणम् तथा च प्रमातॄणां परिछिन्नत्वेनापूर्णत्वात् स्वर्गेन्द्रादौ तदिन्द्रियसन्निकर्षासम्भवान्न प्रत्यक्षप्रवृत्तिः | अनुमानस्य प्रत्यक्षमूलकत्वादेव नित्यपरोक्षे न प्रवृत्तिः | कथञ्चित् प्रवृत्त्युपपादने वाऽनुमानप्रमाणस्य बुद्धिकौशल्यायत्तत्वेनान्यथाप्यनुमानप्रवृत्त्याऽनवस्थितेर्न किञ्चिदनुमानेन प्रकृतं सेत्स्यति | दृश्यते च [क्, ख्: च नास्ति] तर्कमात्रसाधितेऽर्थे तैर्थिकानां पृथगभ्युपगम इत्यभिप्रेत्याह - प्रमाणस्येति | अनुमानस्येत्यर्थः | नन्वागमो हि शब्दः | सोऽपि परिच्छिन्नप्रमातृप्रयुक्तः स्वर्गादिपरोक्षे कथं प्रमाणमित्याशङ्क्य नादृष्टेऽर्थं शब्दमात्रस्य प्रामाण्यमुच्यते किन्त्वैश्वरस्यैव श्रुत्यादेरित्यभिप्रेत्य तस्यागमस्य प्रमाणेषु श्रेष्ठत्वं वक्तुं प्रसङ्गादीश्वरं साधयति कार्येति [क्: कार्येति नास्ति] | कार्यं कर्त्रविनाभूतमिति भूयोदर्शनाज्जगत् सकर्तृकमित्यर्थः || २१ || प्. १५८) सकर्तृकं जगदिदं सम्भवाच्चेतनो हि सः | कार्यस्याचिन्त्यरूपस्य कर्ता साधारणः कथम् || २२ || सकर्तृकमिति | नन्वनुमानेनेश्वरसाधनमनुपपन्नम् अनुमानं हि नित्यपरोक्षासाधकमित्यनुपदमुक्तत्वादिति [क्: परोक्ष] चेदुच्यते - कार्यस्य नोपादानाविनाभूतत्वनियमः योगिनिर्मितकार्यं व्यभिचारात् | ननु तत्रापि योगीच्छया झटिति सङ्घटितपरमाणव एवोपादानतां भजेरन्निति चेन्न नियतशिवकस्तूपककापालिकाकपालात्मकक्रमोल्लङ्घनेन व्यभिचारानपोहात् | नियतशिवकादिक्रमोल्लङ्घनं योगसामर्थ्यजनितमनपह्नवनीयम् | तेनैव सामर्थ्येन कार्यनिर्वाहे परमाणुसङ्घटनकल्पनस्य [क्, ख्: अपर] निर्युक्तिकत्वात् | प्रसिद्धकारणादिक्रमेणैव घटं निर्मिमाणो योगी कुलाल एव भवेदिति च ज्ञेयम् | नहि कर्यस्य कर्त्रविनाभूतत्वानियमः अव्यभिचारात् | तस्मात् कार्यस्य सकर्तृकत्वानुमानं नानवस्थितम् | एवं साधितोऽपि कर्ता न जडः उपादान [क्, ख्: दाना] गोचरापरोक्षजाञादिमत्त्वरूपकर्तृत्वस्य जडेऽसम्भवादित्याह - सम्भवादिति || २२ || तस्मादचिन्त्यशक्तिः स आगमस्तद्विमर्शनम् | पूर्णस्य त्वप्रतिहतं प्रमाणं सर्वतोऽधिकम् || २३ || यस्मादचिन्त्यरूपकार्यस्य प्राकृतः कर्ता न सम्भवति तस्मादचिन्त्यशक्तिर्जगत्कर्ता | तदिति लुप्तषष्ठ्यन्तं तस्य पूर्णस्याचिन्त्यशक्तेः | जगत्कर्तुर्विमर्शनं तत्त्वावगमको व्याहारात्मा व्यापार आगमः | अस्याचिन्त्यशक्तित्वादेवाशरीरिणोऽपि व्याहारात्मा व्यापार इति ज्ञेयम् | यस्मादेवंविधोऽयमागमः [क्, ख्: तस्मा] तस्मादप्रतिहतं सर्वथान्यैरबाधितं प्रमाणम् | अत एव सर्वतः प्रमाणेभ्योऽधिकं श्रेष्ठं प्रब्लमित्येतत् || २३ || प्. १५९) तत्रैकस्तु महेशानः पुरा सृष्टेरुदाहृतः | स्वतन्त्रो ह्यनुपादानः स्वातन्त्र्यभरवैभवात् || २४ || दृश्यं दृशिमात्रमिति अत्रोपपत्तिं वक्ष्यामि (११|७) इति प्रतिज्ञाय महता प्रबन्धेनागमस्य प्रमाणमूर्धन्यत्वं संसाध्य प्रतिज्ञातार्थनिर्वाहायागमोक्तार्थमनुवदति श्लोकदशकेन - तत्रेति | आगमे इत्यर्थः | उपादानरहित इत्युदाहृतः | तथा चागमः - आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् (ऐत० उ० २|१|१) नासदासीन्नो सदासीत्तदानीम् (ऋ १०|१२९|१) निरुपादानसम्भारः स्वात्मभित्तौ हि लीलया | जगच्चित्रं समुल्लिख्य क्रीडत्येष महेश्वरः || इत्यादिः | स्वातन्त्र्यस्य भर उत्कर्षः तस्य वैभवान्माहात्म्यादवभासयदित्यन्वयः || २४ || स्वात्मभित्तौ जगच्चित्रं विलासायावभासयत् | यथा स्वप्नमनोराज्ये कल्पितं स्वेन केवलम् || २५ || विलासाय क्रीडनाय | यथा स्वप्ने मनोराज्ये वा [क्: वा नास्ति] स्वेन केवलमुपादानाद्यनपेक्ष्य परिकल्पितं देहम् || २५ || अहंत्वेनैव गृह्णाति देहं तद्वद्यं जगत् | न ते रूपं यथा देहः स्वप्नव्यावृत्तिहेतुतः || २६ || तत्कालेऽहंत्वेन गृह्णाति तद्वद् अयम् ईश्वरः स्वपरिकल्पितं जगदहंत्वेनैव गृह्णाति | यदुक्तम् - स्वाङ्गभूतेषु [स्वाङ्गरूपेषु इति तत्रत्य पाठः] भावेषु प्रमाता कथ्यते पतिः (ई० प्र० ३|१४) इति | न त इति | यथा हि मनोराज्यपरिकल्पितदेहो न ते स्वरूपम् स्वप्नादौ व्यावृत्तेः || २६ || प्. १६०) तथास्य न जगद्देहो व्यावृत्तेः प्रलये ननु | देहादिव्यतिरिक्तस्त्वं यथा केवलचिन्मयः || २७ || दार्ष्टान्तिके योजयति - तथेति | अस्य ईश्वरस्य | अहंत्वेन गृहीतमपि जगन्न देहः प्रलये जगतो व्यावृत्तेः | यथा जाग्रदाद्यवस्थास्वनुवृत्तस्य चिदात्मनस्तवावस्थाननुवृत्तदेहादिव्यतिरिक्तत्वम् [क्: स्तता] एवमीश्वरोऽपि प्रलयाननुवृत्तजगद्व्यतिरिक्तशुद्धचिन्मय इत्याह - देहादीति || २७ || एवं देवो जगच्छून्यचिदेकवपुरव्ययः | तेनेदं स्वात्मनि जगच्चित्रमुन्मीलितं ननु || २८ || अव्यय इत्यनित्यजगद्व्यतिरिक्तत्वनिर्वाहकं विशेषणम् | तेन चिदेकवपुषा ईश्वरेण || २८ || क्वोन्मीलयेज्जगच्चित्रं स्वान्यस्य क्वाप्यसम्भवात् | ऋते चितिं कदाचिद्वा क्व किं भवितुमर्हति || २९ || पूर्णस्य त्वप्रतिहतम् (११|२३) इत्युक्तं पूर्णत्वं साधयति - क्वेति | स्वस्मादन्यस्य दृश्यस्य क्वापि स्वस्मादन्यत्रासम्भवाज्जगच्चित्रं क्वोन्मीलयेदित्यर्थः | कुतः क्वापि स्वान्यस्यासम्भव इति चेदाह - ऋत इति | कदा क्व मिमिति कालदेशाकारप्रतिषेधः || २९ || यत्राभावश्चितेर्ब्रूयात् स देशो नैव सिध्यति | अभावश्च चितेः केन सिध्येत्तस्माच्चितिः परा || ३० || यत्रेति | यत्र चिदभावस्तद्देशप्रकाशासम्भवान्न सिद्ध्येत् सिद्धेः प्रकाशायत्तत्वादिति भावः | अभावश्चेति | चितः सर्वप्रकाशकत्वेन तदभावः केन सिध्येदिति भावः | तस्मात् चिदभावस्यासिद्धेः | परा अनिषेध्या निषेधावधिभूतत्वात् || ३० || महासत्ता जगद्ग्रासशीला पूर्णाऽवभासते | समुद्रमन्तरा भङ्गा दिवानाथं विना प्रभाः [ख्, ग्: भा] || ३१ || अत एव महासत्ता | महती अपरिच्छिन्ना सत्ता यस्याः | अत एव जगतस्तया व्याप्तत्वाज्जगतो ग्रसनं शीलं यस्याः | अत एव पूर्णा | अत एव तदविनाभूतं जगदिति सदृष्टान्तमाह - समुद्रमिति || ३१ || प्. १६१) यथा न सन्ति तद्वद् वै संविद्रूपं विना जगत् | तस्मादेष महादेवः शुधचैतन्यविग्रहः || ३२ || यथा हि समुद्राद्यविनाभूतास्तरङ्गादयस्तथा [क्, ख्: समुद्रावि] संविद्रूपाविनाभूतं जगत् | यस्मात्संविदविनाभूतं जगत् तस्माच्छुद्धचैतन्यविग्रहो दृश्यलेशरहित आसीदिति सम्बन्धः || ३२ || आसीत् सृष्टेः पुरा तस्मादुत्पन्नं तत्र संस्थितम् | तस्मिन् विलीयते चान्ते जगदेतच्चराचरम् || ३३ || तस्मात् महादेवात् यथा हि समुद्रादेरुत्पत्त्यादिमतां तरङ्गादीनां समुद्रादिमात्राद्यात्मत्वम् एवं जगतश्चिन्मात्रात्मत्वमिति भावः || ३३ || इत्यागमप्रसिद्धोऽर्थस्तन्न विप्रतिपद्यते | अदृष्टार्थेषु संवादात् प्रमाणं ह्यागमो भवेत् || ३४ || इतीति | तत्रैकस्तु (११|२४) इत्यादिश्लोकदशकोक्तः | तत् आगमोक्तम् | न विप्रतिपद्यते संशयविषयतां न प्राप्नोति | कुत एवमिति चेदाह - अदृष्टेति | यत्प्रमाणं हि क्वचिद्विसंवादि तत्प्रमितोऽर्थो विप्रतिपद्यते | यत्प्रमाणं सर्वत्राविसंवादि तत्प्रमितोऽर्थो न विप्रतिपद्यत इति नियमः | आगमस्त्वदृष्ट एव प्रमाणं न क्वचिद्विसंवादि अतो न तत्सिद्धोऽर्थो विप्रतिपद्यते | अतः सर्वथा आगमः प्रमाणमेव भवेदिति भावः || ३४ || दृश्यन्ते मणिमन्त्रादिसिद्धयः सर्वतो यतः | नाल्पप्रज्ञो विजानीयाद् मणिमन्त्रमहाफलम् || ३५ || ननु वेदाद्यागमो नेश्वरोक्तः प्रमाणाभावादिति चेदाह - दृश्यन्त इति | मणिमन्त्रौषधानामागमोक्तानां सिधयः फलोत्पत्तयः सर्वतः [क्: सर्वत्र] साधकेषु यतो दृश्यन्ते तस्मादागमः सर्वज्ञगदित इति सम्बन्धः | यतो मण्यादिफलमीश्वरादन्योऽल्पप्रज्ञो ज्ञातुं [क्: दातुं] न समर्थ इत्याह - नेति || ३५ || प्. १६२) तस्मात् सर्वज्ञगदितो ह्यागमः सर्वदर्शनः | तत्रोक्तो देव एवादौ सृष्टेर्जगत आस्थितः || ३६ || सर्वदर्शन इति | दृश्यतेऽनेनेति दर्शनं प्रमाणव्यापारः [क्, ख्: प्रमाणं] सर्वत्र दर्शनं यस्य | दृष्टादृष्टविषय इति यावत् | देवश्चिन्मात्रमूर्तिरीश्वरः एवकारेण प्रधानादिव्यावृत्तिः || ३६ || निरुपादान एवादौ सृष्टवानखिलं जगत् | यस्माद् [क्: अस्मा] महेश्वरः पूर्णस्वच्छस्वातन्त्र्यसंयुतः || ३७ || आदौ स्वयमेकोऽपि सृष्टिकाले उपादानं कुतश्चित् संपादयतीति चेन्नेत्याह ##- घटादिकार्यमवभासयति ईश्वरो निरुपादानश्चेत् कथं क्वावभासयेदिति चेदाह - यस्मादिति | पूर्णमपरिच्छिन्नं स्वच्छमकृत्रिमं सहजं स्वातन्त्र्यम् तेन युतः || ३७ || चिदात्मभित्तावखिलं चित्रमुन्मीलयेद् [क्, ख्, घ्: लय] जगत् | न तज्जगत् सम्भवति बहिः क्वचिदवस्थितम् || ३८ || चिदात्मेति | यस्मात् स्वस्य पूर्णत्वेन स्वान्यस्यासम्भवः पूर्णस्वातन्त्र्ययुतश्च तस्मात् स्वस्मिन् चिदात्मरूपभित्तौ अखिलं जगच्चित्रमुन्मीलयेदिति भावः | नन्वात्मभित्तावुन्मीलयतीति कुत एतदिति चेदाह ##- पूर्णत्वादीश्वरस्येह स्थानमन्यन्न विद्यते | अन्यस्थानस्थितं तच्च कथञ्चिन्नैव सिध्यति || ३९ || कुतो न सम्भवतीति चेदाह - पूर्णत्वादिति | व्रीहिभिः पूर्णे घटेऽन्यस्य स्थानाभाव इव दिगादिनामात्मना पूर्णत्वेन नान्यस्य स्थानमस्तीत्यर्थः | आत्मनोऽपूर्णत्वाभ्युपगमेऽपि [ख्, ग्: आत्मनः पू] न तदन्यत्र जगत्सिद्ध्यति चित्प्रकाशबहिर्गतस्याप्रकाशादित्याह - अन्यस्थानेति || ३९ || प्. १६३) तथा च दर्पणाभोगे प्रतिबिम्बवदेव हि | जगदुन्मीलितं देवे चैवं सर्वं समञ्जसम् || ४० || नन्वेतदसमञ्जसम् अन्यस्वरूपान्तरन्यावभासादृष्टेश्चिदात्मस्वरूपे जगदवभासानुपपत्तेरित्याशङ्क्याह - तथा चेति | दर्पणेति | दर्पणस्वरूपान्तः प्रतिबिम्बावभासवद् देवे चिदात्मस्वरूपे जगदुन्मीलितमवभासत इत्येवमभ्युपगमात् [क्: इत्येवाभ्यु] सर्वं समञ्जसमिति भावः || ४० || जगदादेर्हि देवस्य योगीव जगतः क्रियाः | सङ्कल्पनगरप्रख्या सृष्टिर्देवस्य सम्मता || ४१ || ननु निरुपादानानस्य कर्तुः कार्यक्रिया न क्वचिद् दृष्टेति चेदाह - जगदादेरिति | जगत्कर्तुरित्यर्थः | ननु तर्हि योगिनिर्मितवज्जगदपि स्वनिर्मातुर्भिद्येत | तथा च कथमुक्तं चिदतिरिक्तं जगन्नास्तीति चेदाह - संकल्पेति | देवस्य जगत्कर्तुः सङ्कल्पनगरवत् कर्तुरनतिरिक्ता सृष्टिरिति भावः || ४१ || राम ते मानसी सृष्टिर्मनोमययेव केवला | अनेकमातृमेयादिप्रचुरा ह्यवभासते || ४२ || ननु सङ्कल्पनगरमपि कर्तुर्भिन्नमेवेति चेन्नेत्याह - रामेत्यादि | मानसी सृष्टिः सङ्कल्पनगरप्रचुरा याऽवभासते सा मनोमयीति सम्बन्धः || ४२ || अनेकभेदभिनापि मनसोऽन्या नहि क्वचित् | उत्पना मनसस्तत्र स्थिता तत्रैव लीयते || ४३ || एतदेव साधयति - अनेकेति | भेदैर्व्यावृत्तधर्मैर्भिन्नापि मानसी सृष्टिर्यतो मनस्युत्पन्ना तत्रैव स्थिता लीना च ततो मनसो नह्यन्येति सम्बन्धः || ४३ || सा केवलमनोरूपा यथा तद्वज्जगच्छिवात् | सेति | मानसी सृष्टिः | यथा मनस उत्पत्त्यादिना मानससृष्टेर्मनोमयत्वम् तथा चिदात्मनः शिवादुत्पत्त्यादिमज्जगच्चिन्मयमित्यर्थः | ननु शिवादुत्पन्नस्य जगतः शिवरूपतैव न चितिरूपतेति चेदाह - स इति | ननु चितेः कुलालवद्विग्रहः स्यादित्याशङ्क्य नेत्याह - अविग्रहेति | नास्ति चिदतिरिक्तो विग्रहो देहो यस्याः || ४४ || प्. १६४) त्रिपुरानन्तशक्त्यैक्यरूपिणी सर्वसाक्षिणी | सा चितिः सर्वतः पूर्णा परिच्छेदविवर्जनात् || ४५ || सा चितिरेव प्रकरणप्रतिपाद्या त्रिपुरेत्याह - त्रिपुरेति | शक्तयोऽस्य [शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः || इत्ययं श्लोकः परमार्थसारस्याभिनवगुप्तकृतेर्योगराजकृतविवृतौ (पृ० १०) श्रीसर्वमङ्गलाशास्त्रश्लोकत्वेनोद्धृतः |] जगत्सर्वम् इत्युक्तनीत्या घटाद्याभासरूपा अनन्ता याः शक्तयः तासामैक्यं सङ्घट्टः तद्रूपिणी | यथा हि दर्पणे प्रतिभासमानप्रतिबिम्बानां दर्पण एव सङ्घट्टमयं रूपम् तथेति भावः | ननु तर्हि दर्पणवच्चितेर्जडरूपत्वमपि स्यादिति चेदाह ##- ज्ञानशक्तिरूपं न जडस्य सम्भवतीति भावः | प्रागुक्तमपि पूर्णत्वं सम्यक् साधयितुमुपक्रमते - सा चितिरिति || ४५ || कालो देशश्च लोकेऽस्मिन् परिच्छेदकरः स्मृतः | तत्राकारमयो देशः कालस्तु स्यात् क्रियामयः || ४६ || ननु कथं परिच्छेदवर्जितेति चेदाह - काल इति | कालदेशयोरेव परिच्छेदकत्वं [क्: कत्वं ....... परिच्छेद नास्ति] लोके प्रसिद्धमिति भावः | ननु परिच्छेदकाभिमतयोर्देशकालयोः किं रूपमिति चेदाह - तत्रेति | तयोर्मध्ये इत्यर्थः | इहेदानीं घटः इत्यत्र इहेति गृहादिरूपो देशः इदानीमिति प्रातरादिरूपः कालश्च भासते | तत्र गृहादिरूपो देशः पृथिव्यादेः संस्थानविशेषात्माकार एव | कालस्तु सूर्यादिपरिस्पन्दादिरूपा क्रियैव | यदुक्तं श्रीप्रत्यभिज्ञायाम् - मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः || (२|५) इति | तथा कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्मैवेति च | नह्याकारक्रियाभ्यां देशः कालो वान्य उदयगिर्यादिरूपेण सूर्यादिक्रियारूपेण वोपाधिनोपहितोऽखण्डः सम्भवति यतः सर्वव्यवहारस्योपाधिनैव निर्वाहात्तत्कल्पने प्रमाणप्रयोजनयोरभावात् || ४६ || प्. १६५) यां चितिं समुपाश्रित्य स्यादाकारः क्रियापि वा | तस्याः परिच्छेदकत्वमनयोः स्यात् कथं वद || ४७ || एवं देशकालयोः स्वरूपं विविच्य ताभ्यां परिच्छेदाभावं चिदात्मनः साधयति - यामिति | लोके हि शतायुषो गृहस्थस्य पुरुषस्य ततो महतः कलियुगात्मककालस्य जम्बूद्वीपात्मकदेशस्यैकांशेन शतवर्षकालेन गृहरूपदेशेन च परिच्छेद एतावत्कालं स्थित एतद्देशे स्थित इति प्रसिद्धः | प्रकृते चिदात्मैकदेशाश्रयेण सतोर्देशकालयोराकारक्रियारूपयोः कथञ्चिदात्मपरिच्छेदकत्वमित्यर्थः || ४७ || कस्मिन् देशे च काले च चितिर्नास्तीह तद्वद | यत्र न स्याच्चितिः सोऽपि कथं स्यादिति वै भवेत् || ४८ || ननु न [क्, ख्, ग्: न नास्ति] चिदात्माश्रितौ देशकालौ यतस्तयोर्महत्तरयोरेकदेशस्थो [क्, ख्: यस्त] घटादिवच्चिदात्मेति चेदाह - कस्मिन्निति | यत्रेति | देशे काले चेत्यर्थः [ख्, घ्: वेत्यर्थः] | सोऽपीति देशः कालोऽपीत्यर्थः | यथा हि घटशरावादिकं मृदविनाभूतं मृदाश्रितं मृदं विना न भवति यथा [क्, ख्: तथा] च दर्पणाविनाभूतं प्रतिबिम्बवस्तु दर्पणाश्रितं दर्पणं विना न भवति तथा चिदविनाभूतौ देशकालौ न तां विना स्त इति तदाश्रितावेवेति भावः || ४८ || प्. १६६) अस्तिता हि पदार्थानां प्रकाशो नापरः खलु | प्रकाशस्तु चितिः प्रोक्ता नाचितेः स्यात् [क्: नाचितः] प्रकाशता || ४९ || ननु सौरालोकवच्चितिर्वस्तुप्रकाशिका तथा च यथा सौरालोकरहितो घटादिरन्धकारेऽस्ति तथा चितिं विनापि देशादिभावोऽप्यस्त्विति चेदाह - अस्तितेति | सत्त्वमित्यर्थः | वस्तूनां सत्त्वं हि प्रकाशनमेव नेतरत् | सत्त्वात्मकप्रकाशो हि चितिरेव | नास्ति चितिर्यस्य सोऽचितिः चिदविषय इति तात्पर्यम् | तस्याचितेः [क्: नाचितः] प्रकाशता यतो नास्ति ततश्चितिरेव प्रकाश इत्यर्थः | तथा च सौरालोकं विनाऽन्धकारे घटादेर्भासनादालोकादन्यदस्तित्वं घटादेः | चित्प्रकाशं [क्, ख्: अतश्चि] विना घटादेः कथञ्चिदपि व्यवहाराभावाच्चित्प्रकाश एवास्तित्वमिति भावः || ४९ || प्रकाशस्तु सुमुख्यः स्याद्यः स्वतन्त्रः प्रकाशते | जडा न स्वप्रकाशा हि चितियोगप्रकाशनात् || ५० || नन्वस्तु भावानां सत्त्वं प्रकाश एवेति तथापि घटः प्रकाशते चितिः प्रकाशत इति व्यवहारसाम्यात् कथं चितिर्घटादेर्दृश्यस्याश्रयभूतेति चेदाह - प्रकाश इति | यः स्वतन्त्रः अन्यानपेक्षः प्रकाशते तस्य प्रकाश एव सुमुख्यः [घ्: मुख्यः] | जडा इति | जडाश्चिदात्मभिन्ना न स्वप्रकाशाः अन्यानपेक्षप्रकाशा न भवन्तीत्यर्थः | हि यस्मात् | चितियोगेन चिद्विषयतापत्त्या प्रकाशनात् | चित्तादात्म्यमप्राप्तानामप्रकाशनान्न जडानां स्वतन्त्रः प्रकाश इति भावः || ५० || अन्यानपेक्षणेनैव चितिः स्वस्मिन् प्रकाशते | जडाश्चितिं समाश्रित्य प्रकाशन्ते न चान्यथा || ५१ || चितिस्तु न तथेत्याह - अन्येति | स्वस्मिन् अन्यतादात्म्यमनुपगते स्वस्वरूपे [क्, ख्: स्वरूपे] समाध्यादिदशासु प्रकाशते | तस्माच्चिज्जडयोः प्रकाशवैषम्याच्चितिमाश्रित्यैव जडाः प्रकाशन्ते न स्वातन्त्र्येणेत्यर्थः || ५१ || प्. १६७) अप्रकाशेऽपि वस्तूनामस्तिता चेत्तदा शृणु | अस्ति नास्तीति लोकेऽस्मिन् व्यवस्था नहि सेत्स्यति || ५२ || अस्तु भावानामाकाशाश्रितत्ववच्चिदाश्रितत्वम् तथाप्यस्ति प्रकाशते चेत्यादिव्यवहारादस्तिता प्रकाशाद् [क्: काशवद्] भिन्नैवेति चेदाह ##- [क्: सम.....आद्ये नास्ति] वा ? आद्ये समनियतयोर्घटत्वकलशत्वयोरिवाभेदः सिद्ध एवेति मत्वा द्वितीये दूषणमाह - अस्तीति | यद्यप्रकाशेऽप्यस्तित्वं घटादेस्तर्हि अयं नास्त्यप्रकाशमानत्वात् इत्यादि व्यवस्था न सेत्स्यतीति भावः | ननु तर्ह्ययं प्रकाशतेऽस्ति च यतः प्रकाशते ततोऽस्तीत्यादिव्यवहारः कथमिति चेदुच्यते दृश्यः प्रत्यक्षत्वादित्यादिवन्नेय इति || ५२ || तस्माद्वस्त्वस्तिता लोके चित्प्रकाशो न चापरः | यथा हि प्रतिबिबिम्बानां सत्त्वं दर्पण एव हि || ५३ || तस्मादिति | प्रकाशास्तित्वयोः समनियतत्वादित्यर्थः | अत्र दृष्टान्तः - अथेति | धर्मधर्मिणोस्तादात्म्याभिप्रायेणोक्तम् - दर्पण एवेति | दर्पणसत्त्वमेव प्रतिबिम्बानां सत्त्वमित्यर्थः || ५३ || तथा चितिर्जगत्सत्ता ततः सर्वं चितिर्भवेत् | अधिकं भासते यत्तु तन्नैर्मल्यमहित्त्वतः [क्: महत्त्वतः] || ५४ || एवं चित्प्रकाशयोस्तादात्म्यात् चितिर्जगत्सत्तेति सर्वं जगत् | ननु चितिरेव सर्वं चेत्तर्हि चितिरित्येव भासेत घटः पट इत्यधिकांशभासनं कथमिति चेदाह - अधिकमिति | तन्नैर्मल्येति | तस्याश्चितेर्नैर्मल्यस्य महित्त्वतो [क्: महत्त्वतः] माहात्म्यादित्यर्थः || ५४ || प्. १६८) काठिन्यनिर्मलत्वाभ्यां प्रतिबिम्बावभासनम् | तयोस्तु तारतम्येन प्रतिबिम्बः स्फुटोऽस्फुटः || ५५ || ननु दर्पणेऽधिकावभासः प्रतिबिम्बविधया भवेत् प्रकृते चिदात्मनि कथमधिकावभास इति चेत्प्रतिबिम्बविधयैवेति वक्तुं प्रतिबिम्बनिमित्तं विवेचयति - काठिन्येति | काठिन्यमरिक्तात्मत्वम् [क्, ख्: काठिन्यभरितात्मत्वम्] प्रतिबिम्बावभासनं भवेदिति शेषः | तयोः काठिन्यनिर्मलत्वयोः | तारतम्येन न्यूनाधिकभावेन || ५५ || दर्पणे च जले चापि स्पष्टमेतद्धि लक्ष्यते | जडत्वाद् दर्पणादेस्तु स्वातन्त्र्यपरिवर्जनात् || ५६ || काठिन्यनिर्मलत्वयोराधिक्येन दर्पणे स्फुटः प्रतिबिम्बः न्यूनत्वेन जलेऽस्फुटः प्रतिबिम्बः | एतच्च सर्वैः स्पष्टं लक्ष्यते | भित्तौ नैर्मल्याभावादाकाशे काठिन्याभावाच्च न प्रतिबिम्बावभास इति भावः | ननु चितेः स्वान्तः [क्: स्वतः] प्रतिबिम्बावभासने दर्पणवद्बिम्बापेक्षापि स्यादिति चेदाह - जडत्वादिति | परिवर्जनाद् बिम्बापेक्षेति सम्बन्धः || ५६ || बिम्बापेक्षा चितेः स्वच्छस्वातन्त्र्यादनपेक्षता | निर्मलत्वं स्वतःसिद्धं चितेर्मालिन्यवर्जनात् || ५७ || स्वच्छं [क्: स्वच्छ] परिच्छेदमलरहितं सार्वत्रिकं यत् स्वातन्त्र्यं तस्मात् चितेर्बिम्बानपेक्षता | यदुक्तम् - अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मुकुरान्तराले | बोधः [परं निज इति तन्त्रसारस्थः (पृ० १९) ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिनीस्थश्च (भा० २ पृ० २०३) पाठः | परमार्थसारयोगराजविवृतौ (प्. ३९) तु मूलस्थित एव पाठो दृश्यते |] पुनर्निजविमर्शनसारयुक्त्या [वृत्त्या इति तन्त्रसारस्थः पाठः] विश्वं परामृशति नो मुकुरस्तथा तु || इति | (त० सा० पृ० १९) ननु जलादेः कतकादिना नैर्मल्यं सम्भवति चितेः कथमिति चेदाह - निर्मलत्वमिति | आकाशवदसङ्गत्वेन मालिन्यवर्जनात् || ५७ || प्. १६९) अनेकरसतैव स्याद् मालिन्यं तत् [ग्, घ्: सा] चितेर्नहि | ऐकात्म्यरूप्याच्चिच्छक्तेरखण्डत्वाच्च सर्वथा || ५८ || जलादिगतं मालिन्यं किम् ? यच्चितिरूपे नास्तीत्युच्यते इत्याशङ्क्याह - अनेकेति | अनेकरसत्वं वस्त्वन्तरसंमिलितत्वम् | यथा पार्थिवरजःसंमिलितत्वं जले मालिन्यम् | यथा च दर्पणे काचान्यांशसंमिलितत्वम् | नन्वेवंविधं मालिन्यं चितेः कुतो नेति चेदाह - ऐकात्म्यरूप्यादिति | अवयविनां स्वावयवान्तरालेषु स्वातिरिक्तांशमेलनान्मालिन्यसम्भवः | चिदात्मनो निरवयवत्वेनैकरूप्यान्न मालिन्यमिति भावः | एवं नैर्मल्ये निमित्तमुक्त्वा काठिन्येऽपि निमित्तमाह - अखण्डेति | अखण्डत्वादरिक्तात्मभावहेतोरिति सम्बन्धः | रिक्तात्मत्वमवकाशात्मत्वम् | अवकाशवत्त्वमिति यावत् | लोके ह्यवयवसंश्लेषतारतम्येन काठिन्यतारतम्यं दृष्टम् | यदवयवानां संश्लेषाधिक्यम् तत्र काठिन्याधिक्यम् | संश्लेषन्यूनत्वे काठिन्यन्यूनता | दृष्टं चैतत्पाषाणजलयोः | संश्लेषे आधिक्यं चावयवांशानां सम्बन्धाधिक्यनिमित्तम् | तथाहि - यस्माद्यस्यावयवांशा यावन्तोऽधिकाः संयुक्तास्तस्य तावदधिकः संश्लेषस्तावदधिकं काठिन्यं च [क्, ख्, ग्: च नास्ति] तथा यस्य यावदवयवांशा असंयुक्तास्तस्य तावदंशावच्छेदेनान्तरवकाशवत्त्वाद्रिक्तात्मत्वाच्च तस्यानधिककाठिन्यवत्त्वमिति | चितेस्तु निरवयवत्वेनाखण्डत्वादरिक्तात्मत्वमिति भावः || ५८ || अरिक्तात्मभावहेतोर्नैर्मल्यं सर्वतोऽधिकम् | अस्वतो भासमानस्य भानमन्यानुषङ्गतः || ५९ || अरिक्तात्मभावहेतोश्चितेर्नैर्मल्यं सर्वतोऽधिकम् | प्रकृते नैर्मल्यमिति काठिन्यस्याप्युपलक्षणम् | तथा च चितेर्नैर्मल्यं काठिन्यं च सर्वतो दर्पणादेरधिकमित्यर्थः | अवयविनामवयवांशेष्ववकाशतारतम्यसम्भवात्तदवकाशेषु वस्त्वन्तरप्रवेशतारतम्यसंभवाच्च काठिन्यनैर्मल्यतारतम्यम् चितेरखण्डत्वेन सर्वथा रिक्तात्मत्वाद्धेतोर्नैर्मल्यं काठिन्यं च सर्वतोऽधिकमिति भावः | ननु जगतः प्रतिबिम्बत्वे प्रमाणाभावान्न प्रतिबिम्बत्वमिति चेत् प्रतिबिम्बलक्षणयोगात् प्रतिबिम्बत्वमिति वक्तुं प्रतिबिम्बलक्षणमाह - अस्वत इति | अन्यासम्बन्धेऽभासमानत्वे सत्यन्यसम्बन्धेन भासमानत्वं प्रतिबिम्बत्वम् [क्: अन्यप्रति] | यथा प्रतिबिम्बघटो दर्पणं विनाऽभासमानो दर्पणसम्बन्धेनैव भासते एवं चितिं विनाऽभासमानं चितिसम्बन्धेनैव भासत इति जगत् प्रतिबिम्बात्मकमेव || ५९ || प्. १७०) प्रतिबिम्बस्वरूपज्ञाः प्रतिबिम्बं प्रचक्षते | जगदेतादृशं सर्वं सर्वैः समभिलक्षितम् || ६० || प्रतिबिम्बमिति | प्रतिबिम्बत्वमित्यर्थः | एतादृशं प्रतिबिमलक्षणवत् || ६० || स्वतो न भासते क्वापि भासते च चिदाश्रयात् | अतो जगत् स्यादादर्शप्रतिबिम्बसुसंमितम् || ६१ || लक्षणं जगति योजयति - स्वत इति | सुसंमितं समम् || ६१ || चितिर्विचित्राऽन्यभावैरुपरक्तापि भासिनी | स्वरूपादप्रच्युतैवादर्शवल्लेशतोऽपि हि || ६२ || एवं जगतः प्रतिबिम्बलक्षणयोगात् प्रतिबिम्बत्वमुपपाद्य चितेर्दर्पणतुल्यतां वक्तुं प्रतिबिम्बग्राहिणो लक्षणं चिति योजयति - चितिरिति | अन्यस्वरूपोपरक्तत्वेन भासमानत्वे [क्: मानेत्यप्र] सत्यप्रच्युतस्वरूपत्वं प्रतिबिम्बग्राहित्वम् | भासिनीति | भासनमात्ररूपा | अत एव लेशतोऽप्यप्रच्युतेत्यन्वयः || ६२ || दर्पणप्रतिबिम्बानां दर्पणानन्यता यथा | चिदात्मप्रतिबिम्बानां चिदात्मानन्यता तथा || ६३ || एवं महता प्रयत्नेन जगतः प्रतिबिम्बत्वे साधिते फलितमाह - दर्पणेति || ६३ || प्. १७१) दर्पणे प्रतिबिम्बो हि बिम्बहेतुर्निरूपितः | चितिः(ति) स्वातन्त्र्यहेतुः स्यात् प्रतिबिम्बो हि जागतः || ६४ || स्वच्छस्वातन्त्र्यादनपेक्षता (११|५७) इति चिति प्रतिबिम्बने [क्, ख्, ग्: प्रतिबिम्बे] न बिम्बापेक्षेत्युक्तम् तन्निर्वाहयितुमुपक्रमते - दर्पण इति | बिम्बं हेतुर्यस्य स बिम्बहेतुः | स्वातन्त्र्यं हेतुर्यस्य स जागतः प्रतिबिम्बः || ६४ || स्वसङ्कल्पाद्राम पश्य स्वात्मनि प्रतिबिम्बितान् | भावान् बिम्बविनाभूतान्निर्निमितावभासनान् || ६५ || बिम्बं विना प्रतिबिम्बने दृष्टानमाह - स्वसङ्कल्पेति | स्वात्मनि अन्तःकरणपरिछिन्नचैतन्ये | निर्गतं निमित्तं यस्य निर्निमित्तमवभासनं येषाम् दर्पणप्रतिबिम्ब इव नालोकादिनिमित्तापेक्षापीति भावः | सङ्कल्पान्मनोराज्ये भासमाना भावाः प्रतिबिम्बलक्षणयोगात् प्रतिबिम्बभूताः तेषामवभासनं बिम्बाद्यनपेक्षमेव प्रसिद्धम् एवं परचिति जगत्प्रतिबिम्बनमिति भावः || ६५ || सङ्कल्प एव स्वातन्त्र्यं चितेरुच्छूनमीर्यते | असङ्कल्पदशायां सा चितिः स्वच्छैकरूपिणी || ६६ || सङ्कल्पपदार्थ विवृणोति - सङ्कल्प इति | चिदात्मनो यत्स्वातन्त्र्यं नाम शक्तिः तस्य शक्तित्वादेव चिदात्मानतिरेकत्वं सूक्ष्मरूपत्वं च | तद्यदोच्छूनं पुष्टं भवति दृश्याकारत्वेन स्थूलतां प्राप्नोतीति यावत् तदा तत्स्वातन्त्र्यमेव सङ्कल्प इतीर्यते [क्: इतीर्यते....षङ्कल्प नास्ति] | यथा हि तव स्वातन्त्र्यमेव सङ्कल्परूपम् | स [क्, ख्: तत्वमप्यनेक] त्वययनेकभावान् प्रतिबिम्बत्वेनावभासयति एवमेवेश्वरस्य स्वातन्त्र्यमपि जगदवभासयतीति भावः | असङ्कल्पकाले च यथा तवात्मभूता [क्, ख्: तथा चात्म] चितिः प्रतिबिम्बवर्जनेन स्वच्छैकचिन्मात्ररूपिणी || ६६ || प्. १७२) एवं चितेर्विशुद्धैकरूपायाः सृष्टितः पुरा | बृहत् स्वातन्त्र्यमभवत् सङ्कल्पात्मकमेव तत् || ६७ || एवं सृष्टेः पुरा प्रलये विशुद्धैकरूपा या परा चितिस्तस्या यद् बृहदपरिच्छिन्नं स्वातन्त्र्यं तदेव सृष्ट्यादौ सङ्कल्पात्मकमभवत् | शुद्धचिद्दशायां स्वातन्त्र्यस्य तदेकरूपत्वेन स्थितस्य सृष्ट्यादौ जगद्रूपतापत्तिरेव सङ्कल्पत्वमिति भावः || ६७ || तत एतत्समाभातं प्रतिबिम्बात्मकं जगत् | बृहत्सङ्कल्पसुस्थैर्याच्चिरमेतद् विभासते || ६८ || ततः सङ्कल्पादेतज्जगत्प्रतिबिम्बात्मकं समाभातं भवति | ननु यथाऽस्मत्सङ्कल्पभासितभावानामस्थिरत्वम् एवमीश्वरसङ्कल्पभासितस्याप्यस्थैर्यं कुतो नेति चेदाह - बृहदिति | बृहतः सङ्कल्पस्य स्थिरत्वेनैतज्जगच्चिरं भासते सङ्कल्पजावभासस्य सङ्कल्पान्यूनकालत्वनियमादिति भावः || ६८ || साधारणं जगद् भाति पूर्णस्वातन्त्र्यहेतुतः | अन्येषां तदपूर्णत्वाद् भात्यसाधारणात्मना || ६९ || ननु तथापि स्वसङ्कल्पजातं स्वात्मन एव भासते नान्यस्य | ईश्वरसङ्कल्पजातजगतः कथं सर्वसाधारण्येन भसनमिति [घ्: भान] चेदाह - साधारणमिति | ईश्वरस्य पूर्णस्वातन्त्र्यात् सर्वस्वातन्त्र्याद्धेतोरित्यर्थः | तदपूर्णत्वात् स्वातन्त्र्यापूर्णत्वात् सर्वस्वातन्त्र्याभावादित्यर्थः | ईश्वर इदमीदृशं जगत् प्रमात्रन्तरदृश्यमिति सङ्कल्पयति ततस्तथा भासते | जीवेन तथा सङ्कल्पितेऽपि जगति प्रमात्रन्तरदृश्यमित्यंशेऽस्वातन्त्र्यान्न सोंऽशो भासत इति भावः || ६९ || अभ्यासान्मणिमन्त्राद्यैः स्वातन्त्र्यं तु यथा यथा | त्यजेत् सङ्कोचमात्मस्थं तथा तत्र हि भासनम् || ७० || जीवानामपूर्णं स्वातन्त्र्यमिति तत्सङ्कल्पितानामसाधारण्यमुक्तम् | तस्यैव स्वातन्त्र्यस्योपायैर्यावत् सङ्कोचहानिस्तावत् पूर्णत्वमित्याह - अभ्यासादिति | अभ्यासः शुद्धचिदात्मतत्त्वस्याहमित्यविच्छिन्नानुसन्धानम् | मणिमन्त्रौ प्रसिद्धौ | आदिनौषधिः | एतैः साधितैः | तत्र तत्स्वातन्त्र्यकल्पिते || ७० || प्. १७३) पश्यैन्द्रजालिकं राम निरुपादानयोगतः | भासयन्तं जगच्चित्रं सङ्कल्पादेव सर्वतः || ७१ || अत्रोदाहरणमाह - पश्येति | ऐन्द्रजालिको हि साधितमणिमन्त्राद्यैर्गजतुरगादिरूपं चित्रं जगदुपादानमनपेक्ष्यैव सङ्कल्पमात्रेण सर्वतो भासयतीति भावः | यद्वा मानससृष्टेरसाधारणमस्थैर्यमर्थक्रियाभावश्चेति [क्: सृष्टमसा-] बाह्यसृष्टिवैसादृश्याद् दृष्टान्तान्तरमाह ##- साधारणं स्थिरं स्वार्थक्रियार्हं भूय एव तु | स्वात्मन्युपसंहरेच्च जगदेवं विभसते || ७२ || स्वीया याऽर्थक्रिया घटादेरुदकाहरणादिरूपा तदर्हम् | एवंविधं जगदैन्द्रजालिकः सृष्ट्वा भूयः स्वात्मनि स्वसृष्टं सर्वमुपसंहरेच्च | एवमीश्वरसृष्टमपि जगद्विभासते || ७२ || योगिनः पश्य सृष्टिं तां पूर्णस्थैर्यसमावृताम् | योगिनस्तु मितत्वेन सृष्टिर्बाह्या विभाविता || ७३ || नन्वेवमप्यैन्द्रजालिकसृष्टेरतिस्वल्पकालस्थायित्वेन वैसादृश्यमेवेति मत्वाह - योगिन इति | विश्वामित्रादेर्योगिनो नक्षत्रादिसृष्टिमाप्रलयस्थायित्वरूपपूर्णस्थैर्यसमावृतां पश्येत्यर्थः | ननु तथापि योगिनः सृष्टिरीश्वरसृष्टिवत् स्वस्वरूपे कुतो नेति चेदाह - योगिनस्त्विति | साधारणयोगिन ईश्वरापेक्षया परिच्छिन्नत्वेन परिमितस्वरूपत्वेन बहिःस्थानलाभात् परिमितशक्तित्वाच्च बाह्या सृष्टिर्विभावितेत्यर्थः | यस्तु पूर्णयोगी स बाह्यमनपेक्ष्य श्रीकृष्णादिवत् [क्, ख्: श्रीकृष्णादिः] स्वस्वरूपे एवाऽखिलविश्ववैचित्र्यमवभासयितुं समर्थ इति ध्येयम् || ७३ || प्. १७४) अमितत्वात् सृष्टिरियं चिन्नाथस्यान्तरेव हि | अत एव चिदात्मत्वव्यतिरेकादसत्यता || ७४ || नैवमीश्वर इत्याह - अमितत्वादिति | अत एव अन्तःसृष्टत्वादेव | अन्यान्तरन्यावभासनं प्रतिबिम्बतुल्यमेवेति [क्: प्रतिबिम्बतुल्यमेवेति नास्ति] प्रतिबिम्बस्य [ग्: प्रति नास्ति] दर्पणात्मत्वव्यतिरेकेणासत्यत्ववज्जगतोऽपि चिदात्मत्वव्यतिरेकादसत्यतामाह - [क्, ख्: चिदात्मव्य] चिदात्मत्वेति || ७४ || जगतः प्रतिबिम्बस्यादर्शात्मत्वं विना यथा | अत एव विचारेणासत्यतां याति नान्यथा || ७५ || असत्यता जगत इत्यन्वयः | अत एवेति | प्रतिबिम्बरूपत्वादेवेत्यर्थः | नान्यथेति | प्रतिबिम्बात्मकमेतज्जगदिति विचारे कृते न सत्यतां प्राप्नोतीत्यर्थः || ७५ || सत्यं स्वभावं नो मुञ्चेदसत्यं तं परित्यजेत् | जगत् पश्य भार्गवैतत् स्वभावादतिचञ्चलम् || ७६ || एवं प्रतिबिम्बत्वेनासत्यत्वं प्रसाध्यासत्यलक्षणवत्त्वादपि जगतोअसत्यतां वक्तुं प्रसङ्गात् सत्यासत्यलक्षणमाह - सत्यमिति | अव्यभिचरितस्वभावं सत्यम् अन्यदसत्यमिति तदर्थः | एतत् प्रत्यक्षं जगत् | अतिचञ्चलं क्षणिकम् || ७६ || सत्यासत्ये विभागेन भासेते सर्वतोऽखिलम् | प्रतिबिम्बादर्शभानमिव तत्प्रविचारय || ७७ || कथमयं निश्चय इति चेद्विचारेण भवेदित्याह - सत्येति | सर्वतः सर्वत्र | अखिलं तज्जगत् प्रविचारय | कथमिति चेदाह - प्रतिबिम्बादर्शभानमिवेति | प्रतिबिम्बादर्शयोरनियतनियतरूपत्वेन [ग्: नियत नास्ति] भानवद् जगच्चिदात्मनोर्भानं भवेदिति प्रविचारयेति भावः || ७७ || प्. १७५) आदर्शो ह्यचलस्तत्र चलं हि प्रतिबिम्बकम् | तथा जगच्चलं संविदचला सर्वभाविता || ७८ || एतदेव दृष्टान्ते विचारपूर्वकं दार्ष्टान्तिके योजयति - आदर्श इति | यावत्प्रतिबिम्बेषु वादर्शस्याव्यावृत्तत्वेनापरित्यक्तस्वभावत्वेन सत्यता घटप्रतिबिम्बस्यपटादिप्रतिबिम्बकाले व्यावृत्तत्वेन परित्यक्तस्वभावत्वाद सत्यतेति भावः | तथेति | घटादेर्जगतः परस्परं व्यावृत्तेः संविदः सर्वत्राऽव्यावृत्तेर्जगदसत्यं संवित् सत्येति ज्ञेयम् | जगत्संविदोश्चलाचलत्वं सर्वैर्ज्ञातमित्याह - सर्वेति || ७८ || अत एव हि भावानां विचारासहरूपता | तथा हि सूर्यालोको हि वस्तूनामवभासकः || ७९ || अत एव असत्यत्वादेव | यद्धि असत्यं तन्मरुतोयकेशोड्रकादिवदविचारसहमेव | विचारेणेदमीदृशमिति निर्णीतं न [क्, ख्: न नास्ति] भवेदिति भावः | विचारासहत्वमेवोपपादयति भावेषु तथा हीति || ७९ || उलूकादिदिवान्धानां विपरीतोऽन्धकारवत् | प्रकाशत्वान्धकारत्वे न विविक्तेऽनयोः [विविक्तेऽनयोः इत्यत्र सन्धिरार्षः] स्फुटे || ८० || विपरीतः अनवभासकः | न विविक्ते विवेकमप्राप्ते | अनयोः सौरालोकतमसोः | वस्त्ववभासकत्वं प्रकाशत्वम् अनवभासकत्वं प्रकाशविरुद्धत्वं वान्धकारत्वम् | एवं च सौरालोकस्य मनुष्यादीन् प्रत्यवभासकत्वेन उलूकादीन् प्रत्यनवभासकत्वेन [क्: कत्वं नैवं] एवं तमसोऽपि मनुष्यादीन् प्रत्यनवभासकत्वेनोलूकादिन् प्रत्यवभासकत्वेन कस्य प्रकाशत्वं कस्य वान्धकारत्वमिति विवेक्तुमशक्यत्वेन विचारासहत्वमिति भावः || ८० || प्. १७६) एवं विषं कस्यचित् स्यादविषं कस्यचिद् भवेत् | मनुष्यादेः प्रतिघातकरी भीतिर्हि लक्ष्यते || ८१ || एवमन्येषामपि स्वभावानवस्थितिमाह - एवमिति | विषं वत्सनाभादिर्मनुष्यादेर्मारकं स्यात् तदुत्पन्नकृम्यादेरविषममारकम् | प्रतीघातो गमनप्रतिबन्धः || ८१ || योगिनां गुह्यकादीनामप्रतीघातलक्षणा | कालो देशश्च दीर्घो यो मनुष्यादिप्रभावितः || ८२ || अप्रतीघातो लक्षणं यस्याः | प्रतीघातकरी न भवतीति तात्पर्यम् | यः कालो देशश्च मनुष्यादिभिर्दीर्घत्वेन ज्ञातः स एव देवादीनामदीर्घ इत्याह - काल इति || ८२ || स एव विपरीतो वै देवानां योगिनामपि | दर्पणे भासमानस्य दूरादेर्दूरता यथा || ८३ || कथमेकस्यैव दूरत्वमदूरत्वं चेति चेत् सदृष्टान्तमाह - दर्पण इति || ८३ || तथैवास्य स्वभावोऽपि विचारे [क्, ख्, घ्: विचारो न स्थिरीभवेत्] न स्थिरो भवेत् | अत आश्रयरूपेण विना नास्ति हि किञ्चन || ८४ || तथैवेति | दर्पणे दृश्यमानो यः सुदीर्घोऽपि देशस्तस्य दर्पणानतिरिक्तत्वेन यथा न दीर्घत्वम् एवमेवात्र चिति भासमानालोकादीनामप्रकाशत्वादिकं विचारितं सद् न स्थिरं [ग्: अस्थिरं] भवतीत्यर्थः | अतः प्रतिबिम्बात्मकत्वाज्जगत आश्रयरूपेण चिदात्मना विना नास्तीत्यर्थः || ८४ || प्. १७७) यदस्तीति भाति तत्तु चितिरेव महेश्वरी | एवं जगच्चिदेकात्मरूपं ते सम्यगीरितम् || ८५ || यदिति | यथा दर्पणेऽस्तीति भासमानानां प्रतिबिम्बानां दर्पण एव स्वरूपम् एवं चिदात्मनि यदस्तीति भाति तत्सर्वं चितिरेव महेश्वरीति स्वस्मिन् प्रतिबिम्बात्मकवैचित्र्यभासने स्वैश्वर्यमेव निमित्तम् न तु दर्पणस्येव बिम्बमिति [क्, ख्: प्रतिबिम्ब] सूचितम् | अध्यायादौ यत्पृष्टं कथं चितेरन्यच्चेत्यं [क्, ख्: चैत्यं] नास्तीति तदियता [क्, ख्: तदीयता] ग्रन्थेनोपपाद्योपसंहरति - एवमिति || ८५ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे जगत्तत्त्वनिरूपणे एकादशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायाम् एकादशोऽध्यायः || प्. १७८) अथ द्वादशोऽध्यायः एवं दत्तात्रेयमुखाद् जगत्तत्त्वं निशम्य तु | पप्रच्छ भार्गवो भूयः संदेहकलिलान्तरः || १ || अत्राऽध्याये चाधिपद्यैर्जगत्सत्यत्वभासनम् | दृढभावनयेत्युक्तं शैलाख्यानेन वै स्फुटम् || एवं चितिरेवेति | सन्देहेन कलिलं [क्: कलिकलु] कलुषितमान्तरं मनो यस्य || १ || भगवन् संश्रुतं प्रोक्तं भवता जागतं ननु | यथा ब्रवीषि भगवंस्तत्तथैव न चाऽन्यथा || २ || जागतम् स्वरूपमिति शेषः | तथैव चितिमात्ररूपमेव || २ || तथापि कुत एतद्धि भाति सत्यात्मकं सदा | कुतो वाऽन्यैर्बुद्धिमद्भिः सत्यत्वेन विनिश्चितम् || ३ || तथापि असत्यमपि | कुतः कस्मात् कारणात् | सदा सत्यात्मकं भाति | रज्जुसर्पादेरसत्यस्य कदाचिदसत्यत्वेन भानं दृष्टम् इदं हि जगत् कथं सदा सत्यात्मकं भातीति भावः | नन्वेतद् गगननैल्यतुल्यं मूढैरेव सत्यत्वेन विदितमिति चेदाह - कुतो वेति | अन्यैः परैर्द्वैतवादिभिः | बुद्धिमद्भिस्तर्कनिपुणैः || ३ || त्वत्तः श्रुतं चापि भूयो भाति मे सत्यवत् कुतः | ब्रूह्येतत् कृपया नाथ यथा नश्येदयं भ्रमः || ४ || अथ च त्वत्तः गुरोराप्ततमाद् असत्यमिदमिति सोपपत्तिकं श्रुतमपि भूयः कुतो मे जगत् सत्यत्वेन भाति एतद् ब्रूहि || ४ || इत्यापृष्टो भार्गवेण दत्तात्रेयो महाशयः | जगत्सत्यभ्रान्तिमूलं प्रवक्तुमुपचक्रमे || ५ || महाशय इति | महान् अपरिच्छिन्नः चिदात्माकार आशयश्चित्तं यस्य | जगत् सत्यमिति या भ्रान्तिः तन्मूलं तन्निमित्तम् || ५ || प्. १७९) शृणु राम जगद्भ्रान्तेर्मूलमेतत् सनातनम् | वस्त्वविद्यापूर्वकं यद् दृढभावनमेव [घ्: दृढा; क्: हृदा] तत् || ६ || एतद्वक्ष्यमाणम् | सनातनम् अनादि | तदेवाह - वस्त्विति | वस्तुनोऽविद्या अयथावद्ग्रहणम् एतत्पूर्वकं यद्वस्तुनोऽन्यरूपेण दृढभावनम् | भावनाया [घ्: नायां] दृढत्वं श्रद्धावत्त्वम् | तत् प्रोक्तभ्रमनिमित्तम् || ६ || पश्यात्मानमविज्ञाय स्वात्मबुद्धिं शरीरके | क्व मांसरुधिरास्थीनि क्व चिदात्मातिनिर्मलः || ७ || अत्रोदाहरणमाह [क्: तत्रो] पश्येति | आत्मानमपरिच्छिन्नचिद्रूपमविज्ञाय अयथावत् परिच्छिन्नत्वेन विज्ञाय | शरीरमात्मेति दृढभावनादिति शेषः | स्वात्मबुद्धिमिति | शरीरमात्मेति बुद्धिम् | शरीरं कुतो नात्मेति चेदाह - क्वेति | अतिनिर्मलः चिदेकरसः || ७ || केवलं भावनादार्ढ्याच्चिदात्मा देहकोऽभवत् | ज्ञातेऽप्यात्मनि चिद्रूपे भूयो भ्रान्तिः शरीरके || ८ || आत्मत्वेन दृढभावनाद् देहात्मत्वनिश्चयः [क्: देहात्मनि] | एवं भावनादेव आत्मा चिद्रूपो न देह इत्युपपत्त्युपलब्धिभ्यां ज्ञातेऽपि पुनर्भ्रान्तिः || ८ || एवमेव भावनया सत्यं भाति जगत् खलु | विपरीतं भावयन् वै दृढभ्रान्तिं निवर्तयेत् || ९ || एवमेवेति | अनात्मनि देहे भावनयात्मबुद्धिवदेवेत्यर्थः | दृढसत्यत्वभावनया असत्यमिति सम्यग् ज्ञातमपि जगत् सत्यमिति भाति | नन्वेवं सति जगति सत्यत्वबुद्धिरनिवार्यैवेति चेन्नेत्याह - विपरीतमिति | एतज्जगद् असत्यमिति सदा विपरीतं दृढं भावयन् सत्यत्वभ्रान्तिं निवर्तयेत् || ९ || यो यथा भावयेदेतज्जगत्तस्य तथा भवेत् | योगिनां धारणाध्यानैः पश्य तद्रूपसङ्गतिम् || १० || कुत एवमिति चेदेवमेव भावनासामर्थ्यमित्याह - यो यथेति | क्वैतद् दृष्टमिति चेदाह - योगिनामिति | धारणा ध्यानं च भावनापरिपाकविशेषः | बहुवचनं धारणादेरवान्तरभेदाभिप्रायम् | तद्रूपसङ्गतिं जगतो भावनानुरूपताप्राप्तिम् || १० || प्. १८०) अत्र ते वर्तयिष्यामि पुरावृत्तं [क्: पुनरावृत्तमद्भु] महाद्भुतम् | अस्ति वङ्गे सुन्दराख्यं पुरं परमपावनम् || ११ || अत्र जगतो भावनानुरूपताप्राप्तौ | वर्तयिष्यामि उपक्रमिष्यामि | परमपावनं तीर्थभूतम् || ११ || तत्रासीन्नृपतिर्धीमान् सुषेण इति विश्रुतः | तस्य भ्राता महासेनो यवीयान् प्रियकृत् सदा || १२ || यवीयान् कनिष्ठः | भ्रातुः [क्: भ्राता] प्रियकृत् || १२ || शशास राज्यं नृपतिर्धर्मतः सर्वसम्मतः | कदाचिदश्वमेधैः सोऽयजद् देवं महेश्वरम् || १३ || तत्र राजकुमारास्तु महाबलप्राक्रमाः | महत्या सेनया यज्ञाऽश्वं सर्वे ह्यनुसंययुः || १४ || तत्र यज्ञे | अश्वचर्यायामश्वमनुगताः || १४ || अश्वस्य रोधकान् सर्वान् विजित्य बलिनो बलात् | ययुरैरावतीतीरमन्वश्वं नृपतेः सुताः || १५ || रोधकान् शत्रून् | ऐरावती नदी | अन्वश्वम् अश्वपृष्ठतः || १५ || ददृशुस्तत्र राजर्षि तङ्गणाख्यं तपोनिधिम् | बलोद्धता अवज्ञाय तमसङ्गम्य ते ययुः || १६ || तत्र ऐरावतीतीरे | अवज्ञाप्रकार [क्: ज्ञाकार] एव असङ्गम्येति | प्रणामादिपूर्वकं समीपमगत्वेत्यर्थः | ते राजकुमाराः || १६ || तद्वीक्ष्य तङ्गणसुतः पित्रवज्ञां रुषान्वितः | जग्राहाश्वं यज्ञियं तं राजपुत्रन् हि भर्त्सयन् || १७ || प्. १८१) अथ राजकुमारास्ते रुरुधुः सर्वतो हि तम् | तावत्तङ्गणपुत्रोऽपि गण्डशैलं पुरः स्थितम् || १८ || तं मुनिपुत्रम् || १८ || विवेशाश्वं समादाय पश्यत्सु राजसूनुषु | साश्वं शिलाविलीनं तं दृष्ट्वा राजकुमारकाः || १९ || तं मुनिपुत्रम् || १९ || विभिदुर्गण्डशैलं तं शस्त्रैरुच्चावचैः पृथक् | चूर्णिताद् गण्डशैलात् स महत्या सेनया वृतः || २० || उच्चावचैरुत्तमैरधमैश्च | चूर्णितात् चूर्णितैकदेशात् || २० || निर्गत्य तङ्गणसुतो जिगाय युधि तान् क्षणात् | निहत्य सेनां सौषेणीं बद्ध्वा राजकुमारकान् || २१ || तान् राजकुमारान् || २१ || प्रविवेश गण्डशैलं भूयस्तङ्गणसम्भवः | अथ सेनाभटाः शिष्टा गत्वा राज्ञे न्यवेदयन् || २२ || सुन्दरपुरं गत्वा || २२ || साश्वराजकुमाराणां हरणं गण्डशैलके | सुषेणो विस्मितोऽत्यन्तमुवाचावरजं स्वकम् || २३ || तच्छ्रुत्वा विस्मितः || २३ || वत्साशु गच्छ तं देशं यत्रास्ते तङ्गणो मुनिः | तपस्विनोऽचिन्त्यवीर्या अजेया देवमानुषैः || २४ || यतोऽजेयाः अतः प्रसाद्य | अश्वमेधस्य कालः || २४ || तं प्रसाद्य सुतानश्वं चासाद्यायाहि सत्वरम् | न कालोऽतिव्रजेदेष वसन्तो यज्ञसम्मतः || २५ || अभिमानो न कर्तव्यस्तपस्विषु कदाचन | क्रुद्धास्तपस्विनो लोकान् भस्मीकुर्युः क्षणेन वै || २६ || अतः प्रसादनपरो भूत्वा स्वार्थं प्रसाधय | इत्यादिष्टो महासेनस्तं देशं शीघ्रमाययौ || २७ || स्वार्थम् अश्वादिमोचनम् | तं देशं तङ्गणेनास्तितम् || २७ || प्. १८२) अपश्यत्तङ्गणं तत्र समाहितमतिं दृढम् | काष्ठकुड्यात्मतां प्राप्तं शान्तेन्द्रियमनोधियम् || २८ || दृढं यथा तथा सम्यक् स्वात्मन्यप्रकम्पतया आहिता स्थापिता मतिर्येन | अत एव काष्ठेत्यादि(ना)देहचाञ्चल्याभावः शान्तेत्यादिना बाह्यान्तःकरणयोश्चाञ्चल्याभाव उक्तो ज्ञेयः || २८ || निर्विकल्पदशाम्भोधिनिलीनस्वात्मभावनम् | प्रणम्य दण्डवद् भूयः कृताञ्जलिपुटस्तदा || २९ || निर्विकल्पदशा निर्गता विषयाकारैः परिच्छेदात्मिका विकल्पदशा यस्याश्चितेस्तस्या अपरिच्छिन्नत्वेनाम्भोधिरूपता तत्र नितरां लीनं सूक्ष्मत्वेन स्थितमात्मनो भावनमहंत्वेन स्फुरणं यस्य | निर्विकल्पस्वरूपस्यापि व्युत्थानानुरोधेन सूक्ष्माहंविमर्शनाभ्युपगम इति ध्येयम् | एवंविधं तङ्गणं प्रणम्य || २९ || तुष्टाव विविधैः स्तोत्रैर्महासेनो मुनीश्वरम् | तथा तस्य संस्तुवतो ह्यत्यगाद्वै दिनत्रयम् || ३० || अथाजगाम तत्पुत्रः सन्तुष्टः पितृसंस्तवात् | प्रोवाच तं महासेनं राजंस्तुष्टोऽस्मि संस्तवात् || ३१ || अथ चतुर्थ दिने || ३१ || ब्रूहि किं तेऽभिलषितं साधयाम्यविलम्बितम् | अहं पुत्रोऽस्म्यस्य विभोस्तङ्गणस्य महामुनेः || ३२ || नैतस्य मे पितुः कालो भाषणे शृणु भूमिप | समाहितस्वान्त एष द्वादशाब्दादनन्तरम् || ३३ || अनन्तरं समुत्तिष्ठेदित्यन्वयः || ३३ || समाधितः समुत्तिष्ठेत्तत्र पञ्चाब्दका गताः | सप्तावशेषा एवं हि समयोऽस्य पुरातनः || ३४ || समयः सङ्केतः सङ्कल्प इति यावत् | अस्य मे पितुः || ३४ || प्. १८३) तत्तेऽभिवाञ्छितं ब्रूहि यदस्मात्तत् करोम्यहम् | न मां बालं विजानीहि पितृतुल्यं तपस्विनम् || ३५ || तत् तस्मात् | यदस्मात्तेऽभिवाञ्छितं तदहं करोमि | अत्र बाल मामसमर्थं न विजानीहि || ३५ || नासाध्यं विद्यते लोके योगिनां हि तपस्विनाम् | श्रुत्वा मुनिकुमारोक्तं महासेनोऽतिबुद्धिमान् || ३६ || अतिबुद्धिमानिति | बालानामनवस्थितत्वज्ञ इति भावः || ३६ || प्राह तं तङ्गणसुतं प्रणम्य च कृताञ्जलिः | मुनिपुत्र ! प्रियं मेऽद्य करोषि यदि सत्यतः || ३७ || त्वत्पितुस्तेऽद्य वाञ्छामि समाधेर्व्युत्थितस्य वै | सह सम्भाषणं किञ्चिदेतदत्यन्तवाञ्छितम् || ३८ || पितुरित्यादि षष्ठ्यन्तं तृतीयया विपरिणेयम् सहयोगात् [उत्तरार्धस्थितेन सहशब्देन योगादित्यर्थः |] || ३८ || अनुकम्प्यो यद्यहं ते द्रुतमेतत् प्रसाधय | श्रुत्वैतद्वचनं राज्ञः प्राह तापसजः पुनः || ३९ || राजन्नसाध्यं ह्येतत्ते वाञ्छितं सर्वथा भवेत् | तथापि ते करोमीति प्रतिश्रुत्यान्यथा कथम् || ४० || कथं ब्रवीमीति सम्बन्धः || ४० || ब्रवीमि भूयस्तत् किञ्चित् प्रतीक्षस्वाभियाचितः | मुहूर्तमात्रं मे पश्य सामर्थ्यं योगसम्भवम् || ४१ || एष मेऽद्य गुरुः शान्तपदे परमपावने | संस्थितस्तं बाह्ययत्नैरपि को वै प्रबोधयेत् || ४२ || शान्तपदे निर्विकल्परूपे || ४२ || पश्याहं बोधयाम्येनं योगयुक्त्यैव सूक्ष्मया | इत्युक्त्वाथ समाविश्य समाहृत्येन्द्रियाण्यलम् || ४३ || सर्वथाऽशक्यं चेत् त्वमेनं कथं बोधयिष्यसीति चेदाह - सूक्ष्मयेति | मादृशस्य सूक्ष्मयोगयुक्तिविदो नाशक्यमिति भावः | समाविश्य उपविश्य | अलमत्यन्तमिन्द्रियाणि समाहृत्य संरुद्ध्य || ४३ || प्. १८४) प्राणेऽपानं सुसंयोज्य मुख्यप्राणेन निर्गतः | देहं पितुः प्रविश्याशु प्रलीनं तस्य मानसम् || ४४ || प्राणो बहिर्निर्गच्छन्नान्तरो वायुः तस्मिन् | अपानं बाह्यमन्तर्गच्छन्तं वायुम् | सुसंयोज्य एकीकृत्य | अपानं निरुद्ध्य निःशेषेण प्राणवायुविरचनानन्तरं बाह्यकुम्भकं [घ्: बाह्यं] कृत्वेति भावः | मुख्यप्राणोऽहङ्कारात्मान्तःकरणम् | तेन रूपेण देहान्निर्गतः | तस्य पितुः | मरणे ह्यन्तःकरणं प्रलीनं संस्कारमयं [क्, ख्: मयप्रा] प्राणेन सह निर्गच्छति तदान्तःकरणस्य [क्: तदन्तः] लीनत्वादेव स न किञ्चिज्जानाति | परकायप्रवेशे [घ्: प्रवेशने] तु नान्तःकरणस्य विलयः किन्तु बाह्यकुम्भकाभ्यासपरिपाकेन स्वेच्छयैव प्राणमवष्टभ्यान्तःकरणं तेन सह स्वनिर्गमादिकं विदन्नेव निर्गच्छतीति ज्ञेयम् || ४४ || बोधयामास चाकृष्य प्रबोध्याशु विनिर्गतः | देहं स्वमाविशद् यावत्तावत् स बुबुधे मुनिः || ४५ || पितुरात्मनि प्रलीनं निरुद्धं मन आकृष्य बोधयामास | अन्तःकरणस्य तमोमयत्वसम्पत्तिर्लयः रजोमयत्वसम्पत्तिः प्रबोधः सत्त्वमयतासम्पत्तिर्निरोध इत्यन्तःकरणस्य सुषुप्तिजाग्रत्समाधिषु दशात्रयं ज्ञेयम् | यद्यप्यन्तःकरणस्यातीन्द्रियत्वेन तदाकर्षणमशक्यम् तथापि योगिनामतीन्द्रियज्ञानं योगसामर्थ्यादिति ज्ञेयम् | पितृदेहाद्विनिर्गतः | सः तङ्गणः || ४५ || अपश्यदग्रगं भूपं स्तुवन्तं प्रणतं तदा | किमेतदिति सञ्चिन्त्य सर्वं योगदृशाऽविदत् || ४६ || सर्वं पुत्रादिचेष्टितम् || ४६ || प्रसन्नचित्त आमन्त्र्य पुत्रं प्राह सुशान्तधीः | वत्स ! नैवं पुअः कार्यं क्रोधस्तु तपसो रिपुः || ४७ || प्रसन्नचित्त इति | शान्तबुद्धित्वाद् राज्ञि पुत्रे वा न तस्य क्रोध इति भावः | एवं क्रोधेनाश्वहरणादिकम् || ४७ || प्. १८५) राज्ञा हि रक्षिते लोके तपो निर्विघ्नमेधते | यज्ञविघ्नक्रिया दैत्यस्वभावो न मुनेः क्वचित् || ४८ || राजाऽस्माकमुपकारी तस्यापकरणेनास्माकं कृतघ्नता स्यादित्याह - राज्ञेति | अनुपकारिणोऽपि यज्ञे विघ्नोऽयुक्त इत्याह - यज्ञेति || ४८ || प्रयच्छाश्वं राजपुत्रानप्यस्मै सुमना द्रुतम् | शीघ्रं यात्वेष यज्ञस्य न कालतिक्रमो भवेत् || ४९ || सुमना इति | रोषं [क्: शेषं] त्यक्त्वेत्यर्थः | एष राजभ्राता || ४९ || इत्युक्तो गण्डशैलं स प्रविश्य क्षणमात्रतः | साश्वान् राजसुतांस्तस्मै ददौ प्रीत्या गतक्रुधः || ५० || सः मुनिपुत्रः | तस्मै महासेनाय || ५० || ततः साश्वान् भ्रातृपुत्रान् संप्रेष्य नगरं प्रति | महासेनस्तङ्गणं तं प्रणम्यात्यन्तविस्मितः || ५१ || अपृच्छत् प्राञ्जलिर्भूत्वा प्रसाद्य मुनिपुङ्गवम् | भगवन् ज्ञातुमिच्छामि साश्वा मे भ्रातृनन्दनाः || ५२ || कथं गण्डशैलगर्भे संस्थितास्तत् समीरय | एवं राज्ञाऽनुयुक्तोऽथ तङ्गणः प्राह भूपतिम् || ५३ || कथमिति | गण्डशैलस्य सघनत्वादित्यर्थः || ५३ || शृणु राजन् प्रवक्ष्यामि पुराऽहं पृथिवीपतिः | समुद्रवलयां पृथ्वीमन्वशासं चिरं खलु || ५४ || महादेवप्रसादेन ज्ञात्वा चितिमधीश्वरीम् | त्रिपुरां लोकसंस्थानं नीरसं विमृशंस्ततः [क्, ख्: तथा] || ५५ || आत्मरूपां चितिम् | लोकस्य दृश्यस्य संस्थानं स्थितिम् | नीरसमिति | चितिप्रतिबिम्बत्वेन निस्तत्त्वभूतत्वात् || ५५ || प्. १८६) निर्विण्णो लोकयात्राया न्यस्य राज्यं सुतेष्वथ | प्राविशं वनमेतद् वै भार्या मामन्वगात् सती || ५६ || निर्विण्णो जातालंबुद्धिः | लोकयात्राया व्यवहृतेः || ५६ || तस्याभितप्यतो मेऽद्य ययुरर्बुदवत्सराः | भार्यापि मत्सेवनेन परां सिद्धिमुपागता || ५७ || परां सिद्धिं मोक्षम् || ५७ || कदाचिदथ भाव्यर्थगौरवान्मे प्रिया सती | समाधावेव कामार्तमानसाऽभूत्ततस्तु सा || ५८ || भाव्यर्थगौरवात् भवितव्यस्यानपोह्यत्वात् [क्: स्याबोधत्वात्] | समाधावेव निरुद्धं मनः कामकारेण प्रोद्बुद्धमिति भावः || ५८ || मां दृष्ट्वा रतिमिच्छन्ती समाधिस्थं स्थिरान्तरम् | असहन्ती कामवेगं भावयामास मद्रतिम् || ५९ || स्थिरान्तरं झटित्युद्बोधयितुमशक्यम् | मया कृतां रतिं भावयामास || ५९ || गाढभावनया प्राप्य सम्भोगं तु मया सह | दधार गर्भं सुषुवे पुत्रमेनं पुरः स्थितम् || ६० || पुत्रं न्यस्य मदुत्सङ्गे मां समाधेः प्रबोध्य च | देहं भूतेषु सात्कृत्य परव्योमात्मतां ययौ || ६१ || एवं कामविहता देहेऽपि जातनिर्वेदा देहं त्यक्तवतीत्याह - पुत्रमिति | सात्कृत्य संयोज्य | परव्योम परं ब्रह्म || ६१ || अथ दृष्ट्वोत्सङ्ग एनं ज्ञात्वा तस्या गतिं पराम् | दयाक्रान्तमना जातस्तेनायं वर्द्धितो मया || ६२ || तस्याः पत्न्याः | अयं सुतः || ६२ || श्रुत्वा कदाचिन्मत्तोऽयं राज्यशास्तिं पुरा कृताम् | राज्यशासनकामोऽभूत् प्रार्थयामास मामनु || ६३ || अयं पुत्रः | मया कृताम् || ६३ || प्. १८७) ततो मदुपदेशेन प्राप्य योग्र्द्धिमुत्तमाम् | निर्माय भावनायोगाद् लोकमस्मिन् महाश्मनि || ६४ || योगर्द्धि योगैश्वर्यम् | अस्मिन् पुरः स्थिते || ६४ || समुद्रवलयां पृथ्वीं शास्ति नित्यं सुतस्त्वयम् | तल्लोकेऽश्वः सुता राज्ञो निरुद्धास्ते हि मोचिताः || ६५ || इत्येतत्ते समाख्यातं गण्डशैलेऽवरोधनम् | इति श्रुत्वा मुनिवचो भूयः पप्रच्छ भूपतिः || ६६ || श्रुतं त्वदुक्तमेतद्वै महाश्चर्यकरं परम् | तं लोकं द्रष्टुमिच्छामि कृपया मे प्रदर्शय || ६७ || इति सम्प्रार्थितो राज्ञा मुनिः पुत्रं समादिशत् | वत्सास्मै दर्शय स्वीयं लोकं सर्वं यथेप्सितम् || ६८ || इत्युक्त्वा तङ्गणो भूयः प्रविवेश समाहितिम् | अथ तं तङ्गणसुतः समासाद्य नृपं ययौ || ६९ || समाहितिं समाधिम् || ६९ || गण्डशैलं प्रति ततः प्राविशन्मुनिदारकः | प्रवेष्टुं नाशकद् भूप आह्वयन्तं मुनेः सुतम् || ७० || गण्डशैले प्राविशत् | आह्वयन्तं राजानं मुनिपुत्रस्याह्वानकर्तारमिति भावः || ७० || सोऽपि गण्डशिलान्तःस्थो राजानं समुपाह्वयत् | अथ भूयो विनिष्क्रम्य प्राह भूपं मुनेः सुतः || ७१ || सोऽपि मुनिपुत्रोऽपि || ७१ || नृपैष लोकस्तेऽसाध्यः प्रवेष्टुं खल्वयोगिनः | अयोगाद् गण्डशैलोऽयं घनः सप्रतिघोऽभवत् || ७२ || अयोगात् भावनायोगसिद्धिं विना | घनः निबिडः | सप्रतिघः प्रवेशप्रतिबन्धकः || ७२ || नेतव्यस्त्वं [क्: तेन व्यस्तं] सर्वथैव पितुर्वचनगौरवात् | तदत्र देहं विन्यस्य कोटरे तृणसंवृते [ग्: संकुले] || ७३ || यस्मादवश्यं नेतव्यः तत् तस्मात् | कोटरे भूबिले | शरीरोपघातककाकादिभ्यो रक्षणाय तृणसंवृत इति || ७३ || प्. १८८) मनोमात्रशरीरः सन् शैलं विश मया सह | इत्युक्तः प्राह नृपतिरशक्तो देहनिर्गमे || ७४ || देहान्निर्गमे || ७४ || कथं मुने देहमिममुत्सृजामि समीरय | उत्सृजामि यदि बलान्नाशमेष्यामि सर्वथा || ७५ || बलात् श्वासप्रतिरोधजिह्वोत्पाटनादिना [क्: रोधक] || ७५ || एवं वदन्तं नृपतिं प्रहस्याह मुनेः सुतः | अहो योगानभिज्ञोऽसि चास्तु नेत्रे निमीलय || ७६ || इत्युक्त्वा मीलिताक्षं तं प्रविश्य निमिषार्धतः | आकृष्य तल्लिङ्गतनुं क्षिप्त्वा श्वभ्रे च तत्तनुम् || ७७ || तं राजदेहम् | तत्तनुं राज्ञः स्थूलतनुम् || ७७ || योगसामर्थ्यतः शैले निविश्य नृपसंयुतः | सुषुप्तं देहवैकल्यात् स्वसङ्कल्पोत्थदेहके || ७८ || स्थूलदेहवैकल्यात् | स्थूले स्वसङ्कल्पोत्थान्यदेहके || ७८ || संयोज्य बोधयामास प्रबुद्धो नृपतिस्तदा | गृहीतं मुनिना.पश्यत् स्वं महागगने तदा || ७९ || लिङ्गदेहं संयोज्य | ननु प्राग् राजपुत्रादयः कथं स्थूलदेहयुता नीता इति चेदुच्यते - ते हि सुषुप्ता एव शैललोके नीताः | जाग्रतः स्वाभाविकस्थूलदेहवतोऽयोगिनस्तल्लोकावलोकनमशक्यमित्येव तद्योगसामर्थ्यमिति पूर्वोत्तरग्रन्थार्थसिद्धोऽभिप्रायो ज्ञेयः || ७९ || ऊर्ध्वं विष्वक् च संपश्यन् नभो भीममनन्तकम् | भीतः प्राह मुनेः पुत्रं मुने मां न परित्यज || ८० || विष्वक् परितः || ८० || परित्यक्तो विनश्यामि पतिष्येऽहं निराश्रये | इति भीतं नृपं दृष्ट्वा प्रहस्याह मुनेः सुतः || ८१ || प्. १८९) परित्यज भयं भूप नोत्सृजामि निशामय | एनं शैलान्तरस्थानं लोकं धैर्येण सर्वतः || ८२ || निशामय पश्य | लोकं प्राणिसमुदायम् || ८२ || अथ धैर्यं समालम्ब्य नृपः समवलोकयत् | अधो दूरे सनक्षत्रमभ्रमन्धतमोवृतम् || ८३ || अथ मुनिवाक्यश्रवणानन्तरम् | अभ्रमाकाशम् | अन्धतमोवृतमिति | नक्षत्रलोकोपर्यन्धकारस्य सर्वबाह्यस्य विद्यमानत्वादिति भावः || ८३ || प्रविश्य तं देशमपि ततोऽधस्तात् प्रपश्यत [अडभावः पदव्यत्ययश्चार्षः] | चन्द्रमण्डलमास्फीतं तत्रागत्य जडीकृतः || ८४ || तं देशं नक्षत्रदेशम् | तत्र [क्: तत्र ...... भवत् नास्ति] चन्द्रमण्डलसमीपे आगत्य राजा शीतेन जडीकृतोऽभवत् || ८४ || चन्द्रमण्डलशीतेन मुनिपुत्रेण रक्षितः | अथ प्राप्य सूर्यलोकं तत्करैरभितापितः || ८५ || मुनिपुत्रेण योगेन शिशिरीकृतदेहकः | अपश्यल्लोकमखिलं स्वर्लोकप्रतिबिम्बवत् || ८६ || प्रतिबिम्बवत् स्थितम् || ८६ || अथ शृङ्गे हेमगिरेर्मुनिना सह संस्थितः | मुनिप्रदर्शितं सर्वमपश्यत् पृथ्वीपतिः || ८७ || दूरान्तरावलोकाय [क्: देशा] मुनिदत्तशुभेक्षणः | अपश्यद्वल्यात्मानं लोकालोकाख्यपर्वतम् || ८८ || दूरसान्तरयोर्देशयोरवलोकनाय [ख्: दूरतरयोः] शुभेक्षणोऽप्रतिहतनेत्रः [क्: हृतनेत्रः] || ८८ || तद्बहिर्ध्वान्तसन्दोहमन्तः सौवर्णमेदिनीम् | समुद्रान् सप्तद्वीपांश्च नदीगिरिसमाकुलान् || ८९ || तद्वहिः लोकालोकबहिः | अन्तः लोकालोकान्तः || ८९ || प्. १९०) भुवनान्यपि सर्वाणि चेन्द्राद्यान् विबुधोत्तमान् | दैत्यान् मनुष्यान् रक्षांसि यक्षकिम्पुरुषादिकान् || ९० || तत्रापश्यत् सत्यलोके वैकुण्ठे राजते नगे | मुनिपुत्रं स्वमात्मानं ब्रह्मविष्णुशिवात्मना [ख्, ग्, घ्: विधि] || ९१ || विभज्य संस्थितं सर्वलोकसृष्ट्यादिहेतवे | अथाऽपश्यद् भूविभागे कृत्वा रूपान्तरं तथा || ९२ || भूविभागे भूलोके || ९२ || प्रशासनपरो भूमेः सार्वभौमत्वमास्थितः | एवं मुनिकुमारस्य दृष्ट्वा योगर्द्धिमुत्तमाम् || ९३ || योगर्द्धि योगैश्वर्यम् || ९३ || विस्मितोऽभून्महासेनस्ततः प्राह मुनेः सुतः | राजन्नेतल्लोकजातं पश्यतः काल अत्यगात् || ९४ || ततः स्वर्लोकप्रदर्शनानन्तरम् || ९४ || अर्बुदानां द्वादशकमितोऽप्यत्र दिनात्मकः | गच्छावो बाह्यलोकं तं यत्रास्ते जनको मम || ९५ || बहिर्लोके द्वादशार्बुदवर्षमितोऽप्यत्र लोके एकदिनात्मकः || ९५ || इत्युक्त्वा भूभृता तेन सह भूयः खमाप्लुतः [क्: समागतः] | पूर्ववत् तद्गण्डशैलान्निर्गत्याभ्याययौ बहिः || ९६ || भूभृता राज्ञा || ९६ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे गण्डशैललोकावलोकने द्वादशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां द्वादशोऽध्यायः || प्. १९१) अथ त्रयोदशोऽध्यायः मुनिपुत्रः पुनः शैलाद् महासेनं [क्: सेने] विनिर्गमे [क्: र्गते] | विधाय मूर्च्छितं लिङ्गदेहं संस्कारमात्रकम् || १ || अत्राऽध्याये योधपद्यैः स्वप्नजागरयोः समा | स्थितिर्दृश्यं भावनैकसिद्धं चेति निरूप्यते || स्थूलेन्द्रियाद्यभावात् सुषुप्ताविव संस्कारमात्रकम् || १ || समादाय विनिर्गत्य प्राक्षिपत्तच्छरीके | उत्थाप्यामास तु तं जीर्णदेहसुसङ्गतम् || २ || शैलाद् विनिर्गत्य | तच्छरीरके प्राक् तृणकोटरन्यस्ते | तं राजानम् || २ || अथोत्थितो महासेनो बाह्यलोकं समीक्ष्य तु | भुवं जनांस्तरून् स्रोतोह्रदादींश्चापि नूतनान् || ३ || नूतनान् परिणामान्तरं गतान् || ३ || बभूव विस्मितोऽत्यन्तं पप्रच्छ मुनिनन्दनम् | कतमो वै महाभाग ! लोकोऽयं मे प्रदर्शितः || ४ || शैलान्तरेवेदं [शैलान्तः शैलमध्ये एवेदं लोकान्तरम्] लोकान्तरमिति मत्वा पृच्छति - कतम इति | महान् भागो भाग्यं योगसम्पद्यस्य || ४ || पुरादृष्टादपूर्वोऽयं समाचक्ष्वैतदद्भुतम् | इत्यापृष्टो मुनिसुतो महासेनमुवाच ह || ५ || शृणु राजन्नयं लोकः पूर्वं योऽस्माभिरास्थितः | स एव चिरकालेन परिणामान्तरं गतः || ६ || शैललोकगतानां नो दिनमेकं यदत्यगात् | तावतैवात्र कालेन द्वादशार्बुदवत्सराः || ७ || कुतः परिणामान्तरं गत इति चेदाह - शैलेति || ७ || प्. १९२) अतिक्रान्त्रा अतो लोकस्त्वयं रूपान्तरं गतः | भिन्नां व्यवहृतिं पश्य भाषां चापि समन्ततः || ८ || अतः बहुकालात्ययात् || ८ || एवमेव जनानां तु कालेन भिद्यते स्थितिः | एवं मया तु बहुधा दृष्टा भिन्ना जगत्स्थितिः || ९ || पश्यैष मे स [क्, ख्: पश्यैवमेष] भगवान् समाहितमतिः पिता | सोऽयं देशो यत्र पूर्वं त्वया मे संस्तुतः पिता || १० || एनं पश्य महाशैलं यत्र मे लोक ईक्षितः | त्वद्भ्रातुर्वशपुरुषा अतिक्रान्ताः सहस्रशः || ११ || यत्ते पुरं वङ्गदेशे सुन्दराख्यं स्थितं पुरा | तत्राभूत् सम्प्रति वनं व्याप्तं श्वापदमण्डलैः || १२ || तत्र तत्प्रदेशे || १२ || त्वद्भ्रातृवंशजः [क्: भ्रातुर्वंशजः] सद्यो वीरबाहुरिति श्रुतः | मालवेशो विशालाख्ये क्षिप्रातीरे पुरेऽस्ति हि || १३ || त्वद्वंश्योऽपि सुशर्माख्यो द्राविदेष्वभवन्नृपः | वर्धने नाम नगरे ताम्रपर्णीसरित्तटे || १४ || लोकस्थितिरियं चेत्थं सर्वदा परिवर्तते | अल्पकालेनैवमेतद्भवद् नूतनं जगत् || १५ || परिवर्तते परिणामान्तरं प्राप्नोति || १५ || इतोऽपि चिरकालेन नगा नद्यो ह्रदा भुवः | अन्यथाभावमायान्ति एवमेव जगद्गतिः || १६ || इतोऽपि द्वादशार्बुदसंख्यातकालादपि | नगाः पर्वताः || १६ || गिरयो निम्नतां यान्ति निम्नदेशा महोच्चताम् | मरुदेशास्त्वनूपाः स्युः पर्वता वालुकामयाः || १७ || एतदेवाह - गिरय इति | गिरयोऽत्युच्चपर्वताः | अनूपाः उदकप्रचुराः || १७ || प्. १९३) कठिना भूः शिलाप्राया भवेदत्यन्तकोमला | कोमला भूरपि भवेत् पाषाणसदृशी क्वचित् || १८ || ऊषरा भूरुर्वरा स्यूदुर्वरोषररूपिणी | रत्नानि शर्कराः [क्: कर्कराः] स्युर्वै रत्नात्मानस्तु शर्कराः || १९ || उर्वरा सस्यवती || १९ || क्षारं जलं स्वादुरसं मधुरं क्षारतां गतम् | कदाचिन्नरबाहुल्यं कदाचित् पशुसञ्चयम् || २० || कदाचित् कृमिकीटादिप्रचुरं जगदीक्षितम् | एवमेतज्जगत् कालभेदात् परिणतं पृथक् || २१ || परिणतं भवतीति शेऽः || २१ || तस्मादयं पुरास्माकं लोक एवेदृशः स्थितः | इत्याकर्ण्य मुनिसुतवाक्यं स च महीपतिः || २२ || तस्मात् परिणामान्तरप्राप्तेः | ईदृशः अपूर्ववत् || २२ || महासेनोऽत्यन्तशोकाविष्टो मूर्च्छामुपागतः | मुनिपुत्रसमाश्वस्तः प्रज्ञामासाद्य भूपतिः || २३ || अत्यन्तशोकसंविष्टो विललाप सुदीनवत् | भ्रातरं भ्रातृपुत्रांश्च दारान् स्वात्मन एव च || २४ || स्वात्मनोऽपि पुत्रादीनिति सम्बन्धः || २४ || पुत्रादींश्च पृथक् स्मृत्वा विललापातिदुःखितः | अथ तं मोहतो भ्रातृमुखान् शोचन्तमञ्जसा || २५ || तं राजानम् || २५ || मुनिपुत्रो वचः प्राह बुबोधयिषया नृपम् | राजंस्त्वं बुद्धिमान्नूनं कं [क्: तत्कि] किमर्थं हि शोचसि || २६ || बुबोधयिषया बोधयितुमिच्छया || २६ || प्. १९४) बुद्धिमन्तो हि विफलं जातु कुर्वन्ति कर्म नो | अविमृश्य फलं यस्तु कर्म कुर्यात् स बालिशः || २७ || शोचितस्य फलं कुतः पृच्छसीति चेदाह - बुद्धिमन्त इति | फलं किञ्चित् स्यादेवेति चेदाह - अविमृश्येति || २७ || तत्त्वं शोचसि कं ब्रूहि किमर्थं वा हि शोचनम् | इत्युक्तः प्राह तं भूपो [ख्, घ्: भूयो] महासेनोऽतिदुःखितः || २८ || तत् तस्मात् || २८ || किं न पश्यसि शोकस्य स्थानं मम महामुने | सर्वं यस्य हतं [क्: हृतं] तस्य कारणं पृच्छसीह किम् || २९ || एकस्मिन्नपि शोकः स्याद्धते लोकस्य सर्वथा | कुतस्त्वं पृच्छसि पुनः सर्वनाशे ह्यपस्थिते || ३० || शोकस्य कारणं कुतः पृच्छसि मम सर्वनाशप्राप्तौ | ३० || इत्युक्तो मुनिपुत्रोऽपि भूयः प्राह हसन्निव | राजन् ब्रूहि किमेतत्ते कुलधर्मः सनातनः || ३१ || एतत् स्वजने नष्टे शोचितव्यमिति | सनातनः परम्परागतः || ३१ || यच्छोचनमकृत्वा तु प्रत्यवायो महान् भवेत् | अथवा शोचिते नष्टं प्राप्यते भूय एव तत् || ३२ || यस्मात् कुलधर्माकरणे प्रत्यवायो भवेदतः शोचसि किम् ? तत् नष्टम् || ३२ || राजन् विमृश धैर्येण शोचिते किं फलं भवेत् | नष्टेषु बन्धुषु यदि शोचितव्यं तदा शृणु || ३३ || नष्टं न प्राप्यते किन्तु शिष्टाचारत्वाच्छोचितस्य सफलत्वमिति चेदाह - विमृशेति | लोके शोचद्भिः किं फलं प्राप्तं यद् मम भवेदिति विमृशेत्यर्थः | फलं नास्ति अपि तु कुलधर्म एवेति चेदाह - शृण्विति || ३३ || अतीता बन्धवो नष्टाः पितामहमुखाः खलु | तत् सर्वदा शोचितव्यं कुतः पूर्वं [क्: सर्वं] न शोचितम् || ३४ || सर्वदेति अनन्तानां बन्धूनां मृतत्वेन तच्छोचनसम्मितं तवायुरेव न भवेदिति तात्पर्यम् || ३४ || प्. १९५) अथ ते बन्धवः कस्य बन्धुत्वं वा कुतस्तव | मातापित्रोः स्वस्य वापि पुरीषकृमयो हि ये || ३५ || ते भ्रात्रादयः | तद्बन्धुत्वं तव कुतो हेतोः | एकगर्भवासादिना भ्रात्रादिबन्धुत्वं ममेति चेदाह - मातेति || ३५ || असंख्याताः स्वदेहोत्था देहसम्बन्धिनोऽपि च | न ते स्युर्बन्धवः कस्मात् कुतो वा ते न शोचिताः || ३६ || राजन् विमृश कस्त्वं वै कान् विनष्टान् प्रशोचसि | देहस्त्वं देहभिन्नो वा देहः संघातरूपकः || ३७ || देह एवाहमिति चेदाह - देहः संघातरूपक इति || ३७ || संघातस्यैकदेशस्य वा नाशान्नाश उच्यते | प्रतिक्षणं त्वेकदेशनाशो देहस्य भावितः || ३८ || संघातरूपदेह एवाहं नष्टान् देहात्मकान् बन्धूनेव शोचामीति चेदाह ##- तदेकदेशनाशे वा त्वयोच्यत इति विकल्प्य द्वितीये [क्: द्वितो] दूषणमाह - प्रतिक्षणमिति || ३८ || मूत्रोच्चारश्लेष्मनखकेशादेः सन्ततं क्षयः | सर्वात्मना तु संघातनाशो नहि विभाव्यते || ३९ || कुतः प्रतिक्षणं नाश इति चेदाह - मूत्रेति | उच्चारो विट् | यतः सन्ततं क्षयो दृश्यते अतः प्रतिक्षणं नाशः सिद्धः | प्रथमपक्षं दूषयति ##- भ्रात्रादेस्तव देहांशः स्यात् पृथिव्यादिषु स्फुटम् | अन्ततो देहगगनमविनाश्यस्ति केवलम् || ४० || कुत इति चेदाह - भ्रात्रादेरिति | पृथिव्यादिरूपदेहांशः स्यादेवेति स्फुटं सर्वानुभवसिद्धम् | देहपृथिव्याद्यंशो नष्ट एव स्यादिति चेदाह - अन्तत इति | देहांशपृथिव्यादिनाशाङ्गीकारेऽप्यन्ततः पर्यवसानेऽविनाशिनो गगनस्य केवलस्य शुद्धस्य नाशो दुरुपपाद इत्यर्थः || ४० || प्. १९६) न त्वं देहः किन्तु देही मद्देह इति भाषसे | यथा मद्वस्त्रमित्येवं स देहस्त्वं कथं वद || ४१ || अथ च तव महानयं व्यामोह इत्याह - न त्वमिति | देहसम्बन्धी देहादन्य एवेत्यर्थः | कुत इति चेदाह - मद्देह इति | यतो मद्देह इति भाषसे | ननु मद्देह इति भाषणेन किं जातमिति चेदाह - यथेति | मद्वस्त्रमित्यादि मत्प्रत्ययविषयवस्त्राद्यं यथा त्वं न भवसि तथा [क्: तथा नास्ति] मत्प्रत्ययविषयधोऽपि [क्: तत्प्रत्यय] त्वं न | एवं सति कथं स देहस्त्वमित्यर्थः || ४१ || यदि त्वं देहभिन्नोऽसि सम्बन्धः कोऽन्यदेहकैः | यथा भ्रात्रादिवासोभिर्नास्ति सम्बन्धलेशकः || ४२ || इति श्रुत्वा सत्यमहं देहभिन्नोऽस्मीति वदन्तं प्रत्याह - यदीति | देहभिन्नस्यापि मे भ्रात्रादिदेहैः कुतो न सम्बन्ध इति चेदाह - यथेति | यथा भ्रात्रादिवासोभिस्तव सम्बन्धो नास्ति || ४२ || अविशेषात्तच्छरीरैर्विनष्टैस्ते [क्: ष्टैस्तः] कथं शुचा | मच्छरीरं मदक्षाणि मत्प्राणो मन्मनस्त्विति || ४३ || अविशेषादिति | शरीरवस्त्रयोर्ममत्वस्य तुल्यत्वाद् भ्रात्रादिवस्त्रनाशे शोकाभावाद् वस्त्रतुल्यदेहनाशे कथं शुचा शोक इत्यर्थः | अथ च मच्छरीरमित्यादि वदतः शरीरादिभिन्नस्य ते किं रूपमिति पृच्छति - मच्छरीरमिति | अक्षाणि इन्द्रियाणि || ४३ || वदन् भवान् किंस्वरूपो वद मे पृच्छते नृप | एवमुक्तो महासेनो मुहूर्तं सुविचार्य तु || ४४ || एवं कस्त्वमित्यादि || ४४ || प्. १९७) अप्राप्यान्तं [क्: अप्राप्य तं] मुनेः प्रश्ने प्राह दीनतरस्ततः | न जाने भगवन् कोऽहमिति सर्वात्मनाप्यहम् || ४५ || अन्तं निश्चयम् | दीनतर इति | बन्धुनाशेन दीनः स्वात्मानमविदन्नात्मनाशमपि प्राप्त इव दीनतर इत्यर्थः | ततः प्राहेत्यन्वयः | सर्वात्मना विचारपरोऽप्यहं न जाने || ४५ || स्वभावतस्तु शोचामि कारणं तत्र नाविदम् | प्रपन्नस्त्वामहं दीनः किमिदं भगवन् वद || ४६ || शोचनेऽपि निमित्तमविदन्नाह - स्वभावत इति | यथा क्षुधातृषादिकमदृष्टहेतुकमेवं मम शोकोऽपीति भावः | हतबन्धुः प्रायो हतात्माहं दीनस्त्वां प्रपन्नः | अतः किमिदं शोकादिकं सकारणमुत निष्कारणं वेति वद || ४६ || सर्वे शोचन्ति यत् कस्मिन्नपि बन्धौ मृते सति | न स्वात्मानं विजानन्ति नान्यं शोचन्ति चैव हि || ४७ || किमिदमिति सामान्यतः पृष्टमेव विवृणोति - सर्व इति | कस्मिन्नपि बन्धौ मृते सति सर्वे शोचन्तीति यत् तत्कुत इति शेषः || ४७ || एतन्मे ब्रूहि भगवन् शिष्याय तव वै स्फुटम् | इति पृष्टो मुनिसुतो महासेनमथाब्रवीत् || ४८ || एतत् मृतबन्धुशोचनादिनिमित्तम् | तव शिष्याय मे | अथ प्रश्नानन्तरम् || ४८ || राजन् शृणु महादेव्या मायया मोहिता जनाः | स्वात्मानमविदित्वैव व्यर्थं शोचन्ति सर्वदा || ४९ || त्रिपुरामायया मोहितत्वेनात्मानमविदित्वा शोचन्तीत्याह - राजन्निति | तथा च शोके आत्माज्ञानं हेतुः आत्माज्ञाने च चिदात्मन ईश्वरस्य मायाख्यं स्वातन्त्र्यमेव हेतुरित्युक्तं भवति | औपनिषदमतेऽपि मूलाज्ञानं भगवच्छक्तिर्माया तदंशत्वात्तद्धेतुकत्वं जीवावरकतूलाज्ञानस्येति ज्ञेयम् || ४९ || प्. १९८) यावन्न विदितं स्वात्मसत्तत्त्वं [क्: सतत्त्वं] तावदेव वै | जनाः शोचन्ति विज्ञाय भूयः शोचन्ति न क्वचित् || ५० || एवमज्ञानस्याखिलानर्थहेतुत्वमुक्त्वा तन्निवर्तकमात्मविज्ञानमेवेत्याह - यावदिति | सत्तत्त्वं [क्: सतत्त्वं] स्वरूपम् | भूयः पुनः | विज्ञानानन्तरं पूर्ववन्न शोचन्तीति भावः || ५० || यथा निद्रामोहितात्मा स्वमविज्ञाय शोचति | ऐन्द्रजालिकमन्त्रोत्थमायया मोहितो नरः || ५१ || अत्र दृष्टान्तमाह - यथेति | स्वमात्मानं पर्यङ्के सुप्तमविज्ञाय स्वप्ने क्वचिन्मार्गे स्वाप्नचोराद्यैर्हृतसर्वस्वः शोचति एवमैन्द्रजालिकमायया मोहितो मोहितमात्मानमज्ञात्वा तन्निर्मितसर्पादेर्भीत्या शोचतीत्यन्वयः || ५१ || तत्प्रकल्पितसर्पादिभीत्या यद्वद्धि शोचति | तथैव मायया मुग्धः स्वमज्ञात्वा प्रशोचति || ५२ || मुग्धो मूढः | स्वमात्मानम् || ५२ || यथा स्वप्नात् प्रबुद्धो वा ज्ञातैन्द्रजालिकागमः | न शोचति क्वचिच्चान्यान् शुचायुक्तान् हसत्यपि || ५३ || ज्ञानिनः शोको नास्तीत्यत्र दृष्टान्तमाह - यथेति | यथा स्वप्नात् प्रबुद्धः सन् पर्यङ्कस्थमात्मानं विदन् चोराद्यैः सर्वस्वहरणं वितथं मत्वा शोकमवधूय भूयस्तन्निमित्तं न शोचति अन्यान् तथा शोचतो हसत्यपि | ऐन्द्रजालिकस्यगमो मन्त्रः स मोहको ममेति ज्ञातो येन || ५३ || एवं स्वात्मविदो मायामुक्ताः शोचन्ति न क्वचित् | शोचतस्त्वादृशान् मायामूढान् प्रविहसन्ति च || ५४ || दार्ष्टान्तिके योजयति - एवमिति || ५४ || तत् त्वं विज्ञायात्मतत्त्वं मायामुत्तीर्य दुर्गमाम् | जहि शोकं महाबाहो मोहोत्थं सद्विमर्शनात् || ५५ || तत् तस्मात् | शोकस्याज्ञानमूलत्वादित्यर्थः | त्वमात्मतत्त्वं विज्ञाय मायामज्ञानरूपेण परिणतां दुर्गमामतिक्रम्य गन्तुमन्यैरशक्याम् उत्तीर्य मायावरणान्निर्गत्य सत आत्मतत्त्वस्य विमर्शनाद् भूयोऽनुसन्धानाद् जहि || ५५ || प्. १९९) इत्युक्तः पुनरप्याह महासेनो मुनीश्वरम् | भगवन् यस्त्वया प्रोक्तो दृष्टान्तो विषमः स हि || ५६ || दृष्टान्तः स्वप्नेन्द्रजालादिरूपः || ५६ || स्वाप्नो वा मायिको वापि शून्यात्मा भासते परम् | अयं जाग्रत्प्रपञ्चस्तु सत्यः सर्वार्थसाधकः || ५७ || वैषम्यमेवोपपादयति - स्वाप्न इति | मायिकः ऐन्द्रजालिकोद्भावितः चोरसर्पादिः | शून्यात्मा असद्रूपः | परं केवलं भासत [क्: भास इत्येव] एव तद्भासनं वस्त्वविषयमिति तात्पर्यम् | अयमिति | सर्वानुभवसिद्ध इत्यर्थः | सर्वार्थसाधकत्वेन सर्वानुभवसिद्धत्वात् सत्य इत्यर्थः || ५७ || अबाधितः स्थिरश्चापि कथं स्वाप्नसमो भवेत् | इत्युक्तः पुनराचख्यौ मुनिपुत्रोऽतिबुद्धिमान् || ५८ || अबाधित इति | सर्वार्थसाधकत्वेनाबाधितत्वेन स्थिरत्वेन च सर्वानुभवसिद्धत्वाज्जाग्रत्प्रपञ्चः सत्यः एतद्विपरीतत्वात् स्वाप्नादिप्रपञ्चोऽसत्य इति भावः || ५८ || शृणु राजन् यत्त्वयोक्तं दृष्टान्तो विषमस्त्विति | एष मोहो द्वितीयस्ते स्वप्ने स्वाप्नस्य यादृशः || ५९ || एष इति | दृष्टान्तो विषम इति निश्चय इत्यर्थः | द्वितीय इति | दृश्यं द्रष्टुर्विभिन्नं सत्यात्मकमस्तीत्याद्यो मोहः भ्रमः [क्: समः] | तत्र दृश्येषु स्वाप्नादिरसत्य इति द्वितीयो भ्रमः | स्वप्नदशायां स्वाप्नपुरुषस्य रज्जौ सर्पभ्रमसदृश इत्यर्थः || ५९ || स्वाप्नवृक्षोऽपि तत्काले किं न साधयते हितम् [ग्: तीहितम्] | पान्थानां किं न हरति ताप्रं छायाप्रदानतः || ६० || जाग्रत्प्रपञ्चवत् स्वाप्नस्यापि सर्वार्थसाधकत्वादिकं त्वदुक्तहेतुत्रयमस्तीत्युदाहरति - स्वाप्नेति | तत्काले स्वप्नकाले | यथा जाग्रद्वृक्षो जाग्रत्यर्थसाधकोऽबाधितः स्थिरश्च एवं स्वाप्नवृक्षोऽपि स्वप्नकाले [क्, ख्: प्रभात] सर्वार्थसाधकोऽबाधितः स्थिरश्चेत्यर्थः || ६० || प्. २००) फलाद्यैः स्वाप्नमर्त्यादीन्न तर्पयति किं वद | स्वप्ने क्व बाधितः स्वाप्नः क्वास्थिरश्चोपलक्षितः [क्: क्व स्थिर] || ६१ || अखिलं बाधितं जाग्रद्दशायामिति चेच्छृणु | जाग्रत्प्रपञ्चोऽपि सर्वः सुषुप्तौ किं न बाधितः || ६२ || अखिलमिति | स्वाप्नवृक्षाद्यखिलं जाग्रत्यभासनाद्बाधितमिति चेज्जाग्रत्प्रपञ्चोऽपि सुषुप्तावभासनाद् बाधित एवेत्याह [क्: इत्याह] ##- न बाधितः परदिनेऽप्यनुवृत्तेस्तथेति चेत् | स्वाप्नस्यापि परदिने नानुवृत्तिः क्व वा वद || ६३ || ननु बाधो नाम नानवभासनम् किन्तूत्तरकालसम्बन्धरूपानुवृत्त्यभावः [क्: नुवृत्त्यभावः ..... हेतुना इत्यस्य स्थाने नुवृत्त्याद्यनुसन्धानहेतुता इति पाठः] | तथा च जाग्रत्प्रपञ्चस्य परदिने सोऽयमित्याद्यनुसन्धानहेतुनाऽनुवृत्तिसत्त्वान्न बाध [क्: बाधते न इत्या] इत्याशङ्कते - न बाधित इति | तथा [घ्: तथा] स्वप्नवन्न बाधित इति चेदित्यन्वयः | स्वाप्नस्याप्येतत्तुल्यमित्याह - स्वाप्नस्येति || ६३ || नानुवृत्तिर्भाति स्वप्ने इति चेन्नृपते शृणु | जाग्रत्यपि क्वानुवृत्तिभासो नव्यावभासके || ६४ || स्वाप्नस्यानुवृत्तिर्नानुभूयत इति चेज्जाग्रत्यपि तुल्यमित्याह - जाग्रतीति | कुत एतदिति चेदसम्भवादित्यभिप्रायेणाह - नव्यावभासक इति | जाग्रति हि प्रतिक्षणं वस्तु नव्यमवभासते एवं सति कथमनुवृत्तिसम्भव इति भावः || ६४ || नव्येऽनुवृत्त्यभानेऽपि भायन्यत्रेति चेच्छृणु | तथा स्वप्नेऽपि भात्येवानुवृत्तिः स्थिरभासने || ६५ || ननु क्रियादिक्षणिकभावानां नव्यानामननुवृत्तावप्यन्येषां पृथ्वीगिरिसमुद्रादीनामनुवृत्तिरनिवार्यैवेति चेदेतच्च स्वप्नेऽपि तुल्यमित्याह - तथेति | स्थिरभासन इति | स्थिरं वर्षादिरूपचिरकालस्थायि भासनं यस्य स्वप्नस्य | दीर्घस्वप्ने पुत्रकलत्रादीनामनुवृत्तेः सर्वानुभवसिद्धत्वादिति भावः || ६५ || प्. २०१) मृषानुवृत्तिस्तत्रेति चेज्जाग्रत्यपि सा तथा | सूक्ष्मबुद्ध्या विमृश तद्वस्तु जाग्रति संस्थितम् || ६६ || स्वाप्नपुत्रकलत्रादीनामसत्यत्वेन तदनुवृत्तिभासनं भ्रमरूपमिति चेत्तुल्यमेतत्तवापीत्याह - जाग्रतीति | सा अनुवृत्तिः | अथा मृषेत्यर्थः | जाग्रत्यप्यनुवृत्तिभासनं भ्रमरूपमेवेति भावः | कथमेतत् प्रत्येयमिति चेदाह - सूक्ष्मेति | अन्धपरम्परागतस्थिरत्वाभिमानवर्जितबुद्ध्येति भावः || ६६ || देहवृक्षनदीदीपादिकं क्षणविभेदितम् | कथं तदनुवृत्तिर्वै भवेदवितथात्मिका || ६७ || देहेति | आदिना मेघमण्डलादि | देहादीनां सर्वैः सुस्पष्टं क्षणिकत्वेन ज्ञातानां [क्, घ्:: ज्ञानानां] कथमनुवृत्तिरवितथा भवेदित्यर्थः || ६७ || अचलानामपि नहि द्वितीयक्षणसङ्गतम् | रूपमस्ति सर्वदैव निर्झरैर्भेदितात्मनाम् || ६८ || ननु देहादेरनुवृत्त्यभावेऽपि पर्वतादीनामनुवृत्तिः सम्भवेदिति चेदाह ##- निर्झरैरिति | अनवरतं निर्झरैर्भिद्यमानानां द्वितीयक्षणसङ्गतं रूपं नाचलानामस्तीत्यर्थः || ६८ || मूषकैरुपदीकाभिः सूकरैर्निर्झरादिभिः | सर्वतस्तु विभिद्यन्ते पर्वताः सर्वदैव हि || ६९ || ननु निर्झराणां पर्वतभेदकत्वं न ग्रीष्मादिष्विति चेदाह - मूषकैरित्यादि | उपदीकाः येषां लालासम्बन्धेन काष्ठादीनि [क्: काष्थादिर्मृ] मृत्तिकात्वमापद्यन्ते [क्: द्यते] ते कृमिविशेषाः [दीमक इत्याख्यया भाषायां प्रसिद्धाः] | आदिना वनगजादिभिः [क्: दयः] || ६९ || प्. २०२) पर्वताम्बुधिभूमुख्या [क्: पर्वता बुद्धि] अप्येवं क्षणभेदिनः | अथ ते सम्प्रवक्ष्यामि पश्य सूक्ष्मधिया नृप || ७० || भूः भूमिः [क्: भूःर्भूमीति] | पर्वताम्बुधिभुवो [क्: तानां बुद्धिभुवो] मुख्याः [क्: मुख्यानां] स्थिरत्वेनाभिमतानां येषां देवलोकादीनाम् | अम्बुधेर्नदीतोयमेलनाद् भुवो नद्यादिभिर्भेदनात् क्षणिकत्वम् | प्रकारान्तरेण जाग्रत्स्वप्न भावयोरनुवृत्तिसाम्यं [ख्: स्वाप्न] वक्तुमाह - अथेति | पश्य विचारय || ७० || परिच्छिन्नानुवृत्तिर्हि समैव स्वाप्नजाग्रतोः | अपरिच्छिन्नाऽनुवृत्तिः कार्येष्वत्यन्तदुर्लभा || ७१ || परिच्छिन्नेति | जाग्रद्भावस्यानुवृत्तिः कालपरिच्छिन्ना न वा ? आद्ये परिच्छिन्नानुवृत्तिः स्वाप्नजाग्रतयोः [क्: ग्रतोः] समैव | द्वितीये दृश्यत्वेन कार्यात्मना सिद्धजाग्रद्भावस्यापरिच्छिन्नानुवृत्तिर्दुर्लभैवेत्यर्थः || ७१ || अनुवृत्तिः कारणेन रूपेणास्ति हि सर्वदा | इति चेत् [क्: तत्] कारणं रूपं पृथिव्यादिमयं किल || ७२ || ननु कार्यस्य कारणादत्यन्तभिन्नत्वमारम्भवाद्यभ्युपगतम् तत्र हि प्रोक्तदोषावकाशो भवेत् | परिणामवादाश्रये तु न कोऽपि दोषः | जाग्रद्भावस्य कार्यरूपेण व्यावृत्तावपि कारणरूपेणानुवृत्तेरित्याशङ्क्य समाधातुमाह - इति चेदिति | पृथिव्यादिती | कारणरूपं पृथिव्यादिमयम् भौतिकानां महाभूतकार्यत्वात् | यद्वा पृथिव्यादिमयं पृथिव्यादिनिखिलकार्यप्रचुरं प्रधानतत्त्वमित्यर्थः | कार्यमात्रस्य कारणे सूक्ष्मरूपेणावस्थानादिति भावः || ७२ || तच्चानुवृत्तं [क्: वृत्तस्व] स्वप्नेऽपि पृथिव्यादेर्हि भासनात् | अथ स्वाप्नस्य बाधो हि जाग्रति ह्यनुभूयते || ७३ || एवमपि स्वाप्नभावानां तुल्यतेत्याह - तच्चेति | कारणरूपमित्यर्थः | स्वप्नेऽपि प्रत्यहं पृथिव्यादिकारणरूपस्य भासमानत्वादनुवृत्तिरस्तीत्याह - अनुवृत्तमिति | यद्वा पृथिवीति कार्योपलक्षकम् | तथा च पृथिव्यादिकार्यस्यादिभूतं कारणं यत्प्रधानम् तस्य सुखदुःखमोहात्मकगुणत्रयमयस्य स्वप्ने भासनादिति [क्, घ्: भासमाना] | प्रकारान्तरेण पुनराशङ्कते - अथेति | स्वाप्नभावानां बाधो जाग्रति सर्वैरनुभूयत इत्यर्थः || ७३ || प्. २०३) न जागरस्य बाधस्तु भासते कस्यचित् क्वचित् | इति चेच्छृणु वक्ष्यामि बाधो ह्यनवभासनम् || ७४ || न जागरस्येति | जागरभावस्य बाधस्तु न क्वचिदवस्थायां कस्यचित् प्रमातुर्भासत इत्यर्थः | समाधत्ते - शृण्विति | अनवभासनमिति | अवभासनाभाव इयर्थः | यद्यपीदं रजतमित्यादौ नेदं रजतमित्यादिर्विपरीतग्रह एव बाध इत्युच्यते तथाप्यवभासमानमेव सदिति नियमादनवभासनस्यासत्त्वनियमाच्चानवभासनमेवासत्त्वप्रयोजकमिति बाध इत्युच्यत इति ज्ञेयम् || ७४ || सुषुप्तौ सर्वजगतोऽप्यनुभूतं ह्यभासनम् | अथ बाधो ह्यप्रमाणदर्शनं चेत्तदा शृणु || ७५ || सुषुप्ताविति | अविशेषेण सर्वस्य जगतोऽनवभासनं [क्, ख्: भासनसर्वा] सर्वाऽनुभूतं बाधो भवत्येवेत्यर्थः | ननु नह्यनवभासनं बाधः घटावभासनप्राक्कालिकघटानवभासनस्य बाधत्वप्रसक्तेः | किन्त्वन्यदेवेत्याह - अथेति | अप्रमाणदर्शनमिति | अप्रमाणमिति भावप्रधानो निर्देशः | अप्रामाण्यदर्शनं बाध इत्यर्थः | प्रबुद्धस्य स्वाप्नदर्शने नेदं प्रमाणमिति ज्ञानं सर्वजनीनम् | एतदेव भादः | नह्येवंविधबाधो जाग्रत्यस्तीति भावः || ७५ || अप्रमाणदृशिर्नास्ति [क्: सदृशी नास्ति] भ्रान्तानं त्वादृशां [क्: त्वदृशां] खलु | ज्ञातविज्ञेयतत्वानामप्रमाणदृशिः स्फुटा || ७६ || यथा हि स्वाप्नप्रमातुः स्वाप्नेष्वप्रामाण्यदर्शनं नास्ति एवमज्ञातज्ञेयतत्वानामेव जाग्रत्यप्रामाण्यदर्शनं नास्तीत्याह - अप्रमाणेति | जाग्रत्यप्रमाणदृशिः | ज्ञेयस्य तु परं तत्त्वं चितिरेव न चेतरत् इति नीत्या ज्ञातविज्ञेयतत्त्वानां जाग्रति स्फुटाऽप्रमाणदृशिः || ७६ || प्. २०४) तस्मादिदं दृश्यजालं स्वाप्नदृश्यसमस्थिति | दीर्घकालोऽपि च स्वप्ने भासते निर्विशेषतः || ७७ || तस्मादिति | स्वाप्नभावानामर्थक्रियादिसत्त्वेनावैषम्यादित्यर्थः | ननु जाग्रद्भावो दीर्घकालो भासते न तु स्वाप्न इति चेदाह - दीर्घकाल इति | निर्विशेषत इति | जाग्रत्कालवदविशेषाद् [क्: दसत] भासत इत्यर्थः || ७७ || तस्मादबाधितो ह्यर्थर्क्रियाकारी स्थिरोऽपि च | स्वाप्नभावस्तेन तुल्यो जाग्रभावोऽपि सर्वशः || ७८ || तस्मादिति | प्रोक्तदिशा वैषम्याभावादित्यर्थः | स्वस्वकालेऽबाधितत्वादेः सत्त्वात् स्वाप्नजाग्रद्भावयोः सर्वांशेन तुल्यत्वमिति भावः || ७८ || यथा जाग्रति जाग्रत्त्वं गृहीतं जागरे स्फुटम् | स्वप्नेऽपि जागरत्वं तु गृहीतं तद्वदेव हि || ७९ || जन्वेवमपि जाग्रतो जाग्रत्त्वं [क्: त्वं विनैवं] भाति नैवं स्वप्नस्य जाग्रत्त्वं भातीत्यस्ति वैषम्यमित्याशङ्क्य परिहरति - यथेति | अथ जाग्रति स्वाप्नानुसन्धानं स्वाप्नस्य स्वाप्नत्वग्रहः नैवं स्वप्ने जागरानुसन्धानादिरित्यस्ति वैषम्यमिति चेत् सत्यम् आपातदर्शिनामस्त्येव वैषम्यम् | सम्यग्दर्शिनां तु न तल्लेशोऽपि | तथा हि - स्वप्ने किमखिलजाग्रदनुसन्धानं नास्ति उत यत्किञ्चिज्जाग्रदनुसन्धानं नास्तीत्युच्यते | उभयथाऽपि न दोस्ऽः | जाग्रत्यपि निखिलस्वाप्नानुसन्धानस्य यत्किञ्चित्तदनुसन्धानस्य वाऽभावः सर्वानुभवसिद्ध एव | न च यत्किञ्चित्स्वप्नानुसन्धानमस्ति जाग्रति नैवं स्वप्न इति वाच्यम् अनुसन्धानं हि स्मृतिः तथा च पूर्वदिने [क्, घ्: दिनेऽनेन; ख्: दिने तेन] न मयेत्थं भाषितमित्यादिजाग्रद्व्यवहारस्मृतेरानुभविकत्वात् | एवं स्वप्ने सेयं जाग्रदासीदिति जागरस्य जाग्रत्त्वग्रहादिकं सर्वमप्रतिहतमेवेति सूक्ष्मविमर्शिभिर्ज्ञेयम् || ७९ || प्. २०५) एवं स्थिते कुतो राजन् विशेषः स्वप्नजाग्रतोः | तत्स्वाप्नान्निजबन्धूंस्त्वं नहि शोचसि वै कुतः || ८० || एवं [क्: एवं नास्ति] सर्वसाम्ये स्थिते | तत् तस्मात् स्वप्नजाग्रतोरविशेषात् || ८० || केवलं भावनामात्रात् सत्यता जगति स्थिता | शून्यताभावनेनापि शून्यं निष्प्रतिघं भवेत् || ८१ || नन्वेवं स्वप्नजाग्रतोः [क्, ख्: स्वाप्न] साम्ये सर्वेषां जगति सत्यताभासनं कुत इति चेदाह - केवलमिति | सत्यं जगदिति भावनानुसन्धानम् तन्मात्रात् | तदेकनिमित्ता सत्यतेत्यर्थः | केवलमिति | असत्यमिति विपरीतभावनानन्तरितमित्यर्थः | स्थिता दृश्यत इति शेषः | अत एव शून्यत्वभावने इदमेव जगत् शून्यमभावप्रत्ययविषयं भवेत् | निष्प्रतिघमाकाशवदप्रतिरोधकं च || ८१ || भावना ह्यप्रमाणत्ववैधुर्येण स्थिरीकृता | भवेत्तदात्मभावेन सत्यमेतद् महीपते || ८२ || ननु मया सम्प्रति शून्यत्वेन भाव्यमानमपि जगत् कुतो न शून्यात्मतां यातीत्याशङ्क्य ते [क्: शङ्कते] भावनाऽसिद्धा तस्मान्न शुन्यात्मतासम्पत्तिरिति वक्तुं भावनायाः सिद्धिप्रकारमाह [क्: सिद्ध; ख्: असिद्धिः] भावनेति | भावना इदमीदृगिति प्रत्ययसन्तानः | तस्याः स्थैर्यमेव सिद्धिः | स्थैर्यं चाप्रमाणत्वनिश्चयेनोन्मूलनाभावः | यथा शुक्ताविदं रजतमिति भावना [क्, ख्: भावने] नेदं रजतमिति ज्ञानेनाप्रमाणत्वेन निश्चिते उन्मूलिता भवति छिन्नसन्ताना भवति | सेयं भावना असिद्धा | या त्वप्रमाण्यनिश्चयवैधुर्येण स्थिरीकृता अनुन्मूलिता स्यात्तदा तदात्मभावेन भावितवस्तुरूपेण सा भावनैव भवेत् | भावितं सर्वसाधारणं भायादित्यर्थः | स्वेनानुभूतत्वादाह - सत्यमेतदिति || ८२ || प्. २०६) निदर्शनं त्वत्र [घ्: तत्र] चेदं मज्जगद् दृष्टमेव ते | इमं शैलं परिक्रम्य चैहि [क्: यौ हि] पश्याव सम्प्रति || ८३ || निदर्शनमुदाहरणम् | ते त्वया | शैलान्तस्तावान् प्रदेशः स्यादिति तव शङ्का भवेदत इमं शैलं परिक्रम्य पश्यावेत्याह - इममिति || ८३ || इत्युक्त्वा नृपतिं हस्ते गृहीत्वा परिचक्रमे | परिक्रम्य गण्डशैलं राज्ञा सह समेत्य तु || ८४ || शैलं परिचक्रमे | राज्ञा सह परिक्रम्य ततः समेत्य स्वस्थानमागत्य || ८४ || पुनः प्राह महासेनं मेधावी मुनिनन्दनः | राजन् दृष्ट एष शैलः पादगव्युतिमात्रकः || ८५ || मेधावी शिष्यबोधनेऽतिकुशलः | गव्यूतिः क्रोशयुगम् || ८५ || दृष्ट एवास्य गर्भे ते लोकः सुविततः स्फुटः | एष जाग्रदुत स्वप्नः सत्यो मिथ्यात्मकोऽपि वा || ८६ || स्फुटः जाग्रत्सदृशः | एष मल्लोकावभासः [क्: शैला] | सत्यो मिथ्यात्मक एव वा व्वेचयेति शेषः || ८६ || शैललोके यद् दिनैकं तदत्र द्वादशार्बुदाः | वत्सरास्त्वनुभूतास्ते सत्यासत्ये विवेचय || ८७ || पादगव्यूतिपरिमितशैलेऽनन्तदेशस्य विरुद्धत्वान्नैतद्विवेचयितुं शक्यम् एवं कालस्यापि विरुद्धत्वादित्याह - शैललोक इति | बहिः पादगव्यूतिमात्रो देशो द्वादशार्बुदमितश्च कालः अन्तरनन्तो [क्, ख्: रनन्तरो] देशो दिनैकात्मकः कालश्चेति परस्परविरुद्धस्वरूपयोर्मध्ये | सत्यासत्ये विवेचय || ८७ || प्. २०७) विवेचनं नास्य भवेत् स्वप्नयोर्भिन्नयोरिव | अस्मादेतद्विद्धि जगद् भावनामात्रसारकम् || ८८ || ननु बाह्यविरुद्धमान्तरमसत्यमिति चेदुभयोर्भासनस्य तुल्यत्वेनान्तरविरुद्धं बाह्यमप्यसत्यमिति वक्तुं शक्यमिति नैतन्निर्णयः शक्यक्रिय इति सदृष्टान्तमाह - विवेचनमिति | भावनामात्रसारकं स्वप्नवद् भावनामात्रस्वरूपम् न ततोऽधिकं किञ्चिदित्यर्थः || ८८ || अभाव्यमानं चैतत्तु लीयेत क्षणमात्रतः | तस्माच्छोकं जहि नृपावेत्य [क्: वेक्ष्य] स्वाप्नसमं जगत् || ८९ || मया अभाव्यमानमेतच्छैलजगत् क्षणमात्रेण लीयेत [क्, घ्: यते] एवं ब्रह्मणाऽभाव्यमानं बाह्यजगदपीति तात्पर्यम् | तस्मात् भावनामात्रसारत्वाज्जगतः || ८९ || स्वाप्नचित्रभित्तिभूतं स्वात्मानं संविदात्मकम् | दर्पणप्रतिमं मत्वा संस्थितोऽसि यथा तथा || ९० || कथं शोकं त्यजामीति चेदाह - स्वाप्नेति | स्वाप्ना ये भावास्ते हि चित्रसदृशाः | चित्रस्य भासमानस्य न [क्: नासत्यातिरिक्तं] भित्त्यतिरिकं स्वरूपमस्तीत्यविवादः | तथा च स्वाप्नचित्रभित्तिभूतं संविदात्मकं स्वात्मानं दर्पणप्रतिमं मत्वा यथा संस्थितोऽसि स्वाप्नबन्धुनाशे [क्, ख्, घ्: नाश] राज्यलाभे [ख्: भयोर्य] वा यथा न शोचसि न प्रहृष्यसि च || ९० || प्. २०८) जागच्चित्रदर्पणं चावेह्यात्मानं चिदात्मकम् | परमानन्दितस्वान्तो भव शीघ्रं महीपते || ९१ || तथाऽवेहीत्यन्वयः | स्वप्नजाग्रतोरत्यन्तसाम्यात् [क्, घ्: स्वाप्न] स्वाप्नभाववज्जाग्रद्भावा अपि चिदात्मदर्पणप्रतिबिम्बरूपा एवेति निश्चित्य स्वाप्नशोकाद्यैरस्पृष्ट इव जाग्रच्छोकाद्यैरस्पृष्टः | अत एव निखिलवासनाप्रहाणमात्रेण निःसारितोदघटान्तरभिव्यक्ताकाशवद् वासनारिक्तस्वान्ताभिव्यक्तात्मानन्दो [क्: नातिरि] भवेति भावः || ९१ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे शैललोकदर्शनं नाम त्रयोदशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां त्रयोदशोऽध्यायः || प्. २०९) अथ चतुर्दशोऽध्यायः इत्याकर्ण्य मुनिवचो विचार्य शुभया धिया | जगत्स्थितिं स्वाप्नसमां ज्ञात्वा शोकं जहौ द्रुतम् || १ || अत्राध्याये साधुपद्यैर्भावनामात्रकं जगत् | भावनायाः सिद्धिमपि प्राह तत्त्वान्यपि क्रमात् || जगद् भावनामात्रसारमित्याकर्ण्य शुभया सत्तर्कयुतया धिया || १ || धैर्यमालम्ब्य निःशोको भूयोऽपृच्छन्मुनेः सुतम् | मुनिपुत्र महाबुद्धे त्वं परावरदर्शनः || २ || जगतः स्वाप्नसाम्यज्ञानेऽपि वासनादार्ढ्याद् भूयः शोक आपतति अत आह ##- स्वप्न] | परावरदर्शनः सेन्द्रियातीन्द्रियज्ञः || २ || न [क्: ततो] तेऽप्यविदितं किञ्चिन्मन्ये स्यादिति लेशतः | पृच्छामि यदहं तन्मे कृपया वक्तुमर्हसि || ३ || अत एवाह - न [क्: तत] त इति | लेशतोऽप्यविदितमिति योजना || ३ || भावनाप्रभवं ह्येतत् सर्वं वदसि तत् कथम् | मया भूयो भावितं [क्, ग्, घ्: भाविते] च न बहिः सर्वथा भवेत् || ४ || सर्वं जगत् | तज्जगन्मया भूयो भावितमपि बहिः सर्वसाधारणं सर्वथा न भवेत् तत् कथमिति योजना || ४ || त्वया तु भावनासिद्ध्या शैले [क्: शैललोकः] लोकः प्रकल्पितः | अथापि देशः कालश्च युगपद् विविधः कथम् || ५ || त्वया तु भावनासिद्धया कल्पितः | कथंविधा सा भावाअसिद्धिरिति पूर्वाध्याये संक्षेपेणोक्तस्य सिद्धिहेतोर्विस्तरप्रश्न इति तात्पर्यम् | प्रश्नान्तरम् - अथापीति | युगपदिति | एकस्मिन्नेव काले एक एव देशः कालश्च विविधः कथमित्यर्थः || ५ || प्. २१०) तत्रातस्यमन्यतरत् कतमं तममेरय | इति पृष्टो मुनिसुतः प्रवक्तुमुपचक्रमे || ६ || तत्र दीर्घादीर्घत्वाभ्यां भासमानयोर्मध्ये | यद्यपि पूर्वाध्याये [क्: पूर्वपूर्वा] द्वयोः स्वाप्नतुल्यत्वमुक्तम् तथापि जाग्रत्प्रपञ्चे सत्यवासनाविष्टो भूयः पृच्छति - अन्यतरत् सत्यं भवेदिति || ६ || सङ्कल्पो भावना प्रोक्ता सिद्धाऽसिद्धेति सा द्विधा | सिद्धिर्विकल्पाऽसम्भेदो विकल्पस्त्वेकनिष्ठितेः [अविकल्पसुत् इत्यपि पाठो व्याक्यातष्टीकायाम्] || ७ || क्रमेणोत्तरमाह - सङ्कल्प इति भावना हि सङ्कल्पः | सङ्कल्पो नामेदमीदृशमित्यादिर्मानस उल्लेखः | सा भावना | तस्याः केयं सिद्धिरिति चेदाह - सिद्धिरिति | इदमीदृगिति सङ्कल्पधारामध्ये नेदमीदृगिति विरुद्धकल्पनया असम्भेदः अयोगः | एवं विकल्पासम्भेदसम्पादनाय विकल्पकारणमाह - विकल्पस्त्विति | एकनिष्ठितेः भवेदिति शेषः | एकत्र निष्ठितेः सत्यत्वग्रहादित्यर्थः | अयं भावः - बाह्यसृष्टौ सत्यत्वग्रहात् स्वमानससृष्टावसत्यत्वविकल्पोदयः यावदेवं विकल्पसम्भेदो भावनायास्तावन्न सिद्धिरिति | यद्वा विकल्पासम्भेदे उपायं वक्तुमाह - अविकल्पस्त्विति | नास्ति विकल्पो यस्य सः सङ्कल्प इत्यर्थः | एकनिष्ठितेः एकत्र सङ्कल्पविषयमात्रे नितरां मनसः स्थितेः | सङ्कल्पविषयान्मनसोऽप्रचलनेऽविकल्पः [ख्: लने विक] सङ्कल्पो भवेदिति भावः || ७ || ब्रह्मभावनया पश्य जातं जगदिदं ननु | एतत् सर्वैः सत्यरूपं भावितं सुदृढत्वतः || ८ || तथा [क्, ख्: यथा] चाविकल्पसङ्कल्पात्मकसिद्धभावनाभावितं [क्: वा विक] सर्वसाधारणं भासेत [क्: भासते] | तत्र च यः कश्चिन्नेदं सत्यमित्यविकल्पसङ्कल्पपरो भवेत्तं प्रति तद् दृश्यं तथैव भवेत् | अत एवाह - ब्रह्मेति | ब्रह्मणश्चतुर्मुखस्य सिद्धभावनयेदं जगज्जातम् | एतज्जगत् सर्वैः प्रमातृभिरनेकजन्माभ्यासात् सुदृढत्वतः सत्यरूपं भावितम् अतः सर्वसाधारणं सत्यत्वेन भासत इति शेषः || ८ || प्. २११) तथा स्वसङ्कल्पभवे नास्ति कस्यापि भावना | विकल्पसम्भेद एषोऽसिद्धा तस्माद्विभावना || ९ || तथा ब्रह्मसृष्टे इव | तव स्वसङ्कल्पभवे जगति सत्यत्वभावना न कस्यापि | एष तावक एव नेदं सत्यमिति यो विकल्पस्तत्सम्भेदोऽस्ति | तस्मात्ते भावनाऽसिद्धा || ९ || भावनायाः सिद्धिरत्र बहुधा संस्थिता भवेत् | जन्मना मणिना तद्वदौषधेन च योगतः || १० || कथं भावनासिद्धिर्ब्रह्मादीनामिति चेदाह - भावनाया इति | अत्र जगति || १० || तपसा मन्त्रसिद्ध्या च वरेण च भवेन्नृप | जन्मना ब्रह्मणः सा वै मणिना यक्षरक्षसाम् || ११ || कस्य कीदृशी भावनासिद्धिरित्येतदाह - जन्मनेति | सा भावनासिद्धिः || ११ || औषधेन तु देवानां योगिनां योगतो भवेत् | तपसा तापसानां सा मान्त्रिकाणां तु मन्त्रतः || १२ || औषधेन अमृतेन || १२ || विश्वकर्ममुखानां च वरप्राप्त्या हि साऽभवत् [ख्: भवेत्] | सङ्कल्पितं तथा भाव्यं पूर्वविस्मरणे सति || १३ || विश्वकर्ममुखा विश्वकर्ममयप्रभृतयः [क्: मय नास्ति] | भावनासाधनप्रकारमाह - सङ्कल्पितमिति | सङ्कल्पनमित्यर्थः | तथा भाव्यं तथा कर्तव्यम् | पूर्वविस्मरणे सति यथा स्थिरं भवेदिति शेषः | सङ्कल्पस्य पूर्वमारम्भः यस्य मया सङ्कल्प इत्थं कृत इत्यस्य विस्मरणे सति सङ्कल्पनं स्थिरं भवेत् | एवं सङ्कल्पनं कर्तव्यमिति भावः || १३ || प्. २१२) स्थिरं तावद्भवत्येव यावत् पूर्वं नहि स्मरेत् | एवमेव निर्विकल्पभावना यदि सुथिरा || १४ || एवं पूर्वविस्मरणमेव भावनासिद्धिसम्पादकमित्याह - स्थिरमिति | पूर्वं न स्मरन् सङ्कल्पमेवानुवर्तयेत् | एवं चिराभ्यासेन यावत् पूर्वं [घ्: सर्वं] न स्मरेत् तावद् भावनं स्थिरं भवतीति भावः | एवमेव निरन्तराभ्यासेनैव निविकल्पभावना विरुद्धविकल्पासम्भिन्न भावना यदि सुस्थिरा तदा महाफलं साधयेदिति व्यवहितेन सम्बन्धः || १४ || अनिच्छया विकल्पस्य यावत् सम्भेदनं नहि | तावत् सा भावना सिद्धा साधयेद्वै महाफलम् || १५ || ननु कियत्कालं सुस्थैर्येण भावना सिद्धा स्यादित्याशङ्क्याह - अनिच्छयेति | विरुद्धविकल्पसम्भेदोऽनिच्छया नैव भवेदिति सुस्थिरा यदि [क्: यदा] तदा भावना सिद्धेत्यर्थः | अनिच्छया यावद्विकल्पसम्भेदो नास्ति तावत् सिद्धा भावना महाफलं ब्रह्माण्डादिकं सर्वसाधारणं साधयेत् || १५ || सम्भेदात्तु विकल्पेन न सिद्धा तव भावना | भावनां साधय क्षिप्रं यदि स्रष्टुं समीहसि || १६ || तव तु विकल्पसम्भेदाद् भावना न सिद्धेत्याह - सम्भेदादिति || १६ || शृणु राजन् देशकालद्वैविध्यं वदतो मम | अव्युत्पन्नोऽसि लोकस्य व्यवहारे [क्: हारैह्यत] ततस्तव || १७ || एवं प्रथमप्रश्नोत्तरमुक्त्वा द्वितीयप्रश्नोत्तरमाह - शृण्विति | तवैतच्चित्रं भासत इति सम्बन्धः || १७ || एतच्चित्रं भासते वै शृणु सम्यग् ब्रवीमि ते | जगद्भावस्वभावोऽयं विविधत्वेन भासनम् || १८ || एतत् एकदैव देशकालयोर्दीर्घत्वं ह्रस्वत्वं च | अत्र कारणं ब्रवीमि | भावस्य विरुद्धत्वेन भासनं स्वभाव एव || १८ || प्. २१३) एक एव हि सूर्यस्य [क्: सर्वस्य] प्रकाशो द्विविधः स्थितः | दिवान्धानामन्धकार इतरेषां तु भासकः || १९ || कुत एवं विदितमिति चेद् भूयो दर्शनादिति वक्तुं कांश्चित्तादृशान् भावानुदाहरति - एक एवेति | द्वैविध्यमेवाह - दिवान्धानामिति || १९ || जलं मनुष्यपश्वादेः श्वासस्य प्रतिरोधकम् | मत्स्यादीनां बहिः श्वासप्रतिरोधो जले नहि || २० || स्वस्मिन्निमग्नमनुष्यपश्वादेः | बहिः निर्जले देशे || २० || अग्निर्दहति मर्त्यादींस्तं भक्षयति तित्तिरिः | वह्निर्नश्यति तोयेन स जले ज्वलति क्वचित् || २१ || तित्तिरिर्भक्षयति तं न दहति | क्वचित् वडवानलकुण्डादौ || २१ || एवं सर्वे जागतास्तु भावा द्वैरूप्यतः स्थिताः | एवं सेन्द्रियवृत्तान्तास्त्वन्ये केऽपि निरिन्द्रियाः || २२ || विरुद्धद्विरूपतया [ख्: तायां] सर्वे भावाः स्थिताः | तत्र केचित् प्रसिद्धाः | अन्येऽप्यप्रसिद्धा भूम्यादयो मर्त्यानां प्रतिरोधकाः पिशाचादीनामप्रतिरोधका बुद्धिमद्भिर्ज्ञेयाः | सेन्द्रियाः अपरोक्षाः निरिन्द्रियाः परोक्षाः भावानां विरुद्धस्वभावाः || २२ || स्वभावतो विरुद्धा वै शतशोऽथ सहस्रशः | अत्रोपपत्तिं वक्ष्यामि समाहितमनाः शृणु || २३ || निरिन्द्रियाः सेन्द्रियाश्च भावा अन्येऽपि विरुद्धद्विस्वभावाः [क्: द्व नास्ति] सन्तीत्याह - स्वभावत इति | कथमेकस्य विरुद्धोभयरूपतेति चेदुपपत्तिपूर्वकं वक्तुमुपक्रमते - अत्रेति || २३ || एते हि चाक्षुषा भावाश्चक्षुर्विकृतिमात्रकाः | न चाक्षुषादंशतोऽन्यद् दृश्यमस्ति क्वचिद् बहिः || २४ || भावानां बहिरसत्त्वान्नास्ति विरोध इति वदति - एत इति || २४ || प्. २१४) यथा पित्तप्रदुष्टाक्षो बहिः पीतं प्रपश्यति | यथा तैमिरिकोऽन्यस्तु पश्यत्येकं द्विधा स्थितम् || २५ || अत्र दृष्टान्तः - यथेति | तैमिरिकः तिमिरदोषोपहतनेत्रः || २५ || एवं विचित्रदुष्टाक्षाः पश्यन्ति विविधं जगत् | अस्ति पूर्वसमुद्रस्य मध्ये कारण्डकाह्वयः || २६ || एवमन्येऽपि दृष्टिदोषवैचित्र्याद् विविधं जगत् पश्यन्तीति सोदाहरणमाह ##- द्वीपस्तत्र जना भावान् रक्तान् पश्यन्ति वै सदा | एवं रमणकद्वीपे सदा पश्यन्ति वै जनाः || २७ || सर्वभावान् रक्तान् पश्यन्ति || २७ || व्यत्यस्तमूर्ध्वाधरतो निखिलं भावमण्डलम् | एवमन्येषु द्वीपेषु विविधं [क्: विविधा] भावमण्डलम् || २८ || व्यत्यस्तम् अधोमस्तकमूर्ध्वपादमित्यादि || २८ || जना नेत्रस्वभावेन पश्यन्ति खलु सर्वदा | तत्र तेसामन्यथा तु दृश्यते यदि कुत्रचित् || २९ || तन्नेत्रस्य न स दोषः किन्तु स्वभाव एवेत्युपपादयति - तत्रेति | तेषु द्वीपेषु तेषां जनानां यद्यरक्तमव्यत्यस्तं वा दृश्यते तदा तैः (ते) स्वनेत्रमौषधैरञ्जनाद्यैरदुष्टं संसाध्य प्राग्वद्रक्तं व्यत्यस्तं च पश्यन्तीत्यर्थः || २९ || नेत्रं सुसाध्यौषधेन पश्यन्ति प्राग्वदेव हि | अतस्तु चक्षुषा यावद् दृश्यते जगतीतले || ३० || तावद् भवेच्चाक्षुषोंऽशः पीतवत् पित्तचक्षुषः | एवं घ्राणादीन्द्रियाणामंशा गन्धादयोऽपि हि || ३१ || पित्तचक्षुषो यथा दृश्यमानः पीतवर्णश्चाक्षुषोंऽशस्तथा पुरुषस्य चक्षुषा यावद् दृश्यते तावत् सर्वमपि चाक्षुषोंऽश एव | एवं चक्षुर्विषयस्य तदंशत्वं प्रसाध्यान्येन्द्रियविषयेप्येतदतिदिशति - एवमिति | येनेन्द्रियेण यत् प्रकाशते तस्य तदिन्द्रियांशत्वमिति भावः || ३१ || प्. २१५) मानसाश्च मनोमात्रास्तथैवाखिलजागताः [ख्: संगताः] | क्रमोऽप्यक्षस्वभावोत्थस्ततः [क्: भावस्थ] किञ्चिद् बहिर्नहि || ३२ || एवं मनोविषयाणामपि मनोऽशत्वमित्याह - मानसाश्चेति | तथा च देशक्रमस्य कालक्रमस्य क्रिअयक्रमस्य च चाक्षुषत्वाच्चक्षुरंशत्वमित्याह - क्रमोऽपीति | क्रमः पौर्वापर्येणावस्थितत्वम् | तथा च द्रव्यक्रमो हि दिक् | प्रयागात् काशी पूर्वेति पूर्वव्यवहारविषयः [घ्: पूर्वस्य] क्रम एव | एवं क्रियागतः क्रमः कालः | कासाञ्चित् क्रियाणां पौर्वापर्यावस्थितत्वरूपक्रमस्यैव घटिकादिकालव्यवहारविषयत्वं ज्ञेयम् | एवं च यद्यत्काले [क्: काले नास्ति] देशः कालो वा यथा यथा महत्त्वेनाल्पत्वेन वा भासते स सर्वोऽपि तत्तत्कालिकचाक्षुषोंऽश एव विभिन्न इति नैकस्य विरुद्धोभयरूपतादोष इति भावः || ३२ || शृणु राजन् बहिरिति यल्लोके भाति केवलम् | तदाद्यं सर्वजगतां जगच्चित्रस्य भित्तिवत् || ३३ || एवं पित्तादिदुष्टाक्षाणां भासमानपीतादिवर्णदृष्टान्तेन [क्, ख्: पित्ता] दृश्यं बहिर्नास्तीति प्रसाध्य बहिर्वस्त्वंश(र्वस्त्व)सम्भवादपि तन्नास्तीति साधयितुमुपक्रमते - शृण्विति | चित्रस्य भित्तिरिव बहिःपदार्थो जगच्चित्रस्याश्रयत्वात् कारणत्वच्चाद्यमित्यर्थः || ३३ || तस्य बाह्यस्य वक्तव्यमपादानं ध्रुवं ननु [ख्: न तु] | शरीरं स्यादपादानं नेतरद् भवितुं क्षमम् || ३४ || तस्य प्रोक्तस्य बाह्यस्य बहिःपदार्थस्य ध्रुवमवधिभूतमपादानं वक्तव्यम् | कस्मात् ? बहिरित्यपादानस्याकांक्षितत्वात् | घटादेः शरीरादन्यस्यापि बाह्यत्वेनापादानत्वासम्भवाच्छरीरमेवापादानं स्यादिति सम्भावयति - शरीरमिति || ३४ || प्. २१६) तस्यापि बहिराभासादपादानं [क्: दुपा] कथं नु तत् | पर्वताद् बहिरित्युक्ते पर्वतो न बहिर्भवेत् || ३५ || शरीरस्यापि बहिष्ठत्वेनाभासनान्नापादानतेत्याह - तस्यापीति | अत्र दृष्टान्तः - पर्वतादिति | पर्वतो न बहिष्ठो भवेदित्यर्थः || ३५ || यथा घटो भासते हि बहिस्तद्वच्छरीरकम् [क्, ख्: प्राहु] | भासकाद् बहिरित्येवं वक्तुं वापि न सम्भवेत् || ३६ || शरीरस्य बहिष्ठत्वे दृष्टान्तमाह - यथेति | अथ घटादिशरीरान्तर्भासक आत्मैवापादानमिति शङ्कते - भासकादिति | इत्येवं वा वक्तुमिति योजना || ३६ || दीपसूर्यालोकबहिर्गतानां [क्: र्गतान्तं] नहि भासनम् | अतस्तु भासकस्यान्तर्भास्यमस्तीति युज्यते || ३७ || ननु यदि भासकोऽपादानं तर्हि सूर्यालोकाद् बहिर्गतानामन्धकारस्थानामभासनमिव भासकाद् बहिष्ठानां भासनमेव न भवेदतो भासकान्तरेव भास्यमभ्युपेयम् | तथा च बहिष्ठानां भासक आत्मा नापादानमित्याह - दीपेत्यादि || ३७ || भासकं तु न देहादिर्भास्यत्वात् पर्वतादिवत् | न सर्वथा यत्तु भास्यं तद्धि युज्यते || ३८ || एतावता बहिःपदार्थस्यापादानानिरूपणाद्दर्पणेऽतिविततगगनाभासवद् भासकान्तरेव बहिःपदार्थावभास इति सिद्धम् | अथ भासकमात्रात्मता भास्यस्येति हेतोश्च भास्यस्य बहिःपदार्थस्य न भासकमपादानमिति वक्तुं भासकस्वरूपं विवेचयति - भासकं त्विति | नन्वस्तु स्थूलोऽहं पश्यामीत्यनुभवाद्देहस्य भास्यत्वं भासकत्वं चेति चेदाह - न सर्वथेति || ३८ || भासकस्यापि भास्यत्वे भासकस्यानवस्थितिः | स्वस्यैव भासकत्वं च भास्यत्वं नहि युज्यते || ३९ || ननु भास्यस्य भासकत्वे का हानिरिति चेत् यदि एक एव देहः स्वात्मनः स्वयंवेद्यो [क्: स्वयबोधो] वेदकश्चेति चेदेकस्य कर्तृकर्मत्वविरोधः देहान्तरस्य [क्: न्तरस्थभा] भास्यो भासकश्चेति चेत् [क्: चेत् नास्ति] स्वस्याभासमानस्य भासकत्वासिद्धेर्भासकदेहानां परम्परया भासकान्तरापेक्षणान्मूलक्षतिकरी भासकानवस्थेत्याह - भासकस्येति | नहि युज्यत इति | कर्तृकर्मत्वविरोधादिति शेषः || ३९ || प्. २१७) अतस्तु भासकं शुद्धं भासकैकस्वरूपकम् | तच्च भारूपमेवेह पूर्णमेकरसात्मकम् || ४० || अतः अनवस्थादिदोषात् | शुद्धम् अभास्यमित्यर्थः [ख्: अभास्य; क्, घ्: आभास्य] | एतस्यैव स्पष्टोक्तिः - भासकैकस्वरूपकमिति | ननु भासकं भासनक्रियावत् क्रिया चानित्यो धर्मः तथा च भासकत्वस्य कालपरिच्छिन्नत्वात् कथं भासकैकस्वरूपकमिति चेदाह - तच्चेति | भासकमित्यर्थः | भारूपमेवेहेति | लोकवदिह न कर्तृक्रिययोर्भेदः किन्तु क्रियात्मक एव कर्तेत्यर्थः | दर्पणप्रतिबिम्बवत् कार्यस्य स्वस्वरूपानतिरिक्तत्वेन स्वरूपातिरिक्तक्रियानुपयोग इति तात्पर्यम् | अत एव पूर्णमेकरसात्मकं च | एकरसः वस्त्वन्तरासम्भिन्न आत्मा यस्य || ४० || तेन व्याप्ता देशाकाला भासनात्तस्य पूर्णता | अभारूपस्य चाभानाद् भारूपैकरसं हि तत् || ४१ || तेन भारूपभासकेन | कुत इति चेदाह - भासनादिति | सर्वत्र भासनाद्देशकाला व्याप्ता इत्यर्थः | अत एव तस्य पूर्णता | नहि घटपटयोरिव भासकभास्ययोर्भासनम् किन्तु दर्पणप्रतिबिम्बयोरिव | तथा च दर्पणस्य प्रतिबिम्बव्यापकत्वमिव भासकस्य भास्यव्यापकत्वमिति भावः | ननु दर्पणप्रतिबिम्बन्यायेन भास्यस्य [क्: भास्यभास] भासकानन्यत्वमलौकिकं कुतः कल्प्यत इति चेदाह - अभारूपस्येति | भारूपतादात्म्यानापन्नस्येत्यर्थः | अभानादिति | यदि भास्यस्य भारूपभासकानन्यत्वं नोच्यते तदा तस्य भानमेव न स्यादित्यर्थः | अतो भास्यं भारूपैकरसमेव | अयमत्राऽभिप्रायः - यदि भास्यं भारूपबहिर्गतं तर्हि कथं तस्य भासनमुपपद्यते | नहि भासनं नीलादिरिव भास्यधर्मः सर्वदा भासनप्रसक्तेः मम भासत इति व्यवहारानुपपत्तेश्च | अन्यथा हि मम नील इति व्यवहारोऽपि स्यात् | ननु घटादौ सौरालोकवद् भास्ये भासनमन्यत उपनिपतितम् | तथा चान्यभासनसम्बन्धाद्भास्यभासनमुपपद्यत इति | स्यादेतद् घटसौरालोकयोः संयोग इव भस्यभासकयोस्तृतीयः सम्बन्धो यदि भवेत् | स एव न सम्भवति | तथा हि - किं स सम्बन्धो भास्यात्मकः उत भासकात्मकः आहोस्विदुभयात्मकः अथवाऽनुभयात्मकः ? भास्यात्मकत्वे तद्भासनाय सम्बन्धान्तरापेक्षायामनवस्था | भासकात्मकत्वे भासकस्य भानमात्ररूपत्वेन भानस्वरूपे [क्, ख्: भासन] भेदानुपपत्तेर्भूयो निरूपितत्वात् स्वस्य स्वसम्बन्धताऽनुपपत्तिः [क्: स्व नास्ति] | नोभयात्मकत्वम् भासनभास्ययोश्चिच्चिज्जडात्मत्वेनैकस्य तदुभयरूपताविरोधात् | नाप्यनुभयात्मकत्वम् अपसिद्धान्तात् | अनुभयात्मकं ह्यनिर्वचनीयम् | अनिर्वचनीयवादिनो हि भानात्मकब्रह्मरूपादन्यन्न किञ्चिदभ्युपगच्छन्ति | ते हि पूर्णे ब्रह्मणि दृश्यमनिर्वचनीयमाभासमानमभ्युपगच्छन्तो(न्ति) [क्: सादृश्य] दृश्यस्य दर्पणप्रतिबिम्बतुल्यताभ्युपगतैव | यदाहुः ##- इति | तस्माद्दर्पणे प्रतिबिम्बवद्भानान्तरेव भास्यं भासत इति तज्जगदपि दर्पणैकरसात्मकप्रतिबिम्बवत् भारूपैकरसमिति सिद्धम् || ४१ || प्. २१८) अन्तर्बहिर्वा यत् किञ्चिद् भारूपोदरसंस्थितम् | अतस्तन्नापादानं स्यात् शृङ्गस्येव हि पर्वतः || ४२ || अन्त इति | अन्तःपदार्थो बहिःपदार्थो वा यत्किञ्चिदपि भानान्तर्गतमेवेति हेतोः | तद् भासकमात्मरूपम् | यथा पर्वतान्तर्गतशृङ्गविशेषस्य पर्वतो नापादानं तथेति || ४२ || प्. २१९) एवंविधं हि भारूपं ग्रस्तसर्वप्रपञ्चकम् | भाति स्वतन्त्रतः स्वस्मिन् सर्वत्रापि च सर्वदा || ४३ || एवमखिलजगच्चित्रभित्तिभूतबहिःपदार्था(र्थोऽ)पादानासिद्ध्याऽसिद्ध इति भित्त्यसिद्धौ चित्रासिद्धिरिव देशकालादिभास्यरूपासिद्धावज्ञातरज्जोः [क्, ख्: रज्जौ] सर्पजलधाराभूच्छिद्रत्वादिरूपवद् [क्: च्छिद्रादि] भासकस्यैव भानात्मनो महदल्पदेशकालादिरूपतेति संसाध्य सम्प्रति गगनान्तर्भासमानभिन्नभाववद्भानान्तरमपि भास्यं भिन्नमेव कुतो न भवेदित्याशङ्कां [क्: शङ्क्य] शमयितुमुपक्रमते - एवंविधमिति | सर्वं स्वोदरे कृत्वा स्थितमित्यर्थः | तदेवाह - ग्रस्तेति | भातीति | सर्वत्र देशे सर्वदा काले स्वतन्त्रतोऽन्यानपेक्षं सदेवंविधं [क्: सदैवं] भाति || ४३ || एतत् परा चितिः प्रोक्ता त्रिपुरा परमेश्वरी | ब्रह्मेत्याहुर्वेदविदो विष्णुं [घ्: विष्णुर्वै] वैष्णवसत्तमाः || ४४ || सर्वेषु शास्त्रेष्वेतदेव मुख्यत्वेन प्रतिपादितमित्याह - एतदिति | एतद्भारूपमेव परा चितिरपरिच्छिन्ना चिच्छक्तिस्त्रैपुरे शास्त्रे त्रिपुरा परमेश्वरीत्युच्यते || ४४ || शिवं शैवोत्तमाः प्राहुः शक्तिं शक्तिपरायणाः | एतद्रूपादृते किञ्चिद् यदि ब्रूयुस्तदल्पकम् || ४५ || शक्तिपरायणाः शाक्ताः | ननु नीलमेघश्यामादिमूर्तिं वैष्णवाद्या मुख्यत्वेनाहुरिति चेदाह - एतदिति | परचितिरूपं [क्: परा] विना यद्यन्यत् किञ्चिन्मुख्यं ब्रूयुस्तर्हि तदल्पकं कालदेशपरिच्छिन्नमेव भवेत् | तस्मात् त्रिपुरादिनाम्नाप्येतदेव मुख्यमिति वक्तव्यमिति भावः || ४५ || तया व्याप्तं तु चिच्छक्त्या दर्पणप्रतिबिम्बवत् | तस्य भास्यकृतं भासकत्वं च न स्वतः स्थितम् || ४६ || ननु ग्रस्तसर्वप्रपञ्चकमित्युक्त्या जगद्व्याप्तिराकाशस्येव [क्: स्यैव] स्यादिति चेन्नेत्याह - तयेति | ननु सर्वस्य जगतः स्वस्वरूपाव्यतिरिक्तत्वेऽपि चितेर्भासकत्वं घटादेर्नीलादिवद्विभिन्न एव धर्मः स्यात् | तथा च भारूपस्य चाभानमिति भासकत्वस्याभानप्रसक्तिरिति चेदाह - तस्येति | भानस्येत्यर्थः | तस्य भास्यकृतत्वेनौपाधिकत्वात् स्फटिकस्थजपाकुसुमलौहित्यवत् तदपि प्रतिबिम्बात्मकमेवेति भावः || ४६ || प्. २२०) भास्यं तु भाननिर्मग्नमादर्शे नगरादिवत् | दर्पणे नगरं यद्वद् दर्पणान्नातिरिच्यते || ४७ || तस्मादादर्शे नगरादिवत् सर्वं भास्यं भाननिर्मग्नमेवेत्याह - भास्यं त्विति | दर्पणे भासमाननगरादेर्दर्पणानन्यत्ववच्चिति भासमानस्य प्रपञ्चस्य चिदव्यतिरिक्तत्वमित्याह - दर्पण इति || ४७ || तथा चिति जगद् भाति यत्तन्नैवातिरिच्यते | दर्पणात्मनि सम्पूर्णे निबिडे चैकरूपिणि || ४८ || तथा प्रतिबिम्बत्वेन चिति [क्: चितिवज्ज] यज्जगद्भातीत्यन्वयः | ननु दर्पणप्रतिबिम्बवदेव चिति जगद्भासनमिति कोऽयं निर्बन्धः गगने जगद्भासनवदेव कुतो नाभ्युपेयत इति चेदाह - दर्पणेति | सम्पूर्णे छिद्ररहिते निबिडे अशिथिलावयवे एकरूपिणि वस्त्वन्तरासम्भिन्ने | सच्छिद्रे हि पृष्ठतः स्थितं भासते शिथिलावयवे ह्यवयवसन्धिसन्निविष्टं वस्त्वन्तरं भासते वस्तुसमुदाये च समुदितं विचित्रं भासते दर्पणस्य त्वनैवंविधत्वाद्दर्पऽनदिभिन्नस्य तत्र भानं नोपपद्यत इति भावः || ४८ || यथा हि भिन्नं नगरं सर्वथा नोपपद्यते | तथा पूर्णे [क्: पूर्णेऽस्तु] सुनिबिडे चैकरूपे चिदात्मनि || ४९ || यथा नोपपद्यते तथोपपत्तिं न समश्नुत इत्यन्वयः | ननु दर्पणे न प्रतिबिम्ब इति कश्चन विशेषः किन्तु दर्पणप्रतिरुद्धैः परावृत्तैश्चाक्षुषरश्मिभिर्बिम्बस्यैव ग्रहणमिति चेन्न भित्तिप्रतिरुद्धैरपि तैर्मुखग्रहणप्रसङ्गात् | न च नैर्मल्यं हि प्रतिरोधे तन्त्रमिति वाच्यम् सौरालोकादौ भित्त्यादिप्रतिरोधदर्शनेन प्रतिरोधे काठिन्यस्यैव नियामकत्वस्य कॢप्तत्वात् रसासम्पृक्तेन निर्मलेनाऽपि दर्पणेन प्रतिरोधादर्शनाच्च दर्पणपार्श्वन्यस्तहस्तस्य प्रतिबिम्बेन सह युगपद्ग्रहणानुपपत्तेश्च प्रतिबिम्बमुखादेर्दर्पणाश्रयत्वसम्मुखत्वावभासानुपपत्तेश्च [घ्: श्रयत्वा] | न च चाक्षुषरश्मीनां दर्पणसम्पर्कदोषादेव मुखे दर्पणाश्रयत्वादेः पार्श्वन्यस्तहस्ते द्वित्वस्य च भ्रान्त्याभासः सम्भवति प्रतिबिम्बे यादृशदर्पणादिधर्मस्य निमित्तत्वं तादृशधर्मस्यैव चाक्षुषरश्मिप्रतिरोधनियामकत्वं चेति सर्वं समञ्जसमिति वाच्यम् दर्पणसामर्थ्यात् स्वसम्पृक्तचाक्षुषरश्मीनांहस्तमुखादौ द्वित्वदर्पणाद्याश्रयत्वावभासकत्वकल्पनातो दर्पणे प्रतिबिम्बकल्पनस्यैव युक्तत्वात् | एवं च मुखानुकारोऽयं दर्पण इत्याद्यभ्रान्तप्रत्यया अप्यनुगृहीता भवेरन्नि(युरि)ति ध्येयम् || ४९ || प्. २२१) जगत् सर्वात्मना नैव ह्यपपत्तिं समश्नुते | आकाशस्त्ववकाशात्मा शून्यरूपत्वहेतुतः || ५० || जगदित्यस्य चिदात्मनो भिन्नमित्यादिः | आकाशस्य चिदात्मवैसादृश्यान्नैवमित्याह - आकाशस्त्विति | तुरिति सादृश्यव्यावर्तकः | अवकाशो रिक्त आत्मा यस्य | कुत इति चेदाह - शून्यरूपेति | अभावरूपत्वादित्यर्थः | पृथिव्यादिचतुष्टयाभाव एवाकाश इति तात्पर्यम् || ५० || द्वैतं जगत् प्रसहते सर्वत्रैव हि सर्वदा | सती चितिरशून्यात्मरूपिण्येकरसा कथम् || ५१ || अत एव सर्वकाले सर्वत्र स्वदेहे द्वैतं स्वस्माद्भिन्नं जगत् प्रसहते | चिदात्मा त्वनैवंविधत्वात् स्वान्तर्द्वैतं कथं प्रसहेदित्याह - सतीति | सद्रूपत्वादेवाशून्यात्मरूपत्वम् | एकरसत्वं निबिडस्वरूपता || ५१ || प्. २२२) द्वितीयलेशं प्रसहेदादर्शात्मवदञ्जसा | तस्मादादर्शवत् संवित् स्वातन्त्र्यभरवैभवात् || ५२ || आदर्शो यथा सद्रूपत्वेनाशून्यात्मा अशिथिलावयवत्वेनैकरसो यथा द्वितीयं स्वान्तर्न सहते एवं चितिरपीत्याह - आदर्शेति | तस्मादिति | चिदात्मनः स्वान्तर्द्वितीयस्यानुपपत्तेरित्यर्थः | आदर्शवत् संवित् स्वातन्त्र्यभरवैभवादात्मन्यद्वितीयेऽवभासयेदिति सम्बन्धः || ५२ || भासयेदद्वितीये स्वे रूपे सर्वं चराचरम् | निमित्तोपादानहीनं द्वितीयमतिचित्रितम् || ५३ || दर्पणवन्न बिम्बापेक्षेत्युक्तम् - स्वातन्त्र्यभरवैभवाद् भासयेदिति | स्वातन्त्र्यमनन्यापेक्स्ऽत्वम् | तस्य भर आधिक्यम् | अपरिच्छिन्नस्वातन्त्र्यमित्येतत् | तस्य वैभवान्माहात्म्यात् | अद्वितीये अखण्डे चिदेकरसे स्वे रूपे [क्: स्वरूपे] अद्वितीये | सर्वं चराचरं निमित्तोपादानाभ्यां हीनं रहितम् | अतिचित्रितं परस्परविलक्षणं भासयेत् || ५३ || यथाऽनेकरूपविधे भासमानेऽपि दर्पणे | एकत्वं भासते स्पष्टमविशेषाददूषितम् || ५४ || एवं विचित्रानेकरूपत्वेन भासमानस्यापि चिदात्मन एकत्वमबाधितमेवेति सदृष्टान्तमाह - यथेति | तत्तत्प्रतिबिम्बरूपेऽनानेकविधे | अविशेषात् दर्पणसामान्यरूपात् | अदूषितमबाधितम् || ५४ || तथा विचित्रे जगति भासमानेऽप्यनेकधा | अनुसन्धानसंसिद्धमेकं दोषविवर्ज्जितम् || ५५ || विचित्रे जगति स्वात्मस्थे भासमानेऽपि योऽहं प्राक् [स्वाप्नानन्वभूवं [क्: स्वप्ना] स एवाहमिदानीं जागरमनुभवामीत्याद्यनुसन्धानशतेन सम्यक्सिद्धमेकमबाधितं स्वरूपम् || ५५ || राजन् स्वात्मनि सम्पश्य मनोराज्यदशास्थितिम् | अनेकवैचित्र्यवपुरपि चैतन्यमात्रकम् || ५६ || एवं दर्पणदृष्टान्तेन साधितमपि जगच्चिदात्मैकरूपमिति सम्यग् हृदयङ्गमाय दृष्टान्तान्तरेण निरूपयति - राजन्निति | अनेकवैचित्र्यरूपापि मनोराज्यस्थितिश्चैतन्यमात्रात्मिका | मनोराज्यं नाम [क्: वा] मानसः सङ्कल्परूपः | सङ्कल्पकाले हि स्वान्तरखिलं भासते | तच्च प्रतिबिम्बविधयैवेति वक्तव्यम् | न तत्र बिम्बाद्यपेक्षा दृश्यते | तथा चायं पूर्णो दृष्टान्त इति ज्ञेयम् | न च मनोराज्ये संस्कारस्य भावसूक्ष्मरूपस्यापेक्षास्तीति वाच्यम् संस्कारात्मकभावस्य प्रतिबिम्बाधायकत्वस्याकॢप्तत्वात् | अन्यथा घटसंस्कारवद् मृत्पिण्डसाम्मुख्येऽपि दर्पणे घटप्रतिबिम्बापत्तेः || ५६ || प्. २२३) सृष्टौ वा प्रलये वापि निर्विकल्पैव सा चितिः | प्रतिबिम्बस्य भावे वाप्यभावे वेव [ख्: चैव] दर्पणः || ५७ || यस्माद्दर्पणप्रतिबिम्बमनोराज्यतुल्यता दृश्यप्रपञ्चस्य तस्मादाह - सृष्टाविति | यथा प्रतिबिम्बस्य सत्त्वदशायामसत्त्वदशायां च दर्पणस्य दर्पणमात्रात्मत्वम् एवं सृष्टौ प्रपञ्चभासनकाले प्रलये तदभासनकाले च सा परा चितिर्निर्विकल्पैव | चितिमात्ररूपैवेति भावः || ५७ || एवंविधैकरूपापि चितिः स्वातन्त्र्यहेतुतः | स्वान्तर्विभासयेद् बाह्यमादर्शे गगनं यथा || ५८ || प्. २२४) एषा हि प्रथमा सृष्टिरविद्या तम उच्यते | पूर्णस्यांशेनैव भानं बाह्याभासनमुच्यते || ५९ || एतावता ग्रन्थेनैकस्यैव कालस्य देशस्य च युगपदल्पत्वं [क्: दन्यत्वं] बहुत्वं कथमिति कृतप्रश्नस्य बाह्यसृष्टेर्मनोराज्यतुल्यत्वेन कल्पनामात्रसारत्वान्न कश्चन विरोध इति समाधानमुक्तम् | सृष्टेः कल्पनामात्रसारत्वेन चितेः सदा निर्विकल्पकरूपत्वे कथं निर्विकल्पचितेरेषा विकल्पमयी सृष्टिः प्रवृत्तेत्याशङ्कायामागमाभ्युपगतषट्तिर्ंशत्तत्त्वक्रमेण सृष्टिं निरूपयितुमादौ सर्वसृष्टिनिदानाविद्योद्भवं वक्तुमुपक्रमते - एवमिति | निर्विकल्पचिदेकरसरूपापीत्यर्थः | आदर्शे यथा गगनं भासते एवं सा चितिः स्वान्तर्बाह्यं पदार्थ बहिरिति पदस्यार्थभूतमवभासयेत् | ननु दर्पणे बिम्बभूतबाह्यगगननिमित्तको गगनाभासः चिदात्मनि बाह्यभासे किं निमित्तमिति चेदाह - स्वातन्त्र्यहेतुत इति | स्वातन्त्र्यमनन्यापेक्षता तद्रूपहेतुत इत्यर्थः | दर्पणस्य जडत्वेन पारतन्त्याद् बिम्बापेक्षा | चितेरजडत्वेन स्वातन्त्र्यान्न बिम्बापेक्षेति | यदाहुः - अन्तर्विभाति सकलं जगदात्मनीह यद्वद् विचित्ररचना मुकुरान्तराले | बोधः पुनर्निजविमर्शनसारयुक्त्या [अत्रैव १६८ पृष्थस्थे टिप्पण्यौ द्रष्टव्ये] विश्वं परामृशति नो मुकुरस्तथा तु || इति || ५८ || (त० सा० पृ० १९) एषेति बाह्यार्थावभासनरूपा | सर्वसृष्टेरेतदवभासनपूर्वकत्वात् प्रथमा | एतद्बाह्यावभासनमेवाविद्येति तम इति चोच्यते | ननु पूर्णस्य चिदात्मनः कथं बाह्यावभासनमिति चेदाह - पूर्णस्येति | वस्तुतोंऽशाभावादंशेनेवेति | स्वस्य एकांशेनेव यद्भानं तदेव बाह्याभासनमिति | परमेश्वरो हि निर्विकल्पचिदेकवपुर्जडव्यावृत्तरूपत्वात् स्वतन्त्र इत्युच्यते | जडस्य स्वपराभासनेऽन्यापेक्षणात् पारतन्त्र्यमुच्यते | चिदात्मनः स्वपरावभासनेऽन्यानपेक्षणात् स्वातन्त्र्यमुच्यते | एतत् स्वातन्त्र्यमेव शक्तिः क्रिया विमर्श इत्यादिशब्दैरागमेषूच्यते | एतच्च स्वातन्त्र्यं सृष्टौ जगदवभासनविषयम् | प्रलयादौ स्वरूपमात्रावभासनविषयम् प्रलयादावपि स्वरूपस्फूर्तेरक्षतत्वात् | (तथा [कोष्ठान्तर्गतः पाठो घपुस्तके नास्ति | अप्रासङ्गिक इव च प्रतीयते] चैतत् स्वातन्त्र्यं नित्यानन्यधर्मः शिवस्योच्यते) प्रलयान्ते च तदेव स्वातन्त्र्यं परिपक्वप्राण्यदृष्टसहकृतं सद् अंशेनेवावभासयति स्वरूपम् | परिच्छिन्नत्वेनावभासयतीति यावत् | एतदेव बाह्यावभासनम् | यतः परिच्छिन्नात्माभासनं हि स्वव्यतिरिक्तदेशाभासनाविनाभूतमिति स्पष्टमेव || ५९ || प्. २२५) पूर्णाहम्भावविच्छेदादनहम्भावऊपता | एषैवाव्यक्तमित्युक्ता जडशक्तिश्च कथ्यते || ६० || बाह्यस्यैव स्वरूपं भूयो विवेचयति - पूर्णेति | स्वदेहं व्याप्ता पूर्णाहन्ता यथा छिन्ने हस्ते अनहम्भावरूपता अहंभावरूपता न भवति एवमात्मनः परिच्छेदभासनेन परिच्छिन्नेतरांशेऽनहम्भावरूपता | अहम्भावोऽहन्त्वं तद्रूपभिन्नत्वं भवति | अहम्भावरूपधर्मरहिततेति [घ्: रहितेति] तात्पर्यम् | आत्मन्येतद्भासनमेव बाह्यभासनम् | एवंरूपतैवाव्यक्तं जडशक्तिरिति च कथ्यते | एवं च पूर्णचिदात्मनः स्वातन्त्र्यशक्त्या स्वात्मनः परिच्छेदावभासनात्मकमविद्याख्यबाह्यावभासनं भगवतः प्राथमिकी सृष्टिरित्युक्तम् | इदमेव बाह्याभासनमौपनिषदानां मते मूलाविद्येत्युच्यते | स्वातन्त्र्यं च भगवतश्चिच्छक्तिरेव | तस्याश्चावस्थात्रयम् - प्रलयादिनिर्विकल्पदशायां चिच्छक्तिरूपता तदन्ते विकल्पाभिमुख्यदशायां मायाशक्तिरूपता विकल्पदशायामविद्यात्मकजडशक्तिरूपतेति | एतदेव क्वचित् चित्प्रकृतिः मायाऽविद्ययोरैक्येन जडप्रकृतिरिति च द्वैविध्येन निरूपितम् | यदाह भगवान् - भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् || इति | (भ० गी० ७|४-५) भूम्याद्यष्टविधा प्रकृतिर्जडप्रकृतिरपरा कार्यभूता | परा प्रकृतिस्तु चिच्छक्तिः प्रतिबिम्बानां दर्पणतुल्यत्वाद् जगज्जीवभूता | अत एव ययाऽष्टप्रकृत्यात्मकं जगद्धार्यत इत्युक्तम् | ननु जडशक्त्यवभासनात् पूर्वमेतत् (मेव) कारणस्वातन्त्र्यसहकारित्वेन प्राण्यदृष्टम् तत्परिपाकः परिपाचकः काल इत्येतावदवश्यमभ्युपगन्तव्यम् अन्यथा वैषम्यादिदोषप्रसक्तिः | तथा चैतदभ्युपगमे सृष्टेः पूर्वमद्वितीयचिदात्ममात्रपरिशेषाभ्युपगमहानिः | अथ च प्राण्यदृष्टपरिपाचको हि कालः स चेश्वररूपो वाऽतिरिक्तो वा ? उभयथाऽपि तस्य प्रलये भेदकोपाध्यन्तराभावेन प्रलयारम्भात् समाप्तिपर्यन्तमविशेषादेकरूपत्वेन प्रलयारम्भद्वितीयादिक्षणे एवादृष्टपरिपाकेन सृष्ट्यापत्तिरिति चेदत्राहुः - सत्कार्यवादे हि सृष्टेः पूर्वमपि निखिलकार्यस्य सूक्ष्मरूपेण मायायां प्रलीनत्वान्मायाप्रलीनप्राण्यदृष्टस्य तत्प्रलीनसूक्ष्मकाल एव परिपाचकः | तथाविधमायायाः शक्तित्वेनैव चिदात्माव्यतिरेकादद्वैताभ्युपगमनिर्वाहश्चेति | परे तु सृष्टेः स्वप्नमनोराज्यैन्द्रजालिकसृष्टितुल्यत्वेन न तत्रोपपत्तिप्रयोजनगन्धोऽपि | यथा हि मरुचरीचिकातोयादेरनुपपद्यमान एव स्वभावः एवं सृष्टेरपि | अत एवागमएषु सृष्टिनिरूपणप्रक्रियाभेदोऽपि सङ्गच्छते | आत्मव्यतिरेकेण निषेध्यायाः सृष्टेः क्रमनिरूपणं कथञ्चिन्निषेध्यस्य चित्तारोहाय | अत एव - न सृष्टिर्नापि संहारो न स्थितिर्नापि च क्रमः | चिदानन्दघनं चेत्थमात्मतत्त्वं प्रकाशते || इति पारमेश्वराद्यागमवचनसङ्गतिरिति प्राहुः || ६० || प्. २२६) या चितिश्चात्र विच्छिन्नाभासिनी बहिरात्मनः | शिवतत्त्वमिति प्रोक्ता शक्तिस्तद्भासनं भवेत् || ६१ || एवं सृष्टेराद्याविद्योल्लासमुक्त्वा तत्त्वक्रमेण सृष्टिं निरूपयिष्यन्नादौ शिवतत्त्वं विभजति - या चितिरिति | अत्र तत्त्वं नाम तस्य भावस्तत्त्वमित्या [क्, ख्: मित्याह महा] महाप्रलयस्थायि पृथिव्यादिसामान्यरूपम् | तथा हि - पृथिव्यादिसामान्यरूपमा महाप्रलयस्थायि भवति नैवं घटादिसामान्यम् | भूतलयो हि महाप्रलयः भौतिकघटादेस्ततः प्रागेव नाशात् | अत्र सृष्टिकाले | बहिरात्मनोऽविद्याख्या या चितिर्विच्छिन्नत्वेनावभासिनी सा शिवतत्त्वमिति प्रोक्ता भवति | अयं भावः ##- (तत्त्वांशेनावभासनं [कोष्ठान्तर्गतः पाठो घपुस्तके नास्ति | अप्रासङ्गिक इव च प्रतीयते]) | यथा हि निस्तरङ्गैकरूपाम्बुधेरकस्मात् परस्परं भेदिनां तरङ्गानामुदयः एवं परचिदात्मन्यनन्तपरिच्छिन्नस्वांशानामुदयः | तथा च तत्तत्परिच्छिन्नचिदंशदृष्ट्या स्वेतरबाह्यभासः | पूर्णात्मनः परशिवस्य तु न बाह्याभास इति स्थितिः | तत्र परिच्छिन्नानन्तशुद्धचिदंशानुगतं सामान्यं शिवतत्त्वमुच्यते | न चेदमेव शिवतत्त्वं परशिवरूपमिति वाच्यम् सामान्यरूपस्याखिलविशेषगर्भितत्वेन परशिवरूपस्य निःसामान्यविशेषत्वादिति | तथा च परिच्छिन्ननिर्विकल्पचितिसामान्यं शिवतत्त्वमिति पर्यवसितम् | शक्तिरिति | तस्याः परिच्छिन्ननिर्विकल्पचितेरहमिति यद्भासनं तद्भासनसामान्यं शक्तितत्त्वं द्वितीयम् | यद्यपि प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः (अज० प्र० सि० २२) इत्युक्त्याहम्भासनं चितेः स्वरूपमेव तथा च शिवशक्तितत्त्वयोर्न भेदः तथापि निर्विकल्पचितित्वेन शिवतत्त्वात्मता अहम्भासनत्वेन शक्तितत्त्वतेति ज्ञेयम् || ६१ || प्. २२७) बहीरूपं महाशून्यं कल्पितं यत्तदेव तु | अहम्भावाच्छादनेन सदाशिवमयं स्मृतम् || ६२ || यच्च परिच्छिन्नचितिदृष्ट्या बहिःपदार्थरूपमविद्याख्यं भाति तज्जगच्चित्राश्रयत्वेन महाकाशतुल्यत्वान्महाशून्यं स्वत्मनः परिच्छेदाभासमात्रोल्लसितत्वात् कल्पितम् | एवंविधं बहीरूपं यदाऽहमेवेदमित्यहम्भावेनाहन्त्वेनाच्छादयति तदा सदाशिवमयं तृतीयं तत्त्वं स्मृतम् | सैव परिच्छिन्नचितिः स्वस्माद् व्यावृत्तं बहीरूपमहमिदमिति सामानाधिकरण्येनाहम्प्रत्ययविषयत्वेनावभासयति | एवमाभासात्मकपरिच्छिन्नचितिसामान्यं तृतीयं सदाशिवतत्त्वमिति भावः || ५२ || प्. २२८) तदेव जाड्यमुख्यत्वे ईश्वराख्यं प्रचक्षते | अनयोः संवेदनं तु भेदाभेदविमर्शनम् || ६३ || तदेव सदाशिवतत्त्वमेव | जाड्यमुख्यत्वे तुर्यमीश्वराख्यं तत्त्वम् | अहमिदमिति चिदात्मकाहमंशेन बहीरूपेदमंशनिषेकाच्चित्प्रधानाभासनरूपं सदाशिवतत्त्वम् | ईश्वरतत्त्वं तु इदमहमिति जडात्मकेदमंशेन चिद्रूपाहमंशनिषेकाज्जाड्यप्रधानाभासनरूप(मीश्वरतत्त्व [ईश्वरतत्त्वम् इति पाठोऽनावश्यकः तथापि सर्वासु मातृकासु दृश्यते])मिति भावः | अनयोः सदाशिवेश्वरयोर्भेदाभेदविमर्शनरूपमहमिदमिदमहमिति यत्संवेदनमाभासनं तत् पञ्चमं तत्त्वं शुद्धविद्येति सम्प्रोक्तमित्यन्वयः | यद्यपि भेदाभेदविमर्शनात्मकाहमिदमिदमहमिति सामानाधिकरण्याभासनमेव क्रमात् सदाशिवतत्त्वमीश्वरतत्त्वं च तथाप्युभयविधाभासनानुगतसामान्यरूपेण ताभ्यां भिन्नं पञ्चमं शुद्धविद्यातत्त्वं ज्ञेयम् || ६३ || शुद्धविद्येति सम्प्रोक्तमेतावच्छुद्धमुच्यते | भेदशक्तेरप्ररूढ्या चाभेदात्मावभासनात् || ६४ || एतावदिति | शिवादिशुद्धविद्यान्तं तत्त्वपञ्चकमित्यर्थः | शुद्धमिति | शुद्धम् मिश्रम् अशुद्धमिति त्रिविधं तत्त्वम् | तत्रैतत्पञ्चकं शुद्धमित्यागमेषूच्यते | अत्र हेतुः - अभेदात्मावभासनादिति | अद्वितीयचिन्मात्रात्मनाऽवभासनात् | अत्रापि हेतुमाह - भेदशक्तेरप्ररूढ्येति | भेदशक्तिः प्रोक्तजडशक्तिः तस्या अप्ररूढिः परिणतकार्यरूपत्वाभावः तयेत्यर्थः | बहिरवभासरूपा (या) जडशक्तिर्बीजाङ्कुरवृक्स्ऽवदवस्थात्रयवती | यथा हि बीजेऽङ्कुराद्यात्मकभेदस्याप्ररूढिरेवं जडशक्तौ स्वप्राधान्यकार्यरूपभेदाप्ररूढिस्तदा चिदात्मनोऽपृथग्भूय भासनाच्चित्प्राधान्याच्छुद्धत्वम् | यदा ह्यङ्कुरवज्जडशक्तेः [क्, ख्: जडचितोः] सूक्ष्मकार्यरूपभेदप्ररूढिः तदा चिदचिदुभयप्राधान्यान्मिश्रत्वं मायादिपुरुषान्ततत्त्वसप्तकस्य | यदा वृक्स्ऽवत् स्थूलकार्यरूपभेदप्ररूढिः तदाऽचित्प्राधान्यादशुद्धत्वं प्रकृत्यादिपृथिव्यन्तचतुर्विंशतितत्त्वस्येति भावः || ६४ || प्. २२९) अथ चित्स्वातन्त्र्यभरात् प्ररूढे भेदभावने | जडशक्तिर्धर्मिभावं चितिर्धर्मात्मतां ययौ || ६५ || अथ शुद्धतत्त्वसृष्ट्यनन्तरम् | चिदात्मनः स्वातन्त्र्यस्य भर आधिक्यम् तस्माद् भेदभावने प्ररूढे सति | शुद्धतत्त्वपञ्चके हि भेदस्य जडशक्तेरहमिदमित्यादिरूपेण [क्, ख्: मिद नास्ति] चितिनिर्मग्नत्वादप्ररूढिः सम्प्रति चितेरुन्मग्नत्वेन भेदभावने प्ररूढे सति | भेदभावनं भेदसङ्कल्पः | शुद्धतत्त्वेषु चिदंशस्य धर्मित्वं जडांशस्य तन्निर्मग्नत्वेनाभिन्नधर्मत्वम् | प्रक्र्टे हि तद्व्यत्यय इत्याह ##- तदा सा जडशक्तिस्तु मायातत्त्वं प्रचक्षते | माया विभेदबुद्धिस्तु भेदप्रचुरभावनात् || ६६ || तदा एवं धर्मधर्मिभावव्यत्यासे सति | सा धर्मित्वं प्राप्ता जडशक्तिर्मायातत्त्वम् | तत्स्वरूपमाह - मायेति | भेदस्य जडशक्तेः [क्, ख्: शक्तिप्रचु] प्रचुरत्वेन धर्मित्वेन भावनाद्विभेदबुद्धिसामान्यरूपिणी माया मायाख्यं तत्त्वम् || ६६ || भेदप्रचुरसंवीता चितिः सङ्कुचितात्मिका | पञ्चकञ्चुकसंव्याप्ता पुरुषत्वं प्रपद्यते || ६७ || भेदस्य प्रचुरं प्राचुर्यम् तेन संवीता व्याप्ता चितिः भेदाधिक्ये चिदंशाच्छादनात् सङ्कुचितात्मिका चितिः वक्ष्यमाणपञ्चक्ञ्चुकैर्व्याप्ता कञ्चुकिता पुरुषत्वं प्रपद्यते प्राप्नोति | पञ्चकञ्चुकितचितिसामान्यं पुरुषतत्त्वं भवेदिति भावः | यद्यपि मायाऽनन्तरं कदादिपञ्चकं तदनन्तरमेव पुरुषतत्त्वमित्यागमिकः क्रमः तथापि कलादेः पुरुषधर्मत्वेन पुरुषस्य प्राधान्यादादौ निरूपणं ज्ञेयम् || ६७ || प्. २३०) कलाविद्यारागकालनियतिः पञ्चकञ्चुकम् | कला किञ्चित्कर्तृता स्याद्विद्या किञ्चिज्ज्ञता भवेत् || ६८ || कञ्चुकान्येवाह - कलेति | तेषां स्वरूपमाह - कला किञ्चिदिति | किञ्चित्कर्तृत्वं कला | किञ्चिज्ज्ञत्वं विद्या || ६८ || रागतृष्णा परिच्छित्तिरायुषा काल उच्यते | नियतिः परतन्त्रत्वमेतैर्युक्तस्तु पूरुषः || ६९ || तृष्णा इदं मे स्यादिति विषयसामान्येच्छा रागः | शतवर्षादिरूपायुषा परिच्छित्तिः परिच्छेदः कालः | किञ्चित्करणे तत्साधनापेक्षारूपपरतन्त्रत्वं नियतिः | एतैः कलादिनियत्यन्तैः प्रोक्तैः पञ्चभिः कञ्चुकैः युक्तो वेष्टितः परिच्छिन्नतामापादितः पुरुषः | परमशिवस्य सर्वकर्तृत्वं सर्वज्ञत्वं नित्यतृप्तत्वं नित्यत्वं स्वतन्त्रत्वं चेति पञ्च शक्तयः | ता इमाः सङ्कुचिताः पुरुषस्य पञ्च कञ्चुकानीत्युच्यन्ते | एवं च किञ्चित्कर्तृत्वादि प्रतिपुरुषं भिन्नं तत्सामान्यं कलादितत्त्वमिति भावः || ६९ || चितिशक्तिमधिष्ठाय विचित्रानादिकर्मणाम् | जनानां वासनापिण्डः स्थितः प्रकृतिरुच्यते || ७० || चितिशक्तिमिति | विचित्राणि शुक्लकृष्णाद्यनेकविधानि अनादिकालतः पारम्पर्येण प्रवृत्तानि यानि जनानां कर्माणि तेषां वासनाः संस्कारा अदृष्टाभिधाः तासां पिण्डः समुदायः | चितिशक्तिं चिदात्मनो ज्ञानशक्तिरूपं प्रकाशांशमधिष्ठाय आश्रित्य स्थितः प्रकृतिरित्युच्यत इत्यर्थः | जीवसम्बन्धी प्राक्कृतकर्मसंस्कारपिण्ड एव प्रकृतिरिति तात्पर्यम् || ७० || फलं तु त्रिविधं यस्मात् कर्मणां सा त्रिरूपिणी | अस्या अवस्थाभेदो हि चित्तमित्यभिधीयते || ७१ || कर्मणां फलस्य सुखदुःखमोहरूपत्वेन त्रैविध्यात् तत्फलजनककर्मवासनापि त्रिविधेति सत्त्वरजस्तमोमयी प्रकृतिस्त्रिरूपिणीत्याह - फलं त्विति | अस्याः प्रकृतेः || ७१ || प्. २३१) सुषुप्तौ प्रकृतिर्ज्ञेया तदन्ते चित्तमुच्यते | वासनापिण्डसहिता चितिश्चित्तमुदीरितम् || ७२ || एतदेवाह - सुषुप्ताविति | सुषुप्तिकाले स वासनापिण्डः प्रकृतिरित्युच्यते | तदन्ते सुषुप्त्यन्ते जाग्रत्स्वप्नयोरादौ स एव वासनापिण्डश्चित्तमित्युच्यते | या हि वासनापिण्डसहिता चितिशक्तिः प्रकृतिरित्युक्ता सुषुप्तौ सैव कालान्तरे चित्तमित्युच्यत इत्याह - वासनेति || ७२ || अव्यक्तमेतदेवोक्तं वासनापिण्डभावतः | पुरुषाणां विभेदेन चित्तं बहुविधं भवेत् || ७३ || उभयोरेकतां द्रढयितुं प्रकृतिरेव चित्तमित्युक्त्वा भूयश्चित्तमेव प्रकृत्तिरित्याह - अव्यक्तमिति | वासनापिण्डभावत इति | प्रकृतिचित्तयोर्वासनापिण्डत्वरूपैकरूप्यान्न भेद इति तात्पर्यम् | अथ चित्तप्रकृत्योः स्वरूपभेदं वक्तुमाह - पुरुषाणामिति | पुरुषभेदेन चित्तं भिन्नम् अतो बहुविधमित्यर्थः || ७३ || जीवानामविभेदेन सुषुप्तावेकधा हि तत् | प्रकृतित्वं समायाति तदन्ते चित्ततामियात् || ७४ || एवं पुरुषभेदेन भिन्नमपि चित्तं सुषुप्तौ जीवानामभेदहेतुनैकधा भवति एवमेकीभूतं तत् चित्तमेव प्रकृतिः सैव सुषुप्त्यन्ते विभिन्ना चित्तमित्याह - जीवानामिति | तच्चित्तम् | तदन्ते सुषुप्त्यन्ते | जीवो हि परिच्छिन्नचिद्रूपः परिच्छेदश्च देहादिकृतः देहादेश्च जाग्रत्स्वप्नयोर्विभिन्नत्वाज्जीवानां भेदो युक्तः | सुषुप्तौ तु देहादेरनवभासनात् तत्परिच्छेदाभासनमप्यात्मनि नास्तीति निस्तरङ्गसमुद्रे तरङ्गानामभेद इव जीवानामभेदः | जीवानामभेदे च तद्गतकर्मवासनानामप्येकराशिता | सेयं प्रकृतिः | सुषुप्तिर्नाम परिपक्वकर्मणां भोगेन क्षयेऽन्येषामपरिपाके सति दग्धेन्धनानलवच्चिदात्मनो ज्ञानशक्तेर्विषयसंयोजकपरिपक्वकर्माभावेनाऽबहिर्मुखत्वे [क्, ख्: कर्मभावेन इति पाठोऽशुद्धः] मध्ये भोगरहितदशाविशेषः | एवं स्थितेऽपरिपक्वकर्मसु तावता सुषुप्तिकालेन केषाञ्चित् परिपाके सति परिपक्वकर्मणा [क्, ख्: कर्मणां] ज्ञानशक्तिर्विस्ऽयाभासेन संयोज्यते | एवं विषयसंयोजककर्मवासनापिण्डविशिष्टा ज्ञानशक्तिरेव चित्तमिति भावः || ७४ || प्. २३२) एतदेव पुमान् प्रोक्तश्चितिप्राधान्यहेतुना | अव्यक्तप्राधान्यतस्तु चित्तप्रकृतितामियात् || ७५ || एतदेव चित्तमेव | चित्तमेव चित्प्राधान्यविवक्षायां पुरुष इत्युच्यते | प्रकृतिप्राधान्यविवक्षायां चित्तमित्युच्यत इत्याह - पुमान् प्रोक्त इत्यादि | चित्तप्रकृतितां चित्तरूपताम् | यद्वा चित्ततां प्रकृतितां चेत्यर्थः | एवं च चित्तं न तत्त्वान्तरम् किन्तु पुरुषे प्रकृतौ वाऽन्तर्भूतमिति विशिष्टग्रन्थतात्पर्यम् || ७५ || क्रियाभेदात् तत् त्रिविधमन्तःकरणमुच्यते | अहङ्कारबुद्धिमनोरूपेण नृपसत्तम || ७६ || एवंविधं प्रकृतितत्त्वं त्रिगुणात्मकमेवान्तःकरणमित्युच्यते | तच्च त्रिविधम् अभिमाननिश्चयसङ्कल्पात्मकत्रिविधक्रियावत्त्वादित्याह - क्रियाभेदादिति | क्रियाभेदात् तत्प्रकृतितत्त्वमहङ्कारबुद्धिमनोरूपेण त्रिविधमित्यर्थः || ७६ || ज्ञानकर्मेन्द्रियाणां तु पञ्चकं स्यात्ततः पृथक् | शब्दादिगगनादीनि भूतानि स्थूलसूक्ष्मतः || ७७ || प्. २३३) एवं सा परमा संविद् बाह्याभासप्रपूर्वकम् | क्रीडां करोति सृष्त्यादिक्रमेण सर्वसाक्षिणी || ७८ || ज्ञानेति | श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि | वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि | शब्दस्पर्शरूपरसगन्धाः पञ्च सूक्ष्मभूतानि | आकाशवायवग्निसलिलभूमयः पञ्च महाभूतानि | तत इति | त्रिगुणात्मकादहङ्कारादित्यर्थः | अहङ्कारस्य सत्त्वरजस्तमोंऽशैर्ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां सूक्ष्मभूतानां पञ्चकं पृथगासीत् | सूक्ष्मभूतेभ्यः स्थूलभूतान्यासन्निति भावः | एतत् षट्त्रिंशत्तत्त्वनिरूपणविस्तरः स्वच्छन्दाद्यागमेषु द्रष्टव्यः | एवं प्रसङ्गागतं तत्त्वक्रमं निरूप्य पुनः प्रकृतं [क्: प्रकृते] भावनामात्रसारत्वं जगतो निरूपयति - एवमिति | एवं षट्त्रिंशत्तत्त्वक्रमेण सा प्रसिद्धा परमाऽनवच्छिन्ना संविद् बाह्याभासप्रपूर्वकं सृष्टिस्थित्यादिकं क्रमेण कुर्वती क्रीडां करोति | क्रीडां करोतीति परसंविदात्मनः सृष्ट्यादौ न प्रयोजनान्तरमिति सूचितम् | सर्वसाक्षिणीति | यथा साक्षिणः साक्ष्यगतगुणदोषैरलेपः एवं सृष्ट्यादिगतगुणदोषैरलेपः संविदात्मनो ज्ञेयः || ७८ || तत्राद्यया श्रीत्रिपुराशक्त्या सृष्टौ प्रभावितः | हिरण्यगर्भो यो ब्रह्मा तस्यैतद् भावनोत्थितम् || ७९ || ननु यथा शैलान्तर्लोको भवद्भावनोत्थित इति भवद्भावनामात्रसारः एवमयं बाह्यलोकोऽपि भावनामात्रसारश्चेत् कस्य भावनयोत्थित इत्याशङ्क्याह - तत्रेति | लोकस्य भावनासारत्वे सिद्ध इत्यर्थः | आद्यया सर्वकारणभूतया | सृष्टौ सृष्टिविषये सृष्ट्यर्थमिति यावत् | प्रभावितः भावनायोगाद् भावितः | हिरण्यगर्भाख्यो यो ब्रह्मा तस्य भावनयैतज्जगदुत्थितमिति सम्बन्धः || ७९ || जगत्तत्र तु या संवित् त्वमहंरूपभासिनी | सा परैव हि चिच्छक्तिस्तद्भेदो न तु विद्यते || ८० || ननु ब्रह्माद्युद्भाविते लोके सति सर्वकर्तृता कथं त्रिपुरायाः स्यादित्याशङ्क्याह - तत्रेति | सृष्टिसामान्य इत्यर्थः | ब्रह्मभाविते मद्भावितेऽन्यभाविते वा लोके त्वमहमित्यादिरूपेण भासिनी सर्वापि परिच्छिन्नसंवित् त्रिपुरा परैव | यथा हि घटाद्यवच्छिन्नगगनस्य न महाकाशभेदः एवमत्रापि भेदो न विद्यते || ८० || भेदस्त्वौपाधिको भाति ह्यपाधिर्ब्रह्मभावितः | तद्भावनोपसंहारे नास्ति भेदस्य भासनम् || ८१ || ननु भेदाभावे कथं भेदभासनमिति चेदाह - भेदस्त्विति | औपाधिको गगनस्य घटादिभिरिव देहप्राणाद्युपाधिकृतो भेदः | ननूपाधेः कुत उत्थितिरिति चेदाह - ब्रह्मभावित इति | तत्तल्लोककर्तृभावनयोत्थित इत्यर्थः | भेदस्यौपाधिकत्वादेवाह - तद्भावनेति | तेषां जगत्कर्तॄणां भावनाया उपसंहारे विरामे उपाधेर्लयात् तत्परिच्छिन्नसंविदां घटादीनां नाशे परिच्छिन्नगगनानामिव न भेदस्य भासनमस्ति [अत्रैव घमातृकाऽवसिता] || ८१ || प्. २३४) चितो या भावनाशक्तिर्मायया ते समावृता | तदावरणहाने तु तव सा सिद्धिमेष्यति || ८२ || ननु चिदात्मनो भावनायां स्वातन्त्र्यं नैसर्गिकम् तत् कुतो मम न दृश्यत इति चेदाह - चित इति | ते भावनाशक्तिर्मायया भगवतः स्वातन्त्र्यशक्त्या समावृताऽस्तीति शेषः | तस्या भावनायाः प्रोक्तयुक्त्या आवरणहाने सति | तव सा भावना सिद्धिं सर्वसाधारणसृष्टिसामर्थ्यम् एष्यति || ८२ || देशः कालोऽथवा किञ्चिद् यथा येन विभावितम् | तथा तत्तत्र भासेत दीर्घसूक्ष्मत्वभेदतः || ८३ || किञ्चित् गजतुरगादिकम् | येन अनावृतभावनेन | तद् देशकालादिकम् | तत्र भावितप्रदेशादौ | भावनानुरोधेन दीर्घसूक्ष्मत्वभेदतो भासेत || ८३ || मयैकदिनरूपेण भावितं तद् दिनैककम् | ब्रह्मणा तावदेवात्र द्वादशाऽर्बुदरूपतः || ८४ || एतदेव शैललोकबाह्यलोकयोरुपपादयति - मयेति | तावत् दिनैककमेव | अत्र ब्रह्मसृष्टलोके | रूपतो भावितमित्यन्वयः || ८४ || भावितं तेनैवमेतच्चिरशीघ्रत्वभासनम् | ब्रह्मणा निर्मिते शैले पादगव्यूतिसम्मिते [अत्रैव घमातृकाऽवसिता] || ८५ || तेन भावनाभेदेनैव | एकस्मिन्नेव काले चिरशीघ्रत्वभासनम् | एवमेव देशेऽपीत्याह - ब्रह्मणेति || ८५ || मयाऽनन्तप्रदेशस्य भावितत्वादनन्तता | एवं च द्वयमप्यत्र सत्यं चासत्यमेव च || ८६ || एवयमपि एतद्बाह्यलोकस्य देशकालौ शैललोकस्य देशकालौ च | अर्थक्रियाकारित्वादिरूपव्यावहारिकसत्यलक्षणसत्त्वात् सत्यम् अनवभासनरूपबाधसत्त्वात् परमार्थतोऽसत्यमपि || ८६ || प्. २३५) त्वमप्यन्तः क्रोशमितं देशं कालं कलात्मकम् | विभाव्य भूयस्तत्रैव भावयानन्तयोजनम् || ८७ || नैतच्चित्रमित्याह - त्वमपीति | अन्तःसङ्कल्पभूमौ आदौ क्रोशमितं पर्वतादिरूपं देशं कलात्मकं सूक्ष्मकालं च विभाव्य भूयस्तत्रैव क्रोशमिते देशे कलात्मके काले चासंख्ययोजनमनन्तकालं च भावयेति सम्बन्धः || ८७ || असंख्यकालमपि च भासेद् यावद्धि भावनम् | तस्माद् भावनमात्रात्मरूपमेतज्जगद् बहिः || ८८ || यथा वितस्तिमात्रदर्पणे गिरिनगरादिविपुलदेशस्य मुहूर्त्तमिते स्वप्ने वर्षात्मकचिरकालस्य च भासनम् एवं यावत्ते भावनमस्ति तावद्भासेदेव | भावनावरणापगमे त्वेतदेव सर्वसाधारणतया भासेतेति भावः | तस्माद्भावनारूपमेवैतज्जगच्चिदात्मरूपेऽव्यक्ते बहिरात्मनि भासत इति सम्बन्धः || ८८ || चिदात्मरूपेऽव्यक्ते वै भासते मनुजाधिप | तस्माद् बाह्यात्मकाव्यक्तभित्तौ चित्रमयं जगत् || ८९ || तस्माद्भावनामात्ररूपतेनासत्यत्वाद्यथा चित्रस्य भित्त्मात्रात्मता तथाऽव्यक्तभित्तिचित्रकल्पं जगद्व्यक्तभित्तिमात्रमिति सम्बन्धः || ८९ || अव्यक्तभित्तिमात्रं स्यात् सा स्वभित्तिचिदात्मिका | अत एव चिराद् गम्यो दूरदेशोऽपि योगिनः || ९० || साऽव्यक्तात्मिका जडशक्तिरपि चिदात्मभित्तौ चित्रकल्पा चिदात्मिकैव | अत एव चिदात्मव्यतिरेकेण जगतोऽसत्यत्वादेव | योगिनः पश्यन्तीत्यन्वयः || ९० || प्. २३६) क्षणेन गत्वा पश्यन्ति करामलकवद् ध्रुवम् | तस्माद् दूरं समीपं वा चिरं शीघ्रमथापि वा || ९१ || क्षणेनेति | दूरत्वस्य सत्यत्वे क्षणेन गमनमसम्भाव्यमिति भावः | तस्माद् दूरादेरसत्यत्वात् | दूरं समीपमित्यादि भावनामात्रसारं निश्चित्येत्यन्वयः || ९१ || भावनामात्रसंसिद्धं चिद्दर्पणसमाश्रितम् | निश्चित्यैवं त्यज भ्रान्तिं शुद्धचिद्भावनक्रमात् || ९२ || चिदात्मकदर्पणे प्रतिबिम्बवत् समाश्रितं तदतिरेकेणासत्यमेवैतज्जगदिति निश्चित्य देहाद्यतिरिक्तशुद्धचिन्मात्रस्य याऽहमस्मीति भावना तस्या दीर्घकालनैरन्तर्यानुवृत्तिरूपक्रमाद् जगत्सत्यत्वभ्रान्तिं त्यजेत्यर्थः || ९२ || ततस्त्वमप्यहमिव स्वतन्त्रसुत् भविष्यसि | इति श्रुत्वा मुनिसुतवचनं मुनिसत्तमः || ९३ || ततः सत्यत्वाभिमाननिवृत्त्यनन्तरम् || ९३ || परित्यज्याखिलभ्रान्तिं ज्ञातज्ञेयः शुभाशयः | समाध्यभ्यासयोगेन संसाध्य निजभावनाम् || ९४ || अखिलभ्रान्तिं जगत्सत्यत्वदेहात्मत्वादिभ्रान्तिम् | ज्ञातं ज्ञेयं जगत्प्रतिबिम्बदर्पणात्मकात्मतत्त्वं येन | अत एव शुभः कामक्रोधादिरहित आशयो यस्य || ९४ || स्वातन्त्र्यमधिगम्याथ चिरकालं विहृत्य तु | देहाभासमथोन्मूल्य महागगनसंश्रयः || ९५ || सृष्ट्यादौ स्वातन्त्र्यमधिगम्य | अथ चिरकालविहारानन्तरम् | देहाभासस्योन्मूलनं बाधितदेहाभासस्यापि त्यागः | महागगनं निर्विकल्पपरसंवित् || ९५ || निर्वाणं परमं प्राप्तो महासेनोऽपि भार्गव | एवं जगत् सत्यभावभावनामात्रहेतुतः || ९६ || निर्वाणमिति | बाधितानुवृत्तिमपि देहाभासं परित्यज्य निर्विकल्पसंविन्मात्रमूर्तिः सन् परमं निर्वाणं विदेहमुक्तिं प्राप्त इत्यर्थः | एवमुक्तरीत्या | सत्यभावभावनामात्रहेतुतो जगद् भातीत्यन्वयः || ९६ || प्. २३७) भाति सत्यात्मरूपेण विमृशैतद् भृगूद्वह | विचारेण शमं यायाद् भ्रान्तिस्ते चित्तसंश्रया || ९७ || सत्यात्मरूपेण जगद् भाति | एतन्मयोक्तं विमृश विचारय | भूयो मननरूपविचारेण भ्रान्तिः शमं यायात् || ९७ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे शैललोकाख्यानं नाम चतुर्दशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां चतुर्दशोऽध्यायः || प्. २३८) अथ पञ्चदशोऽध्यायः इति श्रुत्वा शैललोकाख्यानमत्यद्भुतं तदा | भूयोऽत्यन्तं विस्मितोऽभूद् रामो भृगुकुलोद्वहः || १ || अत्राष्टावक्रकथया पद्यैः कनकसंमितैः | प्राह वेद्यमवेद्यं च संक्षेपादात्मनो वपुः || पूर्वाध्याये विमृशेति गुरुणोक्तम् | स्वस्थानं [क्, ख्, ग्: स्वस्थाने] गत्वा सम्यक् कुतर्करहितया शुद्धया बुद्ध्या निश्चित्य पुनरागत्य संशयं पप्रच्छेत्याह - विमृश्येति || १ || विमृश्य गुरुणा प्रोक्तं बुद्ध्या निश्चित्य शुद्धया | दत्तात्रेयं पुनर्गत्वा नत्वा पप्रच्छ सादरम् || २ || भगवन् यत्त्वया प्रोक्तमाख्यानैर्विविधैस्तु तत् | तत्र सारमियज्ज्ञातं मयाऽत्यन्तं विचारतः || ३ || भगवन्निति | त्वया यत्प्रोक्तं तत्र मया विचारत इयज्ज्ञातमिति योजना || ३ || संवेदनं सत्यमेकं संवेद्यं तत्र कल्पितम् | आदर्शनगरप्रख्यं मृषैव प्रविभावितम् || ४ || तदेवाह - संवेदनमिति | तत्र संवेदने | अत्र दृष्टान्तः - आदर्शेति | अत एव मृषैव प्रविभावितं मिथ्याभूतमसदेव ज्ञातम् || ४ || सा चितिः परमा शक्तिः संविद्रूपा महेश्वरी | स्वात्मभित्तौ जगच्चित्रमव्यक्तादिप्रभेदितम् || ५ || एवं मृषाप्रविभावने संविदात्मनः स्वातन्त्र्यमेव निमित्तमित्याह - सेति | यत्र वेद्यं कल्पितमेकस्मिन् संवेदने तस्य वेद्याद्वैलक्षण्यनिरूपणाय चितिरित्यादि विशेषणम् | चितिः स्वपरप्रकाशमयी [क्: पर नास्ति] परमा अपरिच्छिन्ना शक्तिर्दुर्लक्ष्या | संविदेव रूपं यस्याः | महतां ब्रह्मादीनामपीश्वरी नियन्त्री | अव्यक्तं बहिःपदार्थः || ५ || प्. २३९) भासयेत् [क्: भावयेत्] स्वातन्त्र्यमात्राद् निरुपादानहेतुकम् | एतावत्तु मया ज्ञातं विचार्य सूक्ष्मया धिया || ६ || स्वातन्त्र्यमात्रात् स्वातन्त्र्यैकनिमित्तात् | निरुपादानहेतुकं जगत् || ६ || किन्त्वेवंविधसंवित्तिर्वेद्यवन्ध्या निरूपिता | उपलब्धुमशक्यैव सवेद्यायाः सदा स्थितेः || ७ || वेद्यं विना तु संवित्तेः कथं स्यादुपलम्भनम् | उपलम्भं विना तस्याः पुरुषार्थो न विद्यते || ८ || एवमुपदिष्टेषु निर्णीतांशमुक्त्वा शेषमाह - किन्त्विति | वेद्यवन्ध्या शुद्धा निर्विकल्पा | या निरूपिता सोपलब्धुमशक्येत्यर्थः | अत्र हेतुः - सवेद्याया इति | सदा सवेद्यत्वेनैव तस्या उपलभ्यमानत्वादिति भावः | कथमिति ? अयं घटोऽयं पट इति वेद्याकारेणैव तस्या उपलम्भनियमात् | माऽस्तु तस्या उपलम्भ इति चेदाह - उपलम्भमिति | तस्या वस्तुतस्तथाविधत्वेऽप्युपलम्भस्यैव पुरुषार्थसाधकत्वम् अन्यथा बन्ध एव न संभवेदिति भावः || ८ || पुरुषार्थोऽपि मोक्षः स्यात् स वा किंविध उच्यते | विज्ञाने सति मोक्षः स्यान्मुक्ते व्यवहृतिः कथम् || ९ || संशयान्तरम् - पुरुषार्थ इति | सः मोक्षः | किंविधः किंरूपः | विज्ञानोत्तरं जीवत एव मुक्तावनन्तरं तस्य कथं व्यवहार इति प्रश्नान्तरम् || ९ || ज्ञानिनोऽपि च दृश्यन्ते व्यवहारपरायणाः | कथं तेषां हि संवेद्यमुक्तं संवेदनं स्थितम् || १० || ज्ञानिनां नास्ति व्यवहार इति चेन्नेत्याह - ज्ञानिन इति | ननु ज्ञानिनो व्यवहारे कोऽयं विरोध इति चेदाह - कथमिति | व्यवहारस्य सविकल्पज्ञानत्वेन [क्: कल्पकज्ञान] तत्काले संवेद्यमुक्तं निर्विकल्पसंवेदनं कथं स्थितं भवेत् || १० || प्. २४०) स्थितायां शुद्धसंवित्तौ व्यवहारः कथं भवेत् | विज्ञानमेकरूपं वै मोक्षोऽप्येकः फलं भवेत् || ११ || स्थितायामिति | निर्विकल्पसंवित्तौ स्थितायां वा कथं व्यवहारः परस्परं विरोधादिति भावः | मोक्षसाधनविज्ञानस्य विज्ञानफलमोक्षस्य च नानात्वाभावे कथं ज्ञानिनां भिन्ना स्थितिर्लोके दृश्यत इति प्रश्नान्तरम् - विज्ञानमिति || ११ || तत्कथं ज्ञानिनां भेदः स्थितौ लोके हि दृश्यते | केचित् कर्म प्रकुर्वन्ति काले सच्छास्त्रचोदितम् || १२ || भिन्नां स्थितिमेवाह - केचिदित्यादि | काले तत्तत्काले || १२ || केचित् समाराधयन्ति देवतां भिन्नवर्त्मभिः | केचित् समाधिपरमाः संहृतेन्द्रियमण्डलाः || १३ || भिन्नवर्त्मभिः वैदिकादिमार्गैः || १३ || केचित्तपः प्रकुर्वन्ति देहेन्द्रियविशोषणम् | केचिच्छिष्यान् बोधयन्ति पृथक्प्रवचनैः स्फुटम् || १४ || प्रवचनैरुपदेशवाक्यैः || १४ || केचिद्राज्यं प्रशासन्ति दण्डनीत्युक्तवर्त्मना | केचित् प्रवादं कुर्वन्ति सदस्सु प्रतिवादिभिः || १५ || केचिच्छास्त्राणि विविधान्यजस्रं रचयन्ति वै | अन्ये केवलमुग्धत्वमावहन्ति सदैव हि || १६ || मुग्धत्वं मूढत्वम् || १६ || केऽपि लोकविगर्ह्यां तु वृत्तिं नित्यमिहास्थिताः | त इमे ज्ञानिन इति प्रथिता भूरिशोचनैः || १७ || विगर्ह्यां निन्द्याम् | प्रथिताः विख्याताः || १७ || तत्कथं साधनफलाभेदेऽपि स्थितिभिन्नता | किमेते समविज्ञानास्तारतम्यमुताश्रिताः || १८ || तत्कथमिति | एतेषां ज्ञानित्वं कथम् ? किमेकरूपमुत विविधमित्यर्थः | एकविधत्वे कथं भिन्ना स्थितिरित्याह - साधनेति | साधनफले विज्ञानमोक्षे | तत्कथमित्यस्य विवरणम् - किमेत इति | ज्ञानतारतम्यम् || १८ || प्. २४१) एतत्सर्वमशेषेण प्रवक्तुं मे समर्हसि | शिष्येऽनन्यशरण्ये ते निसर्गसदयं मनः || १९ || सर्वं प्रश्नजातम् | यतो निसर्गसदयं मनः अतोऽर्हसीति सम्बन्धः || १९ || इत्यत्रिसूनुरापृष्टो भार्गवेण प्रसन्नधीः | मत्वा योग्यं प्रश्नजातं प्रवक्तुमुपचक्रमे || २० || राम बुद्धिमतां श्रेष्ठ नूनं स्पृशसि तत्पदम् | सविमर्शपरो यस्त्वमतो ज्ञातुं प्रभावितः || २१ || तत्पदं स्पृशसि | परसंविदात्मरूपं ज्ञातुं समर्थोऽसीत्यर्थः | कुत एतदिति चेदाह - सद्विमर्शेति | यद्यस्मात्त्वं सद्विमर्शपरः सत्तर्कपरः [क्, ख्: सत्तर्कपरः नास्ति] | प्रभावितः समर्थः || २१ || एतदेव हि तच्छक्तिपातो यत्सद्विमर्शनम् | भगवच्छक्तिपातेन विना कः श्रेय आप्नुयात् || २२ || तस्येश्वरस्य शक्तिपातोऽनुग्रहशक्तिः [ग्: प्राप्तिः] | शक्तिपातकार्यत्वाच्छक्तिपातत्वम् | श्रेयः श्रेयोमुख्यसाधनं सत्तर्कम् || २२ || कृत्यमात्मदेवताया जानीह्येतावदेव हि | यत् सद्विमर्शनं नित्यं वर्धयेत् सुप्रसादिता || २३ || प्रसन्नेश्वरस्य सुतर्कोत्पादनमेव कृत्यमित्याह - कृत्यमिति || २३ || यत् त्वया विदितं तत्तु तादृक् सत्यं नहीतरत् | किन्तु तत् तादृशमपि त्वयोक्तं अप्रचिद्वपुः || २४ || यदिति | तत्र सारमियज्ज्ञातम् (१५|३) इत्यादिना यत्त्वया विदितमुक्तं तत्तादृगेव इतरद् अन्यथा न भवतीति सत्यम् किन्तु त्वयोक्तं तादृशं परचिद्वपुर्न सुविदितमिति सम्बन्धः || २४ || न ते सुविदितं राम यत एवं वसयतः | ताटस्थ्येन तु यो यावद्वेद तावन्न वेद वै || २५ || न ते त्वया | सुविदितमपरोक्षीकृतम् यतः सा परा चितिरात्मभित्तावादर्शनगरवद् जगदवभासयेदिति [क्: जगद् नास्ति] ताटस्थ्येनानुवदसि | अस्तु यथाकथञ्चिद्विदितमेवेति चेदाह - ताटस्थ्येनेति | न वेदेति | वेदनमुख्यफलाभावान्न वेदेत्यर्थः || २५ || प्. २४२) यतः सा विदिता सम्यक् ताटस्थ्यमुपशामयेत् | तटस्थसंवेदनं तु स्वप्नसंवेदनोपमम् || २६ || सम्यग् मया विदित्वापि ताटस्थ्येन निरूपितमिति चेदाह - यत इति | सा परसंवित् | परसंविदः प्रत्यगात्मनः सम्यग्वेदनमहमस्मीति | एवं विदितेऽनन्तरं ताटस्थ्यनिमित्तकं सा जगदवभासयेदिति कथं निरूपणं स्यादिति तात्पर्यम् | तटस्थसंवेदनं परोक्षज्ञानम् | अपरोक्षवस्तुनः परोक्षं [ग्: परोक्षज्ञानं] ज्ञानं भ्रमरूपमेवेत्याह - स्वप्नेति || २६ || यथा स्वप्ननिधिप्राप्तिः पुरुषाणां निरर्थिका | तथा तटस्थविज्ञानममुख्यफलदं भवेत् || २७ || परोक्षज्ञानं व्यर्थमित्याह - यथेति | अमुख्यफलदम् | शुक्तौ रजतदर्शनेन रजतप्राप्तिनिमित्तहर्षादिसम्भवेऽपि यथा हर्षो मुख्यं फलं न भवत्येवमत्रापीत्यर्थः || २७ || अत्र ते कथयिष्यामि प्राग्वृत्तमतिशोभनम् | पुरा विदेहेषु कश्चिदासीद् राजा सुधार्मिकः || २८ || अत्र तटस्थविज्ञानस्यामुख्यफलत्वे || २८ || वृद्धप्रज्ञो हि जनकः प्रविज्ञातपरावरः | स कदाचित् स्वात्मदेवीमीजे क्रतुभिरुत्तमैः || २९ || तत्राजग्मुर्ब्राह्मणाद्या विद्यावन्तस्तपस्विनः | कलाभिज्ञा वैदिकाश्च यज्वानश्चापि सत्रिणः || ३० || तत्काल एव वरुणो यष्टुं समुपचक्रमे | तेनोपहूता विप्राद्या न ययुस्तत्र भूरिशः || ३१ || तत्र वरुणयागे | भूरिशः बहवः || ३१ || प्. २४३) जनके ह्यभिसंप्रीताः पूजितास्तेन तर्पिताः | अथाजगाम वरुणदायादो बौद्धसम्पदा || ३२ || अगमने हेतुभूतं विशेषणम् - जनक इति | तत्रापि हेतुः - पूजिता इत्यादि | अथ ब्राह्मणाद्यनागमननिश्चयानन्तरम् वरुणस्य दायादः पुत्रः बौद्धसम्पदा बौधा बुद्धिसम्बन्धिनी सम्पत् तया सहित इत्यर्थः | तर्ककुशल इति तात्पर्यम् || ३२ || विप्रवेषधरो नेतुं ब्राह्मणान् कूटवर्त्मना | आसाद्य यज्ञसदनं नृपं संयोज्य चाशिषा || ३३ || नेतुमाजगाम | कूटवर्त्मना कपटमार्गेण || ३३ || आक्षिपत्तत्र [क्: अक्षि] सभ्यांस्तु शृण्वतां च सभासदाम् | राजंस्ते यज्ञसदनमत्यन्तं नैव शोभते || ३४ || आक्षेपस्तिरस्कारः | आक्षेपं शृण्वतां सभासदां मध्ये स्थित इति शेषः || ३४ || कमलाकरवत् काककङ्कवृन्दस्य सञ्चयात् | सभा विद्वत्समुदयैः शोभिनी शोभतेतराम् || ३५ || न शोभत इत्यत्र दृष्टान्तः - कमलेति | कुत इति चेदाह - सभेति | शोभिनीति | स्वतः शोभमाना नितरां शोभते || ३५ || शारदं हंससङ्घातैः सपद्मं तु सरो यथा | तदत्र विद्याविशदं न पश्याम्येकमप्यलम् || ३६ || दृष्टान्तः - शारदमिति | यस्मान्न पश्यामि तत् तस्मान्न शोभत इति सम्बन्धः || ३६ || स्वस्ति तेऽस्तु गमिष्यामि नात्र मे संस्थितिर्भवेत् | कथं सभामिमां मूर्खप्रचुरां संविशाम्यहम् || ३७ || एवं वारुणिना प्रोक्ताः सभ्याश्चुक्रुधुरञ्जसा | किमरे द्विजबन्धो त्वमधिक्षिपसि सर्वतः || ३८ || क्रुद्धानां वचनम् - किमरे इति | सर्वतः सर्वान् || ३८ || प्. २४४) केयं तवेदृशी विद्या यया सर्वे वयं जिताः | वृथा कत्थसि दुर्बुद्धे जित्वाऽस्मांस्त्वं गमिष्यसि || ३९ || जिता भवाम इति शेषः || ३९ || प्रायो भूलोकसंस्थाना विद्वांसः सङ्गताः खलु | किं त्वं भूलोकमेवाद्य जेतुमिच्छसि दुर्मते || ४० || भूलोकसंस्थानाः भूलोकस्थाः | अत्र सङ्गताः मिलिता वर्तन्त इति शेषः || ४० || ब्रूहि का ते भवेद्विद्या ययाऽस्मान् जेतुमिच्छसि | इत्युक्तवत्सु सभ्येषु वारुणिः पुनराह तान् || ४१ || समयेन विजेष्यामि सर्वान् वः क्षणमात्रतः | अहं जितो भवद्भिस्तु समुद्रे स्यां निकज्जितः || ४२ || समयेन प्रतिज्ञया | समयमेवाह - अहमिति || ४२ || युष्मास्वहं मज्जयामि जितं जितमथापि वा | उपेत्यैवं तु समयं विवदन्तु मया सह || ४३ || उपेत्य अङ्गीकृत्य || ४३ || इत्युक्ताः सम्मतिं चक्रुः सभ्या वादाय तेन तु | विवादं चक्रुरत्यन्तं तेन वारुणिना द्विजाः || ४४ || सम्मतिं प्रतिज्ञाङ्गीकारम् || ४४ || जिजे(गा)य वारुणिर्विप्रान् वितण्डाजल्पवर्त्मना | सिन्धौ जिमज्जिता विप्राः शतशोऽथ सहस्रशः || ४५ || वितण्डाजल्पवर्त्मनेति | कथा त्रिधा वादजल्पवितण्डाभेदात् | वादः स्वसिद्धान्तसंस्थापनमात्रोपयुक्ता कथा | जल्पः स्वसिद्धान्तस्थापनपरसिद्धान्तदूषणयोरुपयुक्त | परसिद्धान्तदूषणमात्रोपयुक्ता वितण्डा | कांश्चिद्वितण्डामार्गेण कांश्चिज्जल्पमार्गेण जिजे(गा)य | तदनन्तरं जिता विप्राः सिन्धौ निमज्जिताः || ४५ || निमज्जितास्तु ये विप्रा दूतैस्तैर्वारुणैर्हृताः | वारुणं यज्ञमासाद्य मुमुदुः पूजिता भृशम् || ४६ || वरुणेन पूजिताः || ४६ || प्. २४५) मज्जितं पितरं श्रुत्वा कहोलं तत्सुतस्ततः | अष्टावक्रः समागत्य ज्ञानवैतण्ड्यजल्पकः || ४७ || स्वपितरं मज्जितमष्टावक्रः श्रुत्वा | वैतण्ड्यं वितण्डा || ४७ || विजित्य वारुणिं सिन्धावादिदेश निमज्जने | अथ प्रकाशमापन्नो वारुणिर्द्विजमुख्यकान् || ४८ || आदिदेश आज्ञापयामास | अथ आदेशानन्तरम् | प्रकाशं प्रकटताम् | विप्रवेषं परित्यक्तवानिति यावत् || ४८ || समानयत् स्वलोकस्थानष्टावक्रेण निर्जितः | अथागतेषु विप्रेषु कहोलतनयो भृशम् || ४९ || विप्रान् विमोचितान् सर्वानत्यवर्तत दर्पतः | अष्टावक्रेण विमता विप्राः खेदमुपागताः || ५० || अत्यवर्तत अतिक्रान्तवान् | अवम(मा)नेन [ग्: अवमेन] इति यावत् | विमताः अवमानिताः [क्: अप] || ५० || तत्काल आगतां काञ्चित् तापसीं शरणं ययुः | तान् समाश्वास्य विप्रान् सा काषायाम्बरवासिनी || ५१ || अष्टावक्रदर्पभञ्जनाय शरणं ययुः || ५१ || जटिला नित्यतरुणी मनोहरवपुर्धरा | सभामुपेत्य प्रोवाच नृपेणाभिसुपूजिता || ५२ || नित्यतरुणी योगेन जरावर्जिता || ५२ || कहोलसुत वत्स त्वमत्यन्तं बुद्धिमानसि | त्वया विमोचिता विप्रा वादे निर्जित्य वारुणिम् || ५३ || अहं पृच्छामि किञ्चित्त्वां वद हित्वा सुकैतवम् | यत्पदं विदितं सर्वामृतत्वप्रतिपादकम् || ५४ || कैतवं वितण्डाजल्पवर्त्म | विजिगीषां परित्यज्येति यावत् | सर्वामृतत्वमपरिच्छिन्नामृतत्वम् || ५४ || यत्पदे विदिते सर्वसन्देहः प्रलयं व्रजेत् | अविज्ञातं न किञ्चित् स्यादाशास्यं वा न किञ्चन || ५५ || आशास्यं वाञ्छितम् || ५५ || प्. २४६) अवेद्यं विदितं तच्चेद् वद मामुप सत्वरम् | तापस्यैवं समापृष्टः कहोलतनयोऽब्रवीत् || ५६ || एवंविधम् अवेद्यं तत्पदं विदितं चेद्वद | मामुप मत्समीपे || ५६ || विदितं तत्पदं भूयो वच्मि तापसि संशृणु | न मे ह्यविदितं लोके ह्यस्ति किञ्चित् कियत्त्विदम् || ५७ || तत्पदं त्वया पृष्टं पदम् | भूयः असकृत् | इदं त्वत्पृष्टम् | कियत् अत्यल्पमिति यावत् || ५७ || मया शास्त्राणि सर्वाणि भूयः संलुठितानि वै | यत् त्वं पृच्छसि तद्वक्ष्ये शृणु तापसि तत्त्वतः || ५८ || संलुठितानि संलोडितानि सम्यग् विमृष्टानीति यावत् || ५८ || तद्धि सर्वजगद्धेतुरादिमध्यान्तवर्जितम् | देशकालानवच्छिन्नं शुद्धाखण्डचिदात्मकम् || ५९ || तत् त्वत्पृष्टं [क्: त्वत्पृष्टपदम्] पदम् | आदिमध्यान्तरहितत्वादेवाह - देशेत्यादि | शुद्धमखण्डमिति विजातीयसजातीयवस्त्वन्तरासम्भेद उक्तः || ५९ || यदुपाश्रित्य वै सर्वं जगदेतद् विराजते | आदर्शनगरप्रख्यं तदेतत्परमं पदम् || ६० || यत् प्रोक्तचित्तत्त्वमुपाश्रित्य | उपाश्रयणं च [क्: च नास्ति] न घटे नीलरूपादेरिवेत्याह - आदर्शेति || ६० || प्राप्नोति तद्विदित्वैव निश्चलामृतसंस्थितिम् | आदर्शे विदिते यद्वन्न सन्देहः क्वचिद्भवेत् || ६१ || तत् परमं [क्: परमपदम्] पदं विदित्वा | तद्वेदनेन सर्वं सन्देहनिवृत्त्यादिकं सदृष्टान्तमाह - आदर्शेति | यथादर्शे विदिते तद्गतप्रतिबिम्बेषु क्वचिदपि न सन्देहो भवेत् प्रतिबिम्बानामादर्शमात्रात्मत्वात् || ६१ || प्. २४७) प्रतिबिम्बेष्वनन्तेषु न स्यादविदितं तथा | नाशास्यं वा भवेत् किञ्चिदेवं प्रविदिते परे || ६२ || एवमविदितमपि न किञ्चिद् भवेत् | एवमाशास्यं वा न किञ्चिद् भवेत् प्रतिबिम्बत्वेन ज्ञाते आशानुदयात् | एवं परे शुद्धे स्वात्मनि विदिते तदितरस्याखिलस्य प्रतिबिम्बत्वेन तदनन्यत्वात्तत्र सन्देहो वा किञ्चिदविदितं वा आशास्यं वा न भवेदिति भावः || ६२ || तच्चाप्यवेद्यमन्यस्य वेदकादेरभावतः | एवं तापसि तत् तत्त्वं शास्त्रदृष्ट्या विभावितम् || ६३ || एवंविधमात्मतत्त्वमेवावेद्यम् अन्यस्य वेदकस्याभावात् | अन्यवेदकस्य जडत्वे वेदकत्वहानिरजडत्वे तत्रापि वेदकान्तरापेक्षायामनवस्थेति भावः | आदिना करणमप्येवं ज्ञेयम् | शास्त्रदृष्ट्या न तु प्रत्यक्षेण विभावितं ज्ञातम् || ६३ || इत्यष्टावक्रवचनं श्रुत्वा सा पुनरब्रवीत् | मुनिदारक सूक्तं ते यथावत् सर्वसम्मतम् || ६४ || ते त्वया यथावदुक्तं तत्सूक्तं सर्वसम्मतं च || ६४ || यदुक्तं वेदकाभावादवेद्यं तदिति त्वया | प्राप्नोति तद्विदित्वैव चामृतं पदमव्ययम् || ६५ || तत्रैतावानंशो विरुद्ध इत्याह - यदुक्तमिति || ६५ || इति पूर्वोत्तरवचो मन्यसे सङ्गतं कथम् | अवेद्यं चेन्न जानामि नास्तीति च निरूपय || ६६ || अवेद्यं तत्पदं विदित्वैवामृतं पदं प्राप्नोतीति पूर्वोत्तरवचः सङ्गतं कथं मन्यसे | कुत इति चेदाह - अवेद्यं चेदिति | अवेद्यं चेत्तज्ज्ञानसम्भावितमेव | अविदितस्याप्रकाशितत्वेन तत्सत्त्वमप्यसम्भवीति भावः [क्, ख्: तत्वेतरतत्सत्त्व] || ६६ || प्. २४८) अस्ति जानासि यदि तदवेद्यमिति मा वद | अथैतत्तु त्वया विप्र शास्त्रदृष्त्या विभावितम् || ६७ || दूषणान्तरमाह - अथेति | एतत् परमात्मतत्त्वं शास्त्रदृष्ट्या वाक्यज्ञानेन विभावितं विनिश्चितम् || ६७ || न तत् स्वयं विजानासि तस्मात्तन्नापरोक्षकम् | दृष्ट्वा प्रत्यक्षतः सर्वं प्रतिबिम्बं यथास्थितम् || ६८ || स्वयं साक्षात् | तत् परात्मतत्त्वम् | न विजानासि | नापरोक्षकं न प्रत्यक्षविषयम् | तथा च सर्वं जगत्तत्रादर्शं प्रतिबिम्बं यथा प्रतिबिम्बकल्पं स्थितं प्रत्यक्षतो दृष्ट्वा आदर्शं [क्, ख्: आदर्श] प्रत्यक्षेण न विजानासीत्येतत् कथं वचः सङ्गतं भवेदिति भावः || ६८ || आदर्शं न विजानासि प्रत्यक्षेणेति तत्कथम् | एवं वदन् सभामध्ये जनकस्यास्य वै पुरः || ६९ || एवं पूर्वोत्तरासङ्गतं [क्, ख्: तरसङ्गत] वचः | विद्वत्सभामध्ये तत्रापि जनकस्य विद्वच्छिरोमणेः पुरोऽग्रतः || ६९ || परिभूतं स्वमात्मानं मन्यसे नो कथं वद | एवमुक्तस्तया तत्र नैव प्रोवाच किञ्चन || ७० || आत्मानं परिभूतं तिरस्कृतं न कथं मन्यसे | सभास्वसन्दर्भवाक्यनिरूपणमेव मौर्ख्यद्योतकम् | भूयस्तत्रैव वाक्ये सुसन्दर्भताभिमानस्तु सुतरां मौढ्यप्रद्योतक इति भावः || ७० || विमना इव सञ्जातो लज्जितोऽभवदञ्जसा | अवाङ्मुखः क्षणं स्थित्वा विचार्यान्तस्तयेरितम् || ७१ || विमना इव व्यग्रचित्त इव | अन्तः मनसि || ७१ || तत्प्रश्नोत्तरमप्राप्य तां प्राह द्विजसत्तमः | तापस्यहं न जानामि त्वत्प्रश्नस्योत्तरं वचः || ७२ || तस्यास्तापस्याः प्रश्नोत्तरम् | तां तापसीम् || ७२ || शिष्योऽहं ते वदैतन्मे कथमेतन्निरूपितम् | नाहं वदाम्यनृतकं तपोहरमनर्थकम् || ७३ || एतत् त्वया पृष्टम् | अवेद्यं विदित्वाऽमृतत्वप्राप्तिरिति शास्त्रे निरूपितं कथं सङ्गतमेतद्वद | अविदितमपि जानामीत्यनृतकम् || ७३ || प्. २४९) इत्यापृष्टा तापसी सा प्रसन्ना तस्य सत्यतः | अष्टावक्रं प्रत्युवाच शृण्वतां च सभासदाम् || ७४ || तस्य अष्टावक्रस्य || ७४ || वत्सैतदविदित्वैव बहवो मोहमागताः | शुष्कतर्कैरविज्ञेयं सर्वत्रैव सुगोपितम् || ७५ || एतत् प्रोक्तविरोधसमाधानम् | एतदविज्ञेयम् | सर्वत्र शास्त्रेषु || ७५ || एतावत्सु सभासत्सु न विजानाति कश्चन | राजाऽयं वेत्त्यहं वापि वेद्मि नान्यस्तु कश्चन || ७६ || न विजानाति कश्चनेत्येतदेव भूयः स्पष्टार्थमाह - नान्यस्त्विति || ७६ || सर्वत्र हि विवादेषु नैतत्प्रश्नोत्तरं क्वचित् | प्रायो विदुर्हि विद्वांसस्तर्कमात्रसमाश्रयाः || ७७ || नैतत्तर्केण सुज्ञेयमपि सूक्ष्मधिया क्वचित् | विना सद्गुरुसेवाया देवतानुग्रहाद्विना || ७८ || सूक्ष्मधियापि | देवतानुग्रहपूर्वकसद्गुरुसेवनं विना शुद्धाऽद्वितीयात्मतत्त्वसाक्षात्कारं विनैतदर्थस्य दुर्विज्ञेयत्वादिति तात्पर्यम् || ७८ || मुनिपुत्राभिधास्यामि शृण्वेतत्सूक्ष्मया धिया | नेदं श्रुत्वापि विज्ञेयं ताटस्थ्यप्राणया धिया || ७९ || सूक्ष्मया एकाग्रया धिया | कुत इति चेदसमाहितबुद्धेरेतद् दुर्विज्ञेयमित्याह - नेदमिति | ताटस्थ्यप्राण इव मुख्यधर्मो यस्याः | आत्मन्यसमाहितया बहिर्मुख्येति तात्पर्यम् || ७९ || यावदेतद्धि विज्ञानमनुदाहृतमात्मनि | तावत् सहस्रशः प्रोक्तं श्रुतं चापि निरर्थकम् || ८० || विज्ञानं विज्ञानसाधनोपपत्तिजालम् | अनुदाहृतमात्मनीति | आत्मा सूर्यवत् स्वप्रकाश इति गुरुवाक्यं श्रुत्वाऽहमेवंविधो भवामि न भवामि वेति विनिश्चयाय समाहितान्तःकरणः स्वरूपाभिमुखो यावन्न भवेदिति तात्पर्यम् | गुरुणा प्रोक्तं स्वेन श्रुतं च || ८० || प्. २५०) यथा कश्चित् स्वकण्ठस्थं मुक्ताहारं प्रमादतः | अविज्ञाय हृतं चौरैर्मन्यते मूढभावतः || ८१ || अत्र दृष्टान्तः - यथेति | प्रमादतः विस्मरणात् | अविज्ञाय अदृष्ट्वा || ८१ || प्रबोधितोऽपि स पुनः कण्ठेऽस्तीति हि केनचित् | स्वात्मानमनुदाहृत्य यावत् कण्ठं न पश्यति || ८२ || तव कण्ठेऽस्तीति | स्वस्यात्मानं शरीरम् | अनुदाहृत्यासम्मुखीकृत्य | तत्रेन्द्रियव्यापारमकृत्वेत्येतत् || ८२ || तावन्नाप्नोति कण्ठस्थं हारं सूक्ष्मविमर्श्यपि | एवं मुनिसुतात्मानं स्वस्वभावं निशम्य च || ८३ || स्वस्वभावं स्वस्वरूपं निशम्य श्रुत्वा || ८३ || भूयोऽतिनिपुणोऽप्यन्तरात्मानमनुदाहरेत् | यावत् तावद् बहिः कुत्र कथं तद्विदितं भवेत् || ८४ || भूयो निशम्येति सम्बन्धः | अन्तरात्मानमनुदाहरेत् समाहितचित्तः स्वरूपान्तः स्वात्मैवंविधो न वेत्यात्मरूपं निश्चेतुमभिमुखो न भवेत् | तत् आत्मरूपम् || ८४ || यथा हि दीपो विषयान् प्रकाशयति सर्वतः | स्वयं प्रकाश्यतां नैति क्वचिद्दीपस्य कस्यचित् || ८५ || एवं समाहितस्यान्तर्मुखस्यैव फलप्राप्तिरित्युक्त्वा प्रकृतमात्मतत्त्वस्यावेद्यस्य वेदनप्रकारं सदृष्टान्तं वक्तुमुपक्रमते - यथेति | सर्वतः सर्वत्र | कस्यचिदन्यस्य दीपस्य स्वयं प्रकाश्यतां नैति || ८५ || प्रकाशते स्वयं चैवानपेक्ष्यान्यं प्रकाशकम् | एवं सूर्यादयः [क्, ख्: सूर्योदये] सर्वे प्रकाशकतया स्थिताः || ८६ || सूर्यादयोऽप्येवमन्यप्रकाशकाः [क्, ख्: सूर्योदये] स्वप्रकाशेऽन्यानपेक्षाः स्वतः प्रकाशन्ते || ८६ || प्. २५१) एवं च किं दीपमुखा अप्रकाश्यत्वहेतुतः | न सन्ति न प्रकाशन्त इति वक्तुं हि युज्यते || ८७ || एवं चेति | दीपादयोऽप्रकाश्यत्वहेतोः न सन्ति न प्रकाशन्त इति वक्तुं युज्यते किम् | न युज्यत इत्यर्थः || ८७ || एवं प्रकाश्यभूतेषु सत्सु दीपौखेषु वै | अत्यन्तमप्रकाश्यं यच्चित्तत्त्वं तत्कुतो वद || ८८ || एवमिति | एवं चित्प्रकाश्येषु दीपादिषु सत्स्वत्यन्तमप्रकाश्यं यच्चित्तत्त्वमसंवेद्यं प्रकाशते चेत्यत्र कुतो विचिकित्सितं तव तद्वदेति सम्बन्धः || ८८ || असंवेद्यं प्रकाशेत चेत्यत्र विचिकित्सितम् | तस्मात् त्वमन्तर्मुखया दृष्ट्या सम्यग् विचरय || ८९ || विचिकित्सितं संशयः | दीपादेर्जडस्याप्यप्रकाश्यस्य प्रकाशोऽस्तिता च दृष्टा चिदात्मन एवंविधत्वे कः संशय इति भावः | तस्मादप्रकाश्यस्य प्रकाशादिसम्भवाद् अप्राकाश्यचिदात्मनः प्रकाशनं स्वतोऽस्ति वा न वेति सम्यग्विचारय || ८९ || चिच्छक्तिरेषा परमा त्रिपुरा सर्वसंश्रया | सर्वावभासिनी कुत्र कदा वा न प्रकाशते || ९० || प्रकाशात्मनो दीपादेः परिच्छिन्नस्य कदाचित् क्वचिदप्रकाशोऽपि स्यात् चितेस्त्वपरिच्छिन्नाया न कदाचिदप्रकाशनमित्याह - चिच्छक्तिरिति | परमा सर्वकारणत्वेन सर्वोत्कृष्टा | त्रिपुरा तुर्या | सर्वेषां संश्रया | प्रतिबिम्बानां दर्पण इव जगदाश्रयभूता | अत एव सर्वमात्मन्यवभासयतीति सर्वावभासिनी | कुत्र देशे कदा काले केन रूपेण न प्रकाशते ? सर्वत्र सर्वदा सर्वरूपेण च प्रकाशत एवेत्यर्थः || ९० || यदा सा न प्रकाशेत प्रकाशेत तदा नु किम् | अप्रकाशेनापि सैव चितिशक्तिः प्रकाशते || ९१ || सा चितिशक्तिः [क्, ख्: शक्ति नास्ति] | तदा किं प्रकाशेत ? न किञ्चित् प्रकाशेतेत्यर्थः | ननु सुषुप्तिप्रलयादौ न किञ्चित् प्रकाशते अतश्चित्प्रकाशः कालपरिच्छिन्न इति चेन्नेत्याह - अप्रकाशेनेति | न प्रकाशत इति रूपेणापि चितिरेव प्रकाशत इत्यर्थः | अन्यथा न प्रकाशत इति वा कथं सिद्ध्येदिति भावः || ९१ || प्. २५२) अप्रकाशो यथा भाति सा न भायात् कथं वद | भाति चेत् सा कथं भाति विमृशैतत् सुसूक्ष्मतः || ९२ || ननु सुषुप्तौ प्रकाशाभाव एव केवलं भासते न तु चितिरिति चेदाह - अप्रकाश इति | अप्रकाशो हि न स्वप्रकाशः विरोधात् | तस्माच्चितिरेव तत्प्रकाशिकेति सिद्धम् | तथा चाप्रकाशप्रकाशिका चितिः कथं न भायादित्यर्थः | एवं च चितेरभानेऽप्रकाशोऽपि न भायादिति चितिः सदा प्रकाशत इत्येव वक्तव्यम् | तथा च चितिः सर्वदा भाति चेत् ? सा चितिः स्वतो भाति वा परतो भाति वेत्येतत् सूक्ष्मदृशा त्वमेव विमृशेत्याह - भासत इति || ९२ || अत्र सर्वे न पश्यन्ति कुशला अपि पण्डिताः | अनन्तर्दृष्टयस्तेन मोहिताः संसरन्ति च || ९३ || ननु कथमेतद्विमृशामि यतो दृष्टो घटो हि विमृश्यते | शुद्धा चितिरदृष्टेति कथं सा विमृश्या भवेदित्याशङ्कायामाह - अत्रेति | स्वरूपे शुद्धचिद्विषय इत्यर्थः | कुशलास्तर्कनिपुणाः | कुत इति चेदाह - अनन्तर्दृष्टय इति | यतोऽनन्तर्दृष्टयस्ततो न पश्यन्तीत्यर्थः | तेन अनन्तर्दृष्टित्वेन हेतुना || ९३ || यावद् दृष्टिः प्रवृत्तिं तु न परित्यज्य तिष्ठति | तावदन्तर्दृष्टितापि न स्यादेव कथञ्चन || ९४ || अन्तर्दृष्टिता कथं स्यादिति चेदाह - यावदिति | दृष्टिः मनः तस्याः प्रवृत्तिः सङ्कल्पः | तिष्ठतीति | न स्वप्नादिकं व्रजतीत्यर्थः | सङ्कल्पं परित्यज्य जाग्रद्दशायामेव तिष्ठति स्वप्नाद्यवस्थान्तरं न प्राप्नोतीति भावः || ९४ || प्. २५३) यावन्नान्तर्दृष्टिमेति तावत्तां न प्रपश्यति | अन्तर्दृष्टिर्निरीहा स्यात् सेहायाः सा कथं भवेत् || ९५ || एवमन्तर्दृष्टिं विना स्वरूपं न पश्यतीत्याह - यावदिति | तां शुद्धचितिम् | अन्तर्दृष्टिपदार्थं निष्कृष्याह - अन्तर्दृष्टिरिति | निरीहा निर्गता ईहा सङ्कल्पो यस्या दृष्टेर्मनसः सा अन्तर्दृष्टिः || ९५ || परिहृत्य तु तां सम्यक् स्वभावमुपसंश्रय | क्षणं स्वं [क्, ग्: स्वभाव] भावमाश्रित्य निर्विमर्शस्ततः परम् || ९६ || ताम् ईहाम् | सम्यक् निःशेषेण परिहृत्य | स्वभावं स्वरूपम् | उपसंश्रयेति | मनो हि प्रत्यगात्मना शुद्धचिद्रूपेणाकाशेन पूर्णो घट इव स्वभावादेव पूर्णम् | व्रीहिपूरितघटवद् भूयः सङ्कल्पैरपि पूर्णम् | तथा च व्रीहिमात्रनिरसन आकाशपूर्णघटवत् सङ्कल्पमात्रनिरसन आत्मना पूर्णमेव मन इति सङ्कल्पपरिहारानन्तरं स्वभावोपसंश्रये न व्यापारान्तरापेक्षेति ज्ञेयम् | एवं क्षणं किञ्चित्कालं स्वभावमाश्रित्य निर्विमर्शः स्थितः | ततः परम् || ९६ || विमृश्य स्मरणद्वारा ततो वेत्सि समस्तकम् | असंवेद्यं सुवेद्यं च तदेवं तत्त्वमुच्यते || ९७ || स्मरणद्वारा स्वभावसंश्रयदशां स्मृत्वा तच्छुद्धचिद्रूपं सङ्कल्पाभावदशायां स्वतो भातं वा परतो भातं वेत्येतद्विमृश | ततः एवं विमर्शनात् | तच्छुद्धचित्तत्त्वम् | असंवेद्यं सुवेद्यं चैवमुच्यत इति समस्तं त्वं स्वत एव वेत्सि ज्ञास्यसीत्यर्थः || ९७ || विदित्वैवमवेद्यं च प्राप्नुयादमृतां स्थितिम् | एतत्तेऽभिहितं सर्वं मुनिपुत्र नमोऽस्तु ते || ९८ || जन एवमुक्तप्रकारेण इतरावेद्यं स्वतो विदित्वा प्रकाशामानमुपलक्ष्य | अमृतां स्थितिं मोक्षदशाम् | उपसंहरति - एतदिति || ९८ || व्रजाम्यहं त्वया चैतन्न विज्ञातं सकृच्छ्रुतेः | बोधयिष्यति त्वामेष राजा बुद्धिमतां वरः || ९९ || सकृच्छ्रुतेः संक्षेपेणैकवारं श्रवणात् || ९९ || प्. २५४) पृच्छ भूयः संशयं ते सर्वं छेत्स्यति वै नृपः | इत्युक्त्वा पूजिता राज्ञा प्रणता च सभासदैः || १०० || अत्र यः संशयस्ते स्यात् तं पृच्छ | सभासदैः सभासद्भिः || १०० || वातनुन्नाभ्रलेखेव क्षणादन्तर्द्धिमाययौ | एतत् तेऽभिहितं राम वेदनप्रक्रियात्मनः || १०१ || वातेन नुन्ना प्रेरिताऽभ्रलेखेव | अन्तर्धिमन्तर्धानम् | आत्मनो वेदनप्रक्रिया शुद्धचिदात्मोपलब्धुमशक्य इति यदध्यायादौ पृष्टं तदेवं वेदनप्रकार उक्त इत्युपसंहृतं गुरुणेति ज्ञेयम् || १०१ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे अष्टावक्रीये पञ्चदशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां पञ्चदशोऽध्यायः || प्. २५५) अथ षोडशोऽध्यायः श्रुत्वैतद् भार्गवो रामः प्राप्य विस्मयमान्तरे | भूयः पप्रच्छात्रिसूनुमवितृप्तः कथाश्रुतेः || १ || अत्राध्याये वेधपद्यैर्वेद्याऽवेद्या च सा चितिः | निरोधसुप्तिभेदश्च युक्त्या सम्यग् निरूप्यते || कथाश्रुतेः कथाश्रवणात् || १ || भगवन्नद्भुतं ह्येतच्छ्रुतं वृत्तं पुरातनम् | भूयः पप्रच्छ राजानमष्टावक्रो महामुनिः || २ || यत् पप्रच्छेत्यन्वयः || २ || यद्राजा प्रत्युवाचैनं तच्च मे वद सर्वशः | अहोऽद्भुतं समाख्यानं न क्वचिच्च मया श्रुतम् || ३ || विज्ञानवृत्तसर्वस्वं दयया वद मे गुरो | इत्येवानुयुक्तोऽथ दत्तात्रेयो महामुनिः || ४ || विज्ञानवृत्तं विज्ञानप्रक्रिया तदेव सर्वस्वं मुख्यार्थो यत्र | जनकाष्टावक्रसंवादरूपमाख्यानम् | अनुयुक्तः पृष्टः || ४ || भार्गवाय समाचख्यौ कथं परमपावनीम् | शृणु भार्गव यत् प्रोक्तं जनकेन महात्मना || ५ || निर्गतायां तु तापस्यामष्टावक्रो मुनेः सुतः | संवृतो बहुभिर्विप्रैः समेत्य नृपपुङ्गवम् || ६ || नृपपुङ्गवं जनकम् || ६ || पप्रच्छ यत्तु तापस्या संक्षिप्योक्तं [ख्: संक्षेपो] महार्थकम् | तदुच्यमानं तु मया सम्यक् शृणु समाहितः || ७ || महानर्थः मोक्षाख्यो यस्मात् | एवंविधं तापस्योक्तम् || ७ || प्. २५६) राजन् विदेहाधिपते तापस्योक्तं तु यत्तया | तदहं नाविदं सम्यक् संक्षेपोक्तत्वहेतुतः || ८ || अष्टावक्रः पृच्छति - राजन्नित्यादिना | संक्षेपेणोक्तत्वाद्धेतोर्नाविदम् || ८ || कथं विद्यामवेद्यं तत् समाचक्ष्व दयानिधे | एवं जनक आपृष्टः प्राह तं विस्मयन्निव || ९ || अवेद्यं तच्छुद्धच्चित्तत्वं कथं विद्याम् | अवेद्यं तन्मम वेद्यं कथं भवेदिति भावः | विस्मयन्निव आश्चर्यं प्राप्त इव | तत्त्वप्रष्टुर्दुर्लभत्वात् || ९ || मुनिपुत्र शृणु वचो मया यत् प्रोच्यतेऽधुना | नावेद्यं सर्वथा तद्धि वेद्यं चापि न सर्वथा || १० || तत् शुद्धचिदात्मतत्त्वम् || १० || अवेद्यं चेत् सर्वथैव तद् गुरुः किं वदेद्वद | गुरुरावेदयेत् तत्त्वमत आदौ गुरुं श्रयेत् || ११ || अवेद्यमिति | सर्वथाऽवेद्यत्वे गुरूपदेशस्तत्फलं वा न भवेदिति भावः | यतो गुरुरावेदयेदतो गुरुं श्रयेच्च | अतो नात्यन्तमवेद्यम् || ११ || एतद्वेदनमत्यन्तं सुलभं दुःशकं च हि | यः परावृत्तदृष्टिः स्यात्तस्य तत् सुलभं भवेत् || १२ || एतद्वेदनं शुद्धचिदात्मज्ञानम् | कुत एवमिति चेदाह - एतदिति [ग्: य इति] | परावृत्ता अन्तर्मुखी दृष्टिरन्तःकरणस्य (णं यस्य) || १२ || यः पराग्दृष्टिरेवास्ते तस्य तच्चातिदुर्लभम् | अनिरूप्यं केवलं तदवेद्यमपि सर्वथा || १३ || पराग्दृष्टिर्बहिर्दृष्टिः | इदमिति सर्वथाऽनिरूप्यमवेद्यं च || १३ || कथञ्चिदन्यरूपेण निरूप्यं वेद्यमप्युत | यद्यद् दृश्यं पश्यसीह तेन तद्वेद्यमुच्यते || १४ || एवमप्यन्यरूपेण इदं न इदं न इत्यतद्व्यावृत्तिरूपेण निरूप्यं वेद्यञ्च | ननु परैर्हि ज्ञानं ज्ञानान्तरवेद्यमित्युच्यते तत् कथमिति चेदाह - यद्यदिति | यद्यद् घटादिदृश्यं पश्यसि तेन रूपेणैव परैरपि ज्ञानं वेद्यमित्युच्यते | तथा च घटज्ञानवानहमित्यादौ ज्ञानस्य घटाद्यन्यरूपेणैव वेद्यत्वं न स्वत इति भावः | ज्ञानस्य [ख्: ज्ञानस्य हि इत्यस्य स्थाने तान् पश्यसीह इति पाठः] हि तत्तदुपाधिपरिच्छिन्नानन्तज्ञानानुस्यूतं ज्ञानसामान्यमात्रं नैजं रूपम् | अत एव देशकालाकारैरपरिच्छिन्नम् | तच्चावेद्यमेव [क्, ख्: तच्च] तस्य तदतिरिक्तेन वेदनाप्रसिद्धेरिति ध्येयम् || १४ || प्. २५७) यत्तेऽवभासते किञ्चित् तद्विभावय सद्धिया | भानशक्तिर्भास्यहीना सर्वभानसमाश्रया || १५ || ननु तर्ह्येवंविधमपरिच्छिन्नज्ञानात्मकमात्मतत्त्वं कथमहं विजानामीति चेदाह - यत्त इति | यत्तव किञ्चिज्ज्ञानं घटाद्याकारमवभासते तत् सद्धिया कुतर्करहितया सच्छ्रद्धाविशदया धिया विभावय | कथं विभावनीयमिति चेदाह - भानेति | यद्धि घटज्ञानं तत्रांशद्वयमस्ति - घटः ज्ञानं चेति | तत्र घतः प्रकाश्यः ज्ञानं प्रकाशः | तदेव प्रकाशमात्रात्मकं ज्ञानं भानशक्तिरित्युच्यते | सा च भास्यहीना | तस्या भानशक्तेर्भास्यं हि घटस्य मृदिव वा नीलरूपमिव वा न [क्, ख्: न नास्ति] स्वरूपान्तर्गतमतो भास्यहीनेत्यर्थः | सर्वभानेति | विषयभेदेन पुरुषभेदेन वा यानि भानानि विभिन्नमिवावभासमानानि तेषां सर्वेषां समाश्रया | भानानां वेद्यांशं विहायान्यथा [क्, ख्: य तथा] स्वरूपेभेदस्य दुर्वचत्वेनाभेदात् [ग्: त्वेन] सर्वभानात्मत्वेन सर्वभानसमाश्रयेति भावः || १५ || सैव तत्तत्त्वमित्येव विजानीहि मुनेः सुत | वेद्यमेव न वित्तिः स्यात् स्वतो यन्न प्रकाशते || १६ || सैव प्रोक्तभानशक्तिरेव | तत्तत्त्वं शुद्धचिदात्मतत्त्वम् | एवमुपाधिपरिच्छिन्नाखिलज्ञानानुगतं भानशक्तिरूपमेवात्मतत्त्वमित्युक्तम् | सम्प्रति ज्ञाने भासमानभेदो हि न स्वाभाविकः किन्त्वौपाधिक इति साधयितुमारभते - वेद्यमेवेति | घटादिज्ञाने भासमानो यो घटादिरूपो वेद्यांशः स एव न वित्तिः न ज्ञानम् | ज्ञानांशस्य वेद्यभूतो घटादिर्न स्वरूपमिति भावः | यत् यस्माद्वेद्यं स्वतो न प्रकाशते | वेद्यं न वित्तिरूपम् | अस्वप्रकाशत्वादिति भावः || १६ || प्. २५८) वित्तिरन्या यया वेद्यं वेद्यते न स्वतः क्वचित् | वेद्यं विभिन्नरूपं वै वित्त्यैव वेद्यते खलु || १७ || अतो वित्तिर्वेद्यादन्या | यया वित्त्या वेद्यं वेद्यते प्रकाश्यते | नहि वित्तिवद्वेद्यं स्वतः क्वचित् प्रकाशते | यत एवं वेद्यं वित्त्यैव वेद्यते अतो वेद्यं वित्तेर्विभिन्नरूपम् || १७ || तत्तद्रूपविभेदेन वित्तिर्नो भिद्यते क्वचित् | भेदो हि वेद्यधर्मः स्यान्न वित्तिं संस्पृशेत् क्वचित् || १८ || अतस्तत्तद्वेद्यरूपविभेदेन वित्तिर्न क्वचिद्भिद्यते | ननु (यथा) अयं घटो न पट इतिवद् इदं घटज्ञानं न पटज्ञानमिति प्रत्ययाद् ज्ञानेऽप्यस्ति भेद इति चेन्नेत्याह - भेद इति | यथाऽयं घटाकाशोऽयं मठाकाश इति एवं स भेदो घटादिवेद्यधर्म एव वित्तेर्न भेदस्पर्शोऽपि || १८ || यत आकारभेदो हि वेद्यपक्षे विभासते | पश्य वेद्यं पृथक्कृत्य बुद्ध्याऽकारविवर्जिताम् || १९ || प्रतीयमानो भेदो ज्ञानगत एव कुतो नेति चेदाह - यत इति | यतो भेदस्तु परस्परमाकारभेदाद्वक्तव्यः | तथा चाकारभेदस्य शुक्लनीलवर्तुलादिरूपस्य वेद्यपक्ष एव भासमानत्वान्न वित्तेर्निराकाराया भेदः | नायं परोक्षवादः किन्तु प्रत्यक्षत उपलभ्य इत्याह - पश्येति | सूक्ष्मया बुद्ध्या असङ्कल्पयुक्त्या वित्तेर्वेद्यं पृथक्कृत्य आकारविवर्जितां वित्तिं पश्य || १९ || बिम्बानुकृतिरादर्शो यद्वत् तद्वदियं चितिः | दृश्याकारधृतेर्नानारूपतां प्रतिपद्यते || २० || अत्र दृष्टान्तमाह - बिम्बेति | यथा ह्यादर्श एकरूपोऽपि विभिन्नबिम्बानुकृतिर्भवति तद्वदियं चितिरपि दृश्यानां घटादीनां य आकारो नीलवर्तुलादिरूपः तस्य धृतेर्धारणान्नानारूपतां प्रतिपद्यते न स्वत इति भावः || २० || प्. २५९) एवं वित्तिरियं वेद्या वेद्यव्यावृत्तरूपतः | न तु स्वभावतो वेद्या सा वित्तिर्विश्वसंश्रया || २१ || एवमिति | उक्तप्रकारेण वेद्यव्यावृत्ता | इयं [ग्: इयम् नास्ति] प्रक्रान्ता | सेयं [ख्: सा] वित्तिः वेद्यव्यावृत्तरूपतः वेद्यानाम् इदं न इदं नेति व्यावर्तने निषेध(धे) कृते सति परिशेषरूपतो [क्, ख्: अपरि] वेद्या भवेत् न तु स्वभावतो वित्तिरियमीदृशीति वेद्या | विश्वसंश्रयेति | घटादिपरिच्छिन्ना वित्तिः कथञ्चिदियमिति वेद्या स्यात् | विश्वसंश्रयाऽपरिच्छिन्ना शुद्धवित्तिस्तु नेयमिति वेद्येति भावः || २१ || यत एतद्वेदितुः स्याद् रूपं तस्मान्न वेद्यते | विमृशाष्टावक्र रूपं निजमेवंविधं स्फुटम् || २२ || अत्र हेतुमाह - यत इति | शुद्धा वित्तिर्यस्माद्वेदितुः स्वरूपं तस्मान्न वेद्यते | अयमत्राशयः - शुद्धवित्तेर्वेदितृरूपत्वेन कर्तरि करणव्यापाराप्रवृत्तेर्नेयमिति वेद्यता अपि त्वात्मत्वेन भासमानवेद्यदेहादेः सर्वस्य नायमात्मेति प्रतिषेदे कृते स्वात्मरूपस्य प्रतिषेद्धुमशक्यत्वेन तस्य प्रतिषेधावधिभूतस्य सर्वप्रतिषेधानन्तरमितरानुल्लेखे स्वतः प्रकाशमानत्वात्ततो व्युत्थितस्य तद्दशाविमर्शनेन वेद्यमिव भवेदिति | एवंविधं वेदित्रात्मकम् || २२ || न त्वं शरीरं प्राणो वा मनो वाप्यस्थिरत्वतः | शरीरं धातुनिकरं तत्ते रूपं कथं भवेत् || २३ || विमर्शनप्रकारमेवाह - न त्वमिति | अस्थिरत्वतः शरीरप्राणमनसां स्थिरैकरूपत्वाभावात् | अनुसन्धानेनात्मनः स्थिरैकरूपत्वे सिद्धे धातुनिकराद्यस्थिरात्मकशरीरादि ते रूपं कथं भवेत् || २३ || प्. २६०) तच्चान्यविषयाभासे त्वहंधियमतिव्रजेत् | एवं प्राणो मनोऽपि स्यादहंबुद्धिव्यतिक्रमात् || २४ || हेत्वन्तरमप्याह - तच्चेति | शरीरादिकमित्यर्थः | आत्मनः स्वप्रकाशत्वेन सर्वदाऽहमिति स्फुरद्रूपत्वम् | शरीरादिकं तु न तथा | घटाद्यन्यविषयभानकाले [क्, ग्: भासनकाले] हि शरीरादिकम् अहंधियम् अहमिति स्फूर्तिम् अतिव्रजेत् अतिक्रम्य व्रजेत् | अहमिति न स्फुरेदिति तात्पर्यम् | न च घटादिज्ञानकालेऽपि देहादिकमहन्त्वेन स्फुरत्येवेति वाच्यम् घटादिज्ञानकाले गौरप्रांशुत्वादिगुणवतो देहादेः स्फुरणस्यानुभवासिद्धत्वात् घटादिज्ञानेषु देहः प्रांशुर्गौर इत्याद्युल्लेखप्रसक्तेश्च | यद्वाऽन्यविषयाभास इत्यस्यान्यविषयत्वेनायं [क्, ख्: सेऽन्यस्यान्य] देहो ममेत्यनात्मत्वेनावभासे इत्यर्थः | न चैवं घटाद्यवभासकाले शुद्धात्मनोऽप्यहैति स्फुरणं नास्तीति वाच्यम् तथा सति घटादेरप्रकाशप्रसङ्गात् | यतः प्रकाशकाभिमतो दीपादिरप्रकाशमानो न घटादिकं प्रकाशयन् दृष्टः | न च तदा प्रकाशमानोऽपि नाहमिति स्फुरतीति वाच्यम् | यतः प्रकाशनं हि केनचिद्वपुषैव युज्यते न केवलम् जाड्यापत्तेः | तथा च योग्यत्वादहमित्येव प्रकाशते | अल एव ज्ञानानां स्वतःप्रामाण्यवादिभिरहं घटं जानामित्येवाकारोऽभ्युपगतः | अथ च घटादिज्ञानेष्वहमिति स्वरूपस्फुरणानभ्युपगमेऽहमस्मि वा न वेति संशयविपर्यययोरभावनियमानुपपत्तिः | न च घटादिज्ञानकालेऽहमिति स्फुरणं देहादिविषयकमेवेति वाच्यम् घटादिज्ञानकाले तथात्वसम्भवेऽप्ययं मे देह इत्यादिदेहादिज्ञानकाले तदसम्भवात् | न च चैत्रोऽयमिति ज्ञानकाले चैत्रीयचिदात्मनोऽपीदंप्रत्ययविषयत्वेनाऽहंबुद्ध्यतिक्रमणमस्तीति वाच्यम् चैत्रस्य तत्कालेऽहंप्रत्ययस्याक्षतत्वात् | न च सुषुप्तौ समाधौ वाऽहंप्रत्ययो नास्तीति वाच्यम् स्मृत्यनुसन्धानानुरोधेन तत्कालेऽपि स्वरूपश्पूर्तेरभ्युपेयत्वेन सर्वैरिष्टत्वात् | ननु सुषुप्तिसमाध्योरात्मनो निर्विकल्पत्वेन तदाऽहमिति सविकल्पप्रत्ययो न सम्भवीति चेत् ? अत्राहुरागमतत्त्वविदः - अहं प्रत्ययो हि द्विविधः - निर्विकल्पः सविकल्पश्चेति | विकल्पो नाम भेदः तेन सहितः सविकल्पः | तदन्यो निर्विकल्पः | तथा च देहादिपरिच्छिन्नविषयकोऽहंप्रत्ययो भेदविषयकत्वेन सविकल्पः | समाधिसुषुप्त्योः स्वरूपमात्रविषयकत्वेन भेदास्पर्शादहंप्रत्ययो निर्विकल्प इति | न च समाध्यादावहंप्रत्ययाभ्युपगमे त्रिपुटीप्रसक्तिरिति शङ्कनीयम् तदानीमहंप्रत्ययमात्रपरिशेषेण प्रत्ययप्रत्ययिप्रत्येयभेदास्फूर्तेः | एतच्चोक्तं प्रत्यभिज्ञायाम् - अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः स ह्युक्तो द्वयापेक्षी विनिश्चयः || (१|५३) इति | एष एवाहंप्रत्ययः पूर्णाहन्तापूर्णख्यातिरित्यादिपदैरागमेषु व्यवह्रियते | अस्याः पूर्णाहन्ताया भाविवाङ्निमित्तत्वदृष्ट्या वाग्वपुरित्यादिव्यवहारः | वस्तुतस्तदानीं न स्थूलशब्दमयत्वमिति ज्ञेयम् | न चैवंविधपूर्णाहंरूपता निर्विकल्पचित्स्वभावस्य प्रत्याख्यातुं शक्या जडत्वापत्तेः | यदुक्तं भगवता हरिणा - वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती | न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || (वा० प० १|१२४) इति | श्रीप्रत्यभिज्ञायामपि - स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि [क्, ख्: प्रकाशार्थो ..... स्फटिको हि जडोपमः] || (१|४२) इति | एवं निर्विकल्पचिदात्मनोऽहंरूपता श्रीभगवत्पादैरप्युक्ता - बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा (द० स्तो० ७) इति | एवमिति | त्वद्रूपाद्भिन्नमित्यर्थः | तमेव हेतुमाह - अहंबुद्धीति || २४ || प्. २६१) अहंबुद्धिं न व्यतीत्य तिष्ठत्येषा परा चितिः | तस्माच्चितिः सर्ववेत्त्री त्वमष्टावक्र तत्त्वतः || २५ || यस्मादहंबुद्धिं चितिर्न व्यतीत्य तिष्ठति तस्मात् सर्ववेत्त्री चितिरेव त्वम् || २५ || प्. २६२) पश्य प्रत्यावृत्तचक्षुः स्वात्मानं केवलां चितिम् | आदेशकाल एव स्वं पश्यन्त्युत्तमबुद्धयः || २६ || नैवंविधमात्मतत्त्वं परोक्षमित्याह - पश्येति | ननु श्रवणानन्तरं मननादिक्रमेण कालान्तरे पश्यामीति चेदाह - आदेश इति | उपदेशकाले श्रवणकाले एवेत्यर्थः | स्वम् आत्मानम् || २६ || चक्षुर्नैतद् गोलकं ते मनश्चक्षुरुदाहृतम् | येन पश्यसि स्वप्नेषु तच्चक्षुर्मुख्यमुच्यते || २७ || ननु चक्षुषो बहिःप्रसरस्वभावस्य कथं प्रत्यावृत्तिः स्यादिति चेदाह - चक्षुरिति | प्रत्यावृत्तचक्षुरित्यत्र विवक्षितं चक्षुर्नैतद् गोलकं बहिः सर्वैर्दृश्यमानम् किन्तु मन एव चक्षुःशब्देनोच्यते | ननु मनसः कथं चक्षुष्ट्वत्वमिति [क्: चक्षुःशब्दत्व] चेत्तदेव मुख्यं चक्षुरित्याह - येनेति | जाग्रति नेत्रव्यापारस्य मनोऽधीनत्वेन स्वप्नेषु मनस एव चक्षूरूपत्वेन च मन एव मुख्यं चक्षुरिति भावः || २७ || तस्य प्रत्यावृत्तिरपि प्रोच्यते शृणु भूसुर | अप्रत्यावृत्तचक्षुर्वै नैव पश्यति किञ्चन || २८ || तस्य मनोरूपमुख्यचक्षुषः | मनसः प्रत्यावृत्तिं विना न किञ्चिदपि पश्यतीत्यर्थः || २८ || दिदृक्षुश्चक्षुषा किञ्चित्तदन्येभ्यो ह्यशेषतः | प्रत्यावृत्त्य दृढं तस्मिन्नेव संयोजयेद्यदि || २९ || एतदेव निरूपयति - दिदृक्षुरिति | किञ्चिद्दिदृक्षुः पुरुषो दिदृक्षितादन्येभ्योऽशेषेभ्यो मनः प्रत्यावृत्त्य तस्मिन् दिदृक्षित एव यदि निश्चलत्वेन दृढतया मनः संयोजयेत्तदा तद्भासत इत्यन्वयः || २९ || तदा तद्भासते स्पष्टं नान्यदा तु कदाचन | अन्यदा तु पुरोवृत्ति न स्पष्टं भासते क्वचित् || ३० || तद् दिदृक्षितम् | अन्यदा मनसोऽप्रत्यावृत्तिकाले | भासमानमपि न विशेषरूपेण स्पष्टं भासत इत्याह - अन्यदेति || ३० || प्. २६३) अभातकल्पमेव स्यादप्रत्यावृत्तचक्षुषा | एवं श्रोत्रत्वगादीनां भूदेवावेहि संस्थितिम् || ३१ || एवमस्पष्टं भातमभाततुल्यमित्याह - अभातेति | एवं नेत्रवत् | प्रत्यावृत्तमनस एव श्रोत्राद्यैः शब्दादिग्रहणमिति भावः || ३१ || मनसाऽप्येवमेव स्यात् सुखदुःखावभासनम् | नाप्रत्यावृत्तमनसा किञ्चिद् वेदितुमर्हति || ३२ || मानससुखाद्यवभासनमप्येवमेवेत्याह - मनसेति | पुरुषो वेदितुमर्हति || ३२ || तस्मात्तदेकपरता परावृत्तिश्च चक्षुषः | प्रत्यावृत्तं मनः शुद्धं निजरूपावभासकम् || ३३ || तस्मादुक्तप्रकारेणान्वयव्यतिरेकदर्शनात् | दिदृक्षितैकपरता तदन्येभ्यःपरावृत्तिश्च मनसो दिदृक्षितावभासनेऽपेक्षितेति शेषः | आत्मनो निजरूपावभासकं प्रत्यावृत्तं मन एव | न [एतच्चात्रैवाग्रेऽनुपदमेव स्पष्टीभविष्यति] तस्य तदेकपरताऽपेक्षितेति भावः || ३३ || अत्र ते सम्प्रवक्ष्यामि शृणु तन्नियतान्तरः | अगोचरश्चेदात्मासौ मनसा गोचरोऽपि च || ३४ || अत्र आत्मावभासने | यद्विशेषं प्रवक्ष्यामि तच्छृणु | मनसः अगोचरो गोचरश्च || ३४ || अत्र मुह्यन्ति बहवः श्रुत्यगमविवेचकाः | मनोगोचरता बाह्ये द्विप्रकारेण संस्थिता || ३५ || अत्र आत्मनो मनोगोचरत्वं तदभावश्चेत्यत्र | एतदेव निरूपयितुमुपक्रमते - मन इति | बाह्ये अनात्मनि || ३५ || आद्यान्येभ्यः परावृत्तिः परा तत्परता भवेत् | अन्येभ्यस्तु परावृत्तिमात्रेऽपि मनसः सति || ३६ || द्विप्रकारतामेवाह - आद्येति | दिदृक्षितादन्येभ्यः परावृत्तिः | परा द्वितीया | तत्परता तदेकनिष्ठितिः | एवं द्विविधा मनोगोरचता मनोव्यापारः | अन्यपरावृत्तिमात्रमेवास्तु तत्परता मास्त्विति चेदाह - अन्येभ्य इति || ३६ || प्. २६४) न किञ्चिद्भासयेद्वस्तु तटस्थाअसरेषु यत् [क्: तत्] | तस्मात्तत्परताप्यत्र व्यापारो मानसः परः || ३७ || तटस्थावसरेषु उदासीनदशासु | यद्यस्माद् न [क्: न नास्ति] किञ्चिद्वस्तु भासयेत् तस्मात्तत्परताऽप्यत्र वस्तुभासने मानसः परो द्वितीयो व्यापार एष्टव्य इति शेषः | यद्यपि तत्परत्वमात्रस्य मनोव्यापारत्वे न कश्चिद्दोषः तथापि तत्परत्वमात्रमित्यत्र मात्रपदार्थ एवान्यपरावृत्तिरिति ज्ञेया || ३७ || एवं व्यावृत्तभावानां व्यापारद्वयभासनम् | अव्यावृत्ता चितिर्यस्मात्तस्मान्नात्र तथा भवेत् || ३८ || एवमुक्तरीत्या व्यावृत्तभावानां परिच्छिन्नानात्मवस्तूनां मानसव्यापारद्वयेन भासनम् | अत्र चिदात्मविषये | न तथा न व्यापारद्वयापेक्षं भासनं भवेत् || ३८ || अन्येभ्यस्तु परावृत्तिमात्रेणैवावभासयेत् | यथा पुरःस्थितादर्शे किञ्चिद्दर्शनहेतवे || ३९ || तर्हि कथं तदवभासनमिति चेदाह - अन्येभ्य इति | मनश्चिदात्मानमवभासयेत् | अत्र दृष्टान्तः - यथेति | किञ्चित् प्रतिबिम्बदर्शनहेतवे || ३९ || अन्येभ्यस्तु परावृत्तिराभिमुख्यं च तस्य वै | अपेक्ष्यते दर्पणस्य प्रतिबिम्बदिदृक्षुणा || ४० || तत्प्रतिबिम्बादन्यप्रतिबिम्बेभ्यः परावृत्तिस्तत्प्रतिबिम्बाभिमुख्यं च बिम्बदिदृक्षुणाऽपेक्ष्यते || ४० || गगनं दर्पणे द्रष्टुं यदा समभिवाञ्छति | तदाऽन्येभ्यः परावृत्तिमात्रेण हि कृतार्थता || ४१ || दर्पणान्तर्गतयत्किञ्चित्प्रतिबिम्बावभासने व्यापारद्वयापेक्षामुक्त्वा तदनतर्गतप्रतिबिम्बगगनदर्शने न व्यापारद्वयापेक्षेत्याह - गगनमिति | अन्येभ्यः प्रतिबिम्बेभ्यः | कृतार्थता प्रतिबिम्बगगनावभासनसिद्धिः || ४१ || प्. २६५) गगनं सर्वतो व्याप्तं दर्पणे सर्वदा स्थितम् | अव्यावृत्तं किन्तु चान्यैरभिच्छन्नं न भासते || ४२ || एतदेवोपपादयति - गगनमिति | दर्पणे प्रतिबिम्बगगनं सर्वतो व्याप्तं सदा स्थितं च तद्गतनिखिलप्रतिबिम्बेभ्योऽव्यावृत्तं च [क्: त्तेश्च] | एवं स्थिते प्रतिबिम्बभासनकाले कुतो न भासत इति चेदाह - किन्तु चान्यैरिति | अन्यैः प्रतिबिम्बैरित्यर्थः || ४२ || सर्वाश्रयं सर्वगतमपि तैश्छादितं यतः | अतस्तेभ्यः परावृत्तिमात्रेणैव विभासते || ४३ || सर्वप्रतिबिम्बानामाश्रयमपि | दर्पणे सर्वत्र गतं स्थितमपि | तैः प्रतिबिम्बः | यतः छादितम् अतः प्रतिबिम्बेभ्यः परावृत्तिमात्रेण गगनं विभासते | यद्यप्यत्र तटस्थस्य तद्गगनावभासात्तत्परत्वमप्यपेक्षितमेव तथापि प्रतिबिम्बदिदृक्षोर्दरपणतत्परस्य अन्यप्रतिबिम्बपरावृत्तिमात्रेण दर्पणतत्परत्वेनैव गगनावभासनम् न तत्परतान्तरमपेक्षितमिति बोध्यम् [ख्, ग्: ध्येयम्] || ४३ || एव चितिः सर्वगता सर्वाश्रयतया स्थिता | सर्वकाले समापूर्णा मनसि व्योमवद् द्विज || ४४ || दार्ष्टान्तिके योजयति - एवमिति | सर्वकाले समेति | दर्पणगगनवद् घटादिभासनकालेऽपि सर्वगतत्वादिकं न त्यजतीत्यर्थः | दर्पणे गगनवन्मनसि पूर्णा || ४४ || तस्मादन्यपरावृत्तिमात्र मनस इष्यते | पश्य विप्र चितिः कुत्र कदा नास्त्यवभासिनी || ४५ || यस्मान्मनसि सर्वदा पूर्णा तस्मात् | संविदात्मस्वभावभासनेऽनात्मवस्तुभ्यः परावृत्तिमात्रं मनसः प्रत्यावृत्तत्वमितीष्यते | अत्रेदं तात्पर्यम् - शुद्धचिदात्मनः सर्वगतत्वेन मनोगतत्वे सिद्धे चिदात्मनोऽन्येभ्यः परावृत्तस्य मनसः स्वप्रकाशस्य स्वानभिमुख्या घटना निसर्गसिद्धं स्वाभिमुख्यमिति नापूर्वस्य तत्परत्वस्यापेक्षेति | चितिः सर्वगतेत्येतत् साधयति - पश्येति || ४५ || प्. २६६) यदा यत्र च सा नास्ति न यदा नापि यत्र च | तस्माच्चिदात्मावभासे मनसोऽन्यपरावृतिः || ४६ || सा चितिः | न यदेति | यदेत्युक्तः कालो यत्रेत्युक्तो देशश्च तदा न सिद्ध्येदिति भावः | तस्मात् सर्वगतत्वादन्यपरावृत्तिः केवलाऽपेक्षितेति सम्बन्धः || ४६ || केवलापेक्षिता नैवाभिमुख्यं नूतनं क्वचित् | आभिमुख्याभावहेतोरेवाऽवेद्यत्वमिष्यते || ४७ || आभिमुख्यस्य निसर्गसिद्धत्वान्नूतनं तन्नापेक्षितमित्याह - नैवेति | चिदात्मनोऽवेद्यत्वमाभिमुख्यानपेक्षणादेवोच्यत इत्याह - आभिमुख्येति || ४७ || अत एव शुद्धमनोवेद्यं तत्तत्त्वमुच्यते | अन्येभ्यस्तु परावृत्तिरेव शुद्धिर्हि मानसी || ४८ || अत एवेति | अवेद्यत्वस्याभिमुख्यानपेक्स्ऽणहेतुकत्वादेव | केयं शुद्धिरिति चेदाह - अन्येभ्य इति || ४८ || एतदेव परं तत्त्वज्ञाने साधनमुच्यते | यावन्नहि मनः शुद्धं तावज्ज्ञानं कथं भवेत् || ४९ || एतदेव अन्यपरावृत्तिरेव | परं मुख्यं साधनम् | व्यतिरेकतोऽस्य मुख्यसाधनत्वमाह - यावदिति || ४९ || शुद्धे मनसि वै ज्ञानं कथं वा न भवेद् ध्रुवम् | उपक्षीणं सर्वमत्र साधनं तस्य शोधने || ५० || अन्वयतोऽपि तस्य मुख्यतामाह - शुद्ध इति | कर्मोपासनादि सर्वं [क्: सर्व] शास्त्रोक्तसाधनं मनःशोधन एव विनियुक्तमित्याह - उपक्षीणमिति | अत्र अस्मिन् | तस्य मनसः शोधने || ५० || कर्म वोपासनं वापि वैराग्यादिकमेव वा | मनसः शोधने एव विनियुक्तं न चान्यथा || ५१ || एतदेव स्पष्टमाह - कर्म वेति | आदिना भक्तिश्रद्धादि | न चान्यथा न साक्षाज्ज्ञाने विनियोगः || ५१ || प्. २६७) तस्माच्छुद्धेन मनसा भासते तत् परं वपुः | इति राज्ञेरितं श्रुत्वा त्वष्टावक्रः पुनर्जगौ || ५२ || तस्मात् सर्वसाधनानां मनःशोधने उपक्षीणत्वात् | परं वपुः शुद्धचिद्वपुरात्मा | राज्ञा जनकेन || ५२ || राजस्त्वयोक्तमन्येभ्यः परावृत्तिर्हि मानसी | केवला चेत् सा परा चिद् मनसा प्रविभासते || ५३ || अन्येभ्यः अनात्मवस्तुभ्यः | तत्परत्वमनपेक्ष्य मनसोऽन्यपरावृत्तिः [ग्: न्या परा] केवला सम्पन्ना चेच्छुद्धात्मस्वरूपं भासत इति त्वयोक्तम् || ५३ || तत् सुषुप्तौ विभासेत परावृत्तं मनस्तदा | ततः [क्: तत्र] किं साधनैरन्यैः सुप्तिमात्रात् कृतार्थता || ५४ || एवं चेत् सुषुप्तौ मनसोऽन्यपरावृत्तत्वात् तद् आत्मस्वरूपं विभासेत | ततः साधनानां वैयर्थ्यमित्याह - किं साधनैरिति || ५४ || इति पर्यनुयुक्तोऽथ विप्रेणोवाच भूपतिः | समाहितः शृणु ब्रह्मन् समाधानं वदामि ते || ५५ || पर्यनुयुक्तः आक्षिप्तः || ५५ || सत्यं सुषुप्तौ मनसः परावृत्तिस्तु सर्वथा | लीनं मनस्त्वं चाप्यस्य कथं तामवभासयेत् || ५६ || समाधानमाह - सत्यमित्यादि | सर्वथा परावृत्तिरस्तीति सत्यम् | अस्य मनसो मनस्त्वं वस्त्ववभासनसामर्थ्यं निर्मलतात्मकसात्त्विकत्वमिति यावत् | लीनं तमसाच्छन्नम् | तस्मात् तां शुद्धचितिं कथमवभासयेत् [क्: कथमनव] || ५६ || कज्जलेन समालिप्ते दर्पणे गगनं नहि | अन्येभ्यस्तु परावृत्तिमात्रेण भासते क्वचित् || ५७ || अत्र दृष्टान्तः - कज्जलेनेति || ५७ || प्. २६८) एवं विलिप्ते मनसि निद्रयाऽन्यपरावृतेः | अयोग्यत्वादेव मनो भासयेन्न चितिं क्वचित् || ५८ || दार्ष्टान्तिके योजयति - एवमिति | निद्रया तमोरूपया जडशक्त्या | अन्यपरावृत्तेरेव हेतोर्मनो न क्वचित् चितिं भासयेत् | कुत इति चेदाह - अयोग्यत्वादिति || ५८ || अन्यथा लोष्टकुड्यादेरपि भायात् कुतो न सा | तस्माद्योग्येन मनसा शुद्धेन भासते हि सा || ५९ || योग्येन मनसाऽवभासेत | अयोग्येनापि यदि वस्तु भासेत तर्हि लोष्टादिभिर्हस्तगृहीतैरन्येभ्यो दूरमपसरणेन परावृत्तैर्घटाद्याभिमुख्येन स्थापितैरपि घटादिकं केवलपरावृत्तैर्वा सा चितिः कुतो न भायादित्याह - अन्यथेति | कुड्यादेः कुड्यादिभिः | ततो योग्यशुद्धमनसा शुद्धा चितिर्भासत इत्याह - तस्मादिति || ५९ || अतः सद्योजातशिशोर्भासते नहि किञ्चन | अथापि शृणु वक्ष्यामि मषीलिप्ते हि दर्पणे || ६० || अतः सद्योजातशिशोर्मनसोऽयोग्यत्वात् | समाधानान्तरं सदृष्टान्तमाह ##- अलक्षितं चापि मषीप्रतिबिम्बनमस्ति वै | संश्लेषान्न विलक्ष्येत स्वभावस्यानपोहनात् || ६१ || मषीलिप्ते दर्पणे मषीप्रतिबिम्बनं केनाप्यलक्षितमस्ति | अस्ति चेत् कुतो न लक्ष्यत इति चेदाह - संश्लेषादिति | कुत एवं कल्प्यत इति चेदाह - स्वभावस्येति | सम्मुखस्थप्रतिबिम्बग्रहणस्वभावस्य | अनपोहनात् अनपायात् | सम्मुखस्थप्रतिबिम्बग्रहणस्वभावे हि दर्पणे मषीप्रतिबिम्बनमावश्यकमिति भावः || ६१ || तथा मनः सुषुप्तिस्थं संश्लिष्टं निद्रयैव हि | अतोऽन्येभ्यः परावृत्तेरभावाद् भासयेन्न ताम् || ६२ || दार्ष्टान्तिके योजयति - तथेति | मषीसंश्लिष्टदर्पणवन्मनो निद्रया संश्लिष्टम् | अतो निद्रासंश्लेषाद्धेतोः | निद्राकारग्रहणात् सुषुप्तावन्यपरावृत्तेरभावान्मनो न तां शुद्धां चितिं भासयेत् || ६२ || प्. २६९) अतो निद्रास्मृतिरपि व्युत्थितस्य हि सम्भवेत् | मूढतापि च या तस्यां दशायामनुभूयते || ६३ || अतः सुषुप्तौ निद्राकारग्रहणात् | सुषुप्तेर्व्युत्थितस्य न किञ्चिदवेदिषमिति निद्रास्मृतिः संभवेत् स्मृतेर्ग्रहणपूर्वकत्वनियमादिति भावः | सुषुप्तौ निद्रासंश्लेषाभ्युपगमादेव तस्यां सुषुप्तिदशायां निद्रात्मकमूढताऽनुभूयत इति स्मृत्यनुरोधेन यत् कल्पितं तदपि सम्भवेदिति ज्ञेयम् || ६३ || तत्ते सम्यक् प्रवक्ष्यामि शृणु सम्यक् समाहितः | मनसस्तु द्विधाऽवस्था प्रकाशामर्शभेदतः || ६४ || एवं सुषुप्तावात्मावभासप्रसक्तिं सुषुप्तौ मनसो मनस्त्वस्य लीनत्वान्निद्रातत्परत्वेनान्यपरावृत्त्यभावाच्चेति हेतुना निराकृत्य भूयः सुषुप्त्यादिस्वरूपभेदविवेचनेनापि दोषनिराकरणायारभते - तत इति | तत् सुषुप्तिसमाध्योर्भेदम् | प्रकाशावस्था आमर्शो विमर्शावस्था चेति || ६४ || बहिरर्थेषु विश्रान्तिर्या प्रकाशः स उच्यते | यस्तद्विचारः स्वस्मिन् वै स विमर्श उदाहृतः || ६५ || एतयोरेव स्वरूपं विशदयति - बहिरिति | बहिर्मनसो याऽर्थेषु विश्रान्तिः सम्बन्धः स प्रकाशः प्रकाशावस्थोच्यते | स्वस्मिन् मनसोऽन्तः प्रतिबिम्बत्वेन गृहीतस्य तस्यैवार्थस्यायमीदृश इति शब्दसम्भेदात्मा विचारः स विमर्शः विमर्शदशा | इदमत्र तात्पर्यम् - मनो हीन्द्रियादिद्वारा घटादिविषयसम्बद्धमादौ भवति | तत्काले हि घटादिवस्तु केवलमयं घट इति शब्दोल्लेखवर्जनेनाव्यावृत्तरूपेण प्रकाशते | एतदेव सविकल्पज्ञानहेतु [क्: ज्ञाने हेतु] निर्विकल्पकं नित्यानुमेयमिति ज्ञानानां परतःप्रामाण्यवादिन आहुः | एतदेव वस्तुप्रकाशो वस्तुदर्शनमित्यागमेषूच्यते | एवं वस्तुप्रकाशोत्तरक्षणे बाह्यघटादेर्यः प्रतिबिम्बात्मको मनस्याकारः तस्यायमीदृश इति शब्दसम्भेदेनेतरव्यावृत्तस्वरूपविचारात्मावभासो यः स विमर्शः सविकल्पकमिति चोच्यत इति | एतदुक्तं प्रत्यभिज्ञायाम् - इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते | वस्तु प्रमाणं तत् सोऽपि स्वाभासोऽभिनवोदयः || सोऽन्तस्तथा विमर्शात्मा देशकालाद्यभेदिनि | एकाभिधानविषये मितिर्वस्तुन्यबाधिता [क्, ख्: प्रतिवस्तुन्यबाधिता] || (२|१६##- प्. २७०) प्रकाशो निर्विकल्पः स्याद् वस्तूनामविभेदतः | विमर्शः शब्दसम्भेदाद् विभेदात् सविकल्पकः || ६६ || एवदेव स्पष्टमाह - प्रकाश इति अविभेदतः अव्यावृत्तरूपेण वस्तूनां प्रकाशो निविकल्पको भवेदिति शेषः | विभेदाद् व्यावृत्तरूपेण शब्दसम्भेदाद् वस्तूनां विमर्शः सविकल्पको भवेत् || ६६ || अयमेवंविध इति शब्दसम्भेदवर्जितः | वस्तुदर्शनरूपोऽसौ प्रकाशो निविकल्पकः || ६७ || पुनरेतस्यैव विवरणं श्लोकद्वयेन क्रियते - अयमिति || ६७ || अयमेवंविध इति वस्तुदर्शनमूलकः | शब्दसम्भिन्नरूपोऽसौ विचारात्मावभासनः || ६८ || वस्तुदर्शनं निर्विकल्पकं मूलं कारणं यस्य | अयमेवंविध इति | विचारात्मा अवभासनं यस्य सः सविकल्पक इति शेषः || ६८ || आन्तरोऽभिनवोऽन्यो वा विमर्श इति कीर्तितः | तत्र योऽभिनवाभासः स प्रोक्तोऽनुभवात्मकः || ६९ || एवंविधो विमर्श आन्तरो मानसप्रतिबिम्बालम्बनः | सोऽपि - अभिनवः अन्यश्चेति द्विविधः कीर्तितः | तत्र तयोर्मध्ये योऽभिनवाभासः सोऽनुभवात्मकः || ६९ || अन्यः स्मृत्यनुसन्धानात्मकः संस्कारसम्भवः | एवं मनो द्विप्रकारशक्तियुक्तं सदा स्थितम् || ७० || तदन्यो यः सविकल्पः स्मृतिरूपऽनुसन्धानरूपश्च विकल्पः संस्कारसम्भवः प्रागनुभवोत्थसंस्कारजन्यः | एवमुक्तरीत्या मनः प्रकाशामर्शात्मकनिर्विकल्पसविकल्पकाभासशक्तिद्वययुक्तं भवति || ७० || प्. २७१) निद्राप्रकाशरूपाऽसौ सुषुप्तिश्चिरसंस्थिता | जागरामर्शबहुला चेत्यमूढदशोच्यते [च इति अमूढ इति च्छेदः] || ७१ || एवं मनसो द्वैविध्यं प्रतिपाद्य सुषुप्तेर्मूढदशात्वमुपपादयितुमुपक्रमते - निद्रेति | निद्राविषयको यः प्रकाशो निर्विकल्पं ज्ञानम् तद्रूपा सुषुप्तिः | चिरसंस्थिता घटादिनिर्विकल्पवन्न क्षणिकेत्यर्थः | चस्त्वर्थे | जागरदशा तु आमर्शबहुला आमर्शाः सविकल्पज्ञानानि बहुलानि यस्यां सा एकैकनिर्विकल्पोत्तरमनेकसविकल्पोदयादामर्शबहुला जाग्रत् इत्यतो हेतोः सा अमूढदशोच्यते | सुषुप्तावामर्शाभावान्मूढतेति तात्पर्यम् || ७१ || प्रकाशनिबिडा यस्मात् सुषुप्तिर्मूढतात्मिका | अत एव हि दीपादेः प्रकाशनिबिडत्वतः || ७२ || सुषुप्तिर्यस्माद्धेतोः प्रकाशनिबिडा केवलप्रकाशात्मिका विमर्शहीनेति तात्पर्यम् | तस्मात् सुषुप्तिर्मूढतारूपा | मूढदशेति यावत् | अत्रायं भावः - चिदात्मा हि प्रकाशैकवपुरपि नहि शान्तात्मवादिनामिवाश्मशकलकल्पः जडत्वप्रसक्तेः | अपि तु स्फुरत्प्रकाशरूपः | स्फुरत्प्रकाशरूपत्वं हि न दीपादिष्विति जडतो व्यावृत्तिः | एषैव स्फुरद्रूपता चैतन्यं विमर्शश्चितिशक्तिः क्रिया स्पन्दः पराहन्तेत्यादिपदैरागमेषूच्यते | एवंरूपत्वादेव परात्मनो जगत्क्रियाप्रभविष्णुत्वम् | यदाहुराचार्याः - शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवोन खलु कुशलः स्पन्दितुमपि (सौ० ल० १|१) इति | नह्यत्र शिवोऽनिर्वचनीयमृषात्मकमायाशक्त्या युक्त इत्यर्थोऽभिप्रेतः तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीम् (सौ० ल० १|२२) इति भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् (सौ० ल० १| ८) इति तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये [महामाया इति मुद्रितग्रन्थपाठः] विश्वं भ्रमयसि परब्रह्ममहिषी (सौ० ल० २|५८) इति च प्रस्तुतशक्तिस्वरूपनिरूपणासामञ्जस्यप्रसक्तेः | प्. २७२) न च जगतः शशविषाणकल्पत्वेन तत्क्रियायाश्च तत्समशीलत्वान्न परात्मनो निरुक्तरूपताभ्युपगमः सप्रयोजन इति वाच्यम् शून्यवादप्रसक्तेः | जगतः शशविषाणकल्पत्वाभ्युपगमे हि - यतो वा इमानि भूतानि जायन्ते (तैत्ति० ३|१) जन्माद्यस्य यतः (ब्र० सू० १|१|२) एतद् यस्मात् समुत्पन्नम् इत्यादिश्रुतिस्मृत्यागमानामुन्मत्तप्रलपितत्वप्रसक्तेश्च | न च नास्ति शून्यवादप्रसक्तिः परचिदात्मनोऽभ्युपगमादिति वाच्यम् अभ्युपगमपदार्थस्य जगदन्तःपातित्वेन शशविषाणकल्पत्वेनासिद्धेः | ननु जगत्स्वरूपाभ्युपगमे द्वैतप्रसक्तिः नेह नानास्ति किञ्चन (बृ० उ० ४|४|१९) इत्यादिश्रुत्यादिव्याकोपश्चेति चेत् अतत्त्वज्ञोऽस्यद्वैतशास्त्रस्य | नहि जगतः शून्यतामाह क्वचिदद्वैतशास्त्रम् सदेव आसीत् (ऐत० उ० १|१) ऐतदात्म्यमिदं सर्वम् (छ० उ० ६|८|७) तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र० सु०० २|१|१४) एक एव परात्माऽसौ भासते जगदात्मना इत्यादिश्रुत्यादिभिर्जगतः सत्यतानिरूपणात् | नास्त्यद्वैतहानिरपि | यतो दर्पणान्तर्भासमानप्रतिबिम्बनगरस्य विभिन्नत्वेन भासमानस्यापि दर्पणमात्रात्मता न ततो दर्पणस्याद्वितीयरूपताहानिरेवं परचिदात्मनि भासमानजगतः परचिदात्ममात्रता ततो नाद्वैतस्वरूपहानिश्च | नेह नानास्ति (बृ० उ० ४|४|१९) इत्यादिनिषेधस्तु द्वैतमात्रपर्यवसितोऽभिप्रेतः | अत एव - सर्वं मायेति यज्ज्ञानमज्ञानं परिकीर्तितम् | सर्वं शिव इति ज्ञानं ज्ञानं ज्ञानविदो विदुः || घट्पटशकटावभासजालमसदिति [क्: श्लोकस्य पूर्वार्धो नास्ति] विदितं भवेदविद्या | घटपटशकटावभासजालं सदिति सुविदितं भवेद्धि विद्या || (यो० वा० ६ पू० |१०|४५) इत्यादिसूतसंहितावासिष्ठाद्युक्तिसङ्गतिः | तथा च परचिदात्मा मायाऽपराभिधानस्वस्वातन्त्र्यमात्रात् स्वात्मानमेव विचित्रवैश्वरूप्येऽनावभासयति स्वावभासितपरिच्छिन्नचिदात्मकजीवदृष्ट्या | एवमवभासिते विश्वरूपे द्वैतदृष्टिर्जीवानां बन्धः अद्वैतदृष्टिर्मोक्षः | स्वातन्त्र्यं वैश्वरूप्यावभासनं जीवावभासनं तद्वन्धावभासो मोक्षावभासश्चेत्येतत्सर्वं दर्पणप्रतिबिम्बवद् भगवता स्वातन्त्र्येनावभासितं स्वप्नसङ्कल्पनगरवदवभासनमात्रसारम् [क्, ख्: स्वसं० अवभासनं तु परचिदेकरूपमिति सर्वमनवद्यम् | तथा च परचिदात्मनि जीवितभूतो विमर्शः | सुषुप्तौ निद्रारूपजडशक्तिप्रतिबिम्बेन [क्, ख्: बिम्बैर्न] विमर्शाशाच्छादनान्मूढतेति सर्वैर्विद्वद्भिर्निश्चितेति सम्बन्धः | घटादिदृश्यानां चिदेकरसत्वेऽपि तत्र विमर्शांशानुन्मेषादेव जडत्वम् | एवं दीपस्य प्रकाशनिबिडस्यापीति | तस्माद्विमर्शानुन्मेष एव जाड्यनिमित्तमिति तात्पर्यम् || ७२ || प्. २७३) निश्चिता मूढता सर्वैर्विद्वद्भिरपि सर्वथा | निद्रा प्रथमजाऽव्यक्तं महाशून्यमिहोच्यते || ७३ || सुषुप्तौ निद्रयाच्छादनाद् विमर्शानुन्मेष इत्युक्तम् | केयं सा निद्रेति चेदाह - निद्रेति | प्रथमजाऽव्यक्तम् | सृष्टौ प्रथमतो यः स्वरूपसङ्कोचोऽवभासितस्तन्नान्तरीयको यो बाह्यावभासो जगच्चित्रभित्तिरूपत्वेन [क्: मिति] प्रागुदाहृतस्तदेव प्रथमं जातत्वात् प्रथमजम् | न केनचिदाकारेण क्वचिद् व्यज्यत इत्यव्यक्तम् | अत एवाकाराद्यभावाद् महाशुन्यम् | इह सुषुप्तौ निद्रेत्युच्यते || ७३ || नास्ति सामान्यपदवी सुषुप्तिस्तत्प्रकाशनम् | वस्तुदर्शनकालेऽपि जाग्रत्येवंविधं मनः || ७४ || नास्ति सामान्यपदवीति | नास्तीति यः प्रत्ययः तत्सामान्यस्य पदवी विषयः दृश्यसामान्याभाव इति यावत् | प्रोक्ताव्यक्तमेवात्यन्ताभावः | सुषुप्तौ न किञ्चिदवेदिषमिति स्मृत्यनुरोधेन न किञ्चिदिति दृश्यसामान्याभावः प्रकाशत इति भावः | सुषुप्तिर्हि एवंविधनिद्राप्रकाशनं निद्राप्रकाशावस्था | वस्तुदर्शनं घटादिनिर्विकल्पः | तत्कालेऽपि जाग्रद्दशायाम् | एवंविधं सुषुप्तिदशायामिव मूढमेव मनो भवति || ७४ || प्. २७४) किन्तूत्तरक्षणोद्भूतविकल्पौघैस्तिरोहितम् | सुषुप्तावव्यक्तशक्तिप्रकाशनिबिडत्वतः || ७५ || ननु सुप्ताविव जाग्रति न कदाचिदपि मूढताऽनुभूयत इति चेदाह - किन्त्विति | जाग्रति निर्विकल्पस्य क्षणिकत्वेन तदुत्तरोद्भूतविकल्पज्ञानसमुदायेन मूढत्वं तिरोहितम् | ननु सुषुप्तौ मनो विलीयत इति प्रसिद्धमन्यत्र [सुषुप्तिकाले सकले विलीने (१|१३) इति कैवल्योपनिषदादौ] तत् कथं निद्राप्रकाशकं मन इत्युक्तमिति चेदाह - सुषुप्ताविति | अव्यक्तशक्तिप्रकाशैकरूपत्वान्मनसो विमर्शांशानुन्मेषादिति तात्पर्यम् | विविञ्चन्तीति सम्बन्धः || ७५ || मनो विलीनमित्येवं विविञ्चन्ति विवेचकाः | वस्तुदर्शनकालेऽपि चैवं लीनं मनो भवेत् || ७६ || मन इति | तदानीं निर्विकल्पैकरूपत्वेन स्थिरत्वान्मनसः प्रतिक्षणभिन्नपरिणामाभावमात्रेण मनो विलीनमित्येवं [क्: मित्येव] विवेकनिपुणा विविञ्चन्ति निश्चिन्वन्ति | चेत्याभिमुखता प्राप्तं चित्तत्त्वं चित्तमुच्यते इत्याद्युक्त्या चिदात्मतत्त्वमेव विषयेषु प्रसरदिव स्थितं मन इत्युच्यते | सुषुप्तौ स्थिरत्वेन प्रसरद्रूपताभावान्मनो वस्तुदर्शनात्मकघटादिनिर्विकल्पकाले तुल्य इत्याह - वस्त्विति || ७६ || प्. २७५) शृणु ब्रह्मन् रहस्यं ते वक्ष्यामि स्वानुभूतितः | यत्र मुह्यन्ति विद्वांसोऽप्यतिसूक्ष्मविवेचकाः || ७७ || एवं सुषुप्तेर्जाड्यतामुपपाद्य समाधिसुषुप्त्योर्भेदौपपादयितुमुपक्रमते - शृण्विति | स्वानुभूतितः स्वानुभवानुसारेण | रहस्यत्वे हेतुमाह - यत्रेति | सूक्ष्मवस्तूनां स्वरूपस्य विवेचनकुशला अपि यत्र वक्ष्यमाणार्थे मुह्यन्ति || ७७ || निर्विकल्पसमाधिश्च सुषुप्तिर्वस्तुदर्शनम् | त्रयमेतच्चैकविधं प्रकाशनिबिडत्वतः || ७८ || तदेवाह - निर्विकल्पेति | निर्विकल्पसमाधिः चिदात्मनः स्वप्रकाशमात्रात्मनाऽवस्थितिः | सुषुप्तिर्वस्तुदर्शनं चाव्यक्तघटादिभावयोः प्रकाशौ | एतत्त्रयमप्येकविधं समानम् | तत्र हेतुः - प्रकाशनिबिडत्वत इति | अनुद्भूतविमर्शात्मत्वादित्यर्थः | प्रोक्तासु तिसृष्वपि दशासु विमर्शात्मकविकल्पशक्तेः स्थूलाया अयमीदृश इत्यादिशब्दमयया [क्, ख्: प्राप्त्या] अभावात् प्रकाशमात्रात्मत्वात् प्रकाशनिबिडत्वमितिभावः || ७८ || विमर्शभेदाद् भेदो हि लक्ष्यते व्यावहारिकैः | तत्र हेतुर्भास्यभेदादित्येव प्रविनिश्चयः || ७९ || तर्हि कथमियं सुषुप्तिरयं समाधिरित्यादिव्यवहारभेद इति चेदाह - विमर्शभेदादिति | तत्स्वरूपसाम्येऽपि तत्तदुत्तरोद्भूतानुसन्धानादिरूपविमर्शभेदादित्यर्थः | समाधेरुत्तरमेतावत्कालमहं तूष्णीमासमिति सुषुप्तेरुत्तरं न किञ्चिदवेदिषमिति वस्तुदर्शनोत्तरम् अयं घट इति च विमर्शभेदो ज्ञेयः | ननु कारणसाम्ये कार्यसाम्यनैयत्यात् कथं विमर्शस्यापि भेद इति चेदाह ##- समाध्यादीनामपि स्वरूपभेदः स्यादिति वाच्यम् शब्दसम्भेदात्मकविकल्पत्वा भावेन तेषां स्वरूपभेदाभावात् || ७९ || समाधौ केवलचितिः सुप्तावव्यक्तमेव च | दर्शने भिन्नभासो हि भास्यमेवं त्रिधा स्थितम् || ८० || भिन्नान् विषयानेवाह - समाधाविति | केवलचितिः दृश्यदेहाद्याकारासंवलितमात्मतत्त्वम् | अव्यक्तं प्रोक्तं बहिःपदस्यार्थभूतम् | भिन्नभासो व्यावृत्तत्वेन भासमानो घटादिः | यद्यपि चितेः परप्रकाश्यत्वरूपवेद्यत्वं नास्त्येव तथापि शुद्धमनोव्यापारापेक्षाया निरूपितत्वात् कथञ्चिद्वेद्यत्वमस्तीत्यवसेयम् || ८० || प्. २७६) भास्यभेदेऽपि भासस्तु केवलं निर्विकल्पकः | अतः प्रकाशनिबिड इत्येव संप्रचक्षते || ८१ || ननु भास्यभेदे समाध्यादेः स्वरूपभेद आवश्यक इति चेदाह - भास्येति | समाध्यादिभासस्तु न भिन्नः निर्विकल्पत्वात् | शब्दानुसम्भेदो हि विकल्पस्वरूपभेदकः | स प्रकृते नास्तीति न स्वरूपभेद इति तात्पर्यम् | यस्माच्छब्दासम्भेदेन विमर्शरहितः अतः समाध्यादिदशाभेदः प्रकाशनिबिड इति प्रचक्षते || ८१ || समाधिश्च सुषुप्तिश्च चिरकालभवत्वतः | अनन्तरं स्पष्टतया सर्वैरपि विमृश्यते || ८२ || ननु समाध्यादित्रयं तुल्यं चेत् समाधिसुषुप्ती इव वस्तुदर्शनमपि स्वोत्तरकाले सर्वैः स्पष्टं कुतो न विमृश्यत इति चेदाह - समाधिश्चेति | चिरकालेभवत्वत इति | अक्षणिकत्वादित्यर्थः || ८२ || क्षणिकत्वाद् दर्शनं तु स्पष्टं नहि विमृश्यते | एवं समाधिः सुप्तिश्च क्षणिका न विमृश्यते || ८३ || यथा वस्तुदर्शनं क्षणिकत्वादुत्तरकाले स्पष्टं न विमृश्यते एवं क्षणिकसमाधिसुषुप्ती न विमृश्येते इत्याह - एवमिति || ८३ || सुषुप्तिः क्षणिका तद्वत् समाधिरपि विद्यते | सुषुप्तिर्लक्ष्यते सूक्ष्मदृग्भिः परिचयात् खलु || ८४ || सुषुप्तिः समाधिश्च जाग्रदादौ विद्येते | तत्र क्षणिका सुषुप्तिस्तु दीर्घसुषुप्तेरनुभवेन परिचयात् सूक्ष्मदृग्भिर्लक्ष्यत इत्याह - सेति (सुषुप्तिरिति) | क्षणिकेत्यर्थः || ८४ || प्. २७७) समाधिस्त्वपरिचयात् सूक्ष्मो नहि विमृश्यते | सर्वेषां प्राणिनां ब्रह्मन् व्यवहारदशास्वपि || ८५ || समाधिरननुभूतत्वेनापरिचयान्न विमृश्यत इत्याह - समाधिरिति [क्, ख्: समाधिरिति ..... सर्वेषामिति नास्ति] | सूक्ष्मः क्षणिकः | ननु क्षणिकः समाधिः कस्यास्तीति चेत् आह - सर्वेषामिति | दशास्वपीति | जाग्रदादिष्वपीत्यर्थः | समाधयः सन्तीत्यन्वयः || ८५ || सूक्ष्माः समाधयः सन्ति चाव्युत्पत्त्या विभान्ति नो | जाग्रत्यविमृशिर्या स्यात् स समाधिरुदीरितः || ८६ || तर्हि ते समाधयः कुतो न भान्तीति चेदाह - अव्युत्पत्त्येति | स्वरूपापरिचयादित्यर्थः | जाग्रति समाधिः किंविध इति चेदाह - जाग्रतीति | या अविमृशिः या विमर्शाभावदशा स समाधिः || ८६ || विमर्शाभावमात्रं तु समाधिरभिधीयते | सुषुप्तौ दर्शने चापि समाधित्वमतः स्थितम् || ८७ || समाधिलक्षणमाह - विमर्शेति | अत एव सुषुप्तिवस्तुदर्शनयोः समाधित्वं स्थितम् || ८७ || किन्तु मुख्यसमाधित्वमनयोर्नहि विद्यते | भेदामर्शनसंस्कारगर्भितत्वान्न मुख्यता || ८८ || ननु तर्हि सुषुप्त्यादिनैव समाधिफलं भवेदिति चेन्नेत्याह - किन्त्विति | अनयोः सुषुप्तिवस्तुदर्शनयोः | भेदामर्शनेति | भेदोऽनात्मभूतं दृश्यवस्तु तद्विषयकं यदामर्शनं विकल्पज्ञानम् तस्य संस्कारः सूक्ष्मं शक्तिमयं रूपम् तेन गर्भितत्वाद् युक्तत्वात् | सुषुप्त्युत्तरं न किञ्चिदवेदिषमिति वस्तुदर्शनोत्तरमयं घट इति च निद्राघटरूपभेदविषयकमामर्शनं विकल्पज्ञानं भवति | एतयोः संस्कारात्मकं सूक्ष्मं यच्छक्तिमयं रूपं तत् स्वकारणे सुषुप्तौ वस्तुदर्शने चास्ति | कारणे कार्यस्य संस्कारात्मनाऽवस्थानस्य सत्कार्यवादिभिरङ्गीकृतत्वादिति भावः | समाध्युत्तरविमर्शनस्य चिदात्ममात्रविषयत्वेन भेदो ज्ञेयः || ८८ || प्. २७८) दर्शनं जाग्रति भवेदविमर्शनरूपकम् | तथापि ते प्रवक्ष्यामि मुनिपुत्रादराच्छृणु || ८९ || यथा सुषुप्तिसमाध्योरक्षणिकयोरविमर्शनरूपता तथा जाग्रति क्षणिकसुषुप्तिसमाध्योरपीत्याह - दर्शनमिति | जाग्रति निद्राचितात्मनोर्यत् क्सणिकसुषुप्तिसमाधिरूपं दर्शनम् तदपि घटादिदर्शनवदविमर्शनरूपमेवेत्यर्थः | ननु तर्हि समाधेरपि सुषुप्तिवज्जडावस्थात्वप्रसक्तिरिति चेदाह - तथापीति | यद्यपि साम्यमेव प्राप्तम् तथापि सूक्ष्मं विशेषं प्रवक्ष्यामीत्यर्थः || ८९ || अव्यक्तं यत्प्रथमजं नास्ति सामान्यकं हि तत् | नास्तीत्येव हि तद्भानमत्यन्ताभावरूपकम् || ९० || एवं समाधेर्जडत्वव्यावृत्तये विशेषनिरूपणं प्रतिज्ञाय तदर्थमेव सुषुप्तिसमाध्योर्विषयं परीक्षितुमुपक्रमते - अव्यक्तमिति | सृष्टेरादौ प्रथमजातं बहिःपदस्यार्थभूतम् अव्यक्तं यत् तदेव नास्ति सामान्यं नास्ति सामान्यप्रत्ययविषयम् | दृश्यसामान्याभाव [क्: सामान्यभाव] इति यावत् | सुषुप्तौ दृश्यसामान्याभावो भासत इत्यत्रानुभवं निदर्शयति - नास्तीति | हि यस्मात् | सुषुप्तौ यद्भासते तत् सामान्यतो नास्तीत्येव भासते | अतस्तत्र दृश्यात्यन्ताभाव एव भासत इत्यर्थः | सुषुप्तेर्व्युत्थितस्य न किञ्चिदवेदिषमिति स्मरणानुरोधेन सुषुप्तौ नास्तीत्येवानुभवओ वक्तव्यः | तथा च दृश्यसामान्याभाव एव तदा भासमानः सिद्ध्यतीति तात्पर्यम् || ९० || एषा सुषुप्तिरित्युक्ता जडशक्तिर्भवेच्चितः | दर्शने भासमानं च नास्त्याभासपदं यतः || ९१ || एवञ्च सुषुप्तेर्जडदशात्वं सिद्ध्यतीत्याह - एषेति | या चितः परचिदात्मनः दृश्यसामान्यात्यन्ताभावरूपाऽव्यक्तात्मकजडशक्तिः सैव [ग्: सैषा] सुषुप्तिरित्युक्ता भवेत् | यतः कारणात् सुषुप्तौ दर्शने ज्ञाने [क्: ज्ञानं भासमानं नास्त्याभासपदं नास्त्याभासो दृश्यात्यन्ताभावो जडशक्तिः पदं विषयो यस्य | न किञ्चिदवेदिषमिति स्मृत्याभासविषयस्यैव सुषुप्तिकालिकदर्शने भासमानत्वाद् ज्ञानस्य स्मृतिसमानाकारतानियमेन सौषुप्तज्ञानस्य जडशक्त्याकारतासिद्धौ सुषुप्तेर्जडरूपतेति भावः || ९१ || प्. २७९) अतः सुषुप्तिरेव स्याज्जडदर्शनसङ्गता | समाधौ भासमाना या चितिः सा ब्रह्मरूपिणी || ९२ || अत इति | सुषुप्तेर्व्युत्थितस्मृत्यनुरोधात् | सुषुप्तिरेव जडदर्शनेन जडशक्त्यात्मकात्यन्ताभावज्ञानेन सङ्गता युक्ता न समाधिरित्यर्थः | ननु सुषुप्ताविव समाधौ भासमानस्यापि जडशक्तित्वं कुतो न भवेदिति चेदाह - समाधाविति | समाधिर्नाम मनसोऽनात्मविषयेभ्यः परावृत्तस्य प्रत्यक्चिदात्माकारतयाऽवस्थितिः | तथा च जडशक्त्यवभासाभावः | ननु प्रत्यक्चितेर्जीवस्य परिच्छिन्नरूपत्वेन परिच्छेदकोपाधेरपि जडशक्तिरूपस्य समाधौ भासनमस्तीति चेदाह - सा ब्रह्मरूपिणीति | समाधौ भासमाना चितिरनवच्छिन्नत्वेन बृहत्वाद् ब्रह्मरूपिणीत्यर्थः || ९२ || भक्षिणी कालदेशानां नास्त्याभासविनाशिनी | सर्वथाऽस्तिमयो देवी सुषुप्तिः सा कथं भवेत् || ९३ || कुतः समाधौ भासमानचितेरपरिच्छिन्नतेति चेदाह - भक्षिणीति | कालदेशानां भक्षिणी ग्रसनशीलेत्यर्थः | आकाशपरिच्छेदकोपाधेर्घटादेर्भासनकाल एव परिच्छिन्नघटाकाशाद्यवभासनम् न त्वन्यदा एवं प्रकृतेऽपि चितेः परिच्छेदकदेशकालाकाराणां जडशक्तिपल्लवभूतानां दृश्येभ्यो [क्: देशेभ्यो] मनसः परावृत्तत्वेनावभासनाभावादपरिच्छिन्नत्वेन सामान्यचितिरूपत्वात् सर्वविषयावभासकतत्तत्परिच्छिन्नाखिलचित्यनुस्यूतरूपत्वेन कालदेशादिभक्षिणी ब्रह्मरूपिणी [क्: ब्रह्मरूपिणी नास्ति] सा चितिरिति भावः | परिच्छिन्नचितेर्हि अत्राधुनैवमाकाराऽस्ति अत्राधुनैवमाकारा नास्तीति [क्, ख्: नास्ति] ह्यभावरूपता सम्पद्यते अपरिच्छिन्नत्वेनैषा तु नास्तीत्याभासस्यात्यन्ताभावस्य विनाशिनी | नास्तीत्यत्र नेत्यंशस्यार्थभूतोऽत्यन्ताभावोऽनुपलब्ध्यात्मकप्रकाशजीवित-भूतोऽपि चित्प्रकाशसम्बन्धादस्तित्वाभिनिषिक्तः शून्यतां परित्यजति | नञर्थस्यापि शून्यस्य चित्सम्बन्धादस्तित्वप्राप्तेर्नास्त्याभासविनाशिनीति तात्पर्यम् | तस्मान्नञर्थसम्बन्धासम्भवात् सर्वथा भावरूपेणाभावरूपेण वा देवी प्रकाशैकरूपा सा परचितिरस्तिमयी सत्त्वैकघना सुषुप्तिवज्जडात्मिका कथं भवेदित्यर्थः || ९३ || प्. २८०) तस्मात् सुषुप्तिमात्रेण न भवेद्धि कृतार्थता | बोधयामास जनक इत्यष्टावक्रमुक्तिभिः || ९४ || तस्माद् जडमयत्वेन समाधिविलक्षणत्वात् | उपसंहरति - बोधयामासेति | इति बोधयामासेत्यन्वयः || ९४ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे अष्टावक्रीये षोडशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां षोडशोऽध्यायः || प्. २८१) अथ सप्तदशोऽध्यायः श्रुत्वैवं जनकेनोक्तमष्टावक्रः पुनर्नृपम् | पप्रच्छ यत्तद्वदामि शृणु भार्गव यत्नतः [ग्: संयतः] || १ || अत्र मायिकपद्यैस्तु प्रोक्ता क्षणसमाधयः | पुरुषार्थो न तैश्चेति ज्ञानप्राप्तिक्रमोऽपि च || एवं जाग्रति क्षणिकसमाधयः सन्तीति || १ || राजन् यदुक्तं भवता व्यवहारदशास्वपि | सूक्ष्माः समाधयः सन्तीत्येवं तन्मे [क्: तन्त्रे] वद स्फुटम् || २ || तत् क्षणिकसमाधिस्थानम् || २ || दशासु कासु ते सन्ति निर्विकल्पचिदात्मकाः | एवं तेनानुयुक्तोऽथ प्राह राजा महाशयः || ३ || एतदेव विशदयति - दशास्विति | व्यवहारदशात्मकजाग्रत्स्वप्नयोः कास्वन्तरालदशासु | ते निर्विकल्पचिदात्मकाः समाधयः | महानपरिच्छिन्न आशयश्चित्तं यस्य | अपरिच्छिन्नचिदाकारमानसः नित्यसमाहित इति यावत् || ३ || शृणु ब्रह्मन् प्रवक्ष्यामि व्यवहारे समाधयः | प्रियया सम्परिष्वक्तो नव्यया प्रथमं यदा || ४ || व्यवहारे ये समाधयस्तान् प्रवक्ष्यामि | तदेवाह - प्रिययेति | प्रियया मनःकान्तया | नव्यया अभुक्तपूर्वया | प्रथमं रत्यावेशोपक्रमे | यदा संपरिष्वक्तः सम्यगालिङ्गितः || ४ || तदा न वेद बाह्यं वाऽप्यान्तरं वा क्षणं नरः | तिष्ठेन्न निद्रयाक्रान्तः स समाधिरुदीरितः || ५ || तदा आलिङ्गनकाले | आदौ क्षणमात्रं बाह्यं दिग्देशकालाद्यम् | आन्तरं सुखदुःखादिकं वा न वेद | ननु बाह्यान्तरे [क्, ख्: बाह्यान्तरवेदनाभावः सुषुप्तौ] वेदनाभावे सुषुप्तो भवेदिति चेन्नत्याह - न निद्रयाक्रान्त इति | निद्राक्रान्त्या मूढतामप्राप्त एव यस्तिष्ठेत् सोऽयं व्यवहारदशायां क्षणसमाधिः || ५ || प्. २८२) यच्चिराद्वाञ्छितं किञ्चिदलभ्यत्वेन निश्चितम् | अकस्मात्तस्य संप्राप्तिर्यदा भवति वै मुने || ६ || यत्किञ्चिद् वस्तु चिरकालाद्वाञ्छितम् | अकस्मात् असम्भावितप्राप्तिकाल || ६ || तदा न वेद बाह्यं वाऽप्यान्तरं वा क्षणं नरः | तिष्ठेन्न निद्रयाक्रान्तः स समाधिरुदीरितः || ७ || तदा न वेदेत्यादि कृतार्थम् || ७ || अतर्कितं व्रजन् क्वापि निर्भयो हृष्टमानसः | अकस्माद्यदि सम्पश्येद् व्याघ्रादि मृत्युसम्मितम् || ८ || अतर्कितम् अत्र व्याघ्रादिकं भवेदिति सम्भावनाऽविषयम् | मृत्युसम्मितं मृत्युतुल्यम् || ८ || तदा न वेद बाह्यं वाऽप्यान्तरं वा क्षणं नरः | तिष्ठेन्न निद्रयाक्रान्तः स समाधिरुदीरितः || ९ || अतिप्रियं स्वपुत्रादि विभुं च गृहकर्मणि | अरोगिणं यदाऽकस्मात् संशृणोति मृतं किल || १० || गृहकर्मणि विभुं समर्थम् || १० || तदा न वेद बाह्यं वाऽप्यान्तरं वा क्षणं नरः | तिष्थेन्न निद्रयाक्रान्तः स समाधिरुदीरितः || ११ || अथान्यथापि वक्ष्यामि समाधेः सम्भवं शृणु | जाग्रत्स्वप्नसुषुप्तीनां मध्ये सन्ति समाधयः || १२ || एवं महासुखहर्षभयशोकानामकस्मात् सम्भवे तत्रारम्भक्षणे मनो निर्विमर्शं स्वरूपस्थितं भवति | सेयं क्षणिकसमाधिदशेत्युक्त्वा अन्या अपि वक्तुमुपक्रमते - अथेति | समाधेरन्यथा प्रकारान्तरेण सम्भवं स्थितिम् | तदेवाह - जाग्रदिति | जाग्रद् बाह्येन्द्रियव्यापारदशा | स्वप्नो मनोमात्रस्य स्थूलव्यापारदशा | सुषुप्तिर्मनसो निद्रायां व्यापारदशा | तथा चैतासामन्तराले क्षणं मनो निर्विमर्शं भवति | त इमे समाधयः || १२ || प्. २८३) दूरे किञ्चित् पश्यतस्तु बुद्ध्या चैकग्रया मुने | मनो दीर्घात्मतां याति जलूकेव तृणालिषु || १३ || प्रकारान्तरमाह - दूर इति | दूरे नभोमण्डले सूर्यं पश्यतः पुरुषस्य मनो यथा तृणजऌकाऽवष्टब्धतृणात् तृणान्तरावष्टम्भाय दीर्घीभवति तथा देहे स्थितं मनः सूर्यमण्डलपर्यन्तं दीर्घतां याति | व्यग्रमनस इतस्ततश्चाञ्चल्याड् ऋजुरूपेण [क्: गुरु] दीर्घता न सम्पद्यत इत्येकाग्रया बुद्ध्येत्युक्तम् | सूर्यमण्डलैकतत्परमनसेत्यर्थः || १३ || देहे देहाभासमयं भावे भावात्मकं तथा | मध्ये तन्निर्विकल्पाख्यं मनो लक्षय सर्वदा || १४ || एवं मनसि सति | देहे देहाकारं सूर्यमण्डलरूपभावे भावाकारं च भवति | सोऽयं समाधिः | एवं बाह्यभावदर्शनकाले सर्वदा मनोऽस्ति तल्लक्षय | न च मनो देहसूर्ययोर्मध्ये गगनाकारमिति वाच्यम् गगनस्य निराकारत्वेन मनसो गगनाकारत्वासम्भवात् | न च गगनं चक्षुर्द्वारेण मनसा गृह्यत इति वाच्यम् रूपवत् एव चक्षुर्द्वारा ग्रहणसम्भवात् अन्यथा वायोरपि ग्रहणप्रसङ्गात् | न च मनसस्तत्काले देहाद्याकारस्य कथं स्वरूपमात्रस्थितिरिति वाच्यम् देहाद्यवच्छेदेन तत्तदाकारत्वेऽपि मध्ये निराकारत्वेन स्वरूपनिष्ठाया अक्षतत्वात् | एवंविधमनोंऽशस्य समाहितत्वं बहुमानसात्मकोत्तमज्ञानिनिरूपणावसरे वक्ष्यति [१९ अध्याये ८० श्लोकतोऽध्यायसमाप्तिपर्यन्तमेतद् दृश्यते] | जनकादयो जीवन्मुक्ता अपि राज्यादिव्यापारं कुर्वन्तः स्थिताः तेषामेकांशेन मनो व्यवहारपरमेकांशेन समाहितमिति सदा समाहितास्ते इत्युक्तिरत एव सङ्गच्छते || १४ || प्. २८४) बहुना किमिहोक्तेन शृणु सूक्ष्मविमर्शन [सूक्ष्मविमर्शनम् इति सार्वत्रिकः पाठः] | व्यवहारे न कस्यापि ज्ञानमेकं तु भासते || १५ || बहुना प्रकारेण उक्तेन किम् | सर्वदैव सूक्ष्मसमाधयो वर्तन्ते ते प्रोच्यन्ते शृणु | सूक्ष्मविमर्शनेति सम्बोधनेन वक्ष्यमाणार्थस्य सूक्ष्मता ज्ञेया | व्यवहारे जाग्रत्स्वप्नयोर्घटाद्याकारज्ञानधारा सर्वानुभवसिद्धा | नहि तत् सर्वमेकमेव ज्ञानम् आकारभेदस्य सर्वानुभवसिद्धत्वात् || १५ || खण्डज्ञानसमूहात्मा व्यवहारोऽयमाततः | अत एव वर्णयन्ति तैर्थिकाः सर्व एव हि || १६ || तत्तदाकारपरिच्छिन्नखण्डज्ञानसमुदाय एवायमाततः प्रसृतो व्यवहारः | ज्ञानैकत्वे व्यवहार एव न सम्भवेदिति तात्पर्यम् | ज्ञानस्यानैक्यादेव तैर्थिका मतप्रवर्तका आचार्याः सुगतकणभुक् प्रभृतयः सर्वे वर्णयन्ति || १६ || आत्मानं बुद्धिमपि वा क्षणभेदविभेदितम् | तदन्तरक्षणौघेषु निर्विकल्पदशा स्थिता || १७ || यद्वर्णयन्ति तदाह - आत्मानमिति | क्षणभेदेन भेदितज्ञानधारैवात्मेति सुगत आह = तादृशज्ञानधारैवात्मनो धर्मो बुद्धिरित्युवाच कणादः | एतेन क्षणिकज्ञानसत्त्वे आचार्यान्तरसम्मतिरुक्ता ज्ञेया | एवं ज्ञानभेदे सिद्धे प्रकृतमाह - तदन्तरेति | क्षणिकज्ञानामन्तरालेषु निर्विकल्पता स्थिता | घटज्ञानमेव न स्वोत्तरं पटज्ञानम् एकत्वाप्रतीतेः समूहालम्बनत्वाद्यापत्तेश्च | एवं च सिद्धे ज्ञानभेदेऽन्तरालदशाऽवर्जनीयैवेति [क्: वर्जनैवेति] तदा मनसो निर्विकल्पताऽक्षतैव || १७ || कहोलात्मज जानीहि जानतां तु प्रतिक्षणम् | समाधिरस्ति चान्यस्य समाधिः शशशृङ्गवत् || १८ || शशशृङ्गवदिति जानीहीत्यन्वयः | जानतां परिचितसमाधिस्वरूपाणाम् | अन्यः अज्ञातसमाधिस्वरूपः || १८ || प्. २८५) जनकोक्तमिति श्रुत्वा भूयः पप्रच्छ स द्विजः | राजन्नेवं व्यवहृतौ समाधिर्निर्विकल्पकः || १९ || जनानां प्रतिक्षणं समाधिरिति श्रुत्वा | एवं प्रतिक्षणं समाधिश्चेदिति सम्बन्धः || १९ || सर्वेषामस्ति यदि चेत्तत् कुतः संसृतिर्भवेत् | सुषुप्तौ दर्शने चापि जडाव्यक्तविभासतः || २० || समाधेरेव पुरुषार्थसाधकत्वेन कुतः संसृतिर्भवेदित्यर्थः | ननु सुषुप्त्यादेरिव नास्य पुरुषार्थसाधकत्वमिति चेदाह - सुषुप्ताविति | निर्विकल्पके ज्ञानात्मकवस्तुदर्शने सुषुप्तौ च जडात्मकघटादेरव्यक्तस्य च विभासनात् [क्: भासनात्] पुरुषार्थासाधनत्वमिति सम्बन्धः || २० || पुरुषार्थासाधनत्वं समाधिस्त्वविकल्पकः | शुद्धसंविद्विभातात्मा तद् भूयः संसृतिः कथम् || २१ || नैवं समाधिरित्याह - समाधिस्त्विति | अविकल्पकः स्वरूपातिरिक्तजडानवभासकः | कुत एवमिति चेदाह - शुद्धेति | यस्मादविकल्पकः [क्: दविकल्पः] पूर्णस्वरूपावभासात्मकः तस्माद् भूय एवंविधसमाधिप्राप्त्यनन्तरं कथं संसृतिः || २१ || एतदेव हि विज्ञानमज्ञानकुलनाशनम् | निर्विकल्पसमाध्याख्यं यन्निःश्रेयसकारणम् || २२ || नहीतोऽन्यज्ज्ञानमज्ञानकुलनाशनमित्याह - एतदेवेति | विज्ञानं स्वरूपभूतं समाधौ प्रकाशमानं ज्ञानं | यन्निःश्रेयस कारणं तदेतदेवेत्यन्वयः || २२ || एतन्मे शंस राजेन्द्र सर्वसंशयनाशनम् | इत्यापृष्टो महीपालः प्राह तं मुनिपुङ्गवम् || २३ || सर्वसंशयनाशनमेतत् प्रश्नोत्तरम् || २३ || प्. २८६) शृणु ब्रह्मन् प्रवक्ष्यामि रहस्यं परमं त्विदम् | अज्ञानात् संसृतिरियं प्रवृत्ताऽनादिकालतः || २४ || परममत्यन्तं रहस्यम् | समाधिना संसारकारणाज्ञानानिवृत्तिरिति वक्तुमुपक्रमते - अज्ञानादिति | इयं सर्वानुभवसिद्धा || २४ || सुखदुःखावभासानां प्रवाहात्मतया स्थिता | स्वप्नवत् सन्तता सर्वैः सर्वदा ह्यनुभूयते || २५ || कीदृशी संसृतिरित्याह - सुखेति | ननु सर्वानुभवसिद्धत्वात् संसृतेः सत्यत्वेनानिवृत्त्याऽनिर्मोक्षप्रसङ्ग इत्यत आह - स्वप्नवदिति | प्रवाहरूपेण सर्वदाऽनुवर्तमानापि सन्ततापि सर्वैः स्वप्नवदनुभूयमानत्वेन न सत्येति भावः || २५ || निवृत्तिस्तस्य तु ज्ञानादेवेति प्रविभावितम् | तज्ज्ञानं संविकल्पं स्यादज्ञानस्य प्रभादनम् || २६ || स्वप्नवदनुभूयमानत्वादेवाज्ञानमूलकत्वेन तस्याज्ञानस्य सकार्यस्य [क्: सर्वकार्यस्य] ज्ञानादेव निवृत्तिरिति विद्वद्भिर्निश्चितमित्याह - निवृत्तिरिति | तच्चाज्ञाननिवर्तकं कीदृशं ज्ञानमिति चेदाह - तज्ज्ञानमिति | अज्ञानस्य प्रभाधनं निःशेषनाशनं [क्: षताज्ञानं] यस्मात् तज्ज्ञानं सविकल्पाख्यं सोऽहमिति प्रत्यभिज्ञारूपमित्यर्थः | अत्रेदं तत्त्वम् - वैराग्यादिज्ञानसाधनवतः श्रवणेन परोक्षमात्मतत्त्वज्ञानम् | ततः परोक्षेण ज्ञाते सम्यङ्मननेन संशयनिवृत्तिः | ततो निदिध्यासनेन देहादावहंबुद्ध्यादिरूपदृढवासनायत्तविपरीतभावनावेग##- शुद्धप्रत्यगात्मापरोक्षज्ञानम् | ततः शास्त्राधिगतपरात्मप्रत्यगात्मनोरखण्डैकत्वावगाहि [क्: परमात्म] प्रत्यभिज्ञानं सोऽहमिति | तदेतत् प्रत्यभिज्ञानं संसारमूलाज्ञाननाशकभिति [क्: भूता] | नन्वेतद्यदि सविकल्पकं तदा स ह्युक्तो द्वयापेक्षी विनिश्चयः (१|५३) इति प्रत्यभिज्ञोक्तरीत्या द्वैतविषयत्वेन [क्: यकत्वेन] भ्रमत्वान्नाज्ञाननिवर्तकं प्रोक्तप्रत्यभिज्ञानमिति चेत् अत्रोच्यते - नहीदं द्वैतविस्ऽयकं ज्ञानम् | यथा हि प्राग् दशार्णेषु दृष्टश्चैत्रः क इति पृच्छन्तमाहान्यः सोऽयं चैत्र इति | ततश्च सोऽयं चैत्र इति वाक्येन न द्वैतमवगम्यते | प्रश्नस्य स्वरूपमात्रविषयत्वेनोत्तरस्य तदननुरूपतापत्तेः | न च तदिदंशब्दवाच्ययोर्विरुद्धयोरैक्यं घटते यतः प्रश्नसमत्वेनैकविषयत्वमुत्तरस्य सम्भवेत् | तस्मात्तदिदमित्यंशद्वयेनापि निष्कृष्टं [क्, ख्: निकृष्टं] चैत्रपिण्डमात्रं लक्ष्यते | तथा प्रकृतेऽपि सोऽहमित्यभिलापांशद्वयेनापि प्रत्यभिज्ञातमखण्डचिन्मात्रमेवेति न दोषः | नन्वस्य तर्हि कथं विकल्पत्वमिति चेच्छृणु सोऽहमित्यभिलापांशानैक्येन प्रसिद्धविकल्पतुल्यत्वात् | अभिलापांशहीनप्रसिद्धनिर्विकल्पविलक्षणत्वाद्वा सविकल्पत्वमिति | ननु निर्विकल्पसमाध्यात्मकं ज्ञानमपि प्रकृतप्रत्यभिज्ञासमानविषयमेवेति | ननु निर्विकल्पसमाध्यात्मकं ज्ञानमपि प्रकृतप्रत्यभिज्ञासमानविषयमेवेति कुतस्तस्याज्ञाननिवर्तकत्वमिति [ख्, ग्: ज्ञाना] चेदुच्यते समानविषयत्वेऽपि स्वोत्पादकसामग्रीभेदात् फलभेद इति | तथा हि - प्रत्यभिज्ञाने हि तच्छब्दार्थास्मच्छब्दार्थोपस्थितिसहकृतानात्मवस्तुपरावृत्तं मनः कारणम् | समाधौ तु निरुक्तोपस्थितत्यनपेक्षं मन एवेति | सोऽयं घट इत्यादिप्रत्यभिज्ञामात्रं हि अखण्डवस्तुविषयमेव | तथा च घटमात्रविषयकविकल्पसमानविषयत्वेऽपि सोऽयं घट इति प्रत्यभिज्ञानस्य फलभेदः सामग्रीभेदकृत एवेति सर्वैरभ्युपेयत्वेन नात्रापूर्वकल्पनं किञ्चिदस्तीत्यवधेयम् || २६ || प्. २८७) निर्विकल्पकविज्ञानादज्ञानं न निवर्तते [क्, ग्: विव] | निर्विकल्पकविज्ञानं केनचिन्न विरुद्ध्यते || २७ || निर्विकल्पकज्ञानं प्रत्यभिज्ञाभिन्नं समाधिरूपं नाज्ञाननाशकमिति निरूपयितुमुपक्रमते - निर्विकल्पकेति | कुतो न निवर्तत इति चेदविरुद्धत्वादित्याह - निर्विकल्पकेति || २७ || प्. २८८) निर्विकल्पकविज्ञानं सविकल्पसमाश्रयम् | विचित्रचित्राभासानां भित्तिवत् सुव्यवस्थितम् || २८ || अत्र दृष्टान्तः - विचित्रेति | चित्राभासानां भित्तिरिव विकल्पानां निर्विकल्पकं ज्ञानमाश्रयमित्यर्थः || २८ || निर्विकल्पं ज्ञानमिति केवलं ज्ञानमुच्यते | तत्रैव हि विकल्पानामुल्लेखात् सविकल्पकम् || २९ || कथमेतदिति चेदाह - निर्विकल्पमिति | केवलं ज्ञानमिति | ज्ञेयप्रतिबिम्बरहितं शुद्धं ज्ञानमित्यर्थः | तत्रैवेति | शुद्धज्ञान एवेत्यर्थः | यथा हि शुद्ध एव दर्पणे बिम्बसांमुख्यदशायां प्रतिबिम्बरूपता एवं शुद्ध एव ज्ञाने सङ्कल्पदशायां तत्तदाकारोल्लेखात् सविकल्पतेति [क्: ल्पकेति] भावः || २९ || अज्ञानं सविकल्पाख्यज्ञानमेव न चेतरत् | तदनेकविधं कार्यकारणात्मतया स्थितम् || ३० || ननु निर्विकल्पज्ञानस्य सविकल्पाश्रयत्वेऽपि कुतो नाज्ञानविरोधित्वमिति चेदाह - अज्ञानमिति | न चेतरदिति | न ज्ञानाभावः नाप्यनिर्वचनीयमित्यर्थः | अत्रायमागमाभ्युपगमः भगवतः शुद्धचिद्वपुषो हि परमात्मनो जडव्यावृत्तं यत् स्फुरद्रूपत्वं तदेव स्वातन्त्र्यं मायाशक्त्यभिधम् तथैवाविद्यावभासनपूर्वकं जगदवभासितमिति | यद्वा न चेतरदिति ज्ञानाभावमात्रप्रतिषेधार्थः | तत् अज्ञानम् | कारणात्मकं कार्यात्मकमित्यनेकविधम् || ३० || कारणं स्वात्मपूर्णत्वाख्यातिरूपमुदीरितम् | चिदात्मा पूर्ण एव स्यादवच्छेदविवर्जनात् || ३१ || द्वैविध्यमेव विवेचयति - कारणमिति | स्वात्मपूर्णत्वाख्यातिरेव कारणरूपमज्ञानमित्यर्थः | ननु पूर्णत्वाख्यातिरिति ख्यात्यभावो हि ज्ञानाभाव एवोक्त इत्याशङ्कायां पूर्णत्वाख्याति पदार्थमेव विवेचयितुमादौ पूर्णतां निरूपयति - चिदात्मेति || ३१ || प्. २८९) अवच्छेदनहेतूनां कलादीनां हि साधकः | तथाविधात्मनः ख्यातिरपूर्णत्वेन या स्थिता || ३२ || कुतोऽवच्छेदवर्जनमिति चेदाह - अवच्छेदनेति | अवच्छेदनस्य हेतुर्निमित्तं कालो देश आकारो वा इदानीमत्रेत्थमिदमस्तीति त्रयमेव प्रसिद्धम् | नहीदं त्रयमपि चिदात्मनः परिच्छेदकं भवितुमर्हति प्रतिबिम्बानां दर्पण इव चिदात्मनस्तत्स्वरूपसाधकत्वात् | नहि स्वस्वरूपसाधकस्य दर्पणस्य प्रतिबिम्बं परिच्छेदकं भवितुमर्हति | एवं प्रकृतेऽपीति भावः | तथाविधात्मनः कालाद्यपरिच्छिन्नस्य याऽपूर्णत्वेन ख्यातिः स्थिता सा पूर्णत्वाख्यातिरित्युक्ता मूलाज्ञानं भवेदिति सम्बन्धः || ३२ || अत्राधुनाऽस्मीतिरूपा मूलाज्ञानं हि सा भवेत् | तस्यैव पल्लवप्रायं देहात्मत्वादिभासनम् || ३३ || अपूर्णख्यातेः स्वरूपमुल्लिखति - अत्रेति | तस्यैव मूलाज्ञानस्यैव | पल्लवप्रायं कार्यात्मकं देहात्मत्वादिभासनम् अहं स्थूलोऽहमन्ध इत्यादिभासनम् कायाज्ञानमिति शेषः | अनिर्वचनीयाज्ञानपक्षे [क्: नीयज्ञान] तु अत्राधुनास्मीति वृत्तेरज्ञानप्रथमकार्यत्वेन [क्, ख्: निवृत्ते] मूलाज्ञानत्वमित्यादि ज्ञेयम् || ३३ || अज्ञानस्य निवृत्त्यन्तं संसारो न निवर्तते | पूर्णात्मविज्ञानमृते त्वज्ञानं न [क्, ख्: नाति] निवर्तते || ३४ || संसारमूलमज्ञानं तन्निवृत्तिश्च ज्ञानादेवेत्याह - अज्ञानस्येति || ३४ || तच्च पूर्णात्मविज्ञानं द्विविधं सुव्यवस्थितम् | परोक्षमपरोक्षं च परोक्षं गुरुशास्त्रतः || ३५ || तच्चेति | अज्ञाननिवर्तकं चेत्यर्थः | गुरुशास्त्रत गुरूक्तशास्त्रश्रवणात् | जातमिति शेषः | गुरुशास्त्रत इत्यनाश्रितगुरोर्न ज्ञानमिति सूचनाय || ३५ || प्. २९०) तत् साक्षात् पुरुषार्थस्य न कारणमिति स्थितम् | यादृशं ते भवेज्ज्ज्ञानं शास्त्रश्रुतिसमुद्भवम् || ३६ || तत् परोक्षज्ञानम् | न साक्षात् पुरुषार्थस्य संसारदुःखनिवृत्तेः कारणम् [क्: कारणत्वम्] | अष्टावक्रं प्रति जनक आह - यादृशं त इति | शास्त्रश्रुत्या शास्त्रश्रवणेन समुद्भवो यस्य | परोक्षमिति यावत् || ३६ || श्रद्धामात्राभ्युपगतं फलदं न प्रचक्षते | अपरोक्षं हि विज्ञानं समाधिपरिपाकजम् || ३७ || श्रद्धामात्रेणाभ्युपगतं निश्चितं फलदं न परोक्षज्ञानस्य साक्षादपरोक्षसंसारभ्रमनिवर्तकत्वाभावादिति भावः | परोक्षज्ञानस्य साक्षात् पुरुषार्थासाधकत्वे केन द्वारेण तत्साधकत्वमिति चेदपरोक्षज्ञानद्वारेणेत्याह - अपरोक्षमिति | न तदप्यापातरूपं देहादिवासनाप्रतिबद्धं पुमर्थसाधकमित्याह - समाधीति | समाधेः परिपाकः प्रकर्षः तेन जातं निष्प्रकम्पमिति यावत् | अयं भावः - देहाद्यहम्भावादिरूपवासनायाश्चिरसङ्गतत्वेन मलिनधियां सकृदपरोक्षे जातेऽपि तस्यापातज्ञानस्य दृढसंस्कारानाधायकत्वेनाप्रयोजकत्वात् समाधिप्रकर्षसिद्धतज्ज्ञानेन दृढसंस्काराधानाद् दृढदेहाद्यहंभावादिवासनाविगलनान्न भूयोऽनर्थसङ्गरिति || ३७ || सप्रपञ्चाज्ञाननाशक्षमं शुभफलावहम् | समाधिर्ज्ञानपूर्वस्तु विज्ञानं जनयेत् खलु || ३८ || सप्रपञ्चेति | देहात्मज्ञानवद् दृढं संशयविपर्ययापराहतं शुद्धसंविदात्मविषयकमपरोक्षज्ञानमेव सप्रपञ्चाज्ञाननाशनसमर्थं मोक्षफलावहं चेत्यर्थः | ननु समाधिप्रकर्ष एवैवंविधमपरोक्षं ज्ञानं जनयति तथा च सर्वेषां जाग्रदादिषु प्रोक्तसमाधिपरम्परायाः सत्त्वाज्ज्ञानं कुतो नेति चेदाह - समाधिरिति | ज्ञानपूर्व इति | परोक्षज्ञानपूर्वक इत्यर्थः | विज्ञानम् अपरोक्षज्ञानम् || ३८ || प्. २९१) तस्मादज्ञानिनां नार्थः समाधौ सम्भवत्यपि | यथाऽविदितमाणिक्यः पश्यन् कोशगृहे मणिम् || ३९ || तस्मात् परोक्षज्ञानाभावात् | समाधौ सत्यप्यज्ञानिनां न पुरुषार्थः सम्भवतीति सम्भन्धः | नन्वेवमपि शास्त्रार्थज्ञानां परोक्षज्ञानसत्त्वेन तेषां निरुक्तस्वाभाविकसमाधिभिः कुतो न पुरुषार्थ इत्याशङ्क्य सदृष्टान्तं समाधातुमुपक्रमते - यथेति | परोक्षतोऽविदितं माणिक्यं येन स पुरुषः | अर्थात् कोशगृहमुपगतो माणिक्यं पश्यन्नपिदं तन्माणिक्यमिति न जानातीत्यन्वयः || ३९ || न जानाति यथाण्यस्तु श्रुतज्ञातमणिः क्वचित् | दृष्ट्वा प्रत्यभिजानाति तत्परो मणिमञ्जसा || ४० || यथा च श्रुतो लक्षणश्रवणेन ज्ञातः [क्: श्रुतेन लक्षणश्रवणे ज्ञातः; ख्: श्रुतः इत्येव] परोक्षतो ज्ञातो मणिर्येन स पूर्वस्मादन्यः पुरुषः क्वचित् कोशगृहादौ मणिं दृष्ट्वा तत्परः सन् [क्, ख्: स] मणिं सोऽयं मणिरिति प्रत्यभिजानाति || ४० || अतत्परः श्रुतमपि भूयः पश्यन् मणिं क्वचित् | न विजानाति तदिह ब्रह्मन् सुनिपुणोऽपि सन् || ४१ || श्रुतमणिरप्यन्यो यदाऽतत्परो मणिं दृष्ट्वा किमिदमिति विचारपरस्तदा [ख्, ग्: विचारा] श्रुतमपि मणिं भूयः पश्यन्नपि सुनिपुणोऽपि सन् इह लोके तत् तस्माद् अतत्परत्वाद्धेतोः सोऽयं मणिरिति न विजानाति || ४१ || तथा मूढा न विन्दन्ति फलं विज्ञानसंश्रयम् | अज्ञातत्वात् पण्डितास्तु श्रुतज्ञानयुता अपि || ४२ || एवं दृष्टान्तमुपपाद्य दार्ष्टान्तिके सङ्गमयति - तथेति | मूढाः परोक्षेणाज्ञातत्वात् स्वाभाविकसमाधिभिर्विज्ञानसंश्रयं फलमज्ञाननाशनं न विन्दन्ति | पण्डिताः शास्त्रज्ञास्तु श्रुतजनितपरोक्षज्ञानयुता अपि न विजानन्तीत्यन्वयः || ४२ || प्. २९२) अतत्परत्वहेतोस्तु न विजानन्ति सर्वथा | यथा हि तारकां पश्यन्नपि जानाति न क्वचित् || ४३ || अतत्परत्वहेतोरिति | देहादिविलक्षणं परचिन्मयं मद्वपुः शास्त्रोदितं सर्वथा तत् साधनसम्पादनेनापरोक्षीकर्तव्यमित्यभिनिवेशानासादनाद्धेतोरित्यर्थः | पुनरस्यार्थस्यातिसूक्ष्मत्वाद् दृष्टान्तान्तरेण निरूपणमारभते - यथेति | मूढो न जानातीत्यन्वयः || ४३ || मूढः श्रुतज्ञानहीनः श्रुतज्ञानयुतोऽपि वै | पश्यन्नपि च नो वेत्ति तत्परत्वविवर्जनात् || ४४ || श्रुतज्ञानहीन इति | शुक्रतारालक्षणश्रवणजन्यज्ञानहीन इत्यर्थः | एवंविधो मूढ आकाशे क्वचित्काले शुक्रतारकां पश्यन्नपि सेयं शुक्रतारकेति न जानाति | अन्यः श्रुतज्ञानयुतोऽपि तत्परत्वविवर्जनाद् मया श्रुक्रतारका सर्वथा ज्ञातव्येत्यभिनिवेशवर्जनात् तत्तारकां पश्यन्नपि नो वेत्ति || ४४ || यस्तु श्रुत्वा शुक्रतारां दिगाकारादिलक्षणैः | मया ज्ञेयं सर्वथेति तत्परो बुद्धिमान् नरः || ४५ || यस्तु दिगाकारादिलक्षणैः पश्चिमदिग्गता सूर्यास्तानन्तरं दृश्या भास्वराकारा शुभ्रवर्णा शुक्रतारेति लक्षणवाक्यैः श्रुत्वा मया शुक्रतारास्वरूपं सर्वथा ज्ञेयमिति तत्परो बुद्धिमानूहापोहकुशलो नरः प्रत्यभिज्ञास्यतीत्यन्वयः || ४५ || एकाग्रमानसः पश्यन् प्रत्यभिज्ञास्यति स्फुटम् | एवमज्ञानतो मूढाश्चान्ये तात्पर्यवर्जनात् || ४६ || एकाग्रमानसः तदितरपरावृत्तमनस्कः | दृष्टान्तसिद्धार्थं दार्ष्टान्तिके योजयति - एवमिति | मूढाः परोक्षज्ञानाभावात् [ख्: परोक्षा] | अन्ये शास्त्रजनितपरोक्षज्ञानवन्तस्तात्पर्यस्य मयैतदात्मतत्त्वं सर्वथा ज्ञेयमिति तत्परत्व(त्वस्य) वर्जनान्न विजानन्तीति योजना || ४६ || न विजानन्ति स्वात्मानं ब्रह्मन् सत्सु समाधिषु | भिक्षामटति दुर्दैवाद् यथा वै विस्मृताकरः || ४७ || क्षणिकसमाधिषु सत्स्वपि तात्पर्याभावाच्छास्त्रज्ञाः स्वात्मानं न विजानन्ति | अत्रेदं तत्त्वम् - आदौ शास्त्रादिना देहादिव्यावृत्तं प्रत्यगात्मतत्त्वं जगद्व्यावृत्तं परात्मतत्त्वं च चिदेकरसमपरिच्छिन्नमिति परोक्षतो जानाति | ततः परोक्षतो ज्ञाते युक्त्यनुचिन्तनात्मकमननाभिधश्रुत्यनुगतसत्तर्केणाशेषसंशयमपोहति | ततो देहादिदृश्यव्यावृत्तापरिच्छिन्नचिद्रूपोऽहमित्याकारकचित्तवृत्तिप्रवाहीकर णात्मकध्यानाभिधनिदिध्यासनं करोति | तेन देहाद्यहंप्रत्ययरूपविपरीतभावना शिथिलीभवति | ततः प्रोक्तनिदिध्यासनपरिपाकात् प्रोक्ताकारवृत्तेरयत्नेनानुवृत्तिरूपसविकल्पसमाधिर्भवति | अत्र सविकल्पसमाधौ ध्येयध्यात्रादिभेदपरिस्फूर्तिरस्ति [क्: ध्यानादि] | एतस्यैवाभ्यासप्रकर्षेण परिपाके एवमहं ध्यायामित्यन्तः सूक्ष्माभिमानांशविगलने ध्येयशुद्धचिन्मात्रात्मकस्थितिपरिशेषो निर्विकल्पसमाधिः | एतद्धि शुद्धात्मतत्त्वस्यापरोक्ष(क्ष्य)म् | ततो व्युत्थाय समाधौ स्फुरितं शुद्धस्वात्मरूपं शास्त्रतो विदितं परात्मरूपञ्च प्रत्यवमृश्य स एवाहमिति प्रत्यभिजानाति | तथा च मूढशास्त्रज्ञयोः परोक्षज्ञानतत्परत्वयोरभावात् प्रत्यवमर्शानुदयेन प्रत्यभिज्ञानानुदयान्न पुरुषर्थसिद्धिरिति | (दुर्दैवादिति |) एतदेव दृष्टान्तद्वारेणाह - भिक्षामिति | तथैते इति शेषः || ४७ || प्. २९३) तस्मादेता दशाः सर्वाः समाधीनां निरर्थ(र्थि)काः | अत एव शिशूनां हि सर्वदा निर्विकल्पकम् || ४८ || तस्मादिति | प्रत्यभिज्ञायामनुपयुक्तत्वादित्यर्थः | समाधीनामेताः प्रोक्तजाग्रत्स्वप्नाद्यन्तरालरूपा दशाः | अत एव निरर्थकत्वादेव | सद्योजाग्रत्स्वप्नाद्यन्तरालरूपा दशाः | अत एव निरर्थकत्वादेव | सद्योजनितशिशूनां सर्वदा अविच्छिन्नमक्षणिकमपि यच्छुद्धचिद्विषयकं निर्विकल्पकमस्तीति शेषः || ४८ || न फलं साधयेद् ब्रह्मन् अज्ञानस्यानिवृत्तितः | प्रत्यभिज्ञात्मकं यत्तु ज्ञानं स्यात् सविकल्पकम् || ४९ || तन्नाज्ञाननिवृत्तिरूपं फलं स्वकार्यं साधयेत् | कुत एतज्ज्ञातमिति चेदज्ञानानुवृत्तेरित्याह - अज्ञानस्यानिवृत्तित इति | तस्मात् प्रत्यभिज्ञात्मकं प्रोक्तयुक्त्या सविकल्पकरूपं ज्ञानमेवाज्ञाननाशकमित्याह - प्रत्यभिज्ञात्मकमिति || ४९ || प्. २९४) तदेव संसारमूलमज्ञानं विनिवर्तयेत् | अनेकजन्मसु कृतैः सन्तुष्टा स्वात्मदेवता || ५० || एवंविधप्रत्यभिज्ञानस्य साधनदौर्लभ्यादतिदौर्लभ्यमाह - अनेकेति | कृतैः सुकृतैरिति शेषः || ५० || यदा तदा मूक्षुत्वं नान्यदा कल्पकोटिभिः | चेतनत्वं जन्मवत्सु परमं दुर्लभं भवेत् || ५१ || यदा भवतीति शेषः | अन्यदा सुकृताभावे काम्यनिषिद्धकर्मभिर्नीतैः कल्पकोटिभिरपि कालैर्न मुमुक्षुत्वं प्राप्यत इत्यर्थः | मुमुक्षुत्वसाधनमप्यतिदुर्लभमित्याह - चेतनत्वमिति || ५१ || सुदुर्लभं तेष्वपि च मानुषं जन्म सर्वथा | तत्रापि सूक्ष्मबुद्धित्वमत्यन्तं हि सुदुर्लभम् || ५२ || तेष्वपि चेतनेष्वपि | तत्रापि मानुषत्वे प्राप्तेऽपि || ५२ || पश्य ब्रह्मन् स्थावराणां शतांशेनापि सम्मितम् | न दृश्यते जङ्गमं वै तेषामपि शतांशतः || ५३ || एतदेवोदाहरणेन विशदयति - पश्येति | तेषामपि जङ्गमानामपि || ५३ || समं नास्ति मनुष्यत्व्ऽम् तत्रापि परिभावय | पशुतुल्याः प्रदृश्यन्ते मनुष्याणां हि कोटयः || ५४ || मनुष्यत्वं मनुष्यजातिः | तत्रापि मनुष्येष्वपि जन्मना [ख्: जन्मतो; ग्: जन्मनो] मनुष्या अपि व्यवहारे पशुतुल्याः || ५४ || ये न जानन्ति सदसत् पुण्यं वा पापमेव वा | अन्येऽपि कोटिशो मर्त्याः प्रवृत्तः कामनापराः || ५५ || एतदेव स्पष्टमाह - य इति | सत् सुवृत्तम् | असद् दुर्वृत्तम् | अन्येऽपि ऊहापोहकुशला बुद्धिमन्तोऽपि | कामनापराः सन्तः प्रवृत्तः प्रवृत्तिमार्गाश्रिताः || ५५ || प्. २९५) गतागतं रोचयन्ते पाण्डित्याभासगर्विताः | एवंविधजनानां तु केऽप्यन्ये बुद्धिमद्विधाः || ५६ || गतागतं स्वर्गाद्यनित्यफलम् | तेऽपि शास्त्रज्ञाः कुतो न परमार्थफलं वाञ्छन्तीति चेदाह - पाण्डित्येति | पाण्डित्याभासेन ज्ञानाभासेन गर्विता अभिमानं प्राप्ताः | अभिमानवतां सदसद्विवेकाभावः स्पष्ट एवेति भावः | एवंविधशास्त्रजनानां मध्ये केऽपि बुद्धिमद्विधाः किञ्चिद्विवेकनिपुणाः || ५६ || मालिन्यशेषचित्तास्तेऽप्यद्वैतपदनास्तिकाः | भगवन्माययाच्छन्नमद्वैतं परमं पदम् || ५७ || पापसंस्कारमालिन्यशेषचित्ता द्वैतपरिनिष्ठयाऽद्वैतपदापह्नवपराः | कथमेवमिति चेदद्वैतज्ञानमतिदुर्लभमित्याह - भगवदिति || ५७ || कथं सर्वैः समासाद्यं मायान्धैर्मन्दभाग्यकैः | मायान्धानां तत्पदं तु न बुद्धिमुपरोहति [ख्: मव] || ५८ || मन्दभाग्यकैरिति [क्, ख्: रित्यर्थः] | अत्यन्तपुण्यपाकादेवाद्वैतज्ञानमिति भावः || ५८ || अन्ये दुर्भागधेयास्ते बुद्ध्यारूढमपीह ये | वृथाभिनिविशा [क्, ख्: निविशन्ति] भूयोऽपह्नुवन्ति कुकल्पनैः || ५९ || एवं मायान्धानां दुर्भाग्यानामद्वैतात्मपदं श्रुतमपि न बुद्ध्यारूढं भवतीत्युक्त्वा इतोऽप्यन्ये बुद्ध्यारूढमपि परित्यजन्तीत्याह ##- आग्रहं कुर्वन्ति ये तादृशाः कुकल्पनैः कुतर्कैरपह्नुवन्ति | द्वैतमतमस्मदीयं न परित्याज्यमित्याग्रहेण निर्विषयकं ज्ञानं नास्त्येव अस्ति चेद् घट इवोपलभ्येत इत्यादि कुतर्कैरपलपन्तीति भावः || ५९ || प्. २९६) अहो भगवती माया पश्यन्तोऽपि महत्पदम् | चिन्तामणि हस्तगतं त्यजन्ति हि कुकल्पनैः || ६० || एतदपि मायाविलास एवेत्याह - अहो इति | महत्पदम् अप्रिच्छिन्नाद्वैतात्मपदम् | हस्तगतं चिन्तामणिं काचखण्डोऽयमिति कुकल्पनैरेव त्यजन्ति || ६० || येषां समाराधनेन तुष्टा [ख्: संतुष्टा पर] सा स्वत्मदेवता | ते मायया विनिर्मुक्ताः सुतर्काः श्रद्धया युताः || ६१ || कुत एवमिति चेद्देवतानुग्रहाभावादित्याह - येषामिति | देवतानुग्रहेणैव सुतर्कश्रद्धाभ्यां श्रेयःप्राप्तिरिति भावः || ६१ || पराद्वये समाश्वस्ताः प्राप्नुवन्ति परं पदम् | तत्क्रमं तेऽभिधास्यामि ब्रह्मन् संशृणु संयतः || ६२ || तत्क्रमं परश्रेयःप्राप्तिक्रमम् || ६२ || अनन्तजन्मसुकृतैर्देवताभक्तिराप्यते | तया संराध्य सुचिरं तत्प्रसादात्ततः परम् || ६३ || अनन्तेति | अनन्तजन्मसुकृतैः सत्सङ्गाद्देवतामाहात्म्यश्रुतेर्भक्तिराप्यते | तया भक्त्या | ततः परं वैरस्यं प्राप्नुयादित्यन्वयः || ६३ || वैरस्यं भोगवृन्देषु तत्परत्वं च प्राप्नुयात् | वैराग्यतत्परत्वाभ्यां श्रद्धया चापि सङ्गतः || ६४ || देवताप्रासादाद् विचारोदयस्ततो भोगवृन्देषु विषयेषु दोषदृष्ट्या वैरस्यम् रसो रागस्तद्विगमो वैरस्यम् [क्, ख्: वैरस्यम् नास्ति] वैराग्यमिति यावत् | ततो विषयवैमुख्येन श्रेयःसाधनानां श्रद्धागुरुसेवादीनां तत्परो भवतीत्याह - वैरस्यमित्यादि || ६४ || सद्गुरुं प्राप्य तत्प्रोक्त्या वेत्त्यद्वैतं परं पदम् | एतज्ज्ञानं परोक्षं वै ह्यस्त्यद्वैतमितीह यत् || ६५ || तत्प्रोक्त्या तद्वचनेन | एतज्ज्ञानं गुरुवाक्यश्रवणजन्यं ज्ञानम् | कीदृशं तत् परोक्षज्ञानमिति चेदाह - अस्तीति || ६५ || प्. २९७) ततो विचारयेत् सम्यगद्वैतं स्वात्मदैवतम् | उपपाद्य सुतर्कैस्तु संशयांस्तेन नाशयेत् || ६६ || ततः श्रवणजनितपरोक्षज्ञानानन्तरम् | परोक्षज्ञानमद्वैतात्मदैवतमेवमुपपद्यते [क्: मेवोपपद्यते] न वेत्यागमानुगतसुतर्कैरुपपाद्योपपत्तिं प्रापयय [क्, ख्: प्राप्य] विचारयेत् निश्चयविषयं कुर्यात् | तेन एवंविधविचारेण मननात्मकेन संशयान् नाशयेत् | संशयानिति वचनेन साधनज्ञानाद्वैतमोक्षादिगताखिलसंशयस्य नाशनीयत्वं ज्ञापितम् || ६६ || अथ निश्चितमात्माख्यतत्त्वमद्वयमादरात् | अनुधययेदाऽपरोक्षं हठवृत्त्यापि यत्नतः || ६७ || अथ एवं मननानन्तरम् | मननेन निश्चितमद्वयात्मतत्त्वमनुध्यायेत् तन्मात्राकारं चित्तं धारयेत् | तच्चादरात् | आदरोऽनुपेक्षणम् अवश्यं मयैतद् ध्यात्वा ज्ञेयमित्यभिमानः | यदि चित्तमतिचञ्चलमिति तन्मात्राकारं धारयितुं न शक्यते तदापि यत्नतो हठवृत्त्यापि धारयेदेव न ततो विरमेत् | यत्नस्तु सुतीव्रः हस्तं हस्तेन संपेष्य दन्तान् दन्तैर्विचूर्णयन् | अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः || (यो० वा० सा० ४| १७) इति वासिष्ठोक्तः [क्, ख्: वासिष्ठोक्तेः] | हठवृत्तिस्तु प्राणसंयमधारणादिरूपा | कियत्कालमेवमनुध्येयमिति चेदाह - आपरोक्षमिति | अपरोक्षानुभवपर्यन्तमित्यर्थः || ६७ || ततो विकल्पविषयीकृत्य ध्यातं परं पदम् | संसारमूलमज्ञानं नाशयेन्नात्र संशयः || ६८ || ततः एवं निदिध्यासनेन प्रत्यगात्मतत्त्वापरोक्षानन्तरम् | ध्यातं प्रत्यगात्मतत्त्वम् | परं पदं परात्मतत्त्वं [ख्: परमात्म] च विकल्पविषयीकृत्य सोऽहमिति प्रत्यभिज्ञायेति यावत् | अस्य प्रत्यभिज्ञानस्याखण्डवस्तुविषयत्वेन निर्विकल्पसमाधितुल्यत्वेऽपि सामग्रीफल्योर्भेदाद्विकल्पत्वमिति ज्ञेयम् | एवं विकल्पविषयीकृतमद्वैतात्मतत्त्वमज्ञानं नाशयेत् || ६८ || प्. २९८) पक्वध्याने निर्विकल्पे समाध्याख्ये परं पदम् | आसाद्य पश्चात् संस्मृत्य प्रत्यभिज्ञानवान् भवेत् || ६९ || एतदेव पुनर्विशदयति - पक्वेति | श्रवणमननाभ्यां निश्चितस्य प्रत्यगात्मतत्त्वस्यानुध्याने पक्वे सत्येवंविधपक्वध्यानमेव निर्विकल्पसमाधिः | अयमत्र विवेकः - ध्यानमेव परिपाकतारतम्येन सविकल्पसमाधिर्निर्विकल्पसमाधिश्च | तथा हि - शुद्धात्माकारमेव चित्तं चिरं तिष्ठत्विति सङ्कल्प्य तत्सङ्कल्पमविस्मरन् संस्काररूपेणानुवर्तयन् चित्ते ध्येयावष्टम्भानुवर्तनेन यावन्मध्ये मध्ये सङ्कल्पविस्मरणेन ध्येयाकारता चित्ते विच्छिद्यते तावत्तद् ध्यानम् | एवंविधद्यानाभ्यासप्रकर्षेणाभिमतकालपर्यन्तं सङ्कल्पसंस्काराविच्छेदेन चित्ते ध्येयाकारतानुवृत्तौ सविकल्पसमाधिः | एतत्समाध्यभ्यासप्रकर्षेण सङ्कल्पसंस्कारमनपेक्ष्याभिमतकालपर्यन्तं चित्ते ध्येयाकारतानुवृत्तौ निर्विकल्पसमाधिरिति [ख्: कल्पक] | यदुक्तं परमानन्दे - संस्मृतावपि विच्छेदाद् ध्यानं प्रोक्तं महेश्वरि || अविच्छेदात् संस्मृतौ तु समाधिः स्याद् गुणात्मकः | असंस्मृतावविच्छेदत् समाधिः फलमुच्यते || इति | एवंविधपक्वध्यानात्मकनिर्विकल्पसमाधौ परं पदं शुद्धं प्रत्यगात्मतत्त्वमासाद्य विषयीकृत्य पश्चाद् व्युत्थानोत्तरक्षणे समाधावनुभूतं प्रत्यगात्मतत्त्वं शास्त्रतो निर्णीतं परात्मतत्त्वं च संस्मृत्य सोऽद्वैतात्माऽहमस्मीति प्रत्यभिज्ञानवान् भवेदित्यन्वयः | ननु समाधेर्निर्विकल्पप्रकाशत्वेन ततो व्युत्थितस्य कथं तत्स्मरणम् सविकल्पसंस्कारस्यैव स्मृतिजनकत्वात् | तथा हि - निर्विकल्पो हि केवलं घटादिविषयप्रकाश एव न तत्संस्कारः स्मृतिजनकः | अन्यथा मार्गे गच्छतो निर्विकल्पदृष्टनिखिलवस्तुस्मृतिप्रसङ्गः | नहि मार्गे निर्विकल्पं दृष्टं सर्वं स्मर्यते घटोऽयं पटोऽयमिति सविकल्पज्ञातस्यैव स्मरणात् | अत एव निर्विकल्पदृष्टे यावदंशे सविकल्पसम्पत्तिस्तावदंशस्यैव किञ्चिदिति उच्च [क्, ख्: उच्चरति] इति मनुष्य इति पुरुष इति देवदत्त इति स्मृतिभेद उपपद्यत इति चेत् ? अत्र केचित् - समाध्युत्तरक्षणे सविकल्पद्वारैव स्मृतिरित्याहुः | परे तु शुद्धस्य प्रत्यगात्मनः सविकल्पविषयत्वायोगात् समाध्यनुभवादेव स्मृतिः | न च सविकल्पसमाधौ शुद्धस्य विषयत्वमस्तीति वाच्यम् सविकल्पसमाधेः प्रोक्तसङ्कल्पात्मकत्वेन शुद्धस्वरूपाविषयत्वात् | ननु निर्विकल्पसंस्कारस्य कथं स्मृत्याध्यायकत्वमिति चेदुच्यते - नहि सविकल्पादेव स्मृतिरिति नियमः | विकल्पो हि भेदाभासः मार्गे निर्विकल्पदृष्टानामपि किञ्चिदित्यादिसमान्यरूपेण स्मृतिसम्भवात् | अत एव सुषुप्तौ निर्विकल्पद्रष्टुः प्रोक्ताव्यक्तस्मृतिरुपपादितोपपद्यते [क्, ख्: रूपतापा] | निर्विकल्पसमाध्यस्मृतिप्रसङ्गाच्च | तथा च यज्ज्ञाने यस्य यावानंशः सम्यक् स्फुरति तावदंशेन तस्य कालान्तरे स्मृतिः | दृश्यस्य हि न सर्वोऽप्यंशः सर्वज्ञाने स्फुरति किन्तु यथारुचि यथार्थित्वम् (२|१८) इत्यादिप्रत्यभिज्ञोक्तरीत्या कश्चिदेवांशः स्फुरति | अत एव सर्वो विकल्पः स्मृतिरिति शास्त्रज्ञसमयसङ्गतिः | तथा च निर्विकल्पसमाधौ शुद्धस्वरूपस्फूर्त्या शुद्धस्वरूपस्मृतिरुपपद्यत इति प्राहुः | एतद्विस्तरस्तु प्रत्यभिज्ञातात्पर्यविवृतौ द्रष्टव्यः || ६९ || प्. २९९) सोऽद्वैतात्माऽहमस्मीति त्वपरोक्षविकल्पतः | संसारमूलमज्ञानं साङ्गं नाशयति द्रुतम् || ७० || एवंविधप्रत्यभिज्ञारूपादपरोक्षविकल्पात् | साङ्गं समग्रं सकार्यमिति यावत् | प्रत्यभिज्ञातात्मतत्त्वो नाशयति || ७० || प्. ३००) ध्यानस्य परिपाको हि विकल्पपरिवर्जनम् | विकल्पो विविधख्यातिरेकधा निर्विकल्पकः || ७१ || पक्वध्यानमेव निर्विकल्प इति यदुक्तं तद्विवेचयति - ध्यानस्येति | विकल्पपदार्थमेवाह -विकल्प इति | विविधा अनेकविधा ख्यातिर्विकल्पः | एकधा एकविधा ख्यातिर्निर्विकल्पकः | नीलो घट इत्यत्र ज्ञानं घटो नील इत्याकारत्रैविध्याद् [क्: त्रैविध्यविक] विकल्पत्वम् | समाधेर्घटाद्याकारत्वाभावेन ज्ञानैकरूपत्वान्निर्विकल्पत्वम् || ७१ || अन्यानुल्लेखमात्रेण विकल्पो वर्जितो भवेत् | विकल्पे वर्जिते पश्चान्निर्विकल्पं स्वतः स्थितम् || ७२ || कथं ज्ञानस्य निर्विकल्पतासम्पत्तिरिति चेदाह - अन्येति | अनात्मोल्लेखरूपमनोव्यापारवर्जनमात्रेण ज्ञाने विविधाकारता निवर्तत इत्यर्थः | मात्रशब्देन साधनाल्पत्वात् सुसाध्यत्वं द्योतितम् | विकल्पवर्जनमात्रेण निर्विकल्पतासम्पत्तिरित्याह - विकल्प इति || ७२ || चित्रे विमृष्टे यद्वत्तु शुद्धा भित्तिर्हि संस्थिता | सम्पादनं शुद्धभित्तेश्चित्रसम्मार्ष्टिरेव हि || ७३ || अत्र दृष्टान्तः - चित्र इति | संमार्ष्टिः संमार्जनम् || ७३ || एवं विकल्पस्यापोहे निर्विकल्पं मनः स्वतः | निर्विकल्पात्मसम्पत्तिर्विकल्पत्याग एव हि || ७४ || दार्ष्टान्तिके योजयति - एवमिति | अपोहे अनुल्लेखनेन निरसने || ७४ || नातोऽधिकं [क्: ततो] किञ्चिदस्ति पदं प्राप्यं हि पावनम् [क्: पावकम्] | अत्र मुह्यन्ति विबुधा अपि मायामहित्वतः || ७५ || यथा हि दर्पणसम्मुखतो बिम्बापसारणमात्रेण शुद्धदर्पणस्वरूपसिद्धिरेवमनुल्लेखमात्रेण निर्विकल्पतासिद्धिरित्युक्त्वा निर्विकल्पस्वरूपमेव परमं फलं नातोऽधिकं किञ्चिदस्तीत्याह - नात इति | पावनमिति | संसारदुःखदोषवर्जितत्वात् पावनमित्यर्थः | अत्र नित्यप्राप्तैवंविधस्वरूपप्राप्तौ विबुधाः पण्डिता अपि महित्वतः माहात्म्यात् || ७५ || प्. ३०१) सुबुद्धानां क्षणेनैव पदमेतद्धि लक्षितम् | त्रिधाऽधिकारिणो ब्रह्मन् उत्तमाधममध्यमाः || ७६ || सुबुद्धानाम् उत्तमाधिकारिणाम् | लक्षितं भवेदिति शेषः | एतदेव विशदयति - त्रिधेत्यादि || ७६ || उत्तमाः सकृदादेशकाले बुद्ध्यन्ति तत्पदम् | विचारो ध्यानमपि च श्रुतिकालसमं भवेत् || ७७ || सकृदादेशः प्रथमोपदेशः | विचारध्यानादिकं कथं क्षणेन स्यादिति चेदाह - विचार इति | श्रुतिकाले एव भवेत् || ७७ || उत्तमानां नहि क्लेशः प्राप्तौ तस्य पदस्य हि | अहं पुरा निदाघस्य रात्रौ ज्योत्स्नासुमण्डिते || ७८ || अत्र स्वात्मानमेवोदाहरति - अहमिति | निदाघ उष्णकालः | मण्डिते वाटिकाङ्गण इति सम्बन्धः || ७८ || प्रियया सम्परिष्वक्तो विकसद्वाटिकाङ्गणे | परार्द्ध्यशयनासीनो मदिरामदघूर्णितः || ७९ || परार्द्ध्यमुत्तमम् || ७९ || अश्रौषं खे सिद्धगणवचनं मधुपेशलम् | अद्वैततत्त्वाश्रितं [क्, ख्: अद्वैतत्वाश्रितं वैव] वै तत्काले ह्यविदं पदम् || ८० || मधुवत् पेशलं सुन्दरम् | किंविधं वचनमिति चेदाह - अद्वैतेति | तत्काले श्रवणकाल एवाविदम् || ८० || विज्ञातं तद्विचारेण ध्यानेनापि तदैव हि | एवमर्धमुहूर्तेन ज्ञात्वा तत्पावनं पदम् || ८१ || एवं तदैव श्रवणकाल एव विचारेण मननेन ध्यानेनापि निर्विकल्पसमाध्यन्तनिदिध्यासनेनापि विज्ञातं प्रत्यभिज्ञातम् | एवमुक्तरीत्याऽर्धमुहूर्तेन कालेन तत् पावनं पदमद्वैतात्मपदं ज्ञात्वा || ८१ || प्. ३०२) मुहूर्तमभवं भूयस्तत्समाहितमानसः | परमानन्दवाराशिपरिमग्नो ह्यशेषतः || ८२ || तस्मिन्नेवाद्वैतात्मपदे सम्यगाहितं मानसं यस्य निर्विकल्पसमाधिमान् मुहूर्तमभवम् | परमानन्देति | निःशेषेण परमानन्दसमुद्रे मग्नो ब्रह्मानन्दैकरूप इति भावः || ८२ || अथ स्मृतिं समासाद्य विचारपरमोऽभवम् | अहोऽद्भुतपदं ह्येतदानन्दामृतनिर्भरम् || ८३ || अथ समाध्यनन्तरं विचारपरमः विचारैकपरः || ८३ || अपूर्वमासादितं मे भूयस्तत् संविशाम्यहम् | नैतस्य लेशमात्रंस्यादैन्द्रादिसुखमप्यलम् || ८४ || तदात्मपदं संविशामि | तत्र समाहितमानसो भवामीत्यर्थः | एतस्य समाधिसुखस्य | अलं पूर्णं सुखमपि || ८४ || आब्रह्म सुखमेतस्य लेशतोऽपि न सम्मितम् | अद्यावधि व्यर्थ एष कालो मे ह्यतिवाहितः || ८५ || आब्रह्म सुखं हैरण्यगर्भानन्दान्तं सर्वं सुखम् | मे मया | अतिवाहितोऽतिक्रामितः कालः प्रकृतानन्दानधिगमाद् व्यर्थः || ८५ || अविदित्वा स्वं निधानं चिन्तामणिगणान्वितम् | यथा भिक्षामटति वै मुष्टिपिष्टप्रलिप्सया || ८६ || जनानां स्वात्मानन्दानभिज्ञानेन विषयानन्दाभीप्सां सदृष्टान्तं निरूपयति - अविदित्वेति | स्वं स्वीयम् || ८६ || अहो लोकास्तथा स्वात्मानन्दाज्ञानविमोहिताः | बाह्यं सुखं लेशमात्रं प्राप्नुवन्ति महाश्रमैः || ८७ || स्वात्मानन्दाज्ञानेन विमोहिताः || ८७ || तदलं मे वृथा बाह्यसुखलेशपरिश्रमात् | अनन्तानन्दसन्दोहतत्परः स्यां हि सर्वदा || ८८ || प्. ३०३) अलमेतेन बाह्येन व्यवहारेण मे किमु | पिष्टपेषणकल्पेन चोपालम्भपदेन वै || ८९ || एतेन विषयानन्देनालम् | अत एव तत्प्रापकेण बाह्यव्यवहारेण मे किमु प्रयोजनमिति शेषः | उपालम्भपदेन निन्दास्थानभूतेन || ८९ || तानि भोज्यानि तान्येव माल्यानि शयनानि च | भूषणानि विचित्राणि योषित्सम्भोगकाश्च ते || ९० || पिष्टपेषणतुल्यतामेवाह - तानीति | असकृद् भुक्तानीत्यर्थः [क्: भूता] || ९० || चिरपर्युषितप्रायाण्यपि संसेव्यते पुनः | गतानुगतिकत्वान्मे जुगुप्सा नहि जायते || ९१ || गतानुगतिकत्वाद् गतानां पितृपितामहादीनामनुगतिः समानाचरणं यस्य अविचारपरत्वादिति यावत् | पर्युषितप्रायविषयभोगे जुगुप्सा || ९१ || इति निश्चित्य भूयोऽहं यावदन्तर्मुखोद्यतः | तावदन्यो विमर्शो मां सुशुभः प्रत्युपस्थितः || ९२ || अन्तर्मुखतायामुद्यतः | विमर्शो विचारः || ९२ || अहो मे चित्तमोहोऽयं किं मामेवमुपस्थितः | आनन्दपरिपूर्णात्मा स एवाहं स्थितोऽपि सन् || ९३ || तमेवाह - अहो इति | समाध्यनुभूतसुखस्य स्वरूपत्वेन सर्वदा प्रकाशमानत्वात् पुनः क्वचित् प्रवृत्तिरियं मोहेनेति भावः | स एवानन्दरूप एव || ९३ || भूयः किं कर्तुमिच्छामि प्राप्तव्यं वाऽपि किं मया | किमप्राप्तं मया कुत्र कदा वा प्राप्यते कथम् || ९४ || कथं केनोपायेन || ९४ || अप्राप्तस्यापि सम्प्राप्तिः कथं सत्या हि सम्भवेत् | अहोऽनन्तचिदानन्दरूपे मे स्यात् कथं क्रिया || ९५ || अप्राप्तस्य सुखस्य प्राप्तिश्चेत् - जातस्य हि ध्रुवो मृत्युः (भ० गी० २| २७) इति न्यायेन तत्सुखमनित्यमेव स्यादित्याह - अप्राप्तस्येति | मम निष्क्रियस्य न कापि क्रिया सम्भवतीत्याह - अहो इति || ९५ || प्. ३०४) देहेन्द्रियान्तःकरणान्यपि स्वाप्नसमानि [क्: स्वप्न] वै | ममैव तानि सर्वाणि त्वखण्डैकचिदात्मनः || ९६ || ननु पूर्णचिदात्मनः साक्षात् क्रियाभावेऽपि देहादिद्वारा स्यादिति चेदाह - देहेति | तेषामसत्यत्वेन तद्द्वारापि न क्रियेति भावः | ननु तथापि - अर्थं ह्यविद्यमानेऽपि संसृतिर्न निवर्तते | ध्यायतो विषयान् पुंसः [अस्य इति प्रायिकः पाठः] स्वप्नेऽनर्थागमो यथा || (भा० पु० २|२७|४) इत्युक्तरीत्या मनोनिरोधेन फलं भवेदिति चेदाह - ममैवेति | प्रत्येकं जीवानां यानि पृथग् देहाद्यन्तःकरणान्तानि सन्ति तानि सर्वाणि ममैव भवन्ति | कुत इति चेदखण्डैकचिदात्मन इति विशेषणम् || ९६ || तत्रैकमन्तःकरणं निरुद्ध्यापि च किं भवेत् | अन्यान्यप्यनिरुद्धानि मनांसि च ममैव हि || ९७ || तथा च किमिति चेदाह - तत्रेति | तेष्वन्तःकरणेषु मध्ये एतद्देहान्तर्गतैकान्तःकरणनिरोधेन किं फलं भवेत् न किञ्चिदिति भावः | अन्तःकरणनिरोधे विक्षेपनिवृत्तिः स्यादिति चेदाह - अन्यानीति | एकस्य निरोधेऽप्यन्येषामनिरोधान्न तेन विक्षेपनिवृत्तिरिति भावः || ९७ || तथा चैकस्य मनसो निरोधे मम किं भवेत् | निरुद्धान्यनिरुद्धानि मनांसि मयि भान्त्यलम् || ९८ || एतन्मनोनिरोधे एतद्देहावच्छेदेन विक्षेपनिवृत्तिः स्यादिति चेदाह - तथा चेति | अनेकदेहावच्छेदेन विक्षेपसत्त्वे एकदेहे विक्षेपनिवृत्तिरप्रयोजिकेति भावः | नन्वेकमेव मनस्त्वदीयं नान्यदिति चेदाह - निरुद्धानीति | यथा ह्येकं मनो भाति तथा जगति निरुद्धानि योगिनां मनांसि अन्येषामनिरुद्धानि च मनांसि मययेव भान्तीत्यविशेषाद् ममैव तानि सर्वाणीति भावः || ९८ || प्. ३०५) निरोधे सर्वमनसामपि मे न निरोधनम् | महाकाशात् सुवितते कुतो मयि निरोधनम् || ९९ || मनसो निरोधेऽपि मम निर्विशेषैकरूपस्य न कश्चन विशेषो भवेदित्याह ##- महाकाशस्यापि चिदात्मप्रकाश्यत्वेन ततो विततत्वं ज्ञेयम् || ९९ || एवं पूर्णानन्दरूपे समाधिः स्यात् कथं मयि | चिदानन्दप्रपूर्णस्य पूर्णस्य गगनादपि || १०० || एवं मनोनिरोधेऽपि स्वरूपे विशेषाभावान्न समाधेरपि सम्भव इत्याह - एवमिति | समाधिर्नाम दृश्यानवभासे स्वरूपानन्दाविर्भावः | एतच्च न सम्भवति अपरिच्छिन्नानन्दरूपे मयि दृश्यावभासेऽप्यानन्दानिरोधाद् [क्: प्यानन्द] मयि शुभाशुभप्रापकक्रियाऽसम्भव इत्याह - चिदानन्देति | चिदानन्तप्रपूर्णस्येत्यनेन कयाचित्क्रियया स्वरूपप्रकाशो वा आनन्दाविर्भावो वा प्राप्यो नास्तीति सूचितम् || १०० || मम क्रिअय कथं का स्याद्ययापि [क्: स्यादद्वयाऽपि] स्तः शुभाशुभे | अनन्तेषु शरीरात्माभासेषु मन्महित्वतः || १०१ || केति क्रियास्वरूपाक्षेपः [क्: पेक्षा; ख्: पेक्षः] | शरीरातिरिक्तस्य मे शरीरेऽप्याभासमानक्रियया न किञ्चिदित्याह - अनन्तेष्विति | मन्माहात्म्यादेव क्रियाद्याभास इत्याह - मन्महित्वत इति || १०१ || क्रियाभासावभासेन तदभावेन वाऽपि किम् | कर्तव्यं वाऽप्यकर्तव्यं मम नास्त्यपि लेशतः || १०२ || अतो मम न कर्तव्याकर्तव्ये इत्याह - कर्तव्यं वेति || १०२ || प्. ३०६) तस्मान्निरोधने किं स्यादहमानन्दनिर्भरः | समाधावसमाधौ वा सत्यपूर्णस्वभावकः || १०३ || यतोऽहं समाधावसमाधौ वा सत्यपूर्णस्वभाव आनन्दनिर्भरश्च ततो निरोधेन न किञ्चित् फलमित्याह - तस्मादिति || १०३ || यस्यां क्रियायां देहोऽयं स्थितस्तत्रैव तिष्ठतु | इत्यहं सर्वथा स्वस्थः सुमहानन्दमन्दिरः || १०४ || यतो मयि क्रिया न सम्भाव्यते न वा तत्फलमत आह - यस्यामिति | स्वस्थः देहाहम्भाववर्जनात् स्वरूपस्थः || १०४ || अनस्तमितभारूपोऽहं सुपूर्णो निरञ्जनः | उत्तमाधिकृतस्यैवं स्थितिर्मे सम्प्रकीर्तिता || १०५ || अनस्तमितेति | अपरिच्छिन्नचिद्रूप इत्यर्थः | निरञ्जनः क्रियामालिन्यरहितः | एवम् उक्तरीत्या स्थितिर्ज्ञानप्राप्तिप्रकारः || १०५ || अधमानामनेकैस्तु जन्मभिर्ज्ञानजं फलम् | मध्यमानां [क्: अधमानां] तु क्रमतः श्रवणं च विचारणम् || १०६ || अधमानां नैकजन्मना ज्ञानफलम् | मध्यमानां कालक्रमेण ज्ञानम् | न तूत्तमानामिवाक्रमेण तत्काले || १०६ || अनुधयनं च भवति ततो ज्ञानं प्रजायते | विज्ञानफलसंयुक्तः समाधिर्दुर्लभो भवेत् || १०७ || ततोऽनुध्यानानन्तरं [क्, ख्: नन्तरज्ञानं] ज्ञानं प्रत्यभिज्ञानम् || १०७ || विज्ञानफलहीनेन किं समाधिशतेन वा | तस्माद्विज्ञानहीनैस्तैः फलं नास्ति समाधिभिः || १०८ || तस्माद् विज्ञानात्मकफलहीनसमाधेर्व्यर्थत्वात् | तैः जाग्रदादौ स्थितक्षणसमाधिभिः || १०८ || लोकेऽपि गच्छन् मार्गेषु निर्विकल्पप्रकाशितान् | भावानविज्ञाय तेषामज्ञानं न निवर्तते || १०९ || कुत एवमिति चेन्निर्विकल्पस्याज्ञानानिवर्तकत्वादिति सदृष्टान्तमाह - लोक इति | अविज्ञाय विषयविकल्पमकृत्वा स्थितस्य तदज्ञानं न निवर्तते || १०९ || प्. ३०७) निर्विकल्पाख्यविज्ञानं ज्ञानमात्रं निजं वपुः | तत् सर्वदा भासमानमप्यभातविधं ननु || ११० || कुतो निर्विकल्पादज्ञानानिवृत्तिरिति चेत् समानविषयकत्वेनैव ज्ञानस्याज्ञाननिवर्तकमित्याह - निर्विकल्पेति | ज्ञानमात्रं निर्विषयकमित्यर्थः | तच्च शुद्धस्वरूपभूतम् | तत् निर्विकल्पम् | सर्वदा सविकल्पकालेऽपि || ११० || विकल्पाच्छादनादेव विकल्पानां व्यपोहने | भासमानमेव भूयो भातकल्पमपूर्वतः || १११ || कस्मादभातविधमिति चेदाह - विकल्पेति | निर्विकल्पसमाधिरूपं ज्ञानं दर्पणतुल्यं सर्वविकल्पप्रतिबिम्बाश्रयम् | अतो विकल्पैराच्छन्नत्वात् प्रतिबिम्बपूर्णदर्पणवद् भातमप्यभातविधमित्यर्थः | अत एव विकल्पहाने भूयः सर्वदा भासमानमेवापूर्वतो भातकल्पो भवतीत्याह - विकल्पानामिति || १११ || ज्ञानज्ञेयाविभेदेन त्वज्ञातं ज्ञातमुच्यते | एवमेष भवेदात्मविज्ञानक्रम उत्तमः || ११२ || पूर्वं ज्ञेयमिश्रितत्वाद् ज्ञानज्ञेययोरविभेदेन अपृथग्भावहेतुनाऽज्ञातं विकल्पनिरसने तदेव ज्ञातमित्युच्यते | उपसंहरति - एवमिति | उत्तमफलदत्वादुत्तमः || ११२ || ब्रह्मन्नेवं श्रुतं भूयो विचार्य ज्ञातुमर्हसि [ग्: ध्यातु] | अथ विज्ञायात्मतत्त्वं कृतार्थस्त्वं भविष्यसि || ११३ || भूयः पुनः | अथ विचारध्यानात्मकमनननिदिध्यासानन्तरम् | विज्ञाय सोऽहमिति प्रत्यभिज्ञाय || ११३ || जनकेनैवमादिष्टस्त्वष्टावक्रो महामुनिः | पूजितस्त्वभ्यनुज्ञातो गत्वा स्वं स्थानमादरात् || ११४ || आदिष्टः उपदिष्टः जनकेन पूजितः | आदरात् विचारानुध्यानपूर्वमिति योजना || ११४ || प्. ३०८) विचारानुध्यानपूर्वं विज्ञाय परमं पदम् | विधूय सर्वसन्देहान् [सर्वसन्देहमिति टीकानुसारी पाठः] जीवन्मुक्तोऽभवद् द्रुतम् || ११५ || परमं पदम् अद्वितीयात्मतत्त्वम् | सर्वसन्देहम् अवेद्यं वेद्यं कथं भवेदित्यादि सन्देहम् | द्रुतमित्यष्टावक्रस्योत्तमाधिकारिता द्योतिता || ११५ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डेऽष्टावक्रीये सप्तदशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां सप्तदशोऽध्यायः || प्. ३०९) अथ अष्टादशोऽध्यायः भार्गवैवं हि सा संविद् वेद्यवन्ध्या निरूपिता | उपलब्धिदशास्तस्या बहुधा संश्रुता ननु || १ || अत्र सेतूपपद्यैस्तु स्वरूपं प्रोच्यते क्रमात् | मोक्षस्य मनसो व्योमबन्धयोः सत्यवस्तुनः || एवं जनकोक्तरीत्या | सा आत्मरूपिणी | तस्याः वेद्यरहितसंविदः || १ || अव्युत्पत्त्या न जानन्ति जना मायाविमोहिताः | सा दशा भाव्यते सूक्ष्मदृशैव नान्यथा क्वचित् || २ || अव्युत्पत्त्या स्वरूपापरिचयेन | तां संविदं न जानन्ति | सा दशेति वेद्यरहितसंविद्दशा | सूक्ष्मदृशा अबहिर्मुखमनसा || २ || किं बहूक्तेन ते राम शृणु सारं ब्रवीम्यहम् | मनसा वेद्यते वेद्यं मनसोऽतो न वेद्यता || ३ || पञ्चदशाध्यायादौ - किन्त्वेवेंविधसंवित्तिर्वेद्यवन्ध्या निरूपिता | उपलब्धुमशक्यैव (१५|७) इति भार्गवेणोक्तं तदेतज्जनकाष्टावक्रसंवादेन निरूपितमपि चित्तारोहाय भूयो निरूपयति - किं बहूक्तेनेति | मनसेति | सर्वं वेद्यं मनसा वेद्यत इति प्रसिद्धम् | अतो मनह्स्वरूपवेदने करणाभावान्न मनसो वेद्यताऽस्ति || ३ || तथा च वेद्यनिर्मुक्तं मनोऽप्यस्तीति सम्भवेत् | तन्मनो वेद्यनिर्मुक्ता वित्तिरित्यभिधीयते || ४ || तथा चेति | मनसोऽवेद्यत्वसिद्धावित्यर्थः | वेद्यानां वेदनान्तरालादौ [ग्: वेदना नास्ति] वेद्यनिर्मुक्तं मनोऽप्यस्तीति सम्भवेत् | कार्यान्तरालेषु कारणस्य [ख्, ग्: करणस्य] निर्व्यापारस्वभावत्वादिति भावः | एवंविधं मन एव वेद्यनिर्मुक्ता वित्तिरित्युपलब्धुं सुशक्यैवेत्याह - तन्मन इति | वेद्यनिर्मुक्तं मन एव शुद्धमात्मतत्त्वमिति भावः || ४ || प्. ३१०) उपलब्धिस्वरूपत्वाद्विदितैव हि सा सदा | अन्योपलब्ध्यपेक्षायामान्ध्यं स्यादनवस्थितेः || ५ || नन्वेवंविधात्मतत्त्वस्यावेद्यत्वे पुमर्थसिद्धये तद्वेदनमसम्भाव्यमित्याशङ्क्याह - उपलब्धीति | स्वप्रकाशत्वेन विदितैव प्रकाशमानैव | न तत्प्रकाशे इतरापेक्षेति भावः | तस्याः स्वप्रकाशत्वानङ्गीकारे दोषमाह - अन्येति | अन्या स्वातिरिक्तोपलब्धिरन्योपलभ्दिः तदपेक्षायाम् | वित्तेर्वेदनं वित्त्यन्तरेण तस्य च वित्त्यन्तरेणेत्यनवस्थायां न किञ्चित् प्रकाशेतेति भावः || ५ || कञ्चिद्भावं [क्: किञ्चि] हि संपश्यन्न भासि किमु भार्गव | न भासि चेन्न त्वमसि ततः प्रश्नस्तु ते कथम् || ६ || चिदात्मनः सदा स्वप्रकाशत्वमनुभावयति - कञ्चिदिति | घटादिदर्शनकाले त्वं न भासि किमित्यर्थः | यदीतरभासनकाले त्वं न भासि तर्हि तदा त्वं नासि सत्त्वस्य भासनायत्तत्वात् | इष्टापत्तौ प्रश्नानुपपत्तिमाह - तत इति || ६ || अहो स्वयं खपुष्पात्मा सन् कथं हितमिच्छसि | कथं तवत्मानमहं साधयामि विभावय || ७ || आत्मा नास्तीति वदन्तमुपहसति - अहो इति | स्वात्मनिषेधकस्य [क्: स्वात्मनिषेधकस्य नास्ति] तवात्मानमहं [क्: स्वात्मानमहं] कथं साधयाम्येतद्विभावय | स्वयं मर्तुं प्रवृत्तस्यान्येन रक्षणमशक्यमिव स्वात्मानं निषेद्धुं प्रवृत्तस्य मूढस्यात्मसाधनमन्येन कर्तुमशक्यमिति भावः || ७ || सामान्येन विभान्तं मां न जानामि विशेषतः | इति चेद् राम सामान्यमेव ते रूपमव्ययम् || ८ || नन्वहमात्मानं न निषेधामि किन्तु सामान्यतो भान्तमात्मानं विशेषरूपेण ज्ञातुमिच्छामीत्याक्षिपति - सामान्येनेति | लोकेऽपि सामान्यज्ञाने विशेषजिज्ञासयैव प्रश्नः अतो नाहं मूढ इति भावः | समाधत्ते - सामान्यमेवेति | लोके सामान्यविशेषात्मकेषु घटादिष्वेवं प्रश्नः सम्भवति न तु निःसामान्यविशेषात्मकगगनतुल्येऽखण्डैकरूपे | अतो यत्त्वया सामान्यमात्मरूपं ज्ञातं तदेव वस्तुतो निःसामान्यं ते रूपमव्ययं नित्यम् | अन्यद्देहाद्यात्मना भासमानमनित्यं न ते रूपमिति भावः || ८ || प्. ३११) विशेषलेशरहितमेतावद्ध्येव ते वपुः | अहो जानन्नपि पुनरलं मुह्यसि वै वृथा || ९ || दृश्यद्रष्टृभावादिसर्वविशेषरहितं यदेतत् संवित्सामान्यं विभाति तदेतावदेव ते निजं वपुः | ततज्ज्ञात्वापि वृथाऽत्यन्तं त्वं मुह्यसीत्याह - अहो इति || ९ || भासकं सर्वमपि च विशेषविषयं भवेत् | अतः सामान्यरूपस्त्वं विभासि स्वत एव हि || १० || ननु तर्हि घटपटादितत्तद्विषयभासकं ज्ञानसामान्यं मद्वपुः स्याच्चेन्नेत्याह - भासकमिति | तत्तद्भासकज्ञानस्य तत्तद्भास्यविशेषाकाररूपितत्वेन न तद्भासकत्वेन त्वद्रूपतेत्यर्थः | अतः केवलज्ञानसामान्यरूपस्त्वमन्यानपेक्षतया स्वत एव विभासि | सामान्यं वा विशेषो वा परस्परानुसंपृक्तमेव भासते न तु स्वातन्त्र्येण | चिदात्मा तु निःसामान्यविशेषवपुषा भासत इति भावः || १० || शरीराद्यात्मना भासि चेच्छृणु प्रब्रवीमि ते | शरीरात्मतया भासि सङ्कल्पेनैव नान्यथा || ११ || ननु न [क्: न नास्ति] मे त्वदुक्तचित्सामान्यवपुषा भासनमस्ति किन्तु देहेन्द्रियादिसङ्घातसामान्यरूपेणैवेत्याशङ्कां [क्: न्द्रियादिसात्मस] परिहर्तुमाह - शरीरेति | शरीरादेरात्मत्वमहंबुद्धिविषयत्वम् तच्च तत्तद्देहादिसङ्कल्पकाले एवेत्याह - शरीरात्मेति | देहाद्याकारोल्लेखसङ्कल्पेनैव शरीरात्मतया भासि न स्वत इत्यर्थः || ११ || विभावय सूक्ष्मदृशा सङ्कल्पेऽन्यस्य देहतः | भाति किं तव देहत्वं देहस्तच्चापि ते भवेत् || १२ || एतदेवानुभावयति - विभावयेति | देहादन्यस्य घटादेः सङ्कल्पकाले भासाअनस्य तव देहरूपता भाति किम् ? न भातीत्यर्थः | ननु देहत्वस्याभासनेऽपि [क्: त्वस्य भासनेऽपि] वस्तुतो मम चिदात्मनः सम्बन्धाद्देहादिर्मम वपुरिति चेद् भास्यघटादेरपि सम्बन्धाविशेषात्तच्चापि तव देहो भवेदित्याह - देह इति || १२ || प्. ३१२) एवं सङ्कल्प्यते यद्यच्छरीरं तत्तदेव हि | तेन सर्वमयस्त्वं स्याः कथं देहात्ममात्रकः || १३ || ननु तथाप्यहंप्रत्ययिनश्चिदात्मनः परिच्छेदकोपाधित्वादेव देहोऽपि स्वरूपमिति चेद् घटादिज्ञानकाले घटादिसङ्कल्पात्मकज्ञानस्यैवाहंप्रत्ययित्वेन घटादीनामेव तत्परिच्छेदकोपाधित्वाद् घटाद्यमपि ते रूपं स्यात् अतो भासमानक्रमिकसर्वभावमयत्वमेव ते भवेन्न तु देहमात्रात्मत्वमित्याह - एवमिति || १३ || तस्माद् दृश्यं तव वपुर्नहि स्याद्व्यभिचारतः | तस्माद् दृङ्मात्ररूपोऽसि न दृग् दृश्या कदाचन || १४ || तस्मादिति | सर्वमयत्वप्राप्तेरित्यर्थः | इष्टापत्तिरिति चेदाह - व्यभिचारत इति | तत्तद्भासनकाले तदितरेषामहंप्रत्ययिसम्बन्धाद्यभावादित्यर्थः | तस्माद् दृश्यस्य त्वद्रूपतानुपपत्तेः | अत एव तवात्मभूता दृग् दृश्यात्मिका न भवतीत्याह - न दृगिति || १४ || सा स्वप्रभा दृश्यरूपविशेषलेशवर्जिता | देहदेशकालभेदचित्रवैचित्र्यचित्रिता || १५ || आत्मरूपमेव निष्कृष्याह - सेति | आत्मस्वरूपा दृग् इत्यर्थः | स्वप्रभा स्वप्रकाशरूपा स्वस्वरूपभासनेऽन्यापेक्षावर्जितेति भावः | दृश्यरूपेति | शुद्धदृङ्मात्ररूपेति भावः | ननु देहदेशादिनिखिलविशेषस्य तदेकनिष्ठत्वात् कथं विशेषलेशवर्जितेति चेदाह - देहेति | भेदात्मकचित्रस्य वैचित्र्येण चित्रिता प्रतिबिम्बचित्रितदर्पणवज्जगच्चित्रवतीति भावः || १५ || प्. ३१३) तस्मात् सङ्कल्पमात्रस्य वर्जनात् परतः स्थितम् | शेषं शुद्धचिते रूपं स्वात्मानमुपलक्षय || १६ || तस्मादिति | दर्पणे प्रतिबिम्बवैचित्र्यस्य बिम्बमूलकत्ववच्चिति जगद्वैचित्र्यस्य सङ्कल्पमूलकत्वादित्यर्थः | परतः स्थितं सङ्कल्पवर्जनोत्तरं स्वतोऽभिव्यज्यमानम् | शेषं सङ्कल्पत्यागावधिभूतम् || १६ || एवं सकृल्लक्षिते तु यत् स्थितं तदलक्षणात् | अज्ञानं सर्वसंसारकारणं तद् विलीयते || १७ || एवं सङ्कल्पवर्जनेन स्वात्मनि सकृल्लक्षिते प्रत्यभिज्ञाते सति तस्मिन् यत् स्थितं देहाद्यं तस्यालक्षणात्तु स्थूलोऽहं ब्राह्मणोऽहमित्यनभिमननादेव तद्देहादावहम्भावकारणभूतमज्ञानं विलीयते | देहात्मभावाद्युन्मूलनक्षमात्मप्रत्यभिज्ञानेनैवाज्ञाननिवृत्तिर्न क्षणिकसमाधिरूपान्निर्विकल्पादापातप्रत्यभिज्ञानाद् वेति भावः || १७ || न मोक्षो नभसः पृष्ठे न पाताले न भूतले | सङ्कल्पवर्जनाच्छुद्धस्वरूपस्य प्रथैव सः || १८ || नन्वेवमज्ञाननिवृत्ययुत्तरं कदा कुत्र किंविधो मोक्षः प्राप्यत इत्याशङ्क्याह - न मोक्ष इति | सङ्कल्पवर्जनकाले एव स्वात्मन्येव स्वरूपप्रथात्मको मोक्षो भवेदिति भावः || १८ || स स्वरूपात्मकत्वात्तु नाप्राप्तः स्यात् कदाचन | केवलं मोहमात्रस्य निरासेन कृतार्थता || १९ || नाष्येवंविधो मोक्षोऽपूर्वः प्राप्यते तस्य स्वरूपभूतप्रथात्मत्वादित्याह - स इति | ननु तर्ह्येतावान् श्रवणादिप्रयासो व्यर्थ इति चेन्नेत्याह - केवलमिति | मोहोऽज्ञानम् || १९ || अन्यो मोक्षो न सम्भाव्यः कृतकत्वाद्विनाश्यतः [क्: श्यते] | स्वरूपादतिरिक्तश्चेच्छशशृङ्गसमो हि सः || २० || ननु निरुक्तज्ञानात् स्वर्गादिवदन्य एव मोक्षः कुतो नेष्यत इति चेत्तस्य कृतकत्वेन विनाश्यत्वप्रसक्तेरित्याह - अन्य इति | अतो नान्यो मोक्ष इति सम्बन्धः || २० || प्. ३१४) स्वरूपं सर्वतः पूर्णमन्यो मोक्षः क्व सम्भवेत् | स्वरूपे सम्भवन्(वेद्)मोक्षो दर्पणप्रतिबिम्बवत् || २१ || कुतः शशशृङ्गतुल्यत्वमिति चेदाह - स्वरूपमिति | स्वरूपबाह्यस्यासिद्धेः सम्यङ्निरूपितत्वान्न मोक्षः क्वचित् सेत्स्यतीति भावः | ननु जगदिव स्वरूप एव मोक्षोऽस्त्विति चेत्तर्हि प्रतिबिम्बवत् स्वरूपानतिरिक्त एवेत्याह - स्वरूप इति || २१ || लोकेऽपि बन्धविगमादृते मोक्षो न भावितः | विगमोऽभाव एव स्यात् सत्योऽभावात्मकः कथम् || २२ || लोकेऽपि मोक्ष इति न वस्त्वन्तरमित्याह - लोकेऽपीति | विगमो हि बन्धनाशः | नाशो नाम ध्वंसाभावः | तथा चाभावस्य सत्यत्वेन भावत्वे चैकमेव विरुद्धभावाभावोभयरूपं भवेदिति भावः || २२ || भावाभावात्मकं वस्तु नहि सम्भवति क्वचित् | तथा च स्वाप्नभावाश्च भावाभावोभयात्मकाः || २३ || भावाभावात्मकमिति | विरुद्धोभयरूपं क्वचिन्न सम्भवति सत्यतां न प्राप्नोतीत्यर्थः | अयं भावः - भावत्वं सत्त्वम् अभावत्वमसत्त्वम् तदुभयरूपमेकं न सम्भवति विरोधादिति न बन्धाभावोऽतिरिक्तः किन्तु तदधिकरणस्वात्मरूप एवेति | ननु बन्धाभावस्यात्मरूपत्वे आत्मन एव भावाभावविरुद्धोभयरूपत्वं स्यादित्याशङ्क्य आत्मातिरिक्तस्य भावत्वाभावत्वादेरखिलस्यासिद्ध्या न विरुद्धरूपतेति वक्तुमेकस्य विरुद्धोभयरूपत्वाङ्गीकारे स्वाप्नभावानां तथाविधानां सत्यत्वप्रसक्तिरित्याह - तथा चेति | अस्ति नास्तीत्युभयप्रत्ययविषयत्वादुभयात्मत्वम् | सत्याः स्युरिति सम्बन्धः || २३ || सत्याः स्युर्बाधहेतोस्ते त्वसत्या इति चेच्छृणु | बाधोऽभावप्रत्ययः स्यात् प्रत्ययाभावकालिकः || २४ || ननु स्वाप्नानां नोभयरूपेण सत्यता तद्गतभावरूपताया बाधितत्वादित्याशङ्क्य एवमात्मातिरिक्तस्याखिलस्यापि बाधसम्भवान्न मोक्षोऽप्यतिरिक्तः सेत्स्यतीत्याह - बाधहेतोरित्यादि | बाधितस्यासत्यतां वक्तुं बाधलक्षणमाह - बाध इति | नास्ति घट इत्यभावप्रत्यय एव भाधः | नन्वात्मनोऽपि नास्त्यात्मेति कस्यचित् प्रत्ययसम्भवाद्वाधितत्वेनासत्यताप्रसक्तिरित्यत आह - प्रत्ययाभावकालिक इति | आत्मनो नित्यप्रकाशत्वेन प्रत्ययाभावासम्भवाद् नासत्यतेति तात्पर्यम् || २४ || प्. ३१५) यस्यैवं बाधयोगः स्यात् सोऽसत्यो नहि चेतरः | अस्ति सर्वस्य दृश्यस्य बाधोऽप्रत्ययकालिकः || २५ || यस्य घटादेः | एवम् उक्तरीत्या | तत्प्रत्ययाभावकालिकतदभावप्रत्ययरूपबाधयोगः स्यात् सोऽसत्यः | नहि चेतर इति | एवंबाधयोगरहितो नासत्यः | अप्रत्ययकालिक इति | दृश्यमात्रस्य प्रत्ययाभावकालिकाभावप्रत्ययरूपबाधसत्त्वादसत्य(त्व)मित्यर्थ ः || २५ || तस्मादसत्यमेव स्याद् भावाभावात्मना स्थितम् | यस्याभावस्पर्शलेशः कदाचित् कुत्रचिन्नहि || २६ || तस्मात् उक्तबाधयोगात् | भावाभावात्मना स्थितमिति | अस्ति नास्तीत्युभयप्रत्ययविषयीभूतं दृश्यमात्रम् | यस्य वस्तुनः | कदाचित् काले कुत्रचिद्देशे वा अभावस्पर्शलेशः प्रत्ययाभावकालिकाभावप्रत्ययसम्बन्धो नहि || २६ || एवंविधं तु चित्तत्त्वं सत्यं सर्वात्मना स्थितम् | तस्माद्विभिन्नमोक्षस्तु न सत्यः स्यात् कथञ्चन || २७ || एवंविधं बाधविधुरं चिदात्मतत्त्वमेव सत्यम् | ननु घटादिप्रत्ययकाले नास्ति चिदात्मप्रत्यय इति चेदाह - सर्वात्मनेति | दर्पणप्रतिबिम्बन्यायेन सर्वात्मना तस्यैव भासमानत्वेन स्थितत्वान्न तदप्रत्ययः कदाचनेति भावः | तस्मादिति | आत्मभिन्नदृश्यमात्रस्यासत्त्वादित्यर्थः || २७ || मोक्षः पूर्णस्वरूपस्य सकृत् प्रथनमुच्यते | चेत्यवर्जनमात्रेण चितिः पूर्णा प्रकीर्तिता || २८ || स्वरूपातिरिक्तस्य निखिलस्यासत्यत्वात् पूर्णमपरिच्छिन्नं यत् स्वरूपं तस्य यत् सकृत् प्रथनमपरिच्छिन्नं प्रथनम् | अविद्याया नष्टत्वादविद्याऽनावृतमिति यावत् | ननु सदा पूर्णस्वभावायाश्चितेः कथं मोक्षदशायामेव पूर्णत्वमिति चेदाह - चेत्येति | स्वभावतः पूर्णापि चेत्यसम्पर्कादपूर्णेव भवतीति भावः || २८ || प्. ३१६) चेत्याभासनमेवास्याश्चितेः सङ्कोचनं भवेत् | चेत्याभाने चितिः पूर्णा परिच्छेदविवर्जनात् || २९ || एतदेवाह - चेत्येति | अस्याश्चितेः | यथा हि दर्पणस्वरूपं प्रतिबिम्बैः सङ्कुचितमिव भवति तथेति भावः | यथा हि प्रतिबिम्बाभासने दर्पणस्यापरिच्छिन्नतेव भवति तथा चेत्येऽभाते चितिः पूर्णेव भवतीत्याह ##- कालादिभिः परिच्छेदो यदि तस्या निरूप्यते | अचेतितः परिच्छेदश्चेतितो वा भवेद् वद || ३० || एवं चितेः स्वान्तर्भातचेत्यैरेव परिच्छेदाभासो न वस्तुतः कालाद्यैः परिच्छेद इति वक्तुमुपक्रमते - कालादिभिरिति | तस्याः चितेः | परिच्छेदः परिच्छेदकः कालादिः | चेतितो वाऽचेतितः चितिप्रकाशितो वा न वेत्यर्थः || ३० || अचेतने ह्यसिद्धः स्याच्चेतने सैव व्यापिका | लोके कालपरिच्छिन्नो भवो यः कोऽपि भावितः || ३१ || अचेतने अचेतितत्वे चित्याऽप्रकाशितत्व इति यावत् | असिद्धः स्यादिति | चिदविषयस्य शशशृङ्गतुल्यत्वादसिद्धिरिति भावः | चेतन इति | चेतितत्वे इत्यर्थः | सैव चितिरेव | व्यापिकेति | दर्पणव्याप्तैः प्रतिबिम्बैर्दर्पणस्येव [क्, ख्: स्यैव] चितिव्याप्तैः कालाद्यैश्चितेर्न परिच्छेद इति भावः | एतदेव सोदाहरणमुपपादयति - लोक इति भावितः दृष्टः || ३१ || प्. ३१७) भावकालौ परिच्छेद्यपरिच्छेदकतां गतौ | चिता व्याप्तौ भवेतां वै यदा तर्हि तथाविधौ || ३२ || तत्रैवं स्थितिरित्याह - भावकालाविति | चिता व्याप्तयोः प्रकाशितयोरेव भावकालयोस्तथाविधता परिच्छेद्यपरिच्छेदकता || ३२ || अव्याप्तौ तु चिता यर्हि कथं सिद्ध्येत् परिच्छिदिः | चितेर्बहिर्यदा चेत्यमस्ति तत् स्यात् परिच्छिदिः || ३३ || तत्र परिच्छेद्यपरिच्छेदकयोर्मध्येऽन्यतरस्यापि चिताऽव्याप्तौ न परिच्छेदसिद्धिरित्याह - अव्याप्ताविति | एवञ्च प्रकृते परिच्छेदकाभिमतस्य कालादेश्चिद्व्याप्तत्वस्यावश्यमेष्टव्यत्वेन व्याप्येन कालादिना व्यापकस्य परिच्छेदो न सम्भवतीति भावः | यदि परिच्छेदकाभिमतकालादिचेत्यस्य चिदव्याप्तस्य चितेर्बहिः सत्त्वसम्भवे परिच्छेदस्तेन चितेः स्यादित्याह - चितेरिति | तत् तदा || ३३ || चितेर्बहिश्चेत्यसिद्धिः सर्वथा नोपपद्यते | यो बहिः स कथं सिद्ध्येच्चितिसम्बन्धवर्जितः || ३४ || चिद्व्याप्त्या प्रकाशमानस्यैव स्वरूपसिद्धिर्नान्यस्येत्याह - चितेरिति || ३४ || सम्बन्धोऽपि नैकदेशः स्यादसिद्धस्तथेतरः | तत्सम्बन्धांशमात्रस्य भानादन्यन्न सिद्ध्यति || ३५ || ननु चित्सम्बन्धाद्वस्तुस्वरूपसिद्धिः | तथा च घटे दण्डसम्बन्ध इव चितेः कालाद्येकदेशसम्बन्धेनापि कालादिस्वरूपसिद्धिश्चिदव्याप्तिश्च सिद्ध्यतीति चेदाह - सम्बन्ध इति | चित्सम्बन्धः कालादेरेकदेश इति वक्तुमयुक्तम् | तथा सति चित्सम्बन्धादितरांशोऽसिद्धः स्यात् | कुत इति चेदन्यांशस्याभावादित्याह - तत्सम्बन्धेति || ३५ || अतो बहिः पदार्थोऽपि चितिनिर्मग्न इष्यताम् | एवं च सर्वात्मनैव मग्नं चेत्यमपीष्यताम् || ३६ || यतश्चित्यनिर्मग्नो न सिद्ध्यति अतो यत्राव्यक्तभित्तावखिलदृश्यचित्रमवभासते तत्स्वरूपसिद्ध्यर्थं तदपि बहिःपदार्थरूपं चितिनिर्मग्नमिष्यताम् | एवञ्च दीपालोकनिर्मग्नभित्तिस्थचित्राणामर्थाद्यथा दीपालोकनिर्मग्नत्वं तथा चितिनिर्मग्नं चेत्यमिष्यतामित्याह - अत इति || ३६ || प्. ३१८) कथं स्वान्तर्विनिर्मग्नं स्वपरिच्छेदकं भवेत् | चेत्यमेवंविधं राम विचारय सुयुक्तितः || ३७ || एवं स्वान्तर्निर्मग्नेन कालादिना स्वपरिच्छेदोऽसम्भवीत्याह - कथमिति | एवं परिच्छेदककालादेर्व्याप्यत्वादपरिच्छेदकत्वमुक्त्वा सम्प्रति गगनव्याप्तैर्घटाद्यैर्गगनस्य परिच्छेदवदपि चिदात्मनो न परिच्छेद इति सूचयितुं गगनाद् घटादिकमिव चिदात्मनो व्यतिरिक्तं दृश्यं नास्तीति साधयितुमुपक्रमते - चेत्यमिति | एवंविधं चितिनिर्मग्नम् || ३७ || चितेरन्तर्भासमानं प्रतिबिम्बात्मकं भवेत् | न भावोदरगो भावो भवन् लोके सुदृश्यते || ३८ || विचारप्रकारमेवाह - चितेरिति | चितिनिर्मग्नत्वेनान्तर्भासमानं चेत्यं प्रतिबिम्बात्मकमेव भवेत् अन्यथा निरूपयितुमशक्यत्वत् प्रतिबिम्बलक्षणयोगाच्च | एतच्च प्राग् वितानितम् [द्वादशाध्याये चतुर्दशाध्याये च] | अन्यथाऽनुपपत्तिमेव दर्शयति - न भावेति || ३८ || भावानां स्याद्धि साङ्कर्यं तथा चेद् राम सरतः | बहिःपदार्थस्ते प्रोक्तो भ्रममूलो हि सर्वथा || ३९ || भावशरीरे न भावान्तरमित्यत्र प्रत्यक्षानुपलब्धिं प्रदर्श्य तथाङ्गीकारे साङ्कर्यदोषमाह - भावानामिति | घटपटादेः परस्परस्वरूपान्तर्भावे घटः पटः स्यात् पटो घटः स्यादिति भावः | तथा च दर्पणप्रतिबिम्बतुल्यत्वाद् दृश्यं न चिदात्मनो व्यतिरिक्तमिति तात्पर्यम् | प्रकारान्तरेणाव्यतिरिक्ततां साधयति - बहिःपदार्थ इति | अव्यक्तमित्यर्थः | भ्रममूलः स्वरूपाज्ञानमूल इति प्राक् प्रोक्तम् [द्वादशेऽध्याये] || ३९ || प्. ३१९) तदाश्रयाणां भावानां कथं स्यात् सत्यता वद | चितिस्वरूपः स्वात्मैव तत्तद्भावात्मना सदा || ४० || तदाश्रयाणाम् अव्यक्तात्मकबहिःपदार्थाश्रयाणाम् | भ्रान्त्यारोपितभित्तिगतचित्राणामिव नाधिष्ठानातिरिक्तत्वेन सत्यत्वमिति भावः | तस्मात् स्वात्मैव चितिस्वरूपः सदा तत्तद्दृश्यभावात्मना भासत इत्यन्वयः || ४० || भासते स्वाच्छन्द्यशक्त्या नाधिकं विद्यते क्वचित् | इति वाक्यं समाकर्ण्य पुनः पप्रच्छ भार्गवः || ४१ || कुत एवं भासत इति चेदाह - स्वाच्छन्द्येति | मायाभिधानया स्वातन्त्र्यशक्त्या मायाविपरिकल्पितेन्द्रजालसृष्टिरिव भासते | अतः स्वरूपातिरिक्तं क्वचित् किञ्चिदपि नहि विद्यते || ४१ || भगवन् भवता प्रोक्तं दुर्घटं प्रतिभाति मे | शुद्धा चितिर्विचित्रैका भासत इत्यसम्भवात् || ४२ || शुद्धाखण्डा [क्: खण्डचिति] चितिरेकापि विचित्रा भासत इत्यसम्भवाद् दुर्घटं प्रतिभाति || ४२ || चितिश्चेत्यमिति द्वेधा वस्तु सर्वैर्विभावितम् | तत्र चेत्यं चिता भास्यं स्वप्रभा चितिरस्तु ते || ४३ || असम्भवमेव विशदयति - चितिरिति | सर्वैर्विभावितं सर्वानुभवसिद्धमनपह्नवनीयमिति तात्पर्यम् | तत्र तर्योमध्ये ते चितिः स्वप्रभैवास्तु | चितेः स्वप्रकाशत्वं त्वदुक्तमेवास्त्विति तात्पर्यम् || ४३ || यथाऽलोकभातमपि वस्तु तद्भिन्नमस्ति वै | एवं चिता भासितं तु चेत्यमस्तु पृथग्विधम् || ४४ || चितेश्चेत्यं [ग्: चित] भिन्नमिति सदृष्टान्तं साधयति - यथेति | आलोकभातमालोकाद्यथा भिन्नम् एवं चितो भिन्नं चेत्यमस्त्वित्यर्थः || ४४ || चेत्यं चिदात्मकमिति नानुभूतिं समारुहेत् | अथ च प्रागभिहितं जनकेन महात्मना || ४५ || नानुभूतिं समारुहेत् सर्वानुभवविरोधाच्चिच्चेत्ययोरेकता नानुभवविषयेत्यर्थः | आक्षेपान्तरम् - अथेति | जनकेनोक्तमिति भवता यदभिहितं तत् कथमिति व्यवहितेन सम्बन्धः || ४५ || प्. ३२०) सङ्कल्पवर्जनादेव निर्विकल्पं मनो भवेत् | तदेव निर्विकल्पं स्याज्ज्ञानं संसारनाशनम् || ४६ || जनकोक्तिमेवानुवदति - सङ्कल्पेति | तदेव निर्विकल्पं मन एव | संसारनाशनम् प्रत्यभिज्ञानद्वारा संसारनिवर्तकमित्यर्थः || ४६ || तदेव ह्यात्मनो रूपमित्युक्तं तत् कथं भवेत् | आत्मनो हि मनः प्रोक्तं करणं ज्ञानकर्मणि || ४७ || कथं भवेदित्याक्षेपनिदानानुपपत्तिमाह - आत्मनो हीति | ज्ञानकर्मणि ज्ञानक्रियायाम् || ४७ || मनो यद्यात्मनो न स्याद्विशिष्येत जडात् कथम् | मनो जडाद्विशेषः स्यादात्मनो भगवन्ननु || ४८ || चेतनस्यात्मनश्चितिक्रियाकरणं मनः | तदभावे आत्मनो जडत्वप्रसक्तिरित्याह - मन इति || ४८ || मनसैव हि बन्धः स्यान्मोक्षो वाऽप्यात्मनः स्फुटम् | सविकल्पं मनो बन्धो [हेतुहेतुमतोरभेदेनोपचाराद् मनो बन्धो मनो मोक्ष इति चोच्यत इति भावः] मोक्षः स्यान्निर्विकल्पकम् || ४९ || आत्मनो बन्धमोक्षावपि मनोनिमित्तकावित्याह - मनसैवेति | बन्धमोक्षयोर्मुख्यहेतुत्वाद् [हेतुहेतुमतोरभेदेनोपचाराद् मनो बन्धो मनो मोक्ष इति चोच्यत इति भावः] बन्धो मोक्ष इति || ४९ || तत् कथं मन एवात्मा करणं हि मनः स्मृतम् | निर्विकल्पस्य संसिद्धावपि द्वैतं तु शिष्यते || ५० || निर्विकल्पं मन एवात्मेति प्रागुक्तं तत्कथमित्याह - तत्कथमिति | तत् तस्मात् | कर्तृकरणयोरभेदानुपपत्तेरित्यर्थः | अतो दर्पणप्रतिबिम्बन्यायेन दृश्यैक्येऽपि मनसो [ख्, ग्: मनसा] द्वैतं परिशिष्यत इत्यर्थः || ५० || प्. ३२१) अथापि लोके दृष्टोऽस्ति यस्य भ्रान्तिरसन् हि सः | नहि भ्रान्तिरसत्या स्यात्तदद्वैतं कथं भवेत् || ५१ || भ्रान्तिविषयस्यासत्यत्वेऽपि भ्रान्तिस्वरूपस्य सत्यत्वाद् द्वैतपरिशेष इत्याक्षिपति - अथेति || ५१ || अर्थक्रिया न क्वचिच्च दृष्टाऽसत्येन वस्तुना | सर्वं हि जागतं वस्तु स्थिरमर्थक्रियाकरम् || ५२ || अर्थक्रिया स्थैर्यं चासत्ये रज्जुसर्पादौ न दृष्टम् तत् कथमर्थक्रियाकारिणोऽस्थि(णः स्थि)रस्य दृश्यमात्रस्यासत्यतेत्याह - अर्थक्रियेति || ५२ || तदसत्यं कथं ब्रूहि यतोऽद्वैतं प्रसिद्ध्यति | सर्वं च भ्रान्तिविज्ञानं भ्रान्त्यभ्रान्तिभिदा कथम् || ५३ || यतः जगतोऽसत्यत्वात् अद्वैतं प्रकर्षात् सिद्ध्यति | यदि दृश्यज्ञानं सर्वं भ्रान्तिरूपं तर्ह्यन्यस्याभ्रान्तिज्ञानस्याभावाद् भ्रान्तिरभ्रान्तिरिति ज्ञानभेदव्यवहारः कथमित्याह - सर्वमिति || ५३ || भ्रान्तिः सर्वसमा वापि कथं स्याद् ब्रूहि मे गुरो | सन्देह एष चिरतो [क्, ख्: विरतो] हृदि मे परिवर्तते || ५४ || सर्वेषामेकरूपा भ्रान्तिर्वा कथं स्यादित्याह - भ्रान्तिरिति || ५४ || इत्येवं प्रश्नमाकर्ण्य दत्तात्रेयः समस्तवित् | साधुप्रश्नप्रहृष्टात्मा प्रवक्तुमुपचक्रमे || ५५ || समस्तवित् सर्वज्ञः || ५५ || राम साधु त्वया पृष्टं प्रोक्तप्रायमिदं पुनः | यावन्न मनसस्तोषस्तावद् भूयो विशोधयेत् || ५६ || त्वया पुनः पृष्टमेतदतः प्रोक्तप्रायमेव | सर्वोऽप्येषोऽपूर्वः [क्: अपूर्व] प्रश्नो न भवतीति तात्पर्यम् | तर्हि कथमस्य साधुत्वमिति चेदाह - यावदिति | संशयनिवृत्त्या तोषः | विशोधयेत् विचारयेत् || ५६ || गुरुर्वापि कथं ब्रूयादपृष्टास्तन्मनोगतम् | प्राणिनां हि बुद्धिभेदात्तर्कः पृथगवस्थितः || ५७ || तन्मनोगतं शिष्य जिज्ञासितम् | पुनः प्रश्नोऽप्युपपद्यत इत्याह - प्राणिनामिति | बुद्धिभेदेन तर्कभेदात् | शिष्यहृद्गततर्कस्य गुरुणा ज्ञातुमशक्यत्वेन सकृदुपदेशेन शङ्काऽनिवृत्तेरिति भावः || ५७ || प्. ३२२) अपृष्ट्वा स्वस्वाभिमतं कः सन्देहाद्विमुच्यते | अपृष्टुर्विद्या हि सुदृढा प्रश्नो बीजं निरूपणे || ५८ || अप्रष्टुः सन्देहानिवृत्तिस्तस्मात् [क्: सन्देह] प्रष्टुरेव विद्या भवति नान्यस्येत्याह - अपृष्ट्वेति | प्रश्नादेव निरूपणं भवतीत्याह - प्रश्न इति || ५८ || अप्रष्टुर्नैव विद्या स्यात् पृष्ट्वा विद्यात्ततो गुरुम् | चितिरेकैव वैचित्र्याद्भासत इति सम्भवेत् || ५९ || ततः अप्रष्टुर्विद्याभावात् क्रमेणोत्तरं वक्तुमुपक्रमते - चितिरिति || ५९ || एकरूपो यथादर्शः प्रैबिम्बादनेकधा | पश्य स्वप्नविकल्पादौ मन एकं हि केवलम् || ६० || कथं सम्भवेदिति चेद् [क्: च सदृ] दृष्टान्तमाह - एकरूप इति | दर्पणस्य बिम्बसापेक्षत्वेन वैषम्यमिति दृष्टान्तरमाह - पश्य स्वप्नेति || ६० || द्रष्टृदर्शनदृश्यात्मवैचित्र्येण विभाति हि | एवं शुद्धैव सा संविद्विचित्राकारभासिनी || ६१ || स्वप्नमनोराज्यविकल्पे मन एव बिम्बाद्यनपेक्ष्य द्रष्ट्रादिवैचित्र्येण विभाति | एवमेव शुद्धसंविद्विचित्राकारभासिनी || ६१ || चितिश्चेत्यमिति द्वेधा स्वप्नेऽपि हि विभासते | आलोकमन्तरा त्वन्धो भावं जानाति वै ननु || ६२ || एवं चितेर्वैचित्र्यमुपपाद्य द्वितीयाक्षेपं निराकरोति - चितिरिति | चिच्चेत्ययोर्द्वैतं स्वप्ने सर्वेषां भासमानमपि यथा न वस्तुतोऽस्ति एवं जाग्रति सर्वेषां भासमानमपि द्वैतं नास्तीत्यर्थः | अथालोकेन भासमानघटादेस्तदन्यत्वमिव [क्: मेव] चिता भासमानदृश्यस्य चिदन्यत्वमिति तृतीयाक्षेपपरिहारायाह - आलोकमिति | यद्यद्विना न भासते तत्तदात्मकमिति व्याप्तेर्दृष्टान्ते व्यभिचारः अन्धस्यालोकं विना त्वचैव घटादेर्भासनात् || ६२ || प्. ३२३) अन्धस्याभासमानं च रूपं भाति स्मृतौ किल | नैवं चितेरभाने किं कदा कुत्र विभासते || ६३ || नन्वेवमप्यालोकं विना रूपस्याभासनादालोकरूपयोरभेदप्रसक्तिरिति चेदाह - अन्धस्येति | जन्मान्धस्यरूपाभासनेऽपि तदन्येस्.आं सर्वेषामालोकमनपेक्ष्य रूपस्यापि स्मृतौ भासमानत्वाद् नालोकात्मता रूपस्येत्यर्थः | प्रकृते तु न क्वापि व्यभिचार इत्याह - नैवमिति | एतदेवोपपादयति - चितेरिति | कदा काले [क्, ख्: लोके] कुत्र देशे चितिमनपेक्ष्य किं विभासते न किञ्चिदित्यर्थः || ६३ || यथादर्शं विना किञ्चित् प्रतिबिबं न भाति वै | आदर्शान्नातिरिक्तोऽतः प्रतिबिम्बो भवेद्यथा || ६४ || प्रकृतव्याप्तेर्दृष्टान्तमाह - यथेति | यथा आदर्शं विना प्रतिबिम्बो न भाति अतो हेतोरेव यथा प्रतिबिम्ब आदर्शान्नातिरिक्तः || ६४ || एवं चितिमृते किञ्चिदतिरित्कं न विद्यते | अत एव मनोऽप्यन्यत् सर्वथ नास्ति वै चितेः || ६५ || दार्ष्टान्तिके योजयति - एवमिति | अत एवेति | मनसोऽपि दृश्यतुल्यत्वादित्यर्थः || ६५ || यथा स्वप्ने मनस्तद्वज्जाग्रत्यपि मनो नहि | कल्पितं कार्यसंसिद्ध्यै करणं केवलं मनः || ६६ || अत्र दृष्टान्तः - यथेति | स्वप्ने हि ज्ञातृज्ञानकरणज्ञेयानामेकरूपत्वेन [क्: कारण] यथा पृथङ्मनो नास्ति तथा जाग्रन्मनोऽपीत्यर्थः | यथा स्वप्ने कल्पितमनसैव सकलकार्यनिर्वाह एवं जाग्रत्यपीत्याह - कल्पितमिति || ६६ || प्. ३२४) यथा स्वप्नः कुठारः स्यात् करणं तरुछेदने | राम क्रियाऽसत्यरूपा सत्यं तत्करणं कथम् [ख्: तथा] || ६७ || स्वाप्नतरुच्छेदनक्रियाया असत्यत्वाद् यथा तत्करणं कुठारोऽप्यसत्यः एवं दृश्यासत्यत्वेन तज्ज्ञानस्याप्यसत्यत्वात् तत्कारणमप्यसत्यमित्याह [क्: करण] - यथेति | तरुच्छेदने यथा कुठारस्तथा मन इति शेषः | मनसोऽसत्यत्वमवर्ज्जनीयमित्याह - क्रियेति || ६७ || असता नरशृङ्गेण कः कदा सुविदारितः | तस्मान्नास्ति मनो राम चासत् कार्यस्य कारणम् || ६८ || कार्यकारणयोरसत्यत्वे [ग्: करण] क्रिया सुतरामसत्येति सदृष्टान्तमाह - असतेति | कारकं करणम् || ६८ || स्वप्ने दृशिक्रियाकार्यकरणं [क्, ख्: कारणं] मन उच्यते | यथा [ख्: तथा राम] तथा सर्वदापि मनो नास्ति क्रियाकरम् || ६९ || प्रोक्तमेव [क्: प्रोक्ता] पुनः सदृष्टान्तं द्रढयति - स्वप्न इति || ६९ || चिदात्मा केवलं स्वच्छस्वाच्छन्द्यान्मन आदिकम् | परिकल्प्य व्यवहरेद् दृश्यद्रष्टृआदिभेदतः || ७० || तर्हि कथमेतद्बन्धमोक्षादिवैचित्र्याभासनमिति चेदाह - चिदात्मेति | स्वच्छमप्रतिहतं स्वाच्छन्द्यं स्वातन्त्र्यम् | ऐन्द्रजालिक इव स्वीयमायशक्त्यैव सर्वं परिकल्प्य व्यवहरेदित्यर्थः || ७० || क्वचित् क्वचित् केवलं तु निर्विकल्पात्मना स्थितः | शृणु भार्गव चित्तत्त्वं परिपूर्णमपि स्वयम् || ७१ || क्वचित् क्वचित् प्रोक्ताऽन्तरालदशासु | चिदात्मैव सर्वत्र सविकल्पनिर्विकल्परूपेण भासत इत्युपपादयितुमुपक्रमते - शृण्विति || ७१ || प्. ३२५) नाकाशतुल्यं चैतन्यात् स्वप्रकाशमतः स्थितम् | आकाशश्च चिदात्मा च न विलक्षणतां गतौ || ७२ || आकाशवत् पूर्णमपि चिद्रूपत्वान्नात्मवस्त्वाकाशतुल्यमित्याह - नाकाशतुल्यमिति | यतश्चैतन्यरूपमत आत्मतत्त्वं स्वप्रकाशम् | नाकाशवज्जडम् | आकाशात्मनोः सर्वसाम्येऽपि चैतन्यमात्रमेवात्मनोऽधिकमित्याह - आकाशश्चेति || ७२ || पूर्णः सूक्ष्मो निर्मलश्चाजोऽनन्तोऽपि निराकृतिः | सर्वाधारोऽप्यसङ्गात्मा सर्वान्तरबहिर्भवः || ७३ || तयोः साधारणधर्मानाह - पूर्ण इत्यादि | पूर्णो व्यापकः | सूक्ष्मः अप्रतिघरूपः | निर्मलः एकरसः | अजोऽनन्त इति प्रागभावध्वंसाभ्यामस्पृष्टः | निराकृतिरवयवसंस्थानहीनः | सर्वाधारोऽप्यसङ्गात्मा सर्वाश्रयोऽप्यसंस्पृष्टः | सर्वान्तरबहिर्भवः सर्वानुस्यूतः || ७३ || विशेषस्तत्र चैतन्यमाकाशे तन्न विद्यते | वस्तुतश्चैतन्यपूर्ण आत्मैवाकाश उच्यते || ७४ || एवं सर्वसाम्येऽपि चैतन्यमेवात्मनि विशेष इत्याह - विशेष इति | तत् चैतन्यम् | अवास्तवो ह्याकाशात्मनोर्भेद इत्याह - वस्तुतस्त्विति || ७४ || नह्यात्माकाशयोर्बेदो लेशतोऽपि हि विद्यते | य आकाशः स आत्मैव यश्चात्माकाश एव सः || ७५ || अज्ञाः पश्यन्त्यात्मरूपमाकाशमिति वै भ्रमात् | सौरालोकं यथोलूकस्तमोमात्रं प्रपश्यति || ७६ || आत्मानमेवाज्ञा आकाशं पश्यन्ति | अत्र दृष्टान्तः - सौरेति | यथोलूकः स्वनेत्रदोषात् सौरालोकमेवान्धकारात्मकं पश्यति एवमविद्यादोस्.आदात्मानमेवाकाशं पश्यन्ति जनाः || ७६ || आकाशमेव विज्ञास्तु पश्यन्त्यात्मचिदात्मकम् | परा चितिः परेशानी स्वच्छस्वातन्त्र्यवैभवात् || ७७ || विज्ञाः पण्डितास्त्वाकाशमेव आत्मचिद्रूपं पश्यन्ति | एतदेवोपपादयति - परा चितिरिति | परचिद्रूपः परमेश्वरः स्वच्छस्वातन्त्र्यस्य वैभवाद् माहात्म्याद् अवभासयेदिति सम्बन्धः || ७७ || प्. ३२६) अवभासयेदात्मानं परिच्छिन्नमनेकधा | यथा राम स्वमात्मानं स्वप्ने बहुविधं पृथक् || ७८ || अत्र दृष्टान्तः - यथेति | पृथग् भासयसीत्यन्वयः || ७८ || मनुष्यादिविभेदेन भासयस्येवमेव हि | अनेकधाऽवभासोऽपि परिच्छिन्नदृशैव हि || ७९ || एवमेव चिदात्मनो ह्येनकधाऽवभासनम् | स्वात्मनोऽनेकधाऽवभासोऽपि न स्वदृष्ट्येत्याह - अनेकधेति || ७९ || स्वयं स्वदृष्ट्या पूर्णात्मरूपिण्येव परा चितिः | ऐन्द्रजालिक एकोऽपि स्वमात्मानमनेकधा || ८० || अत्र दृष्टान्तः - ऐन्द्रजालिक इति || ८० || भासयंस्तत्र द्रष्टॄणां स्वदृष्ट्या भासते [क्: भासयेत्] स्वयम् | एक एव निर्विकार एवं सा परमा चितिः || ८१ || यथा ऐन्द्रजालिकः स्वमाययाच्छन्नो मायावृतदृष्ट्या स्वयमनेकधा भासमानोऽपि मायाऽप्रतिबद्धस्वदृष्टय स्वयमेक एव भासते एवं परा चितिः स्वमायोद्भाविताविद्याच्छन्नदृशामनेकधा भासमानापि स्वदृष्ट्या निर्विकारैकरूपेत्याह - एवं सेति || ८१ || शुद्धैकरूपभासापि परिच्छिन्ना ह्यनेकधा | परिच्छिन्नस्वरूपाणां भासयेद् [ख्: भासयन्] माययावृता || ८२ || शुद्ध एकरसः एकः अखण्डः भासो यस्याः सा || ८२ || मायावरणमप्येतत् परिच्छिन्नदृशो भवेत् | यथैन्द्रजालिको मायावृतश्चान्यदृशो भवेत् || ८३ || यथाऽनेकरूपताऽन्यदृष्ट्या एवं मायावृतत्वमप्यन्यदृष्ट्यैवेति सदृष्टान्तमाह - मायेति | स्वदृष्ट्याऽनावृतत्वम् [ख्: स्वदृष्ट्यना] अनेकत्वं चेति भावः || ८३ || प्. ३२७) माया परचितोऽत्यन्तं स्वातन्त्र्यमतिदुर्घटम् | लोकेऽपि योगिनोऽन्ये च मान्त्रिका ऐन्द्रजालिकाः || ८४ || ननु परचिदात्मनः शुद्धचिदेकरूपस्यैवमात्मनोऽनेकरूपतावभासनं न घटत इत्याशङ्क्य मायाशक्त्या सर्वं घटत इति वक्तुं मायास्वरूपमाह - मायेति | परचिदात्मनो यद् दुःसाध्यं घटयति एवंविधमत्यन्तमत्युत्तमं [क्, ख्: तमस्वात] स्वातन्त्र्यं सा मायेत्यर्थः | अत्र दृष्टान्तः - लोकेऽपीति || ८४ || आच्छादितं स्वस्वातन्त्र्यं प्राप्य किञ्चित् सुयुक्तितः | दुर्घटं घटयन्त्येव ततो नैतद्विचित्रितम् || ८५ || आच्छादितमिति | योगिप्रमुखा हि वस्तुतः परचिदात्मान एवेति पूर्णस्वातन्त्र्ययुता एव तथापि परचिन्माययाच्छन्नं तत् स्वातन्त्र्यं योगादिसुयुक्त्याच्छन्नस्वातन्त्र्याद् यत्किञ्चित् स्वातन्त्र्यांशाभिव्यक्तिं प्राप्य नियतकारणाभावेन दुर्घटमपि गजतुरगादिकं ते घटयन्ति | तथा च प्रकृते परचिदात्मनोऽपरिच्छिन्नमायाशक्तेरेतज्जगदवभासनं न विचित्रमित्यर्थः || ८५ || एवं परचितेः स्वच्छस्वातन्त्र्यात् स्वात्मनो वपुः | अनेकधा परिच्छिन्नं भासितं भृगुनन्दन || ८६ || एवं प्रोक्तोपपत्त्या || ८६ || परिच्छेदोऽभिमानस्य त्वेकदेशे सुविश्रमः | साऽप्यपूर्णत्वविख्यातिर्याऽविद्या परिगीयते || ८७ || ननु पूर्णस्य चिदात्मनः परिच्छेदः किंविध इति चेदाह - परिच्छेद इति | अभिमानोऽहंभावः | चिदात्मा हि दीपादिजडप्रकाशविलक्षणः स्फुरत्प्रकाशरूपः | तादृशस्फूर्त्यात्मकप्रकाशस्यानात्मविश्रम एवेदंभावः | स्वात्मविश्रमोऽहंभावः | यदुक्तमजडप्रमातृसिद्धौ ##- योऽहंभावः स परचिदात्मनोऽखिलस्वरूपविश्रान्तत्वाद् अपरिच्छिन्नत्वात् [क्, ख्: अपरिच्छिन्नपूर्णा] पूर्णाहंभाव इत्युच्यते | एवंविधपूर्णाखण्डस्वरूपस्यापि स्वस्वातन्त्र्याख्यमायावशतो यदेकदेशभासनं तत्र च यः स्वात्मविश्रमः स परिच्छेद इत्युच्यते | पूर्णाहंभावतः परमात्मनः स्वमायाशक्त्या यः स्वात्मैकदेशाहंभावः स परिच्छेद इति तात्पर्यम् | अपिरेवार्थे | याऽपूर्णत्वख्यातिः अविद्या इति च शास्त्रेषु परिगीयते स एव अपूर्णाहंभावः [क्: पूर्णा] || ८७ || प्. ३२८) अत्र मुह्यन्ति बहवस्तार्किकाः पण्डिता अपि | स्वात्मानमनुदाहृत्य बहिर्दृष्टितया स्थितेः || ८८ || एवं चैकदेशेऽहंभाव विश्रमात् तदतिरिक्ताखिलचिदात्मर्पदेश एव आकाशत्वेन भासते अतो नात्मनोऽतिरिक्त आकाश इति सिद्धम् | अत्र आकाशस्यात्मानन्यत्वे मुह्यन्ति | कुतो मुह्यन्ति इति चेदाह - स्वात्मानमिति | अनुदाहृत्येति | श्रुते मतेऽप्यर्थे प्रत्यग्रूपे निदिध्यासनमकृत्वेत्यर्थः | तत्रापि हेतुर्बहिर्दृष्टितया स्थितेरिति || ८८ || गुरूपदिष्टं यत् किञ्चित् सद्वाऽप्यसदपीतरत् | अनुदाहृत्य चात्मानं यावन्न ह्यवलोकयेत् || ८९ || तस्माद् [क्: तस्य] निदिध्यसनपूर्वकापरोक्षं विना नाज्ञाननिवृत्तिरूपफलप्राप्तिरित्याह - गुरूपदिष्टमिति | सद्वा प्रकाशादिरूपता वा इतरदसद्वा अप्राक्शादिरूपता वा || ८९ || तावन्न फलमाप्नोति परोक्षात्मतया श्रुतेः | अतो मयोक्तं राम त्वं सम्पश्यात्मनि सद्दृशा || ९० || तावत् अपरोक्षपर्यन्तम् फलम् अज्ञानाशादिः | परोक्षात्मतया श्रुतेरेव श्रवणजनितपरोक्षतामात्रादेव न फलम् | सद्दृशा त्यक्तबहिर्मुखत्वदृष्ट्या || ९० || चितिर्या परमा देवी सर्वसामान्यरूपिणी | सा प्रकाशमयी यस्माज्जडव्यावृत्तरूपिणी || ९१ || पुनः परिच्छेदकारणमायास्वरूपनिरूपणपूर्वकमाकाशस्वरूपं सुस्पष्ऽतं निरूपयितुमुपक्रमते - चितिरिति | सर्वसामान्यरूपिणी दृश्याकारपरिच्छेदरहिता | यस्माज्जडव्यावृत्तरूपिणी | प्रकाशमयीति दीपादिजडव्यावृत्तप्रकाशमयीत्यर्थः || ९१ || प्. ३२९) अतः स्वात्मनि विश्रान्तिस्त्वहन्ता पररूपिणी | जडाश्चिदात्मविश्रान्ताश्चिदत्मनि विभासतः || ९२ || अतः स्वात्मनि विश्रान्तिरूपा पररूपिण्यहन्ताऽपरिच्छिन्ना पराहन्ता तस्या भवेदिति शेषः | जडानां न स्वात्मविश्रान्तिरित्याह - जडा इति || ९२ || न स्वरूपे स्वतो भान्ति तस्मान्न स्वात्मविश्रमः | चितेस्तु केवलं स्वस्मिन्ननन्यापेक्षया सदा || ९३ || एतदेव स्पष्टमाह - न स्वरूप इति | स्वतः अनन्यापेक्षतया जडानां चिदात्माश्रयेणैव भासनात् स्वात्मनि स्वतो भासनाभावान्न स्वात्मविश्रमः चितेस्तु केवलं जडमनपेक्ष्यानन्यापेक्षया स्वातन्त्र्येण सदा स्वस्मिन् भासमानत्वात् स्वस्मिन् विश्रान्तिरुपपद्यत इति सम्बन्धः || ९३ || भासमानत्वतः स्वस्मिन् विश्रान्तिरुपपद्यते | पूर्णाहन्ता परा सेयं या जडेषु न विद्यते || ९४ || उपपद्यत इति | जडवदन्यापेक्षा स्वस्वरूपप्रकाशे या नास्ति एष एव स्वात्मविश्रम इति भावः | सेयं स्वत्मविश्रान्तिरेव पूर्णाहन्ता || ९४ || व्यावृत्तिस्पर्शहीनेयं परिच्छेदविवर्जनात् | सर्वमस्यां यतः संस्थमादर्शे नगरं यथा || ९५ || अस्या अहन्तायाः पूर्णत्वं कुत इति चेदाह - व्यावृत्तीति | व्यावृत्तेर्भेदस्य स्पर्शेन हीना सर्वथा भेदसम्बन्धविधुरेति भावः | कुत एवमिति चेदाह ##- प्रतिबिम्बनगरवदस्यामेव पूर्णाहन्तात्मकचिति तादात्म्येन स्थितं सर्वं दृश्यम् | अतः परिच्छेदकस्य स्वातिरिक्तस्यान्यस्याभावात् परिच्छेदाभावेन [क्, ख्: परिच्छिन्ना] व्यावृत्तिस्पर्शो नास्तीति || ९५ || प्. ३३०) व्यावृत्तिर्वा परिच्छेदः कथं केन हि सम्भवेत् | एवं पूर्णस्वरूपायाः पूर्णं यत्स्फुरणं स्थितम् || ९६ || अतो व्यावृत्त्यादिकं न सम्भवतीत्याह - व्यावृत्तिरिति | पुनः पूर्णाहन्तां निष्कृष्याह - एवमिति | पूर्णस्वरूपायाश्चितेः पूर्णमपरिच्छिन्नं यत् स्वरूपस्फुरणं तदेव कथ्यत इति सम्बन्धः || ९६ || तदेव स्वात्मविश्रान्तिः पूर्णाहन्ता च कथ्यते | अखण्डैकरसं ह्येतदेतावद् राम वै भवेत् || ९७ || ननु तथापि चितिः पूर्णाहन्तेति च वस्तुद्वैविध्यात् परिच्छेदः स्यादित्याशङ्क्याह - अखण्डेति | एतावत् चितिः पूर्णाहन्ता चेति द्वयमप्येतदखण्डैकरसम् | अखण्डमेकम् एकरसं चिन्मात्रम् || ९७ || निरूपणे बहुविधमिव तत् प्रतिभासते | एवावदेव स्वातन्त्र्यं यतः शक्तिर्हि तन्मयी || ९८ || तर्हि कथं द्विधा निर्देश इति चेदाह - निरूपण इति | तत् चित्तत्त्वम् | एतावदेव अखण्डैकरसमेव स्वातन्त्र्यमपि | पूर्णाहन्ता स्वातन्त्र्यञ्च शक्तिरेवेति तन्मयं तदेकरसमित्यर्थः || ९८ || प्रकाशास्तेजो यद्वदौष्ण्यं चैवापृथक् स्थितम् | एवं स्वातन्त्र्यविश्रान्तिसहितैकरसात्मिका || ९९ || भेदव्यवहारविषयशक्तेरपृथक्त्वे दृष्टान्तमाह - प्रकाश इति | सहिता चितिः || ९९ || इयमेव हि मायाख्या शक्तिः परमदुर्घटा | आदर्शवद्यत्स्वरूपे चिदेकरसरूपिणी || १०० || इयमेव पूर्णाहन्तैव | दुर्घटा दुःसाध्यमपि घटयति | दुर्घटतामेव निरूपयति - आदर्शवदिति || १०० || सत्यप्यनेकवैचित्र्याभासनेन विभासते | तथा भासनकालेऽपि स्वरूपादनिवर्तनम् || १०१ || प्रतिबिम्बविचित्रोऽप्येकरूपादर्श इव स्वरूपे चिदेकरूपिणी सत्यपि जगद्वैचित्यराभासनेन विभासनं वैचित्र्यभासनकालेऽपि चिदेकरसस्वरूपादनिवर्तनमिति यत् एतदेव तस्या अतिदुर्घटत्वमिति शेषः || १०१ || प्. ३३१) परिच्छेदावभासो यः सोऽनात्माभास उच्यते | साऽविद्या जडशक्तिः सा शून्यं प्रकृतिरेव च || १०२ || एवं स्वातन्त्र्याख्यमायया यः स्वात्मनः परिच्छेदावभासः स एवानात्माभासः | आभासाभास्ययोस्तादात्म्यादाह - साऽविद्येति || १०२ || अत्यन्ताभाव आकाशास्तमः प्रथमसर्गकः | सर्वं तदेव सम्प्रोक्तं परिच्छेदनमादिमम् || १०३ || सर्वम् अनात्माभासादिप्रथमसर्गान्तं तदादिमं परिच्छेदनमेवोक्तम् | मायया आद्यपरिच्छेदवासनाऽविनाभूतमनात्मभासनमेवाविद्यादिशब्दैरुच्यत इत्यर्थः || १०३ || राम यः परिपूर्णात्मा विश्रमो वै समास्थितः | तस्यैकदेशताभ्रान्तिकृतमाकाशभासनम् || १०४ || एवमुक्तमेवाकाशस्वरूपं निष्कृष्य श्लोकद्वयेन भङ्ग्यन्तरेणाह - राम य इति | तस्य पूर्णात्मविश्रमस्य | एकदेशताभ्रान्तिकृतम् || १०४ || अत आत्मप्रदेशो य आत्माभिमतिवर्जितः | आकाशः स हि सम्प्रोक्तः स हि संसारकारणम् || १०५ || अतः अहन्ताया एकदेशत्वभ्रान्तेः | आत्माभिमतिरहंभावः आत्माभिमतिवर्जितो य आत्मप्रदेशः स एवाकाशः | स एवाकाशः संसारकारणम् || १०५ || एष एव भवेद् भेदः पशुदृष्ट्येकगोचरः | राम सूक्ष्मदृशा पश्य य आकाशस्त्वयेक्ष्यते || १०६ || नन्वाकाशः कथं संसारकारणमिति चेदाह एष इति | आकाश एवेत्यर्थः | संसारकारणपरिच्छिनात्मज्ञानभासिताकाशावभासनान्तरीयकत्वाद् भेदाभासस्य भेद एवाकाशः संसारकारणं चेति भावः | आकाशात्मनोरभेदमनुभावयति - रामेति || १०६ || प्. ३३२) तत्रत्यजीवराशीनामात्मा चैतन्यमेव सः | यथाऽन्यदेहेष्वाकाशो भासते यः सदा तव || १०७ || तत्रत्येति | तादृशाकाशप्रदेशस्येत्यर्थः | जीवराशीनां शरीरिणाम् | स आकाशः | यः स एवात्मेत्यन्वयः || १०७ || स एव तेषामात्मा स्याच्चिदानन्दघनात्मकः | एवं स्वकल्पिताकाशग्रस्तं यच्चिद्वपुः स्थितम् || १०८ || अन्यदेहेषु सदा तवाकाशो भासते यः स एवाकाशस्तेषां चिदानन्दघनात्मक आत्मा स्यात् वस्तुनोरेकदेशस्थत्वायोगादिति यथा तथा तवाप्यात्मेति शेषः | एवं च यत्र यत्र यो य आकाशो भासते तत्रत्यशरीरिणां स एवात्मेति भावः | एवमाकाशात्मनोरैक्यमुपपाद्य मनःस्वरूपं निरूपयति - एवमिति | आकाशग्रस्तम् आकाशपरिच्छिन्नम् || १०८ || तदेव मन इत्युक्तमात्मैव नहि चेतरत् | तत्रावरणमुख्यत्वात् प्रमाणं मन उच्यते || १०९ || तदेव आकाशपरिच्छिन्नं चिद्वपुरेव | अत आत्मैव मनो रेतरत् | नन्वात्मन एव मनस्त्वे कथं प्रमातृप्रमाणभेद इत्याशङ्कापनोदनायाह - तत्रेति | आत्मन एव मनस्त्वे सिद्धे सतीत्यर्थः | आवरणमुख्यत्वादिति | जडशक्त्यावृतं चित्तत्त्वं हि जीवः | तत्रावरणात्मकजदशक्तिप्राधान्येन प्रमाणं ज्ञानकरणं मन इत्यर्थः || १०९ || आवृतप्राधान्यतस्तु प्रमाता जीव उच्यते | एवमाकाशावृतोऽपि चिदात्मा भूय एव तु || ११० || आवृतचित्तत्त्वप्राधान्येन जीव एव प्रमातेत्याह - आवृतेति | एवं स्वस्वातन्त्र्यपरिकल्पिताकाशात्मकजडशक्त्या आवृतोऽपि भूयः पञ्चभूतात्मकदेहेनाप्यावृत इत्याह - एवमिति || ११० || आकाशे कोमलेऽत्यन्तशिथिले निर्घनेऽमले | कठिनश्लिष्टघनतामालिन्यानां प्रकल्पनैः || १११ || तत्रादावाकाशस्यैव गुणान्तरोल्लासनेन वायवादिरूपतेत्याह - आकाश इति | आकाशे कोमले स्पर्शाभाववति शिथिलेऽसंश्लिष्टावयवे निर्घनेऽनिबिडे अमले मालिन्यरहिते | कठिनत्वं स्पर्शः श्लिष्टता संश्लिष्टावयवता घनता निबिडता मालिन्यं समलता एतेषां प्रकल्पनैः | भूतान्याभास्येति सम्बन्धः || १११ || प्. ३३३) भूतान्याभास्य देहात्मा देहेनापि समावृतः | कुम्भोदरगतो दीप उदरं व्याप्य भासते || ११२ || भूतानीति | अस्पर्शस्याकाशस्य स्पर्शकल्पनेन वायुत्वम् | तस्यैव वायोरसंश्लिष्टावयवस्य संश्लिष्टावयवत्वकल्पनेन तेजस्त्वम् | भवति हि वायवपेक्षया तेजसः संश्लिष्टावयवत्वम् यतः संश्लिष्टावयवस्य पृथ्वीसंक्रान्तस्य चक्षुर्गोचरतोपपद्यते | तस्यैव तेजसो निर्घनत्वस्य घनताकल्पनेन जलत्वम् | भवति हि जलस्य [क्: जलस्य नास्ति] घनत्वम् यतोऽभिघात उपपद्यते | तस्यैव जलस्य निर्मलस्य मालिन्यकल्पनेन पृथ्वीत्वम् | भवति च पृथिव्यां मालिन्यम् यतो जले निर्मग्नघटादिकमिव पृथ्वीनिर्मग्नं न दृश्यत इति | एवंविधभूतराशिमयदेहेनापि समावृतः सन् देहतादात्म्येन देहात्माऽभवदिति शेषः | एवं देहात्मतां प्राप्तोऽपि चिद्रूपतां न परित्यजतीति सदृष्टान्तमाह - कुम्भेति | यथा भासत इति योजनीयम् || ११२ || एवमेष शरीरान्तरवभासनमात्रकः | आस्ते गूढप्रदीपात्मा तदन्तर्मात्रभासनः || ११३ || एष चिदात्मा अवभासनमात्रकः | चित्प्रकाशमात्ररूपो [क्: रूपकः] घटान्तर्गूढप्रदीपवदात्मा स्वरूपं यस्य | यथा घटान्तर्मात्रभासनो दीपः एवं देहान्तर्मात्रभासनः || ११३ || दीपप्रभा घटच्छिद्राद्यथा निर्याति वै बहिः | एवमक्षद्वारमुखाद् भूयो निर्याति वै चितिः || ११४ || नेत्रादिकरणसरणिसमुदितमपि घटादिज्ञानमात्मभूतमेवेति सदृष्टान्तमाह - दीपप्रभेति | भूय इति | अतः सदा प्रकाशमाना चितिस्तत्तद्विषयाकारेण पुनर्नूतनत्वेनापि प्रकाशत इत्यर्थः || ११४ || प्. ३३४) निर्याणं तु चितेर्नास्ति पूर्णत्वादक्रियत्वतः | स्वात्मावरणमाकाशं स्फूर्तिशक्तिश्चिदात्मनः || ११५ || ननु चितेराकाशतुल्यायाः कथं निर्याणसम्भव इति चेदाह - निर्याणमिति | न वस्तुतश्चितेर्निर्याणमस्ति किन्तु तदाभासनमात्रमित्याह - स्वात्मेति || ११५ || यावन्निवारयेत्तावद् निर्याणं प्रविभासते | मनोव्यापार एष स्यात् स्फूर्त्त्यापहतिरावृतेः || ११६ || यावदिति | स्वात्मन आवरणभूतमाकाशात्मकं जडशक्तिरूपमज्ञानम् चिदात्मनः स्फूर्तिरूपा ज्ञानशक्तिर्यावद् दूरं निवारयेत् तावच्चितेर्निर्याणं प्रविभासते | अत्रेदं तत्त्वम् - परचिदात्मनः स्वातन्त्र्योद्भासितपरिच्छिन्नाहम्भावावभासनेन परिमितप्रमाता जीवः | स घटान्तर्गतदीपवद्देहान्तर्गतचित्प्रकाशमयः | घटच्छिद्रान्निर्गतदीपप्रभया निष्क्रियस्य तमसोऽपसरणवत् चिदात्मनः स्फूर्तिशक्तेर्यत्र यत्रेन्द्रियादिसम्प्रयोगनिमित्ताभिव्यक्तिस्तत्र तत्र तदावरकाकाशाद्यभिधाज्ञाननिवृत्त्या चितिः प्रसृतेव भातीति | एवमावरणनिवृत्तिरेव मनोव्यापारोऽपीत्याह - मन इति || ११६ || तस्माद्राम मनो नान्यदात्मैव मन उच्यते | चला चितिर्मनोनाम्नी निश्चलात्मस्वरूपिणी || ११७ || तस्मादिति | आवरणमुख्यचिदात्मन एव मनस्त्वादित्यर्थः | एतदेव पुनर्निष्क्र्ष्याह - चलेति || ११७ || आवृत्त्यभिहतिः स्फूर्त्या चलनं राम वै चितेः | एतदेव विकल्पः स्याद् विकल्पपरिवर्जने || ११८ || चलनपदार्थमाह - आवृत्तीति | एतदेव चलनमेव | विकल्पस्य चलनस्य परिवर्जने कृते सतीति शेषः || ११८ || निर्विकल्पं पूर्णरूपं विज्ञानं मुक्तिनामकम् | राम त्यजात्र सन्देहं विकल्पस्य विवर्जने || ११९ || पूर्णरूपम् | परिच्छेदस्य विकल्पकृतत्वात् पूर्णरूपता | एवंविधपूर्णरूपतैव मुक्तिरित्यर्थः | अत्र निर्विकल्पविज्ञानस्य मुक्तिरूपत्वे || ११९ || प्. ३३५) अप्यावरणशेषः स्यादिति नास्त्येव चावृतिः | आवृतिर्नहि सत्याऽस्ति यतः स्वेनैव कल्पिता || १२० || सन्देहस्वरूपमाह - विकल्पवर्जनेऽप्यावरणशेषह् स्यादिति | अस्य सम्भावनारूपत्वात् सन्देहत्वम् | ननु निर्विकल्पस्थितिमात्रेणावरणनिवृत्तिः कथं स्यादित्याशङ्क्याह - नास्त्येवेति | रज्जुसर्पवदावृतेः स्वेनैव कल्पितत्वादिति भावः || १२० || यथा मनोरथे बद्धः केनचिच्छत्रुणा स्वयम् | ताड्यमानस्तर्ज्यमानो यावत् सङ्कल्पवर्जनम् || १२१ || अत्र दृष्टान्तमाह - यथेति | मनोरथे मनोराज्यावसरे | सङ्कल्पवर्जने कुर्यादिति सम्बन्धः || १२१ || कुर्यात्तावत्ताडनं वा तर्जनं वापि लीयते | किं तत्र शिष्यते बन्धस्तथाऽत्रापि विभावय || १२२ || यावत्तावदिति यदा तदेत्यर्थकम् | एवं सङ्कल्पवर्जनेन ताडनादेर्विलये सति तत्र तस्मिन् काले बन्धनं शिष्यते किम्? न शिष्यत इत्यर्थः | तथाऽत्रापीति | सङ्कल्पवर्जने बन्धो न शिष्यत इत्यर्थः || १२२ || अनादिकालाद्रामात्र बन्धो नास्त्येव कस्यचित् | जदात्मभ्रान्तिमुत्सृज्य कोऽयं बन्धो विचारय || १२३ || कल्पनातिरिक्तो बन्धः कस्यापि कदापि कुत्रापि नास्तीत्याह - अनादीति | अत्र संसारे | ननु तर्हि व्यर्थोऽयमुपदेशादिक्रम इति चेन्नेत्याह - जडेति | जडात्मकद्वैतभ्रान्तिकृत एव बन्ध इति भावः || १२३ || एष एव महाबन्धो बन्धसत्यत्वनिश्चयः | मृषा भीतस्य बालस्य यक्षग्रह इव स्थितः || १२४ || बन्धसत्यत्वनिश्चय एवापोह्यो बन्ध इत्याह - एष इति | स्वरूपज्ञाने सत्यपि बन्धसत्यत्वभ्रान्त्यनुवृत्तौ [क्, ख्: भ्रान्त्यावृत्तौ] ज्ञानफलानुदयादेष एव मुख्यो बन्ध इति भावः | तस्यानर्थकरत्वे दृष्टान्तः - मृषेति || १२४ || प्. ३३६) यावद् बन्धभ्रान्तिमेनां नोत्सृजेद् बुद्धिमानपि | न तावत् संसृतेर्मुक्तो भवेत् क्वापि महोद्यमैः || १२५ || बन्धसत्यत्वभ्रान्तिम् क्वापि काले देशे वा || १२५ || कोऽयं बन्धः कथं वा स्यान्निर्मलस्य चिदात्मनः | प्रतिबिम्बात्मकैः स्वात्मादर्शान्तःप्रविभावितैः || १२६ || अनारोपितो बन्धो न सिद्ध्यतीत्याह - कोऽयमिति | निर्मलस्याकाशतुल्यस्यासङ्गस्य चिदात्मनः कोऽयं बन्ध इति बन्धस्वरूपाक्षेपः कथं वा स्यादिति तत्सम्बन्धाक्षेपः | ननु बन्धस्य चिदात्मातिरेकेणासत्त्वेऽपि तदन्तः प्रतिबिम्बभूतैर्दृश्याभासैः स्यादिति चेन्नेत्याह - प्रतिबिम्बात्मकैरिति || १२६ || बन्धो यदि तदादर्शप्रतिबिम्बाग्निरादहेत् | बन्धस्य सत्यताबुद्धिर्मनसोऽस्तित्वनिश्चयः || १२७ || स्वात्मान्तः प्रतिबिम्बात्मभूतैर्दृश्यैर्बन्धस्यात्यन्तासम्भवमाह - तदादर्शेति | बन्धः [क्, ख्: बन्धसत्यः] सत्यः मनोऽस्तीति द्विविधभ्रमातिरिक्तो बन्धो नास्तीत्याह - बन्धस्येति || १२७ || एतद् द्वयमृते नास्ति बन्धः कस्यापि कुत्रचित् | यावदेतद् द्वयमलं सद्विचारमहाजलैः || १२८ || द्वयमलं प्रोक्तभ्रमद्वयात्मकमलम् || १२८ || नोन्मार्जितं तावदिह तस्य संसारनाशने | अहं वा ब्रह्मदेवो वा विष्णुर्वापि च शङ्करः || १२९ || यस्य प्रोक्तद्विविधभ्रमो विचारेण न नष्टस्तस्य संसारो दुष्परिहर इत्याह ##- विद्यात्मिका वा त्रिपुरा नैव शक्ताः कथञ्चन | तस्माद्राम द्वयं चैतत् परित्यज्य सुखी भव || १३० || द्वयं प्रोक्तभ्रमद्वयम् || १३० || प्. ३३७) तस्माद्राम निर्विकल्परूपे मनसि संस्थिते [क्: संस्थितः] | आत्ममात्रत्वतस्तस्य द्वैतं न परिशिष्यते || १३१ || एवं प्रसङ्गागतं प्रतिपाद्य निर्विकल्पदशायामपि मनसः सत्त्वाद् द्वैतापत्तिरिति दोषपरिहारमुपसंहरति - तस्मादिति | मनसोऽनन्यत्वादित्यर्थः | तस्य मनसः || १३१ || इदं तदितिरूपेण भासनान्यन्मनो नहि | इदमादिपरित्यागे भासनात्मैव [क्: मनसा; ख्: भानमा] शिष्यते || १३२ || मनसो रूपं निष्कृष्याह - इदमिति | भासनादन्यत् | दृश्याकारसंवलित आत्मैव मन इति तात्पर्यम् || १३२ || रज्जुसर्पपरिभ्रान्तिः सत्याभिमतवस्तुनि | रज्जुरूपे हि सर्पस्य भासिनीति विनिश्चयः || १३३ || भ्रान्तिस्वरूपेणापि द्वैतं परिहरति - रज्ज्विति | रज्जुरूपे सत्याभिमतवस्तुनि रज्जुसर्पस्य भ्रान्तिः सर्पस्य भासिनी || १३३ || तत्र सर्पस्य बाधेऽपि रज्ज्वालम्बनहेतुतः | चिद्रूपादात्मनोऽन्यत्तु रज्जुज्ञानं स्थितं भवेत् || १३४ || तत्रेति | रज्जुसर्पभ्रान्त्यादौ सर्पादेरारोपितस्य बाधेऽपि भ्रान्तिज्ञानं रज्जुविषयत्वहेतोः प्रमातुरन्यत्तद्रज्जुज्ञानमबाधितं स्थितं भवेदित्यर्थः || १३४ || सापि [ख्: सार्परज्जु] रज्जुश्चिति यदा स्वप्नदृष्टान्तकल्पिता | रज्जुबाधे हि तज्ज्ञानं कथं शिष्येत् किमाश्रयम् || १३५ || नैवं प्रकृते इत्याह - सेति | स्वप्नदृष्टान्तेन यदा सा रज्जुश्चिति कल्पितेति निश्चयः तदा रज्जोरपि बाधे निरालम्बनं तज्ज्ञानं प्रमातृव्यतिरेकेण किमाश्रयं कथंरूपं वा शिष्येदित्यर्थः | घटनाशे घटाकाशवन्न पृथक् शिष्यत इति तात्पर्यम् || १३५ || तस्माद् दृश्यस्य बाधे तु तज्ज्ञानं केवला हि दृक् | चिदात्मानतिरिक्तत्वाद् द्वैतं तेन कथं भवेत् || १३६ || तस्माद् भ्रान्तिज्ञानापरिशेषात् | तज्ज्ञानं दृश्यज्ञानम् | अतस्तस्य चिदात्मानतिरेकात्तेन भ्रमज्ञानेन कथं द्वैतं भवेत् || १३६ || प्. ३३८) अर्थक्रिया हि संदृष्टा स्वप्नवस्तुषु सुस्थिरा | स्वाप्नवस्तु स्थिरमिति स्वप्ने सर्वैर्विभावितम् || १३७ || अर्थक्रियाकारित्वाद् दृश्यं सत्यमिति पक्षं प्रतिक्षिपति - अर्थक्रियेति | सुस्थिरा तत्कालेऽभाधिता | स्वाप्नवस्तुनः स्थैर्यं च स्वाप्नानुभवसिद्धमित्याह - स्वाप्नेति || १३७ || एतावानेव भेदः स्यात् स्वप्नजाग्रद्विभासयोः | जाग्रति स्वप्नमिथ्यात्वनिश्चयो भवति ध्रुवम् || १३८ || ननु स्वप्नजागरयोः [क्: स्वाप्न] को भेद इति चेदाह - एतावानेवेति | स्वप्नानुभूतस्य मिथ्यात्वनिश्चयः || १३८ || स्वप्ने न जायते जाग्रन्मिथ्यात्वस्य विनिर्णयः | नैतावतैव सत्यत्वं जाग्रद्व्यवहृतेर्भवेत् || १३९ || स्वप्ने जाग्रदनुभूतस्य न मिथ्यात्वनिर्णयः | एतावता भेदेनैव || १३९ || यथा जाग्रति वस्तूनां स्थिरतार्थक्रियापि च | दृश्यते किं तथा स्वप्ने दृश्यते नहि वा वद || १४० || अर्थक्रिया स्थैर्यं च जाग्रत्स्वप्नयोस्तुल्यमित्याह - यथेति | स्वप्ने तथा न दृश्यते किमिति योजना || १४० || न स्वप्ने जागरा भावाः स्वाप्ना ना नैव जागरे | अर्थक्रियाकरा वापि स्थिरा वा भान्ति तत्समम् || १४१ || तत् तस्मात् | समं जाग्रत् स्वप्नश्चेति द्वयं तुल्यम् || १४१ || विभावय सूक्ष्मदृशा को भेदोऽतीतस्वप्नयोः | पश्यैन्द्रजालिककृते स्थैर्यमर्थक्रियामपि || १४२ || अतीतस्वप्नयोः को भेदः ? न कोऽपीत्यर्थः | चित्तारोहाय जाग्रत्यनुभूयमानं दृष्टान्तरमाह - पश्येति | ऐन्द्रजालिककृते गजतुरगादौ || १४२ || प्. ३३९) किं तावतैव तत् सत्यमैन्द्रजालिकनिर्मितम् | सत्यासत्यविभागो वै प्राक्र्टैर्विदितो नहि || १४३ || तावतैव अर्थक्रियास्थैर्याभ्यामेव | ननु तौल्येऽपि तयोः कथमेकं सत्यमपरमसत्यमिति व्यवहार इति चेत् सत्यासत्यविवेकाभावादित्याह - सत्येति || १४३ || अत एव मोहितास्ते प्रोचुः सत्यं हि जागतम् | कदाप्यभावासंस्पृष्टं सत्यं राम प्रचक्षते || १४४ || तर्हि किं तयोर्लक्षणमिति चेत् सत्यलक्षणमाह - कदापीति | प्रतियोगित्वेनाभावासंस्पृष्टम् | अभावाप्रतियोगीत्यर्थः || १४४ || अभावः स्यादभानाद्वै त्वभानं न चितेः क्वचित् | अभानमचितामस्ति ह्यनेकत्वावभासतः || १४५ || कुतश्चिदात्मनोऽभावासंस्पृष्टत्वमिति चेदनुपलम्भस्याभावगमकत्वेन चिदात्मनस्तदसम्भवात्तदभावासिद्धेरित्याह - अभाव इति | अभानात् प्रतियोग्यनुपलब्धेः | अभावः प्रमितत्वेन सिद्धः स्यात् | अचितां दृश्यानामभानं सर्वतोऽस्तीत्याह - अभानमिति | तत्र हेतुः - अनेकत्वेति || १४५ || परस्पराभावभासा अचिद्भावा हि सर्वथा | चिदभानं कदा कुत्र स्याद् राम प्रविचारय || १४६ || दृश्यानामनेकत्वावभासेऽपि कथमभानमिति चेदाह - परस्परेति | अचिद्भावा दृश्यभूता घटादयोऽनेकत्वात् परस्पराभावभासाः | घटादीनां परस्परं व्यावृत्तानां स्वेतरभिन्नत्वेनैव भानम् | तथा च स्वेतरान्योन्याभाववतामेव दृश्यानामवभासनात् परस्पराभावभासा [ग्: राभासा] अचिद्भावा इति भावः | नैवं चिदात्मेत्याह - चिदभानमिति | घटादीनां प्रतिबिम्बतया चिदात्मनिर्मग्नानामेव भानान्न तस्याभानं कदाचिद्वा सेत्स्यतीति भावः || १४६ || यदा चितिर्न भायाद्वै तदा भायात् कथं वद | न भायाद्वा कथं भायादभाने यदि तद्द्वयोः || १४७ || ननु दृश्यसामान्यानुपलम्भदशासु सुषुप्त्यादिषु चिदनुपलम्भाच्चितेरप्यभावः स्यादित्याशङ्क्याह - यदेति | यस्मिन् काले चितिर्न भायात् तदा यदेतिशब्दवाच्यतत्कालः कथं भायात् | किञ्च न भायादिति प्रोक्तचिदनुपलब्धिर्वा कथं भायात् | तत्कालानुपलब्ध्योरपि चित्प्रकाश्यत्वादिति तात्पर्यम् | ननु तत्कालानुपलब्ध्योरभानेऽपि चिदभावः सेत्स्यतीति चेदाह - अभान इति | तद्द्वयोः तत्कालतदनुपलब्ध्योः || १४७ || प्. ३४०) राम भायादेव चितिस्तस्मात् सत्यैव सा चितिः | राम सत्यासत्यभेदं शृणु संक्षेपतो ब्रुवे || १४८ || भायादेवेति | तत्कालतदनुपलब्ध्योरभानेनासिद्ध्या तदुपलब्धिरेव सिद्ध्यतीति भावः | तस्मात् तदभावासिद्धेः | एवं चिदात्मनः सत्यतां तद्व्यतिरेकेण दृश्यस्यासत्यतां प्रतिपाद्य पुनरेतस्यैव दार्ढ्याय सत्यासत्यलक्षणं प्रकारान्तरेण वक्तुमाह - रामेति || १४८ || अन्यानपेक्षभासं स्यात् सत्यमन्यदसत्यकम् | अन्यथा रज्जुसर्पाद्यमपि सत्यं भवेन्ननु || १४९ || अन्यानपेक्षेति | स्वप्रकाशं सत्यमितरदसत्यमिति फलितार्थः | अन्यथेति | नास्तीत्यभावप्रत्ययेन बाधितमसत्यमबाधितं सत्यमिति चेदित्यर्थः | रज्ज्विति | यत्र रज्जुसर्पादिज्ञानोत्तरं नायं सर्प इत्यादिबाधज्ञानमनुत्पन्नं तत् सर्पाद्यमपि सत्यं भवेदित्यर्थः || १४९ || बाधो ह्यभावविज्ञानं तद्भावेऽपि हि सम्भवेत् | अभावे भावविज्ञानमपि सम्भवति स्फुटम् || १५० || एतदेवोपपादयति - बाध इति | भवदभ्युपगतो बाधोऽभावविज्ञानम् तच्च भावे सत्याभिमतेऽपि सम्भवेत् | अभावेऽसत्याभिमते भावविज्ञानमस्तीत्यबाधितसत्यज्ञानं च सम्भवतीति स्फुटं सर्वानुभवसिद्धम् | सत्याभिमतस्य बाधितत्वमसत्याभिमतस्याबाधितत्वं तन्मते स्यादिति भावः || १५० || प्. ३४१) ततो न बाधितं सत्यमसत्यं बाधितं भवेत् | इति पक्षो न युक्तः स्यात् सर्वथा व्यभिचारतः || १५१ || ततः उक्तातिप्रसङ्गात् | यन्न बाधितं तत् सत्यं यद्बाधितं तदसत्यमिति त्वत्पक्षो न युक्तः प्रोक्तरीत्या सर्वथा व्यभिचारात् || १५१ || चितोऽभाने न किञ्चित् स्यान्न स्यात्तदपि सर्वथा | तस्माद्यश्चिन्न भातीति वदेत् तार्किकसत्खरः || १५२ || मत्पक्षे चिदतिरिक्तस्वास्वप्रकाशत्वेन चितः स्वप्रकाशत्वेन न दोष इत्याह ##- स्वप्रकाशाऽभ्युपगन्तव्येति भावः | चितः परप्रकाश्यत्वेन नित्यप्रकाशत्वमनभ्युपगच्छन्तं तार्किकमुपहसन्नधिक्षिपति - तस्मादिति | उक्तानुपपत्तेरित्यर्थः || १५२ || स ब्रुयान्नाहमस्मीति तत्र केन किमुच्यते | यस्यात्मनि स्यात् सन्देहो भानाभावेन सर्वदा || १५३ || केन किं समाधानमुच्यते | अतिमूढत्वेन समाधानोत्तरानर्ह इति तात्पर्यम् || १५३ || सोऽन्येषां नाशयेन्मोहं निपुणैस्तर्कगुम्फनैः | तदा गण्डशिलाऽप्येषाऽप्यन्यमोहं विनाशयेत् || १५४ || यदि मोहं तर्कगुम्फनैरुपलक्षितशास्त्रप्रणयनेन जनानां नाशयेत् तदेति योजयेत् || १५४ || तस्मादर्थक्रियाभासमात्रेण नहि सत्यता | सर्वमेव हि विज्ञानं भ्रान्तिरेव न संशयः || १५५ || तस्मात् सत्यासत्यविभेदस्य प्रोक्तविधत्वात् | सर्वस्य ज्ञानस्य भ्रान्तित्वे भ्रान्त्यभ्रान्तिविभेदो न स्यादिति शङ्कां निराकर्तुमुपक्रमते - सर्वमेवेति || १५५ || अपरेयं महाभ्रान्तिस्तेष्वभ्रान्तत्वनिश्चयः | यथा हि बाधविज्ञानात् पूर्वं भ्रान्तिर्भवेत्तथा || १५६ || तेषु जागतभ्रान्तिज्ञानेषु | ननु सर्वं ज्ञानं भ्रान्तिरूपं चेदभ्रान्तित्वेन कथं भातीति चेदाह - यथेति || १५६ || प्. ३४२) सर्वजागतविज्ञानमभ्रान्तिरिव हि स्थितम् | यथा च रजतज्ञानं शुक्तिज्ञानाद् भ्रमात्मकम् || १५७ || तर्हि कदैतेषां भ्रान्तित्वं गृह्यत इति चेदाह - यथेति || १५७ || एवं चिदात्मविज्ञानात् सर्वं ज्ञानं भ्रमात्मकम् | नभोनीलभ्रमः सर्वसमानो भासते तथा || १५८ || चिदात्मविज्ञानाद् अद्वितीयपूर्णचिदात्मापरोक्षात् | सर्वं जागतं ज्ञानम् | भ्रमस्य कथं सर्वसाधारणत्वमिति शङ्कामपनुदति - नभ इति | यथा तथेति योजनीयम् || १५८ || जागतो भ्रम एष स्यात् सर्वेषां दोषहेतुतः | अभ्रान्तिः शुद्धविज्ञानं यच्चिदात्मतया स्थितम् || १५९ || दोषहेतुत इति | दूरत्वदोषवदविद्यादोषस्य साम्यदिति भावः | अभ्रान्तिमुपपादयति - शुद्धविज्ञानमिति | सर्वज्ञानानुस्यूतं चिन्मात्ररूपम् || १५९ || एवमेतत्त्वया पृष्टं प्रोक्तं युक्त्यनुसङ्गतम् | सन्देहमत्र सन्त्यज्य राम प्रोक्तं विनिश्चिनु || १६० || उपसंहरति - एवमिति | युक्त्यनुसङ्गतं युक्तियुक्तम् | मया प्रोक्तम् || १६० || कथं मुक्ते व्यवहृतिरिति पृष्टं पुरा तु यत् | तत्ते प्रवक्ष्यामि राम शृणु सम्यक् समाहितः || १६१ || पुरा पञ्चदशाध्यायादौ मुक्ते कथं व्यवहृतिरिति पृष्टम् || १६१ || मुक्ता हि ज्ञानिनो लोके ह्युत्तमाधममध्यमाः | प्रारब्धोपनतैर्भोगैः खिद्यमानाः क्षणे क्षणे || १६२ || अधमानाह - प्रारब्धेति | प्रारभेनोपनतैः प्राप्तैर्भोगैर्विषयजनितसुखदुःखैः || १६२ || प्. ३४३) स्वरूपज्ञास्तु ये राम ते मन्दज्ञानिनः स्मृताः | येतु प्रारब्धसंप्राप्तान् भुञ्जाना अपि नो विदुः || १६३ || पूर्णात्मस्वरूपज्ञा अपि वैषयिकसुखे दोषग्रहात् सुखे दुःखे च तत्तत्काले खिद्यमाना मन्दज्ञानिनोऽधमज्ञानिन इत्यर्थः | सम्प्राप्तान् विषयान् || १६३ || मधुक्षीबा रसमिव मध्यास्ते ज्ञानिनःस्मृताः | ये तु प्रारब्धकोटीनां फलैरपि विचित्रितैः || १६४ || कथं नो विदुरिति चेदाह - मधुक्षीबेति | सततसमाहित[क्: हितः]स्वान्ताः [क्: स्वान्ताः नास्ति] | सुषुप्तौ मन्दमारुतमशकदंशनजातसुखदुःआनुभववद् आपातसुखदुःखानुभवो मध्यज्ञानिनामित्यर्थः [ख्: मध्यमाना] || १६४ || न स्वस्थितेः प्रच्यवन्ते नोद्विजन्त्यापदां गणैः | न विस्मयन्ति चाश्चर्यैर्न हृष्यन्ति महासुखैः || १६५ || स्वस्थितेः स्वरूपसमाहितेः || १६५ || अन्तःशान्ता बहिर्लोकसमास्ते ज्ञानिषूत्तमाः | एवं बुद्धिविभेदेन ज्ञानपाकविभेदतः || १६६ || अन्तःशान्ताः कामक्रोधादिजनितक्षोभरहिताः | बहिरज्ञानिलोकसमव्यवहारवत्त्वेन तत्समाः | अधमज्ञानिनो न सन्ततं स्वरूपसमाधिः अपि तु प्रारब्धेन वासनाशेषेण च मध्ये समाधिविच्छेदात् क्लेशयोगः | नायं जीवन्मुक्तः अपि तु केवलज्ञानी | इतरौ द्वौ जीवन्मुक्तौ | तत्र द्वितीयस्तु परिपक्वनिरोधसमाधिः | तृतीयस्तु परिपक्वबाह्यसमाधिः | एवं बुद्ध्यादिभेदेन तृतीयेष्वपि व्यवहारवचित्र्यमित्याह - एवमिति || १६६ || प्. ३४४) प्रारब्धशेषमाहात्म्याद् व्यवहारा विचित्रिताः | मधुमत्तादिवत्तेषां व्यवहारोऽपि सम्भवेत् || १६७ || तेषां ज्ञानिनाम् || १६७ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे अष्टादशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायाम् अष्टादशोऽध्यायः || प्. ३४५) अथैकोनविंशोऽध्यायः इति दत्तात्रेयमुखाच्छ्रुत्वा भार्गवनन्दनः | भूयः पप्रच्छ मुक्तानां व्यवहारक्रमं क्रमात् || १ || पूर्वाध्यायान्ते संग्रहेणोक्तां जीवन्मुक्तस्थितिं तद्भेदनिमित्तं च निरूपयितुं रामप्रश्नमवतारयति - इतीति || १ || भगवन् भूय एतन्मे विस्तरेण निरूपय | यथा बुद्धिविभेदेन ज्ञानपाकविचित्रता || २ || एतदित्युक्तमेव विशदयति - यथेति | ज्ञानपाकः ज्ञानसिद्धेरप्रकम्प्यता || २ || ज्ञानं त्वेकविधं स्वात्ममात्रभानात्मकं ननु | उपेयं च तदेव स्याद्यन्मोक्षस्तत्प्रथात्मकः || ३ || ज्ञानपाकवचित्र्यमाक्षिपति - ज्ञानमिति | यत् यस्मात् | तत्प्रथात्मकः ज्ञानात्मप्रथात्मकः || ३ || तत् कथं बुद्धिभेदेन पाकभेदसमाश्रयम् | साधनान्यपि भिद्यन्तेऽथवा नेति तदीरय || ४ || तत् तस्मात् मोक्षोपायमोक्षयोरेकरूपत्वात् | बुद्धेस्तीव्रमन्दत्वभेदेऽप्युपायोपेययोरेकविधत्वेन ज्ञाने कथं [क्: कथं नास्ति] पाक विचित्रतेति भावः || समाश्रयं ज्ञानं ज्ञानस्य साधनानि || ४ || इति पृष्टः पुनस्तेन दत्तात्रेयो दयानिधिः | विस्तरेण तमेवार्थं प्रवक्तुमुपचक्रमे || ५ || तेन रामेण | तमेवार्थं ज्ञानपरिपाकभेदम् || ५ || शृणु राम प्रवक्ष्यामि रहस्यं ह्येतदुत्तमम् | साधने न विभेदोऽस्ति ज्ञानं न चित्रसाधनम् || ६ || ज्ञानसाधने विभेदो नास्ति | एतदेव स्पष्टमाह - ज्ञानमिति || ६ || प्. ३४६) तारतम्यात् साधनानां फलप्राप्तिर्विभेदिता | पूर्णे तु साधने ज्ञानमनायासेन सिद्ध्यति || ७ || साधनानां तारतम्याद् अल्पानल्पत्वहेतोः | फलप्राप्तिः ज्ञानसिद्धिः | पूर्णे त्विति | अनेकप्राग्जन्मार्जितसाधनपूर्तिसम्पत्तौ || ७ || अपूर्तितारतम्येन त्वया सा(त्वायासा)पेक्षणाद्भवेत् | वस्तुतः साधनं किञ्चिद् ज्ञाने नैवोपयुज्यते || ८ || साधनपूर्तौ ज्ञानमाकाशफलपातवदनायासेन [क्: फलपात नास्ति] सिध्यति अपूर्तिपक्षेऽप्यपूर्तितारतम्येनायासतारतम्यापेक्षेत्याह ##- - वस्तुत इति || ८ || ज्ञानं क्वचिन्नैव साध्यं सिधत्वात्तु स्वभावतः | चैतन्यमेव विज्ञानं तत् सदा स्वप्रकाशकम् || ९ || स्वभावतः स्वरूपत्वात् साधनानां तदुत्पत्तावनुपयोगेऽपि ज्ञप्तावुपयोगः स्यादिति चेदाह - चैतन्यमिति || ९ || तत्र का साधनापेक्षा नित्यभानस्वरूपके [क्: नित्या] | चैतन्यं [ख्: चैतन्यं ....... निर्मले नास्ति] निहितं चित्तकरण्डेऽतिसुनिर्मले || १० || तदावरणनिवारण एव साधनोपयोगं ज्ञानस्य मणिरूपकत्वेन निरूपयति - चैतन्यमिति | अतिसुनिर्मल इति | स्फटिककरण्डान्तर्गतपद्मरागवच्चित्तान्तर्गतमपि चैतन्यमनावृतमेवेति [ख्, ग्: वृत्तमेवेति] तात्पर्यम् || १० || अनन्तवासनापङ्कमग्नं नैवोपलक्ष्यते | निरोधसलिलैः सम्यग् वासनापङ्कमार्जने || ११ || अनन्तेति | पङ्कतुल्यवासनौघपूरितस्फटिककरणडतुल्यचित्तान्तर्गतत्वात् पद्मरागतुल्यमपि चैतन्यं न स्वरूपेणोपलक्ष्यत इत्यर्थः | तदुपलक्षणयुक्तिमाह - निरोधेति | मार्जने कृते सति || ११ || प्. ३४७) विचारशितयन्त्रेण यत्नाच्चित्तकरण्डके | चिरात् संघटिते राम सुयुक्त्योद्घाटिते ततः || १२ || विचारेति | ततः पङ्कमार्जने कृत इत्यन्वयः | श्रवणादिरूपविचारानन्तरमेव निदिध्यासनरूपनिरोधसम्भवात् | चिरादनादिकालात् सङ्घटिते चित्तकरण्डे देहादितादात्म्यमापन्ने विचारतीक्ष्ययन्त्रेण युक्त्या मननसहितश्रवणेन उद्घाटिते देहादिभ्यो विवेचिते | दृश्यदेहादितादात्म्यहाने इति तात्पर्यम् || १२ || भासमानं तु मणिवच्चैतन्यमुपलभ्यते | राम तस्माद् वासनानां निरासे साधनं स्मृतम् [ख्: स्थितम्] || १३ || देहादितादात्म्यापन्नमेव चैतन्यं चित्तमित्युच्यते | तस्य देहादितादात्म्यमेव सङ्घट्टनम् | तस्य देहादिभ्यो विवेचनमुद्घाटनम् निरोधेन वासनापगमे [क्: वासनापगमे नास्ति] भूयो देहादितादात्म्यानासादनम् | एवं विचारेण देहादिभ्यो विवेचितं चैतन्यमात्मतत्त्वं निरोधेन मणिवत् स्वतो भासमानमेवोपलभ्यत इत्याह - भासमानमिति | तस्मात् स्वरूपे साधनानुपयोगात् | साधनमुपयुक्तं स्मृतम् || १३ || वासनाल्पाधिक्यभावाद् [क्, ख्: नात्म्या] बुद्धिस्तु विविधा भवेत् | यस्य यावद् वासनौघो बुद्धिमाच्छाद्य संस्थितः || १४ || यस्य जन्मान्तरसमर्जितपुण्यादिसाधनादिना चित्ते यावद्वासना न्यूनाऽधिका वा तस्य तावत् साधनापेक्षाऽल्पानल्पतेत्याह [क्, ख्: क्षात्मानात्म्यते] - यस्येति || १४ || साधनापेक्षणं तस्य तावदेव भृगूद्वह | वासना विविधाः प्रोक्तास्तत्र मुख्या वदामि ते || १५ || तत्र यत्नेनापोहाय [ख्: यत्नेनापोहाय नास्ति] प्रबलाः काश्चन वासनाः परिगणयति - वासनेति | वासनाः संस्काराः || १५ || प्. ३४८) अपराधकर्मकामभेदेन त्रिविधा हि सा | अश्रद्धैवापराधः स्याद् मुख्यः स्वात्मविनाशनः || १६ || ता एव क्रमेण विवेचयन्नाद्यमपराधमाह - अश्रद्धेति | श्रद्धा गुर्वागमोक्तं यत् तत्तथैवेति दृढनिश्चयः तदभावोऽश्रद्धा || १६ || विपरीतग्रहश्चापि ह्यपराधस्तु पौरुषः | प्रायः कलासु कुशला अपराधवशान्ननु || १७ || अज्ञानबीजपल्लवभूतविपरीतग्रहोऽपि पुरुषापराध इत्याह - विपरीतेति | पौरुषः पुरुषस्वभावाभ्युपगतः | महतां शास्त्रज्ञानामप्येतद्वशादेव ज्ञानानुदय इत्याह - प्राय इति || १७ || सत्सङ्गशास्त्रयोगैश्च परं तत्त्वं हि नो विदुः | निर्विशेषं परं तत्त्वं नास्ति नैव च सम्भवेत् || १८ || सत्सङ्गादिसाधनसत्त्वेऽपि [क्: सत्यत्वेऽपि] | विविधविपरीतग्रहानाह ##- अस्ति तन्नैव विज्ञातं शक्यते केनचित् क्वचित् | ज्ञात्वापि परमं तत्त्वं नैतत्तत्त्वं [क्: नैव तत्त्वं] परं भवेत् || १९ || न ज्ञातुं शक्यमिति द्वितीयः | निदिध्यासनान्तसाधनेन ज्ञात्वापि नैतत्परं तत्त्वमिति तृतीयः || १९ || एतज्ज्ञानात् कथं मोक्ष इत्यादि बहुधा स्थितः | विपरीतग्रहो वापि चैतत्संशय एव वा || २० || एतस्य निदिध्यासनेनापरोक्षीकृतस्य ज्ञानात् | आदिना [क्, ख्: अनादिर्नास्ति] नास्ति कैवल्यमोक्ष इत्यादिसंग्रहः | प्रोक्तविपरीतग्रहवत्तत्संशयोऽपि पुरुषापराध इत्याह - एतत्संशय इति || २० || अपराधह् पौरुषस्तु वासनाद्या प्रकीर्तिता | शास्त्रविद्यासु कुशलाः शतशोऽथ सहस्रशः || २१ || एषोऽपराध एवाद्या वासनेत्याह - अपराध इति || २१ || प्. ३४९) अनया विहता राम संसृतिं समुपागताः | पुरा दुष्कृतसंस्कारवशाद् बुद्धौ तु यत् स्थितम् || २२ || अनया अपराधरूपवासनया | द्वितीयां वासनामाह - पुरेति || २२ || मालिन्यमुपदेशस्य ग्रहणप्रतिबन्धकम् | येनाचार्यैः सम्यगुक्तमपि नो गृह्यते खलु || २३ || मालिन्यं मौढ्यम् | येन बुद्धौ स्थितेन || २३ || सा कर्मवासना प्रोक्ता दुर्जेयापि निरोधतः | कामः कर्तव्यशेषः स्यादनन्तो बहुशाखकः || २४ || सेयं कर्मवासना | दुर्जेयेति | प्रायः सर्ववासना निरोधाज्जेयाः इयं तु दुर्जेयेत्यर्थः | तृतीयामाह - काम इति | इदं कर्तव्यमिदं कर्तव्यमिति कर्तव्यशेषात्मकः संस्कारगणः | अनन्तो विस्तीर्णः | बहुशाखकः असंख्येयभेदः || २४ || रामाभोधौ तरङ्गाणां संख्यां कुर्याद्धि कश्चन | पार्थिवानामणूनां वा तथा तारागणस्य वा || २५ || असंख्येयत्वमेव निरूपयति - रामेति || २५ || एकस्यापि हि कामानां संख्यातुं नैव शक्यते | इयं राम तृतीया ते संप्रोक्ता कामवासना || २६ || एकस्यापि पुरुषस्य || २६ || आकाशादपि विस्तीर्णा ह्यचला भुधरादपि | आशापिशाची प्रोक्तेयं राम [ग्: रामेयं] या कामवासना || २७ || अनन्तत्वमेवाह - आकाशादिति | सर्वजगद्व्यापकत्वाद् दुष्पूरत्वाद्वा विस्तीर्णा | निरसितुमशक्येत्याह - अचलेति | पिशाची इति प्रोक्ता | इयं कामवासना || २७ || अनयैव हि सर्वोऽयं लोक उन्मत्तवत् स्थितः | येन दन्दह्यमानोऽयं लोक आक्रन्दते सदा [क्, ख्: तदा] || २८ || पिशाचीत्वमुपपादयति - अनयेति | ग्रस्त इति शेषः | येन आशापिशाचीग्रसनेन || २८ || प्. ३५०) केऽपि लोके धन्यतमा महामन्त्रसमाश्रयात् | विनिर्मुक्तास्तया भान्ति नराः सर्वाङ्गशीतलाः || २९ || केऽपीति | लोकोत्तमा इत्यर्थः | महामन्त्रः परवैराग्यम् || २९ || एताभिस्तिसृभी राम वासनाभिर्यतो मनः | समाक्रान्तमतो नूनं तत्तत्त्वं नावभासते || ३० || एताभिः अपराधकर्मकामरूपाभिः | तत्तत्त्वं नित्यापरोक्षमप्यात्मतत्त्वम् || ३० || अतः सर्वसाधनस्य वासनानाशनं फलम् | तत्राद्या ह्यपराधत्वनिश्चयाद् विनिवर्तते || ३१ || अतः नित्यापरोक्षप्रत्यगात्मतत्त्वे साधनानुपयोगात् | त्रिविधवासनानाशे प्रत्येकं साधनमाह - तत्रेति | तास्वित्यर्थः | आद्या अश्रद्धाद्यपराधरूपा | अपराधत्वनिश्चयाद् मम ज्ञानानुत्पत्तिरेतदपराधमूलिकैवेति निश्चयात् || ३१ || द्वितीया जन्मनैकेन निवर्तेतापि जन्मभिः | ऐश्वरेण प्रसादेन नान्यथा कोटियुक्तिभिः || ३२ || द्वितीया मौढ्यरूपा कर्मवासना | ऐश्वरप्रसादेनाल्पाया एकन जन्मना अनल्पाया अनेकजन्मभिर्निवृत्तिः | नान्यथा ईश्वरप्रसादं विना || ३२ || तृतीया विनिवर्तेत वैराग्यादिसुसाधनैः | दोषदृष्ट्यैव वैराग्यं भवेन्नैवान्यथा क्वचित् || ३३ || तृतीया कामवासना | वैराग्यविषयवैमुख्यादितीव्रसाधनैः | वैराग्ये कारणमाह - दोषदृष्ट्यैवेति | विषयेषु सदा दोषचिन्तनादित्यर्थः | एतेनापराधत्वनिश्चये ऐश्वरप्रसादे च गुरूपदेशविचारयोश्च ईश्वराराधनं क्रमात् कारणं ज्ञेयम् || ३३ || प्रोक्तानां वासनानां वै स्वल्पानल्पविभेदतः | तस्याश्चाल्पानल्पभावापेक्षा भवति भार्गव || ३४ || प्रोक्तानां कामवासनानाम् | तस्याश्च दोषदृष्टेश्च | अल्पानल्पभावापेक्षा | वासनाल्पत्वे दोषदृष्ट्यल्पसत्त्वाद्यपेक्षेति || ३४ || प्. ३५१) तत्राद्यं सर्वमूलं स्यान्मुमुक्षुत्वं न चेतरत् | मुमुक्षामन्तरा यत्तु श्रवणं मननादिकम् || ३५ || तत्र साधनेषु मध्ये सर्वमूलं सर्वसाधनसम्पत्तिहेतु | अत एवाद्यम् | ननु मुमुक्षामन्तरापि शास्त्रकुशलानां श्राणादिसाधनमस्तीति चेत् तन्न फलपर्यन्तमित्याह - मुमुक्षेति | आदिना निदिध्यासनम् || ३५ || न मुख्यफलसंयुक्तं केवलं शिल्पवद् भवेत् | न शिल्पज्ञानमात्रेण प्राप्यते परमं पदम् || ३६ || फलीभूतापरोक्षज्ञानाभावेन शास्त्रप्रक्रियाज्ञानमात्रसम्पत्त्या [क्: सम्पत्त्यादिशिल्प] शिल्पवत् तावता न संसारनिवृत्तिरूपमहाफलमित्याह - न शिल्पेति || ३६ || मुमुक्षामन्तरा यैस्तु श्रुतं सम्यग् विचारितम् | शवालङ्कारवत् सर्वं तेषां व्यर्थं भवेत् खलु || ३७ || अमुमुक्षोः साधनसम्पत्तिर्व्यर्थेत्याह - मुमुक्षामिति || ३७ || व्यर्था सापि भवेन्मन्दा मुमुक्षा राम सर्वथा | यथा फलश्रुतेरिच्छा सामान्या न फलावहा || ३८ || मुमुक्षाऽप्यतीव्रा व्यर्थेत्याह - व्यर्थेति | सा मुमुक्षा | फलश्रुत्या सर्वेषामनुत्कटा [क्: कण्ठा] सामान्या इच्छा भवत्येव | सा यथा न तत्तत्फलावहा एवं प्रकृतेऽपीत्याह - यथेति || ३८ || फलश्रुत्युत्तरोद्भूता नेच्छा कर्मफलावहा | फलश्रुत्या कस्य नाम न स्यात् सा जीवधर्मिणः || ३९ || एतदेव स्पष्टमाह - फलेति | इच्छाऽनुत्कटा | सा इच्छा | तस्याः फलावहत्वे [क्: वहवत्त्वे] सर्वेषां सर्वं फलं शयो भवेदिति भावः || ३९ || तस्मादापातरूपाया मुमुक्षाया न वै फलम् | यथा मुमुक्षा तीव्रा स्यात्तथा तस्याऽचिरं [तस्या अचिरमिति च्छेदः | सन्धिरार्षण्] फलम् || ४० || तस्माद् मन्दमुमुक्षायाः फलाभावात् | अमन्दापि सा तीव्रा तीव्रतरेत्यादिरूपेण यथोत्कटा तथा तस्या अचिरं फलं भवेदित्याह - यथेति || ४० || प्. ३५२) मुमुक्षा या मुख्यतमा सा साधनगणेष्वलम् | प्रवृत्तिमुत्पादयेद् वै सा हि तत्परतोच्यते || ४१ || अलम् अत्यन्तम् | सा साधनेष्वत्यन्तप्रवृत्तिः || ४१ || यथा सुदग्धसर्वाङ्गो न शीतान्यदपेक्षते | तथा यदा विमुक्त्यन्यन्नापेक्षेत हि सर्वथा || ४२ || तीव्रमुमुक्षायां दृष्टान्तः - यथेति | शीतजलादेरन्यन्नापेक्षते || ४२ || सा मुमुक्षा भवेत्तीव्रा समर्था फलसाधने | एषा विमुक्तेरन्यत्र दोषदृष्ट्यैव जायते || ४३ || तीव्रमुमुक्षायां कारणमाह - एषेति | तीव्रमुमुक्षेत्यर्थः || ४३ || तीव्रवैराग्यमुखतः क्रमेण तीव्रतामियात् | दोषदृष्ट्या हि वैराग्यं विषयप्रीतिनाशनम् || ४४ || दोषदृष्ट्या मुमुक्षोदयक्रममाह - तीव्रेति | वैराग्यमुखतः वैराग्यद्वारतः | सामान्या मुमुक्षैव तीव्रतां क्रमेण प्राप्नुयात् | तत्क्रममाह - दोषदृष्ट्येति | वैराग्यं विषयवैमुख्यम् || ४४ || वैराग्येण मुमुक्षुत्वं तीव्रं तत्परतोदयम् | तत्परत्वं साधनेषु प्रवृत्तिरतितीव्रतः [क्: तीव्रता] || ४५ || तत्परताया उदयो जननं यस्मात् || ४५ || अतितीवरप्रकृत्यैव द्रुतं फलमवाप्नुयात् | इति दत्तात्रेयवचो निशम्य भार्गवः पुनः || ४६ || तीव्रमुमुक्षुत्वं तीव्रप्रवृत्तिद्वारेणैव फलसाधकमित्याह अतितीव्रेति || ४६ || प्. ३५३) पप्रच्छ सन्दिग्धमनाः संशयं सुमहत्तरम् | भगवन् भवता प्रोक्तं सत्सङ्गो मूलकारणम् || ४७ || मूलकारणम् आदिकारणम् || ४७ || ईश्वरानुग्रहश्चापि दोषदृष्टिरपीति च | किमादिकारणं मुख्यं तत्प्राप्तिर्वा कथं भवेत् || ४८ || सत्सङ्ग ईश्वरानुग्रहो दोषदृष्टिश्च मूलकारणमित्युक्तम् | तेषु मध्ये मुख्यमादिकारणं किम्? तस्यापि किं कारणमिति पृच्छति - किमादीति || ४८ || नहि निष्कारणं किञ्चिद् भवेदिति हि निश्चयः | तत् कथं स्याद्विना हेतोरेतन्मे वद विस्तरात् || ४९ || ननु न तस्य किञ्चित्कारणमिति चेदाकस्मिकत्वप्रसक्तिरित्यभिप्रायेणाह - नहीति || ४९ || इति पृष्टः प्राह रामं दत्तात्रेयो दयानिधिः | भार्गव शृणु ते वक्ष्ये श्रेयसः परमोद्भवम् || ५० || परमोद्भवमिति | परमं प्रकृष्टम् आद्यम् उद्भवमुत्पत्तिम् | श्रेयस आदिकारणमिति यावत् || ५० || परा सा या चितिर्देवी स्वस्वातन्त्र्यस्य वैभवात् | स्वात्मन्येव जगच्चित्रं दर्पणप्रतिबिम्बवत् || ५१ || सत्सङ्ग एव मूलकारणम् | स च प्राकृतविचित्रसुकृतपरिपाकवशादित्येतत्कर्मप्रवृत्तिनिरूपणपूर्वकं वक्तुमाह - परेति | सा प्रकरणप्रतिपाद्यत्वेन प्रसिद्धा | स्वीयस्वातन्त्र्यस्य मायाशक्तेर्वैभवान्माहात्म्याद् जगच्चित्रम् उन्मेषयदिति योजयेत् || ५१ || सैव हैरण्यगर्भाख्यां तनुमास्थाय वै परा | अनाद्यज्ञानसंच्छन्नजीवानां हितकाम्यया || ५२ || सैव परा चितिरेव || ५२ || उन्मेषयदागमाब्धिं सर्वकामपूरणम् | तत्र जीवाः स्वभावेन विचित्रकामवासनाः || ५३ || तेषां कामा एव हिता इति सर्वकामप्रपूरणम् आगमाब्धिमुन्मेषयत् | कुतो जीवानां कामहितत्वमिति चेदाह - तत्रेति | सृष्टौ स्वभावेन | अनादिकालिक कामवासनया [क्, ख्: कामवासनाया इत्यधिकं] कामानुभवः तदनुभवाद् वासनोत्पत्तिरिति भावः || ५३ || प्. ३५४) कथं तेषां शुभं भूयादेवं चिन्तापरायणः | असृजत् काम्यकर्माणि फलचित्राणि सर्वशः || ५४ || कामवासनयैव जननमरणप्रवाहपतितानां तेषां चिन्तापरायणो हिरण्यगर्भ आगमाब्धौ काम्यकर्माण्येवासृजत् प्रतिपादितवान् | सर्वशः सर्वत्र || ५४ || सदसद्वापि हि जनः करोत्येव स्वभावतः | तथा च केनापि कर्मपरिपाकवशेन तु || ५५ || तत्रादौ मानुष्यप्राप्तिप्रकारमाह - सदसद्वेति | स्वभावतः कर्मवासनया || ५५ || भ्रमन् योनिविभेदेषु मानुष्यमुपसङ्गतः | कामनावशतः काम्ये कर्मण्यभिमुखो भवेत् || ५६ || उपसङ्गतः प्राप्तः | कर्मण्यभिमुखः प्रवृत्तः || ५६ || कामनाया विशेषेण यदेश्वरपरो भवेत् | तदैश्वराणि शास्त्राणि प्रसङ्गादवलोकयेत् || ५७ || कामनाया विशेषेण काम्यकर्मफलं निर्विघ्नेन मे भूयादितीच्छाविशेषेण || ५७ || काम्यकर्मफलश्रुत्या प्रवृत्तः काम्यकर्मणि | विहतस्तत्फलाप्राप्त्या [ग्: प्राप्तिवैगु] वैगुण्यात् सूक्ष्मकर्मणः || ५८ || एतदेव विविच्याह - काम्येति | कामवासनया काम्यप्राप्त्युपायमन्विष्यन् आगमस्थकाम्यफलश्रुतेः तत्र प्रवृत्तः | तत्र सूक्ष्मकर्मणः कर्मैकदेशलेशस्यापि वैगुण्याद् लोपादवश्यसम्भाव्य(व्यात्) तत्फलाप्राप्त्या विहतो दुःखितः | कथं कृत्वा कर्मफलं प्राप्नुयामिति कर्तव्यजिज्ञासया प्रष्टुं कञ्चित् सत्पुरुषं पूर्णाशयं प्राप्तकामं व्रजेत् शरणीकुर्याद् इत्यन्वयः || ५८ || प्. ३५५) कर्तव्यजिज्ञासयैव कञ्चित् सत्पुरुषं व्रजेत् | तत्प्रसङ्गवशात् क्वापि माहात्यमं शृणुयात् क्वचित् || ५९ || तत्प्रसङ्गवशादिति | सत्पुरुषाः कामिषु विमुखा एव तिष्ठन्ति | तथापि सत्पुरुषाणां क्वापि देशे क्वचित् काले यः प्रसङ्गः परस्परं प्रश्नप्रतिवचनात्मकः कथाविशेषस्तत्र महेश्वरस्य माहात्म्यं शृणुयात् | एतदुक्तं वासिष्ठे - सदा सन्तोऽभिगन्तव्या यद्यप्युपदिशन्ति नो | या हि स्वैरकथास्तेषामुपदेशा भवन्ति ताः || (यो० वा० सा० १|७) इति || ५९ || महेश्वरस्य च ततः प्राक्पुण्यपरिपाकतः | तस्य प्रसादने भूयत् प्रवृत्तिरपि भार्गव || ६० || यस्य [यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु | न्यूनं सम्पूर्णतामेति सद्यो वन्दे तमच्युतम् || इति सम्पूर्णः श्लोको भक्तिग्रन्थेषु बहुशो दृश्यते |] स्मृत्या च नामोक्त्या इत्यादिमाहात्म्यं श्रुत्वा तत ऐश्वराणि शास्त्राण्यवलोकयेत् | ततः पुण्यपरिपाकवशात् तत्प्रसादने [क्, ख्: तत्प्रतिपादने] प्रवृत्तिर्भूयात् || ६० || तस्मात् प्राक्पुण्यपाकेन सत्सङ्गमभिगम्य तु | प्राप्नोति श्रेयःसोपानपङ्क्तिमत्यन्तदुर्लभाम् || ६१ || एवं प्राक्पुण्यपरिपाकादेव सत्सङ्गपूर्वकं क्रमेण श्रेयःप्राप्तिरित्युपसंहरति - तस्मादिति || ६१ || प्रायः सत्सङ्गमूलैव श्रेयःप्राप्तिरुदीरिता | क्वचिदुत्कृष्टपुण्येन चोत्कृष्टतपसापि वा || ६२ || उत्कृष्टपुण्येन उत्कृष्टतपसा परमेश्वरप्रीतये कृतेन || ६२ || श्रेयः प्राप्नोति सहसा ह्याकाशफलपातवत् | तस्मात् कारणवैचित्र्याच्छ्रेयःप्राप्तिविचित्रता || ६३ || प्राग्जन्मकृतेन पुण्यादिना | सहसा अकस्मात् सत्सङ्गादिकं विनैव | तस्मात् कारणवैचित्र्यात् स्वरूपावरकवासनानाशकसाधनानामल्पानल्पत्वेन वैचित्र्यात् श्रेयःप्राप्तिविचित्रता ज्ञानावरकवासनानिवृत्तितारतम्येन ज्ञानवैचित्र्यमिति भावः || ६३ || प्. ३५६) तथा च बुद्धिभेदेन वासनातारतम्यतः | साधनानां तारतम्याद् विचित्रा ज्ञानिनां स्थितिः || ६४ || तथा च चेति | ज्ञानतारतम्ये सिद्धे चेत्यर्थः | बुद्धिभेदेन वासनातारतम्यतः | सर्वबुद्धौ वासनासाम्याभावात् | अत एव साधनसाम्यं नास्तीत्याह - साधनानामिति || ६४ || स्वभावाद्यस्य वै बुद्धेर्वासना विरला भवेत् | तस्याल्पसाधनेनैव ज्ञानसिद्धिर्भवेदलम् || ६५ || एतदेव विविच्याह - स्वभावादिति | प्राक्कृतपुण्यकर्मादिसंस्कारात् | विरला अल्पा | अलमत्यन्तमप्रतिबद्धा ज्ञानसिद्धिः || ६५ || यस्य स्वभावात् संशुद्धं वासना नहि लेशतः | तस्य स्वल्पनिमित्तेन भवेज्ज्ञानं महत्तरम् || ६६ || स्वभावात् पुण्यकर्मादिप्रकर्षसंस्कारात् संशुद्धं मन इति शेषः | स्वल्पनिमित्तेन जनकस्येव सकृच्छ्रुतमात्रेण महत्तरं निष्प्रकम्पं चिराभ्यासपरिपक्वज्ञानसदृशम् || ६६ || यस्य स्वभावादत्यन्तवासनानिबिडं मनः | तस्य ज्ञानं जातमपि समाच्छादितकल्पकम् || ६७ || स्वभावात् अतिपापकर्मसंस्कारात् | आच्छादितकल्पकम् अज्ञाननाशनासमर्थम् || ६७ || तेनैव साधितं भूयश्चिरादभ्येति पूर्णताम् | अत एव ज्ञानिनां तु दृश्यते विविधा स्थितिः || ६८ || तेनैव आच्छादितज्ञानवतैव | निदिध्यासनप्रकर्षेण साधितम् | चिरात् [क्: चिरात् नास्ति] एकेन अनेकेन वा जन्मना | पूर्णतामज्ञाननाशनसमर्थताम् | अत एव कर्मसंस्कारभेदेन बुद्धिस्थिति भेदादेव || ६८ || प्. ३५७) चित्तपाकविभेदेन स्थितिभेदो भृगूद्वह | तस्माद् बुद्धौ वासनाभिस्त्वावृत्तेस्तारतम्यतः || ६९ || एतदेव स्पष्टमाह - चित्तेति | ज्ञानिस्थितिभेदः | एतदेव भूयो विवेचयति ##- ज्ञानं भिन्नं लक्ष्यते हि स्थितिभेदस्तथा भवेत् | राम पश्य स्थितेर्भेदं ज्ञानिनां तु परस्परम् || ७० || ज्ञानिस्थितिभेदः | एतदेव उदाहरति - रामेति || ७० || ब्रह्मविष्णुमहेशानां स्वभावज्ञानिनस्तु ते | तेषां पश्य स्थितेर्भेदं स्वभावप्रभवैर्गुणैः || ७१ || स्वभावज्ञानिनः | तेषां चित्ते कर्मादिवासनाभावाद् अनावृतज्ञानाः | स्थितिभेदं सृष्ट्यादितत्परत्वं सत्त्वादिप्राकृतगुणैः || ७१ || नैषां ज्ञानस्य मालिन्यं वक्तुं शक्यं कथञ्चन | स्वभावगुणमाहात्म्यं भिन्नमेव तथापि हि || ७२ || ज्ञानमालिन्यं ज्ञानावरणं न वक्तुं शक्यम् सर्वज्ञत्वाद्यैश्वर्यस्य प्रसिद्धत्वात् | तथापि विशुद्धज्ञानित्वेऽपि || ७२ || यथा ज्ञानिशरीरं तु गौरं न श्यामतां व्रजेत् | एवं चित्तस्वभावोऽपि नान्यभावं प्रपद्यते || ७३ || ज्ञानस्य स्वभावानभिभावकत्वमाह - यथेति || ७३ || अस्मान् राम तथा पश्य ज्ञानिनोऽत्रिसुतान् स्थितान् | दुर्वाससं चन्द्रमसं मां च भिन्नस्थितिं गतम् || ७४ || स्वात्मानं चोदाहरति - अस्मानिति || ७४ || क्रोधिनं कामिनं त्यक्तसर्वलिङ्गपरिग्रहम् | वसिष्ठं पश्य कर्मिष्ठं सनकादींश्च न्यासिनः || ७५ || भिन्नस्थितिमेवाह - क्रोधिनमिति | लिङ्गं वर्णाश्रमचिह्नम् | परिग्रहः स्त्रीधनादिः | न्यासिनः संन्यासिनः || ७५ || नारदं भक्तिसंमग्नं कवयन्तं च भार्गवम् | दैत्यपक्षसंश्रयिणं गुरुं देवसमाश्रयम् || ७६ || भार्गवं शुक्रं | कवयन्तं काव्यं रचयन्तम् || ७६ || प्. ३५८) वाग्मिनं च व्यासमपि [ख्: वाग्मिनं व्यासमपि च] शास्त्रनिर्माणतत्परम् | जनकं पश्य राजानं भरतं त्यागिनं तथा || ७७ || वाग्मिनं वादकुशलम् | भरतो जडभरतः || ७७ || भिन्नस्थितीन् स्वभावेन ज्ञानिनः पश्य चापरान् | रहस्यं ते प्रवक्ष्यामि शृणु भार्गवनन्दन || ७८ || अपरान् च्यवनयाज्ञवल्क्यविश्वामित्रादीन् | एवं स्थितिभेदनिमित्तं वक्तुमाह - रहस्यमिति || ७८ || त्रिविधा [क्, ग्: विविधा] या वासनोक्ता द्वितीया तत्र या भवेत् | कर्मजा मूढतारूपा सा सर्वेभ्यो महत्तरा || ७९ || त्रिविधा अपराधकर्मकामरूपा | सर्वेभ्यः अपराधकामवासनाभ्यः || ७९ || येषां तल्लेशकश्चित्ते नास्ति मेधाविनस्तु ते | अपराधविहीनानां तेषां कामादिवासनाः || ८० || तस्याः कर्मवासनाया लेशः पूर्वसम्पादितसाधननष्तत्वान्नास्ति | ते मेधाविन इत्युच्यन्त इति शेषः | अपराधोऽपि स्वनिमित्तकर्मविशेषाभावान्नास्ति | कामादिवासना अविलीना [क्: विलीना] इति सम्बन्धः || ८० || अभ्यासेनाविलीनाश्च ज्ञानस्याप्रतिबन्धिकाः | ततो वैराग्यादिकं तु न तेषामुपयुज्यते || ८१ || अभ्यासेनेति | अभ्यासाभावेनाविलीना इति भावः | ज्ञानस्याप्रतिबन्धिका इति | इदमत्र तात्पर्यम् - कर्मवासनयाऽत्यन्तमूढचित्तानामपराधादिवासनाभावेऽपि मौढ्यादेव न ज्ञानोदयः | स्वल्पकर्मवासनया ईषन्मूढचित्तानामपराधकामवासना ज्ञानप्रतिबन्धिकाः | येषां पुनरपराधकर्मवासने लेशतोऽपि न स्तस्तेषां कामवासना न ज्ञानप्रतिबन्धिका इति | तत इति कामवासनाया अप्रतिबन्धकत्वात् | आदिना दोषदर्शनम् || ८१ || प्. ३५९) न वा भूयोऽपि मननं समाधिश्चोपयुज्यते | सकृच्छ्रवणमात्रेण मननं ध्यानमेव च || ८२ || वैराग्यादेरिव मननादेरप्यनुपयोगमाह - न वेति | भूयः असकृत् | तेषां ज्ञानोत्पत्तिक्रममाह - सकृदिति || ८२ || तत्काल ईषत् संप्राप्य ज्ञातासन्दिग्धतत्पदाः | भवन्ति जीवन्मुक्तास्ते जनकप्रमुखा इव || ८३ || तत्काले श्रवणकाले | तत्पदं पूर्णात्मपदम् || ८३ || विपरीताभ्यासवशान्नैव तैः क्षपिताः खलु | कामादिवासनाः सम्यक् सूक्ष्मा निर्मलबुद्धिभिः || ८४ || ज्ञानाप्रतिबन्ध(क)त्वादेव कामक्रोधादिवासना न क्षपिताः || ८४ || अतस्तैस्तत्पदे ज्ञाते चापि पूर्वस्थितास्तु ताः | कामादिवासनाः प्राग्वत् प्रवर्तन्ते निरन्तरम् || ८५ || अतः अभ्यासेन अक्षपितत्वात् || ८५ || न ताभिरीषद्वा बुद्धेस्तेषां लेपो भवेत् क्वचित् | विद्वद्भिस्ते हि संप्रोक्ता मुक्ताश्च बहुमानसाः || ८६ || लेपः स्वरूपच्युतिनिमित्तमालिन्यम् | एवं च येषां वैराग्याद्यभ्यासेन [क्: द्यनभ्यासेन] कामक्रोधादिवासनाः प्रारब्धविशेषजाता ज्ञानाप्रतिबन्धिका न नष्टास्तेषां ज्ञानोत्पत्त्यनन्तरमपि कामित्वक्रोधित्वादिकमिति भावः | एवं स्थितिभेदमुपपाद्योत्तमत्वादिभेदमपि ज्ञानिनामाह - ते हि संप्रोक्ताः | बहुमानसा उत्तमा भवन्तीति शेषः || ८६ || राम कर्मवासनाभिरतिमूढं तु यन्मनः | तस्य ज्ञानं नैव भवेत् शिवोदितमपि क्वचित् || ८७ || अपराधकर्मवासनयोर्दार्ढ्ये ज्ञानं न भवेदेवेत्याह - राम कर्मेति || ८७ || प्. ३६०) दृढापराधयुक्तानामपि न स्यात् कथञ्चन | यस्यापराधरूपापि कर्मरूपापि वासना || ८८ || ज्ञानं न स्यात् वासना स्वल्पेत्यन्वयः || ८८ || स्वल्पा कामात्मकाश्चापि बहुलास्तस्य भार्गव | बहुलश्रवणैश्तद्वद् मननैश्च समाधिभिः || ८९ || कामात्मकाः वासनाः | बहुलेति | भूयः कृतश्रवणादिभिरित्यर्थः || ८९ || चिरकालेन विज्ञानं बहुक्लेशेन जायते | तस्य व्यवहृतिः स्वल्पा तत्राभ्यासप्रकर्षतः || ९० || तस्य तत्र समाध्यभ्यासप्रकर्षाद्व्यवहृतिः स्वल्पा शारीरनिर्वाहमात्रोपयोगिनी [क्: शरीर] || ९० || मनो यदि भवेन्नष्टप्रायं निर्वासनत्वतः [क्: निर्वासनं ततः] | ज्ञानिनस्त्वीदृशाः प्रोक्ता मध्यमा नष्टमानसाः || ९१ || एवं स्वल्पव्यवहृतिपराणां योगनिष्ठाप्रकर्षेण यदि कामादिवासनानाशाद् मनो नष्टप्रायं सदा निरुद्धं भवेत् तदा ईदृशज्ञानिनो ये ते मध्यमा नष्टमानसाः || ९१ || तेषामेव तु केषाञ्चिदभ्यासस्याप्रकर्षतः | वासनाविरलं यस्मादनष्टं मानसं भवेत् || ९२ || तेषां योगनिष्ठानामेव येषां केषाञ्चिद् अलसानामभ्यासाप्रकर्षाद् वासनाविरलं मनोऽनष्टं भवेत् || ९२ || समनस्कास्तु ते प्रोक्ता मन्दज्ञानयुतास्तु वै | केवलज्ञानिनस्त्वेते जीवन्मुक्तास्तथेतरे || ९३ || एते मन्दज्ञानिनो न जीवन्मुक्ता इत्याह - केवलेति | इतरे मध्यमा उत्तमाश्च ज्ञानिनः || ९३ || केवलज्ञानिनो दृष्टदुःखभाजो भवन्ति हि | प्रारब्धतन्त्रास्ते प्रोक्ता देहान्ते मुक्तिभागिनः || ९४ || जीवन्मुक्त्यभावे दृष्टदुःखभोगो भवेदित्याह - केवलेति | प्रारब्धतन्त्राः प्रारब्धा धीनाः || ९४ || प्. ३६१) ये नष्टमानसाः प्रोक्तास्तैः प्रारब्धं पराकृतम् | मनोभूमौ तु प्रारब्धबीजं भोगाङ्कुरं भवेत् || ९५ || अन्ये तु न प्रारब्धतन्त्रा इत्याह - य इति | पराकृतं जितम् | ननु तत् प्रारब्धं किं भवेदिति चेत् स्वत एव नश्यतीत्याह - मन इति || ९५ || मनोभूमेरभावेन तत् प्रारब्धं तु कालतः | कुसूलस्थं बीजमिव विनश्येद् नष्टशक्तिकम् || ९६ || तन्नाशप्रकारं सदृष्टान्तमुपपादयति - मनोभूमेरिति | कुसूलस्थबीजवद् मनःसम्बन्धाभावेन कालेन नष्टशक्तिकं सदाश्रयलिङ्गदेहनाशाद् विदेहमुक्तिकाले नश्यतीति भावः || ९६ || यथात्यन्तसुमेधावी युगपद् दश पञ्च च | कार्याणि कुरुते क्वापि भवेदस्खलितोऽपि च || ९७ || अथोक्तमज्ञानिनां बहुमानसत्वनिरूपणमुपक्रमते - यथेति | युगपदेककाले || ९७ || भूय एवंविधा दृष्टाः क्रियानैपुण्यसंश्रयाः | यथा गच्छन् वदन् कुर्वन् युगपल्लक्ष्यते जनः || ९८ || एवंविधा मेधाविनो लोके भूयो बहुशो दृष्टाः | एतदेवोदाहरति - यथेति || ९८ || तत्र चैकेन मनसा कथं स्यात् त्रिविधा क्रिया | अध्येतृणां बहूनां च युगपल्लक्षयेद् गुरुः || ९९ || एवं युगपदेकमनसाऽनेकक्रिया कथं स्यादित्याह - तत्रेति | प्रोक्तपुरुषेष्वित्यर्थः | उदाहरणान्तरम् - अध्येतॄणामिति || ९९ || अपभ्रांशानुच्चरितं(नूच्चरित)वर्णभेदव्यवस्थितम् | राम यस्ते हतः शत्रुरर्जुनो हैहयाधिपः || १०० || अपभ्रंशेति | स्वोच्चारानन्तरोच्चरितवर्णानां भेदेनायथावर्णेन व्यवस्थितमपभ्रंशमपशब्दम् | उदाहरणान्तरम् - राम यस्त इति || १०० || सहस्रबाहुर्युगपद् हेतिभिर्बहुभिः पृथक् | अयुध्यदस्खलन् क्वापि मेधावी दृष्ट एव ते || १०१ || हेतिभिरायुधैः | अस्खलन् तत्तच्छस्त्रप्रयगमार्गादप्रच्युतः सन् | ते [क्, ख्: ते नास्ति] त्वया || १०१ || प्. ३६२) तेषां मनो बहुविधं भूत्वा तत्तत्क्रमानुगम् | यथा कार्यं बहुविधं साधयेत्तद्वदेव हि || १०२ || एवं युगपद्विविधक्रिया एकेन मनसा न सम्भवतीत्यत आह - तेषामिति | अर्जुनादिमेधाविनामित्यर्थः | तत्तत्क्रमानुगं तत्तत्कर्मसाधनानुकूलव्यापारक्रमयुक्तम् || १०२ || उत्तमज्ञानिनामात्मदृष्टिर्बाह्यगतापि च | अविरुद्धा सर्वदा स्याद्येषां ते बहुमानसाः || १०३ || आत्मदृष्टिः आत्माकारं मनः | बाह्यगतापि च विषयाकारमपि च | मनसोऽनेकत्वाद् अविरुद्धेति || १०३ || तत् प्रारब्धं मनोभूमौ भवेदङ्कुरितं पृथक् | भवेद् ज्ञानाग्निना दग्धं भूतं भूतं पुनः पुनः || १०४ || एवमुत्तमज्ञानिनो बहुमानसत्वमुपपाद्य प्रारब्धभोगाभावं निरूपयति - तत् प्रारब्धमिति | अङ्कुरितं सुखदुःखाकाराङ्कुरवत् | तथापि फलपर्यवसायि न भवतीत्याह - भवेदिति | अङ्कुरात्मना भूतं भूतं तत्तत्प्रारब्धं पुनः पुनर्ज्ञानाग्निना दग्धं भवति न [क्, ख्: न तद्विलक्षण] तु द्विक्षणावस्थायि भवेदिति तात्पर्यम् || १०४ || प्रारब्धबीजाङ्कुरः स्यात् सुखदुःखसमागमः | तद्विमर्शः फलं प्रोक्तं कुतो दग्धाङ्कुरे फलम् || १०५ || प्रारब्धात्मकबीजस्याङ्कुरः सुखदुःखसम्बन्धः | सुखादि निर्विकल्पकं फलं सुखादेर्विमर्शः सविकल्पकम् | आपातत एव सुखादेर्भानमिति तात्पर्यम् || १०५ || आहृतैरनुसन्धानैस्तेषां व्यवहृतिर्भवेत् | यथा प्रौढो हि बालेन सह खेलन् हि दृश्यते || १०६ || नन्वेवं सर्वत्रापातप्रत्ययेनानुसन्धानाभावे कथं व्यवहार इति चेदाह आहृतेति | न तेषां स्वतोऽनुसन्धिरुदेति किन्तु व्यवहारोपयुक्तानुसन्धानं बलात् स्वेच्छया आहृत्य व्यवहरन्ति | एवं व्यवहारेऽपि तन्निमित्तहर्षादिर्नान्तरभ्युदेतीति सदृष्तान्तमाह - यथेति || १०६ || प्. ३६३) हृष्टो विषण्णश्च शिलागजादीनां विनाशने | एवं हृष्यन्ति सीदन्ति कार्येषु बहुमानसाः || १०७ || शिलागजादीनामिति | शिलादिनिर्मितगजतुरगादिसेनयोर्युद्धक्रीडायां स्वीयगजादिनाशे परगजादिनाशे च यथा बालो विसीदति हृष्यति च एवं प्रौढो बहिर्हृष्यन् विषीदन्नपि नान्तर्विकारमायातीत्यर्थः | एवमिति | प्राकृतानां हि दृश्यसत्यत्वनिश्चयात् संस्कारप्राबल्येनाऽनिच्छतोऽपि बलादनुसन्धिस्ततो हर्षविषादाश्च भवन्ति | उत्तमज्ञानिनस्त्वसत्यत्वनिश्चयात् [क्: निश्चयात्मसंस्कार] संस्कारशैथिल्येन स्वतः सर्वत्रानुसन्ध्याद्यभावेऽपि व्यवहारसिद्धये प्रयत्नेनाहृतधारणासंस्कारादनुसन्धिपूर्वको बाह्यव्यवहार इति भावः || १०७ || यथाऽन्यकार्यसक्तस्य हर्षोद्वेगौ न चान्तरौ | एवं तेषां व्यवहृतौ समा सर्वत्र संस्थितिः || १०८ || दृष्टान्तान्तरमाह - यथेति | न चान्तराविति | अन्यपुरुषव्यवहारे लाभालाभयोरन्तर्हर्षाद्यभावेऽप्यन्यहृदयरञ्जनाय हृष्यति खिद्यति चेत्यर्थः | तेषाम् उत्तमज्ञानिनाम् | समा अन्यकार्यवत् स्वकार्येऽपि || १०८ || मेधाविनां ज्ञानिनां तु वासनानाशहेतवे | विरुद्धवासनाभ्यासनिरोधादेरभावतः || १०९ || ज्ञानिनां व्यवहारभेदे निमित्तं निष्कृष्योपपादयति - मेधाविनामिति || १०९ || अनुवृत्तिर्भवेत् पूर्ववासनाऽनाशहेतुतः | अतः केचित् कर्मनिष्ठाः कामिनः क्रोधिनोऽपरे || ११० || अनुवृत्तिरिति | प्राक्कृतकर्मानुरूपशुभाशुभान्तःकरणवासनाया ज्ञानाप्रतिबन्धिकाया अविनाशितत्त्वद् [क्, ख्: तत्त्वज्ञानो] ज्ञानोर्ध्वमपि तत्तद्वासनानुवृत्तिर्भवेदेवेत्यर्थः | अतः तत्तद्वासनानुवृत्तेः || ११० || प्. ३६४) उत्तमज्ञानिनो भान्ति विविधाचारतत्पराः | समनस्कस्तत्र यो वै मन्दज्ञानी निरूपितः || १११ || मन्दज्ञानिनोऽपि समाहितदशायामुत्तमज्ञानितुल्यत्वमेवेत्याह - समनस्क इति || १११ || तेनापि वेद्यमखिलमसत्यत्वेन निश्चितम् | स्वरूपवित्तौ नो किञ्चिद्भासते हि समाधिषु || ११२ || तेनापि मन्दज्ञानिनाऽपि [क्: भेद] | समाधिषु समाहितदशासु | स्वरूपस्याद्वयचिदात्मनो वित्तिरनुसन्धानं यस्मिन् काले तस्मिन् काले वेद्यं न किञ्चिद्भाति | तथा च तस्य तदेतरज्ञानिवदेव न [क्: न नास्ति] हर्षविषादादीति भावः || ११२ || समाधिर्वै स्वरूपस्य विमर्शो नान्य उच्यते | निर्विकल्पस्वरूपं तु सर्वाश्रयतया सदा || ११३ || एवं मन्दज्ञानिनः समाधिदशां निरूप्योत्तमस्य समाधिम् - तत्त्वात्मबोध [तत्त्वात्मबोधो भगवन् इति मुद्रितपुस्तकपाठः] एवैकः सर्वाशातृणपावकः | प्रोक्तः समाधिशब्देन न तु तूष्णीमवस्थितिः || (यो० वा० ५|६२|८) इति वासिष्थोक्तरीत्या सहजसमाधिरूपं निरूपयति ##- मूढसमाधिः | ननु हठयोगिनामपि समाधौ ज्ञानिनामिव निर्विकल्पात्मतत्त्वमेव भासते तथा च कुतो न तस्य समाधित्वमिति चेदाह - निर्विकल्पेति | सदा स्फुरत्येवेति सम्बन्धः || ११३ || स्फुरत्येव हि सर्वेषां तदस्फूर्तौ न किञ्चन | तथा विकल्पविकलं स्फुरेत् प्रोक्तदशासु च || ११४ || तदस्फूर्तौ न किञ्चन स्फुरेदिति शेषः | विकल्पविकलं निर्विकल्पात्मरूपम् | प्रोक्तदशासु परिच्छिन्नज्ञानान्तरालादिदशासु || ११४ || प्. ३६५) तावता नहि सर्वेषां समाधिः स्याद्धि भार्गव | ये तद्विमर्शसंयुक्ताः स तेषामेव संस्मृतः || ११५ || स्वरूपज्ञानं विना निर्विकल्पस्वरूपस्फूर्तिमात्रेण न समाधिः सिद्ध्यतीत्याह - तावतेति | हठयोगिनो यदि स्वरूपस्फूर्तिमात्रं [क्: स्वस्वरूप] निरोधकालिकं समाधिः स्याच्चेत् सर्वेषामपि प्रोक्तदशानां समाधित्वं स्यादिति भावः | येषां निर्विकल्पात्मतत्त्वविज्ञानवतामनुसन्धानात्मकविमर्शपूर्वको निरोधः स एव तेषां समाधिरिति विद्वद्भिः संस्मृतः | अत्रेदं विज्ञानरहस्यम् - श्रवणादिभिरपरिचितनिर्विकल्पचिदात्मतत्त्वो हठयोगी द्विविधः - पातञ्जलोक्ताष्टाङ्ग संसिद्धः [क्: सं नास्ति] तन्त्रोक्तषट्कर्मादिसाधनपूर्वकप्राणायामप्रकर्षपरिपाककुण्डली##- समाध्यादावनात्मविकल्पोल्लेखहानं सङ्कल्प्य क्रमेण सर्वविकल्पमपहाय सर्वान्तेऽखिलविकल्पाभावमुल्लिखंस्ततस्तदुल्लेखमपि त्यक्त्वा तत्संस्कारशेषमात्रस्तिष्ठति | तथा च पातञ्जलं सूत्रम् - विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (१|१८_ इति | द्वितीयस्तु सुषुम्णायां प्राणवायोरत्यन्तप्रवेशे तदादौ प्राणनिरोधजातायासस्य सुषुम्णाप्रवेशमात्रेण विनष्टत्वाद् भारापगम इव सुखी भवति | ततो मदमूर्च्छाग्रस्तमिव मनो मूर्च्छितप्रायं भवति | द्वयोरपि तत्काले सुषुप्ताविव सुखरूपतेति | श्रणादिभिर्विज्ञातनिर्विकल्पचिदात्मतत्त्वस्य ज्ञानयोगिनस्तु समाधेः पूर्वमप्यविद्यावरणनिर्मुक्तनिर्विकल्पात्मतत्त्वं प्रतिबिम्बक्रमचित्रितदर्पणदृश्यविकल्पविचित्रं सदा प्रस्फुरत्येव | ततः समाध्यादौ विकल्पांशमपहाय विकल्पांशापगमसाक्षी प्रस्फुरन्निर्विकल्पचिद्रूपः परिशिष्टस्तिष्ठतीति | न च हठयोग्यपि तदा तावतैव रूपेण तिष्ठतीति वाच्यम् तावदेव रूपं ज्ञानयोगिनः समाधौ परिहृताज्ञानवरणविक्षेपोभयभागं भवति | हठयोगिनस्तु तदा स्वरूपं परिहृताज्ञानविक्षेपांशमप्यज्ञानावरणांशावृतमेव भवेत् | ज्ञानिनस्त्व परोक्षज्ञानेनावरणांशस्य विनष्टत्वात् अनावृतं स्वरूपमिति भेदात् | ननु हठयोगिनां तर्हि सुषुप्तिसमाध्योः को भेद इति चेदुच्यते सुषुप्तौ मनसस्तमःपरिणामेन गाढघनच्छन्नाभ्रदर्शनैशान्धकारवद् गाढमौढ्ययुतम् समाधौ तु मनसः सत्त्वपरिणामेन प्रकाशमानमप्यात्मतत्त्वमभ्रच्छन्नसूर्यवदविद्यावृतं नालं भासते | ज्ञानिनस्तु मनसः सत्त्वपरिणामेनाविद्यावरणाभावेन च निरभ्रनिर्मलनभोमध्यगतद्युमणिरिवालं प्रद्योतमानं तदात्मतत्त्वमित्यादि प्रविदितात्मतत्त्वानामनुभवसरणिमवतीर्णमेवेति न किञ्चिदपूर्वमिति ध्येयम् || ११५ || प्. ३६६) व्यवहारपरा वित्तिरपि वेद्यविवर्जिता | विदितं नाभसं नैल्यं यथा भूयोऽवलोकने || ११६ || एवं ज्ञानिनामेव समाधेः समाधित्वमुपपाद्योत्तमज्ञानिनां व्यवहारकालेऽपि समाधिरव्याहत इत्याह - व्यवहारेति | समाधिर्नाम वेद्यसम्बन्धरहितवित्तिदशा | उत्तमज्ञानिनां व्यवहारेऽपि वेद्यसम्बन्धवर्जितैव वित्तिरित्यर्थः | एतदेवोपपादयति - विदितमिति || ११६ || असत्यत्वेन विज्ञातं न वित्तिस्तेन संयुता | अन्यथा नैव भेदः स्यात्तत्त्वातत्त्वविभासयोः || ११७ || विदितं दृश्यमानमपि नैल्यमसत्यत्वेन विज्ञातं सद् भूयोऽसत्यत्वेन ज्ञानानन्तरं पुनरवलोकने तेन नैल्येन वित्तिः पूर्ववन्न संयुतेत्यर्थः | ननु नैल्यवित्तेर्विषयसम्बन्ध आवश्यक एवेति चेदाह - अन्यथेति | विषयसम्बन्धाभ्युपगम इत्यर्थः | तत्त्वातत्त्वविभासयोरिति | आकाशे नैल्यं नास्तीति नैल्यबाधज्ञानवतो य आकाशस्य तत्त्वात्मको यथार्थो विभासः यश्च प्रोक्तबाधज्ञानविधुरस्याकाशविषयकोऽतत्त्वात्मकोऽयथार्थो विभासः तयोरुभयोर्नैल्यसम्बन्धाभ्युपगमे भेदो न स्यात् | न चेष्टापत्तिः कर्तुं शक्या अर्थक्रियाभेदस्य सर्वानुभवसिद्धत्वात् | नहि मरुजलतत्त्वज्ञस्तदत्त्वज्ञ इव तज्जलाहरणादौ प्रवर्तते | अतस्तत्त्वज्ञस्य ज्ञाने न मरूदकसम्बन्ध इति भावः | न च भाधज्ञानात् प्रवृत्तिः प्रतिबध्यत इति वाच्यम् कॢप्तकारणाभावादेवाप्रवृत्तिसिद्धेः प्रतिबन्धकत्वकल्पनाया अन्याययत्वात् || ११७ || प्. ३६७) तथाऽसत्यगृहीतस्य वेद्यस्य नहि वेदने | सम्बन्धः कुत्रचिद्वा स्याज्ज्ञानिनामत एव हि || ११८ || दृष्टान्तसिद्धार्थं दार्ष्टान्तिके योजयति - तथेति | असत्यत्वेन गृहीतस्य वेद्यस्य ज्ञानिनः कुत्रचिद्वेदने सम्बन्धो नहि स्यात् | अत एव ज्ञानिनां वेद्यहीना वित्तिर्भवेदिति सम्बन्धः || ११८ || वेद्यहीना भवेद्वित्तिर्बाधितस्य विभासनात् | अमनस्कस्य सुतरां यतः सा चोन्मनी दशा || ११९ || वेद्यहीनेति | वेद्यसम्बन्धरहितेत्यर्थः | अत्र हेतुः - बाधितस्य विभासनादिति | अयं भावः - अबाधितजलादेर्यथाऽज्ञस्य मर्वादिसम्बन्ध(द्ध)त्वेन भासनम् नैवं ज्ञस्य वित्तिसम्बद्धधर्मिसम्बद्धत्वेन भानमिति | अमनस्कस्य मध्यमज्ञानिनस्तु सुतरां वित्तौ वेद्यसम्बन्धाभावः | अत्र हेतुः - यत इति | तस्य सा स्थितिरुन्मनी दशेत्ययुच्यते || ११९ || मनो वै निश्चलं यत्र तदुक्तं चोन्मनी दशा | मनसश्चलनं तत् स्यात् सत्यवेद्यस्य सङ्गतिः || १२० || एतदेव विशदयति - मन इति | यत्र यस्यां दशायाम् | मनसो विषयव्यापृतौ वित्तौ वेद्यसम्बन्धो भवेत् | मध्यज्ञानिनो मनोव्यापाराभावान्न वेद्यसम्बन्ध इति भावः | ननु तर्हि मनश्चलनमुत्तमज्ञानिनोऽस्तीति वेद्यसम्बन्धः इति भावः | ननु तर्हि मनश्चलन्मुत्तमज्ञानिनोऽस्तीति वेद्यसम्बन्धः स्यादिति चेदाह - मनस इति | सत्यत्वेन ज्ञातवेद्यव्यापृतिरेव प्रकृते मनश्चलनं विवक्षितमिति भावः || १२० || उत्तमज्ञानिनश्चैते दशे युगपदास्थिते | स सर्वदा व्युत्थतश्च समाधिस्थश्च भार्गव || १२१ || एते दशे मनसोऽत्यन्तनिश्चलता असत्यवेद्यसङ्गतिरूपाभासचलता च | युगपदेककाल एव | उत्तमज्ञानिनां बहुमानसत्वाद् मनसोऽनेकाकारता युगपत् सम्भवेदिति भावः | अत एवाह - सर्वदेति || १२१ || प्. ३६८) तस्मात्तस्यापि वेद्येन रहिता वित्तिरास्थिता | एवमेतद्धि संप्रोक्तं पृष्टं यद्यत् पुरा त्वया || १२२ || तस्माद् मनसो द्विविधत्वात् | तस्यापि उत्तमज्ञानिनोऽपि | उपसंहरति - एवमिति || १२२ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे ज्ञानिस्थितिविभेदकथनम् एकोनविंशोऽध्यायः || इति त्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायाम् एकोनविंशतितमोऽध्यायः || प्. ३६९) अथ विंशोऽध्यायः अत्र ते वर्तयिष्यामि पुरा वृत्तं शृणुष्व तत् | पुरा ब्रह्मसभामध्ये सत्यलोकेऽतिपावने || १ || श्रीगुरुचरणद्वन्द्वं नत्वा स्मृत्वा परां चितिं त्रिपुराम् | सर्वान्तरात्मरूपां विद्यागीतां स्फुटां च विवृणोमि || संशुद्ध्यै स्वस्य धियस्तद्दासत्वस्य संसिध्यै | तत्परजनसन्तुष्ट्यै सिद्धः स्याद्यत्न एष तत्कृपया || अत्र जालकपद्यैस्तु सर्वार्थस्यापि संग्रहः | बोधसौकर्यसंसिद्ध्यै विद्यागीतात्मनोच्यते || निखिलप्रकरणार्थं संग्रहेण विवक्षुर्विश्वासप्रकर्षसिद्धयेऽधिकारिणां सुखबोधाय च ससाधनं विज्ञानं ज्ञानिस्थितिनिरूपणापदेशेन साक्षाद्विद्याशक्तिप्रतिपादितां विद्यागीतामुपदेष्टुं दत्तगुरुरुपक्रमते - अत्रेति | ज्ञानिनां स्थितिर्या पृष्टा तत्रेत्यर्थः | पुरा पूर्वकाले | वृत्तमतीतम् || १ || ज्ञानप्रसङ्गः समभूत् सूक्ष्मात्सूक्ष्मविमर्शनः [क्: नम्] | सनकाद्या वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः || २ || सूक्ष्मेति | अतिसूक्ष्मविचाररूपः | सनकाद्याः समुदिता इत्यन्वयः || २ || भृगुरत्रिरङ्गिराश्च प्रचेता नारदस्तथा | च्यवनो वामदेवश्च विश्वामित्रोऽथ गौतमः || ३ || शुक्रः [ख्: शुकः] पराशरो व्यासः कण्वः काश्यप एव च | दक्षः सुमन्तुः शङ्खश्च लिखितो देवलोऽपि च || ४ || एवमन्ये ऋषिगणा राजर्षिप्रवरा अपि | सर्वे समुदितास्तत्र ब्रह्मसत्रे महत्तरे || ५ || ब्रह्मसत्रे ज्ञानयज्ञप्रसङ्गे || ५ || प्. ३७०) मीमांसां चक्रुरत्युच्चैः सूक्ष्मात्सूक्ष्मनिरूपणैः | ब्रह्माणं तत्र पप्रच्छुर्-ऋषयः सर्व एव ते || ६ || भगवन् ज्ञानिनो लोके वयं ज्ञातपरावराः | तेषां नो विविधा भाति स्थितिः प्रकृतिभेदतः || ७ || प्रकृतिभेदतः प्राकृतसंस्कारभेदात् || ७ || केचित् सदा समाधिस्थाः केचिन्मीमांसने रताः | अपरे भक्तिनिर्मग्नाश्चान्ये कर्मसमाश्रयाः || ८ || तदेवाह - केचिदिति || ८ || व्यवहारपरास्त्वेके बहिर्मुखनरा इव | तेषु श्रेयान् हि कतम एतन्नो वक्तुमर्हसि || ९ || तेषु समाधिस्थादिषु | श्रेयान् श्रेष्ठः || ९ || स्वस्वपक्षं वयं विद्मः श्रेयांसमिति वै विधे | इति पृष्टोऽवदद् ब्रह्मा मत्वाऽनाश्वस्तमानसान् || १० || ननु यूयं सर्वे विद्यापारङ्गता [क्, ख्: सर्वे तद्विद्या] एतद् [क्, ख्: एव] विज्ञातुं स्वतः समर्था एवेति चेदाह - स्वस्वपक्षमिति | स्वीयं स्वीयं पक्षमेवागमयुक्तिघटितत्वेन श्रेयांसं विद्म इति हेतोर्वक्तुमर्हसीति योजना | नाहमप्येतद्वेद्मीत्यन्वयः | कुत एवं सर्वज्ञो विधिरवदत् ? इति चेदाह - अनाश्वस्तमानसानिति | अश्रद्धाहतचित्तान् | मयात्र समाधानमुक्तामपि स्वपक्षोऽनेनापि प्रोक्त इति न ग्रहीष्यन्तीति मत्त्वेति भावः || १० || मुनीन्द्रा नाहमप्येतद्वेद्मि सर्वात्मना ततः | जानीयादिममर्थं तु सर्वज्ञः परमेश्वरः || ११ || सर्वात्मना सर्वांशेन असन्दिग्धतयेति यावत् | ततः तस्माद्धेतोः | तत्र याम इत्यन्वयः | तस्य परमेश्वरस्य न क्वचिदज्ञानमिति ज्ञापयितुम् - सर्वज्ञ इति || ११ || प्. ३७१) तत्र यामोऽथ [क्: यामोऽर्थ] संप्रष्टुमित्युक्त्वा तत्र तैर्ययौ | सङ्गम्य देवदेवेशं विष्णुनाभिसमागतम् [क्: विष्णु ना] || १२ || तत्र सर्वज्ञसमीपे कैलासे | इत्युक्त्वा अथ तदनन्तरमेव तत्काले तैः सनकाद्यैः सह ययौ | अर्थाद्विष्णुना समागतं सहितं देवदेवेशं महादेवं सङ्गम्य प्राप्य || १२ || पप्रच्छ ऋषिमुख्यानां प्रश्नं तं लोकसृड् विधिः | प्रश्नं निशम्य च शिवो ज्ञात्वा विधिमनोगतम् || १३ || तं प्रश्नं ज्ञानिषु भिन्नस्थितिषु कः श्रेष्ठ इति ऋषिभिः कृतम् | विधिमनोगतम् अनाश्वस्ता [क्: श्वासा] एते मद्वचो न ग्रहीष्यन्तीति || १३ || मत्वाऽनाश्वस्तमनस ऋषीन् देवो व्यचिन्तयत् | किञ्चिदुक्तं मयाऽत्रापि व्यर्थमेव भवेन्ननु [क्, ग्: न तु] || १४ || मत्वेति | योगदृशाऽनाश्वस्तमनस ऋषीन् ज्ञात्वेत्यर्थः | चिन्तनप्रकारमेवाह - किञ्चिदिति | मयापीत्यन्वयः | अत्र प्रकृतप्रश्नविषये | नन्विति सम्भावनाद्योतकः || १४ || स्वपक्षत्वेन जानीयुर्-ऋषयोऽश्रद्धया युताः | इति मत्वा प्रत्युवाच देवदेवो महेश्वरः || १५ || कुतस्त्वदुक्तं [क्, ख्: कुतस्त्वेत] व्यर्थं भवेदिति चेदाह - स्वपक्षत्वेनेति | महादेवस्य पक्षोऽयमिति जानीयुः | कुत एवमिति चेदश्रद्धाहतत्वादित्याह - अश्रद्धया युता इति | मदुक्तं व्यर्थं भवेदिति मत्वा || १५ || शृणुध्वं मुनयो नाहमप्येतद्वेद्मि सुस्फुटम् | अतो विद्यां भगवतीं ध्यायामः परमेश्वरीम् || १६ || एतावता ग्रन्थेन सनकादिभिरप्यविदितत्वात् प्रकरणप्रतिपाद्यार्थस्यात्युत्तमत्वम् ब्रह्माद्युक्तेरपि वैयर्थ्यकथनादश्रद्धाया ज्ञानं प्रति प्रबलप्रतिबन्धकत्वम् ऋषिभिर्ब्रह्मादिष्वप्यज्ञानस्य सम्भावितत्वादज्ञानस्य दुर्निरसनत्वम् सगुणमूर्तीनां परिच्छिन्नत्वं च सूचितम् | अथ प्रकरणप्रतिपाद्यपरदेवतायाः शुद्धचिच्छक्तेः सर्वोत्तमत्वावगमनाय तद्ध्यानेनाश्रद्धानाशपूर्वकसर्वसंशयनिवृत्तिमृषीणां वक्तुं महादेववाक्यमुदाहरति - शृणुध्वमिति | एतद् भवत्प्र्ष्टम् | अतः प्रकृतार्थे संशयनिवृत्त्यभावात् | विद्याशक्तेरविद्याविरोधित्वान्न तदुक्तावश्रद्धा स्यादिति तात्पर्यम् | परमेश्वरीमिति तस्या वागाद्यभावेऽपि पूर्णस्वातन्त्र्ययुक्तत्वेनास्मत्संशयच्छेदने समर्थैवेति भावः || १६ || प्. ३७२) तत्प्रसादान्निगूढार्थमपि विद्मस्ततः परम् | इत्युक्ता मुनयः सर्वे विधिविष्णुशिवैः सह || १७ || निदूढार्थं रहस्यार्थम् | ततः परः ध्यानेन प्रसादनानन्तरम् | इति शिवेनोक्ताः || १७ || दध्युर्विद्यां महेशानिं त्रिपुरां चिच्छरीणीम् | एवं सर्वैरभिध्याता त्रिपुरा चिच्छरीरिणी || १८ || महेशानीम् अभीष्टदाने स्वतन्त्राम् त्रिपुरां जाग्रत्स्वप्नसुषुप्त्यादित्रिकेभ्यः पुरां तुर्याम् अपरिच्छिन्नामिति तात्पर्यम् | चिच्छरीरिणीमिति | अविद्यातत्कार्यलेशरहितत्वेनानावृतचिद्रूपत्वेन सर्वज्ञत्वात् प्रश्नार्थनिरूपणे समर्थत्वं द्योतितम् | एवं प्रोक्तरीत्या स्वाभिलषितदानयोग्यरूपेण [क्, ख्: ज्ञान] अन्यथा फलप्राप्त्यनुपपत्तेः | तदुक्तम् - यथा यथा ध्यायति तं तथैव चिन्तामणिस्त्वं समुपैषि देव इति || १८ || आविरासीच्चिदाकाशमयी शब्दमयी परा | अभवद् मेघगम्भीरनिःस्वनो गगनाङ्गणे || १९ || चिदाकाशमयी अपरिच्छिन्नचिदेकरूपा अत एव दृश्यदोषलेशवर्जनात् परा उत्तमा | एवंविधायाः कथमाविर्भावसम्भव इति चेदाह - शब्दमयीति | शब्दरूपेणेन्द्रियगोचरतां ब्रह्मादीन् प्रति स्वस्यावभासयदिति तात्पर्यम् | तत्परकारमेवाह - अभवदिति | मेघानामिव गम्भीरो महान् निःस्वनः शब्दः | गगनाङ्गणे आकाशप्रदेशे || १९ || प्. ३७३) वदन्त्वृषिगणाः किं वो ध्याता तद् द्रुतमीहितम् | मत्पराणां हि केषाञ्चिन्न हीयेताभिवाञ्छितम् || २० || निःस्वनस्वरूपमेवाह [क्: स्वरूप नास्ति] वदन्त्विति | ब्रह्मादीन् विहाय ऋषिगणा इति सम्बोधनं प्रश्नरूपध्याननिमित्तस्य ऋषिगणनिष्ठत्वेन | किं किमर्थम् | वः युष्माभिः | तदीहितमीप्सितम् वदन्त्विति सम्बन्धः | द्रुतमिति | मयि प्रसन्नायां फलप्राप्तौ न कालविलम्बो भवेदिति तात्पर्यम् | तदेवाह ##- येषां तेषाम् मद्भक्तानामित्यर्थः | न हीयेत कालाद्यन्तरितं न भवेत् || २० || इति श्रुत्वा परां वाणीं प्रणेमुर्मुनिपुङ्गवाः | ब्रह्मादयोऽपि तदनु तुष्टुवुर्विविधैः स्तवैः || २१ || वाग्रूपेणाभिव्यक्तां श्रुत्वा श्रवणेन्द्रियद्वारा हृदयङ्गमीकृत्य प्रणेमुः दण्डवन्नताः ब्रह्मादयोऽपि प्रणेमुः दण्डवन्नता तदनु प्रणामानन्तरम् || २१ || अथ प्रोचुर्-ऋषिगणा विद्यां तां त्रिपुरेश्वरीम् | नमस्तुभ्यं महेशानि श्रीविद्ये त्रिपुरेश्वरि || २२ || अथ ब्रह्मादिस्तुत्यनन्तरं विद्यां तुष्टुवुरिति सम्बन्धः | श्रीमती दीप्तिमती अनवच्छिन्नप्रकाशरूपा विद्या चिद्रूपा अत एव त्रिपुरा तुर्या शुद्धचिदद्वयरूपा तथास्वरूपाप्यनन्तस्वातन्त्र्यशक्तिमत्त्वादीश्वरी || २२ || अशेषोत्पादयित्री त्वं स्थापयित्री निजात्मनि | विलापयित्री सर्वस्य परमेश्वरि ते नमः || २३ || समस्तजगत्सृष्ट्यादिस्वातन्त्र्यमपि तवैव अतश्च त्वमेव परमेश्वरीत्याह - अशेषेति | निजात्मनि दर्पणसदृशे स्वस्वरूपे स्थापयित्री प्रतिबिम्बसदृशजगद्धारयित्रीत्यर्थः | स्वात्मनीति योग्यतयोत्पादयित्रीत्यादावपि योजनीयम् || २३ || अनूतना सर्वदाऽसि यतो नास्ति जनिस्तव | नवात्मिका सदा त्वं वै यतो नास्ति जरा तव || २४ || उत्पत्तिनाशवदशेषजगदाश्रयभूताया अपि तव नोत्पत्तिनाशावित्याह - अनूतनेति | नूतनमुत्पत्तिमत् | यतो नास्ति जरेति | स्थितरूपनिवृत्त्या रूपान्तरप्राप्तिरूपविपरिणामावस्था नास्तीति भावः | एतच्चाशेषविकाराभावोपलक्षकं ज्ञेयम् || २४ || प्. ३७४) सर्वाऽसि सर्वसाराऽसि सर्वज्ञा सर्वहर्षिणी | असर्वाऽसर्वगाऽसाराऽसर्वज्ञाऽसर्वहर्षिणी || २५ || तदैश्वर्यं वर्णयति - सराऽसीति | दर्पणस्य प्रतिबिम्बात्मत्ववत् स्वान्तरवभासितजगतस्त्वत्स्वरूपत्वात् त्वमेव सर्वाऽसि | ननु कथमविकृताद्वितीयरूपाया अपरिमितसर्वविकाररूपतेति चेदाह - सर्वसाराऽसीति | सारं दृढमनश्वरं रूपम् | तथा च घटादिषु मृदिव सर्वत्राव्यभिचरितसारात्मकसद्रूपेणानुवृत्तत्वात् [क्: भिचारवृत्तिसारा] सर्वसारात्मत्वम् | ननु किं प्रधानात्मक[क्: त्मकाजशक्ति]जडशक्तिरूपेणानुवृत्तत्वमिति [क्: नुक्तत्व] चेन्नेत्याह - सर्वज्ञेति | सर्वत्र ज्ञानात्मकचित्प्रकाशरूपेणानुवृत्तेत्यर्थः | ननु चित्प्रकाशोऽपि स्वातन्त्र्यवर्जित उदासीनो निमित्तभूतः कृतेः [ग्: प्रकृतः] स्वातन्त्र्ये जडतुल्ययोगक्षेमः सांख्यानामिव भवेदिति चेन्नेत्याह - सर्वहर्षिणीति | तस्य स्वातन्त्र्यमेवानन्दः | आनन्दो विश्वाहन्तापरिणामः (यो० हृ० दी० १| १३) इत्याद्युक्तनीत्या सर्वत्र स्वातन्त्र्यात् सर्वहर्षवती अपरिच्छिन्नानन्दरूपेत्यर्थः | लोकेऽपीह [ग्: लोकेऽपि हि] यस्य यावत् स्वातन्त्र्यं तावांस्तस्यानन्द इति स्पष्टमेव | यस्य यावत् पारतन्त्र्यं तावत्तस्यानन्दाच्छादनम् यावत्पारतन्त्र्यनिवृत्तिस्तावदानन्दाभिव्यक्तिरिति तात्पर्यम् | प्रोक्तविशेषणेषु सर्वपदार्थस्याभासनमात्रसारत्वेनाव्यतिरिक्तत्वाद्वस्तुतः सर्वात्मत्वादिकं नास्तीत्याह - असर्वेत्यादि | सर्वगतत्वे सारता स्यात् सर्वगतत्वाभावात् सारत्वाभाव इत्याह - असर्वगाऽसारेति || २५ || प्. ३७५) देवि भूयो नमस्तुभ्यं पुरस्तात् पृष्ठतोऽपि च | अधस्तादूर्ध्वतः पार्श्वे सर्वतस्ते नमो नमः || २६ || एवं स्तुत्वा नमस्कारस्य सम्मुखे कर्तव्यत्वेन परदेवताया अशरीरिण्याः साम्मुख्यदौर्लभ्यात् स्वपुरःपृष्ठाद्यखिलदिक्कालव्यापकत्वेन च सर्वतो नमस्कुर्वन्ति ऋषयः - देवीति | भूयः अपरिमितकृत्वः || २६ || ब्रूहि यत्तेऽपरं रूपमैश्वर्यं ज्ञानमेव च | फलं तत्साधनं [क्: तस्माद्धनं] मुख्यं साधकं सिद्धमेव च || २७ || एवं देवतां स्तुतिपूर्वकं नमस्कृत्य जिज्ञासितार्थं पृच्छन्ति - ब्रूहीति | यद्यपि ज्ञानिषूत्तमजिज्ञासयैव प्रवृत्तास्तथाप्यलभ्यपरदेवतासमागमपरितुष्टा ज्ञातस्याप्यर्थस्य दार्ढ्यसम्पत्तये दशधा मुनयः प्रश्नं चक्रुरिति | परमित्यत्राकारप्रश्लेषाप्रश्लेषाभ्यां परं रूपमपरं रूपमिति प्रश्नद्वयम् उत्तरानुरोधात् | ते ऐश्वर्यं ते ज्ञानं ज्ञानस्य मुख्यं फलं साधनं साधकं च ज्ञाने [क्: ज्ञानं] सिद्धम् || २७ || सिद्धेस्तु परमां काष्ठां सिद्धेषूत्तममेवच | देव्येतत् क्रमतो ब्रूहि भूयस्तुभ्यं नमो नमः || २८ || सिद्धेरिति जात्येकवचनम् | निर्धारणे षष्ठी | सिद्धीनां मध्य इत्यर्थः | परमां मुख्यां काष्ठां पर्यवसानभूमिम् यत्प्राप्त्यनन्तरं नास्ति प्राप्तव्यसिद्ध्यन्तरमिति तात्पर्यम् | ज्ञानसिद्धेषु [क्: ज्ञाना] || २८ || इत्यापृष्ता महाविद्या प्रवक्तुमुपचक्रमे | दयमाना ऋषिगणे स्पष्टार्थं परमं वचः || २९ || आसमन्तात् सर्वैर्मुनिभिः पृष्टा | भूयः प्रणामेन भक्त्या च परितुष्टा प्रकर्षेण सर्वसंशयच्छेदनार्हयुक्तियोगेन वक्तुम् | नन्वाप्तकामायास्तस्याः प्रतिवचने किं निमित्तमिति चेदाह - दयमानेति | स्पष्टार्थम् असन्दिग्धम् | परममतिसुन्दरं श्रवणानन्दनम् || २९ || प्. ३७६) शृणुध्वमृषयः सर्वं [क्: सर्वे] प्रवक्ष्यामि क्रमेण तत् | अमृतं ह्यागमाम्भोधेः समुद्धृत्य ददामि वः || ३० || श्रोतॄनभिमुखयति - शृणुध्वमिति | तद् भवत्पृष्टम् | आगमाम्भोधेः शास्त्रसमुद्रादमृतमिव सारांशं वो युष्मभ्यं ददामि || ३० || यत्र सर्वं जगदिदं दर्पणप्रतिबिम्बवत् | उत्पन्नं च स्थितं लीनं सर्वेषां भासते सदा || ३१ || एवमभिमुखीकृत्याद्यं प्रश्नविषयं परं रूपमुपपादयति - यत्रेति | परा प्रतिभा मम परं रूपमीरितमिति षष्ठश्लोकेनान्वयः | इह घटपटादिविचित्रदृश्याकारा प्रतिभा ज्ञानशब्दवाच्या स्वप्रकाशाऽनपह्नवनीयास्ति | तस्या अपह्नवे न प्रश्नो नापि चोत्तरं घटते प्रश्नप्रतिवचनादेः प्रतिभायत्तत्वात् | नहि तस्यास्तत्तद्दृश्याकारक्षणिकप्रतिभामात्रपरिनिष्ठितं रूपम् स्मृत्यनुसन्धानाद्यनुपपत्तेः | अतस्तद्रूपं तत्तत्प्रतिबिम्बपरिच्छिन्नदर्पणांशराश्यनुस्यूतमहाप्रतिभैव | एवैष परा प्रतिभा सामान्यज्ञानरूपा देशकालाद्यपरिच्छिन्ना मम परं सर्वमौलं रूपमिति तात्पर्यम् | तदेव यत्रेत्यादिपञ्चभिः श्लोकैश्चित्तारोहाय विशिष्यते | यत्र यस्यां परप्रतिभायाम् इदं सर्वं प्रत्यक्षसिद्धं जगत् उत्पन्नं नूतनाभासविषयं स्थितमाभासधाराविषयम् लीनम् आभासाविषयम् सदा सर्वेषां प्रमातॄणां क्रमाद्भासते | ननु भूतले घटादिरिव पृथक् सन् भासत इति चेन्नेत्याह - दर्पणप्रतिबिम्बवदिति | दर्पणे प्रतिबिम्बस्योत्पत्तिस्थितिलयावभासवत् परप्रतिभायामव्यतिरेकेणैव जगत उत्पत्त्यादिभासनमिति || ३१ || यदेव जगदाकारं भासतेऽविदितात्मनाम् | यद्योगिनां निर्विकल्पं विभात्यात्मनि केवलम् || ३२ || ननु दर्पणे बिम्बनिमित्तकं प्रतिबिम्बभासनम् परप्रतिभायां कुतो जगदवभासनमिति चेत् स्वस्वातन्त्र्याख्यमायाशक्तिनिमित्तकमित्याह - यदेवेति | यदेव परप्रतिभाख्यतत्त्वमेव अविदितात्मनां मायाशक्त्यवस्थान्तरात्मकाविद्यावृतमनसां कामलादोषावृतनयनानां शङ्खे पीतिमेव [क्: पीतमिव; ख्: पीतमेव] जगदाकारं भासते | यदेव तत्तत्वं योगिनां विद्याविनष्टाविद्यानां निर्विकल्पं दृश्यद्वैताकारवर्जितं भाति | ननु तथापि तदस्य भातीति भास्यभासकद्वैतानपगम इति चेदाह - आत्मनि केवलमिति | स्वात्मनि चिद्रूपे देहादिदृश्याभासलेशविकले केवलमहमिति द्रष्टृमात्ररूपेण भासत इत्यर्थः || ३२ || प्. ३७७) गम्भीरस्तिमिताम्भोधिरिव निश्चलभासनम् | यत् सुभक्तैरतिशयप्रीत्या कैतववर्जनात् || ३३ || ननु तथापि तन्न [क्, ख्: तन्निर्वि] निर्विकल्पं भवितुमर्हति तदा क्षणिककेवलज्ञानधाराया एव भासमानत्वात्तत्र च क्षणिककेवलज्ञानानां परस्परं भिन्नत्वादित्याशङ्क्याह - गम्भीरेति | योगिनामात्मतत्त्वं गम्भीरस्तिमिताम्भोधिवद् निश्चलभासनं भवति | गम्भीरमिति देशापरिच्छेदः स्तिमितमिति कालापरिच्छेद उक्तो ज्ञेयः | अनन्ताद्वयरूपेणैव तद्भासनमिति [क्, ख्: भान] तात्पर्यम् | एवं तदेव तत्त्वं भक्तश्रेष्ठैरपि सेव्यत इत्याह - यत् सुभक्तैरिति | सेव्यत इति सम्बन्धः | सुष्ठु द्वैतमालिन्यवर्जनेन भजन्तीति सुभक्ताः परात्मतत्त्वविदः | अतिशयप्रीत्येति | प्रीतिरनुरक्तिः चित्तवृत्तिविशेषः तस्या अतिशयत्वमनवधित्वम् | सेयं प्रीतिर्द्वैतिनां न घटते | आत्मनस्तु कामाय सर्वं प्रियं भवति (बृ० उ० २|४|५) इत्युक्त्या तेषां परात्मप्रीतेरात्मार्थत्वेनात्मप्रीतेर्व्यावृत्तत्वेन न्यूनत्वेन चानवधित्वाभावात् | अद्वैतिनां परात्मनः स्वात्माभेदेन तत्प्रीतेरितरार्थत्वाभावान्नोक्तदोष इति ध्येयम् | कैतववर्जनादिति | कैतवं शाठ्यम् [ख्, ग्: कापट्यम्] | यथा हि वारयोषा विटेषु प्रीतिं कुर्वन्ति तत्कैतवम् | अर्थगता हि तासां मुख्या प्रीतिः | यतोऽमुख्यामपि विटगतां मुख्यामिव कृत्वा प्रदर्शयन्ति अतः सा प्रीतिः कैतवाद्भवति द्वैतिनामीदृश्येव भक्तिरिति सुधीभिर्विमर्शनीयम् || ३३ || प्. ३७८) स्वभावस्य स्वरसतो ज्ञात्वापि स्वाद्वयं पदम् | विभेदभावमाहृत्य [क्: मारुह्य] सेव्यतेऽत्यन्ततत्परैः || ३४ || अद्वैतिनां स्वात्मभूतपरात्मसेवनं कथं सम्भवेत् सेव्यसेवकयोर्भेदविमर्शमन्तरेति चेदाह - विभेदभावमाहृत्येति | विभेदस्य [क्, ख्: विवेकभेदस्य] भावः सत्ता | तमाहृत्य बलाज्ज्ञात्वा | आहार्यभेदज्ञानेनेत्येतत् | एतदेवाह - ज्ञात्वापीति | स्वस्मादद्वयमद्वितीयं पदं प्राप्यं परात्मतत्त्वं ज्ञात्वापि | एवं ज्ञानवतः कुतो विभेदभावाहरणमिति चेदाह - स्वभावस्य स्वरसत इति | स्वभावस्य चित्तस्य स्वरसतः स्वाभाव्यात् | यथा हि केषाञ्चिज्ज्ञानिनां पूर्वसंस्कारवशाद्राज्यादिक्रिया एवं वासनावैचित्र्यादेतदपीति भावः | नन्वेवंविधानां सेवनमनादरपूर्वकं स्यादिति चेदाह - तपरैति | तत्परत्वयुतैरित्यर्थः || ३४ || अक्षान्तःकरणादीनां प्राणसूत्रं यदान्तरम् | यदभाने न किञ्चित् स्याद्यच्छास्त्रैरभिलक्षितम् || ३५ || अक्षेति | अक्षाणीन्द्रियाणि अन्तःकरणं मनः आदिना बुद्ध्यादेर्देहस्य च [क्: च नास्ति] ग्रहणम् एतेषाम् | आन्तरं प्रतिबिम्बानां दर्पण इव यत् स्वभावभूतम् | यद्वा एतेषां यदान्तरं प्राणसूत्रम् | यथा हि सूत्रपाञ्चालिका स्वान्तरस्थेन प्राणतुल्येन सर्वचेष्टानिदानसूत्रेणैव तत्तच्चेष्टां करोति एवमक्षादीनां स्वस्वचेष्टानिदानभूतान्तरप्राणसूत्रम् | अथ च यस्याभानेऽप्रकाशने किञ्चिदपि न स्यान्न सत्तां प्राप्नुयात् | एवंविधे परतत्त्वे किं प्रमाणमिति चेल्लक्षणावृत्त्या शास्त्रमेवेत्याह - यच्छास्त्रिरिति | एवं प्रोक्तरूपा पराऽनवच्छिन्न प्रतिभैव देव्या जगत्क्रीडापराया मम परं वास्तवं रूपमिति योजयेत् || ३५ || प्. ३७९) परा सा प्रतिभा देव्याः परं रूपं ममेरितम् | ब्रह्माण्डानामनेकानां बहिरूर्ध्वे सुधाम्बुधौ || ३६ || एवं परं रूपं प्रतिपाद्याऽपरं रूपमुपपादयितुमादौ त्रिपुरासगुणमूर्ति [क्, ख्: पुरा] प्रकृते प्रस्तुतां निरूपयति - ब्रह्माण्डानामिति | ब्रह्माण्डानामित्यादिकथनमनवधिकैश्वर्यनिरूपणद्वारा सगुणमूर्तिभ्य उत्कृष्टत्वेन प्रशंसितुम् | सुधाम्बुधौ अमृतजलार्णवे || ३६ || मणिद्वीपे नीपवने चिन्तामणिसुमन्दिरे | पञ्चब्रह्ममये मञ्चे रूपं त्रैपुरसुन्दरम् || ३७ || मणिद्वीपे नवरत्नमणिस.कॢप्तनवखण्डात्मकद्वीपे | नीपाः कदम्बवृक्षविशेषाः तेषां [क्: तेषां नास्ति] वने विपिने | चिन्तामणिः भक्तानां चिन्तितफलप्रदो मणिविशेषः अमृतमथनसमये महता प्रयत्नेन दैवैरेक आसादितः | तादृशमणिगणविरचिते सुन्दरे मन्दिरे | पञ्चब्रह्ममये ब्रह्मविष्णुरुद्रेश्वरात्मचतुष्पादे सदाशिवामफलके मञ्चे त्रैपुरसुन्दरं त्रिषु पुरेषु धामसु जाग्रदादिषु सर्वस्पृहणीयत्वेनातिसुन्दरम् अनुगतं यत्परं रूपं परचिदात्मतत्त्वम् तत्सम्बन्धि भक्तानुग्रहाय स्वस्वातन्त्र्यमात्रनिमित्तावभासितं रूपम् || ३७ || अनादिमिथुनं यत्तदपराख्यमृषीश्वराः [ख्: ह्येतद] | तथा सदाशिवेशानौ विधिविष्णुत्रिलोचनाः || ३८ || अनादिमिथुनं प्राङ्माहात्म्यखण्डे प्रतिपादितम् उत्पत्तिवर्जितं कामेश्वरकामेश्वरीरूपम् | यद्यपि ब्रह्माद्यनुग्रहेणाविर्भावरूपोत्पत्तिस्तत्राभिहिता तथापि न आदिः कारणं यस्येति विग्रहेण कारणात् स्वस्वातन्त्र्यभिनादुत्पत्तिवर्जनं ज्ञेयम् | एवंविधं यत्तदेव मेऽपरं रूपम् | एवं [क्, ख्: एवं नास्ति] प्रधानमपरं रूपमभिधाय यद्यद्विभूतिमत्सत्त्वम् (भ० गी० १०| ४१) इति भगवदुक्तन्यायेनाप्रधानरूपाण्यप्याह - तथेति | सदाशिवाद्याः पञ्च अनुग्रहतिरोधानसृष्टिस्थितिलयात्मकपञ्चकृत्याधिकारिणः || ३८ || प्. ३८०) गणेशस्कन्ददिक्पालाः शक्तयो गणदेवताः | यातुधानाः सुरा नागा यक्षकिम्पुरुषादयः || ३९ || गणेशो विनायकः | स्कन्दः षण्मुखः | दिक्पाला इन्द्रादयः | शक्तयः प्रागुक्ताः कुमारीलक्ष्मीप्रमुखा अन्याश्च | गणदेवताः वसुरुद्रादयो गणरूपाः | यातुधानादिकिंपुरुषान्ताः पूज्या इत्यन्वयः || ३९ || पूज्याः सर्वा मम तनूरपराः परिकीर्तिताः | मम मायाविमूढास्तु मां न जानन्ति सर्वतः || ४० || यातुधानासुरादिषु या याः पूज्या मूर्तयः ताः सर्वा ममापराः तनूः तन्वः | एवं सर्वत्र तत्तद्रूपेण स्थितां मायाविमूढा मां न जानन्तीत्याह - ममेति | ताः सर्वा मूर्तयो मत्सम्बन्धिन्य एवेति न जानन्तीति भावः || ४० || पूजिताऽहमेव [क्: पूजिता ह्येव सर्वैस्तैर्द] सर्वैर्ददामि फलमीहितम् | न मत्तोऽन्या काचिदस्ति पूज्या वा फलदायिनी || ४१ || कुतस्ता मूर्तयस्त्वत्सम्बन्धिन्य इति चेत्तत्र तत्र पूज्या फलप्रदा चाहमेवेत्याह - पूजितेति | ईहितं इच्छितम् | कुत एतदिति चेत् पूजानुरूपफलदातृत्वस्य संविदतिरिक्ते दुर्घटत्वमित्याह - न मत्त इति || ४१ || यथा यो मां भावयति फलं मत् प्राप्नुयात्तथा | ममैश्वर्यमृषिगणा अपरिच्छिन्नमीरितम् || ४२ || यथा यत्फलदातृत्वेन तत्फलं [क्, ख्: तत्फलं नास्ति] मत् मत्तः तथारूपायाः | तृतीयं प्रश्नमुत्तरयति - ममेति | अपरिच्छिन्नम् अनन्तम् || ४२ || प्. ३८१) अनपेक्ष्यैव यत्किञ्चिद् अहमद्वयचिन्मयी | स्फुराम्यनन्तजगदाकारेण ऋषिपुङ्गवाः || ४३ || तत्र मुख्यमैश्वर्यमाह - अनपेक्ष्यैवेति | स्वरूपाद्भिन्नं यत्किञ्चित्कारणमनपेक्ष्यैव जगदाकारेण स्फुरामीत्यर्थः | ननु स्वरूपातिरिक्तकारणाभावेऽपि स्वांशभेदापेक्षया जगदाकारता स्यादिति चेन्नेति बोधयितुम् - अद्वयचिन्मयीति | अखण्डचिन्मात्रत्वेन ममांशाभावादिति तात्पर्यम् || ४३ || तथा स्फुरन्त्यपि सदा नात्येम्यद्वैतचिद्वपुः | एतन्मे मुख्यमैश्वर्यं दुर्घटार्थविभावनम् || ४४ || ननु पूर्वं तवाद्वयचिन्मात्रत्वेऽपि जगदाकारतापत्त्यनन्तरं विचित्रानेकरूपता स्यादिति चेदाह - तथेति | विचित्रजगदाकारेण सदा स्फुरन्त्यप्यहमद्वैतचिदात्मकं वपुः स्वरूपं नात्येमि न परित्यजामि | विचित्रजगदाकारस्य र्पतिबिम्बतुल्यत्वान्न मे स्वरूपप्रतिहतिरिति भावः | एतद् अनपगताद्वैतचिन्मात्ररूपाया अपि विचित्रजगदात्मना स्फुरणम् | दुर्घटार्थस्य विभावनं सम्पादनम् || ४४ || ममैश्वर्यं तु र्षयः पश्यध्वं सूक्ष्मया दृशा | सर्वाश्रया सर्वगता चाप्यहं केवला स्थिता [क्: चितिः] || ४५ || सर्वेषां दृश्यानामाश्रया सर्वेषु गताऽनुस्यूता चापि केवलाद्वैतचिन्मात्रात्मनाहं स्थिता एवंविधं ममैश्वर्यं पश्यध्वम् || ४५ || स्वमायया स्वमज्ञात्वा संसरन्ती चिरादहम् | भूयो विदित्वा स्वात्मानं गुरोः शिष्यपदं गता || ४६ || अपरमघटितघटनसामर्थ्यरूपमैश्वर्यमाह - स्वमाययेति | स्वसम्बन्धिनी या मायाशक्तिः परमस्वातन्त्र्यरूपा तया अहं स्वं स्वात्मानमज्ञात्वाऽज्ञानावृतं कृत्वा संसरन्ती चिरादनादिकालाद् जननमरणप्रवाहपतिता सती शिष्यस्य पदं स्वरूपं प्राप्ता भूत्वा भूयः पुनः गुरोः सकाशात् स्वात्मानमात्मतत्त्वं विदित्वा मुक्ता भवामीति सम्बन्धः || ४६ || प्. ३८२) नित्यमुक्ता पुनर्मुक्ता भूयो भूयो भवाम्यहम् | निरुपादानसम्भारं सृजामि जगदीदृशम् || ४७ || एतद(एवम)विद्यादेर्मायिकत्वेन सत्यबन्धाभावान्नित्यमुक्तापि वारं वारं पुनर्मुक्ता भवामि | अथ च ईदृशमनन्तविचित्रं जगन्निरुपादानसम्भारं यथा तथा उपादानादिकारणसामग्रीं विनैव सृजामि || ४७ || इत्यादि सन्ति बहुधा ममैश्वर्यपरम्पराः | न तद् गणयितुं शक्यं सहस्रवदनेन वा || ४८ || तद् ऐश्वर्यं सहस्रवदनेन आदिशेषेणापि न गणयितुं शक्यम् | अनन्तत्वादिति भावः || ४८ || शृण्वन्तु संग्रहाद् वक्ष्ये मदैश्वर्यस्य लेशतः | जगद्यात्रा [क्: धात्रा] विचित्रेयं सर्वतः संप्रसारिता || ४९ || ऐश्वर्यस्यानन्तत्वमेव भङ्ग्यन्तरेणाह - शृण्वन्त्विति | जगद्रूपी यात्रा व्यवहारोऽवभास इति यावत् | इयमनाद्यनन्ता सर्वापरोक्षभूता सम्प्रसारिता सम्यगबाधितस्थिरार्थक्रियार्हरूपेण प्रसारिता अवभासितेत्यर्थः || ४९ || मम ज्ञानं [क्: ममाज्ञानं] बहुविधं द्वैताद्वैतादिभेदतः | परापरविभेदाच्च बहुधा चापि तत्फलम् || ५० || एवं परात्मनः परापरम् ऐश्वर्यं च प्रतिपाद्य तदुद्भाविताविद्याबन्धान्मोक्षसिद्धये चतुर्थप्रश्नोत्तरमाह - ममेति | बहुविधतामेवाह - द्वैवेति | द्वैतज्ञानमुपासनम् | अद्वैतमनुभवरूपम् | परमपरोक्षम् [क्: परम् नास्ति] | अपरं परोक्षम् | एवं ज्ञानस्य बहुविधत्वात् फलमपि बहुविधमित्याह - बहुधेति || ५० || द्वैतज्ञानं तु विविधं द्वितीयालम्बनं यतः | ध्यानमेव तु तत्प्रोक्तं स्वप्नराज्यादिसम्मितम् || ५१ || द्वैताज्ञानस्यानेकविधत्वे हेतुमाह - द्वितीयालम्बनं यत इति | यतो ध्यातुः स्वरूपातिरिक्तमूर्तिमन्त्रादिविविधविषयकध्यानमेव द्वैतज्ञानमित्यर्थः | अस्य ज्ञानस्याद्वैतज्ञानादपकृष्टत्वं द्योतयितुं विशेषणम् - स्वप्नराज्यादिसम्मितम् | आदिना मनोराज्यादिसंग्रहः | ध्यानस्य स्मृत्यनुसन्धानरूपत्वेनाप्रामाण्यात् स्वप्नराज्यभ्रमतुल्यत्वमिति ध्येयम् || ५१ || प्. ३८३) तच्चापि सफलं ज्ञेयं नियत्या नियतं यतः | अपरं चापि विविधं तत्र मुख्यं तदेव हि || ५२ || ननु ध्यानात्मकद्वैतज्ञानस्य भ्रमतुल्यत्वे निष्फलत्वापत्तिरिति चेदाह - तच्चापीति | स्मृतिरूपमपीत्यर्थः | सफलमित्येव ज्ञेयम् | कथमेतदिति चेदाह - नियत्या नियतं यत इति | यद्यपि स्मृतेः सामान्यतोऽज्ञाननिवृत्तिरूपप्रकृतफलं साक्षात् पारम्पर्येण वा नास्ति तथापि प्रोक्तस्मृतिविशेषाणां भगवन्नियतिशक्तिनियमितत्वाच्चित्तशोधनद्वारा प्रोक्तफलवत्त्वमिति ज्ञेयम् | ननु द्वैतज्ञानमालम्बनभेदान्नानाविधमित्युक्तम् | तत्र किं सर्वं समम् उत यत्किञ्चिन्मुख्यमिति चेदाह - अपरं चेति | द्वैतं चेत्यर्थः || ५२ || प्रोक्तमुख्यापरमयध्यानं [क्: मयं ध्यानं] मुख्यफलक्रमम् | अद्वैतविज्ञानमेव परविज्ञानमीरितम् || ५३ || किं तदिति चेदाह - प्रोक्तेति | ब्रह्माण्दानामनेकानाम् (२०|३६) इत्यादिना प्रोक्तं यन्मुख्यमपरं रूपम् तन्मयं तदेकविषयकं यद्ध्यानं तदेव मुख्यम् | कुत इति चेदाह - मुख्यफलक्रममिति | मुख्यः साक्षात्प्राप्यः फलस्य चित्तशुद्ध्यादेर्ज्ञानसाधनसमुदायस्य क्रमः परम्परा यस्मादित्यर्थः | मुख्याऽपररूपध्यानेन साक्षाज्ज्ञानसाधनसम्पत्तिः सदाशिवादिध्यानेन त्वेतद्ध्यानप्राप्तिद्वारेति ज्ञेयम् | ध्यानात्मकद्वैतज्ञानस्य साक्षादज्ञाननाशकत्वाभावेनैतस्मात् साक्षादज्ञाननाशकमद्वैतज्ञानमेव श्रेष्ठमित्याह - अद्वैतेति | परविज्ञानं श्रेष्ठविज्ञानम् || ५३ || प्. ३८४) मामनाराध्य परमां चिरं विद्यां तु श्रीमतीम् | कथं प्राप्येत परमां विद्यामद्वैतसंज्ञिकाम् || ५४ || नन्वलं द्वैतविज्ञानेनापकृष्टेन सर्वैरद्वैतविज्ञानं श्रेष्ठमेवाश्रयितव्यमिति चेदाह - मामिति | श्रीमतीं विद्यां श्रीविद्याभिधानां परमां शरीरेषु मूर्धेव इत्युक्तरीत्या सगुणमन्मूर्तिषु सदाशिवादिषु सुमुख्याम् | चिरं बहुकालमनाराध्य कथमद्वैतविद्या प्राप्येत ? नैव प्राप्येतेति भावः | विद्यां ज्ञानम् || ५४ || तदेवाद्वैतविज्ञानं केवला या परा चितिः | तस्याः शुद्धदशामर्शो द्वैतामर्शाभिभावकः || ५५ || एवं द्वैतज्ञानं निरूप्यापरोक्षात्मकं परमद्वैतज्ञानमाह - तदेवेति | केवला दृश्यद्वैतलेशवर्जिता परा अनवच्छिन्ना या चितिः परस्वरूपत्वेन प्रोक्ता तदेवाद्वैतविज्ञानम् | ननु प्रोक्तपररूपात्मककेवलचितेः चित्रस्य भित्तिरिवाज्ञानसहितजगदाश्रयत्वेन कथमज्ञाननिवर्तकत्वं स्यादिति चेदाह - तस्या इति | परचितेः या शुद्धदशा वेद्याभाससम्भेदवर्जितरूपा ज्ञेयवर्जितसामान्यज्ञानरूपेति यावत् तस्या आमर्शो निर्दुष्टप्रमाणेनापरोक्षज्ञानम् | स द्वैतामर्शाभिभावकः द्वैतविषयो य आमर्शोऽवभासः तस्याप्रामाण्यग्रहोत्पादनेनाभिभावकः तिरस्कारजनकः अर्थक्रियोत्पादनानर्हत्वसम्पादक इति यावत् | यथा हि दर्पणे ज्ञाते तद्गतप्रतिबिम्बसर्पव्याघ्रादेर्भयाद्यर्थक्रियोत्पादनानर्हता एवमिति तात्पर्यम् || ५५ || चित्तं यदा स्वमात्मानं केवलं ह्यभिसम्पतेत् | तदेवानुविभातं स्याद् विज्ञानमृषिसत्तमाः || ५६ || एतदेव भूयः स्फुटतयोपपादयति - चित्तमिति | यदा यस्मिन् काले केवलं दृश्याकारकलङ्करहितं परोक्षतो विदितं स्वं स्वरूपभूतमहं प्रत्ययिनमात्मानमखिलावस्थानुगतसामान्यचिद्रूपम् | केवलमिति चित्तेऽप्यन्वेति | केवलं विकल्पसंस्कारवर्जितं दृश्यविमुखोऽस्मि आत्माभिमुखोऽस्मीत्यादिसविकल्पसमाधिदशास्थसंस्कारेणापि वर्जितमिति यावत् | एवंविधं चित्तं चितः प्रसरद्रूपज्ञानशक्तिः | अभिसम्पतेत् अभितः परिच्छेदवर्जनेन सर्वतः सम्यगेकीभावसमापत्त्या पते | चित्तस्य शुद्धचिदात्मनि मज्जनेन तदेकीभावप्राप्त्या निर्विकल्पसमाधिर्यदा भवेदिति तात्पर्यम् | ततः समाधेर्व्युत्थितस्य तदेव समाधावनुभूतं शुद्धचिद्रूपमनुविभातं स्यात्तदेवाहमित्यखण्डाकारेण प्रत्यभिज्ञातं स्याद् भवेत् | तदेव प्रोक्तप्रत्यभिज्ञानमेव परं विज्ञानमित्युच्यत इति शेषः || ५६ || प्. ३८५) श्रुतितो युक्तितो वापि केवलात्मविभासनम् | देहाद्यात्मावभासस्य नाशनं ज्ञानमुच्यते || ५७ || एवं परं ज्ञानं निरूप्यापरज्ञानस्वरूपं निरूपयति - श्रुतित इति | श्रुतितः साङ्गश्रवणेन | युक्तितो वापि केवलतर्केण वा | केवलात्मनो देहादिपरिच्छेदवर्जितचिदात्मनः | विभासनं विशेषतो निश्चयरूपेण परोक्षतो यद्भासनम् | तच्च किंविधं तदाह - देहादीति | देहप्राणादौ परिच्छिन्ने दृश्ये य आत्मत्वावभासोऽहंप्रत्ययः [क्, ख्: आत्माव] तस्य नाशनं तत्राप्रामाण्यग्राहकम् एवंविधकेवलात्मविभासनमपरज्ञानमुच्यते | ननु युक्तितो वापीति केवलतर्केण ज्ञानोपपादनमद्वैतशास्त्रविरुद्धमिति चेदुच्यते - श्रवणादिकं विनोत्तमाधिकारिणामनुपायाख्यज्ञानस्य केवलतर्कमात्रजनितस्यागमेष्वभ्युपगतत्वात् | यदुक्तम् - उत्तमानां तु विज्ञानं गुरुशास्त्रानपेक्षणम् इति | प्रसिद्धाश्चाकृतश्रवणा ज्ञानिनो वामदेवकर्कटिकादयः || ५७ || तदेव भवति ज्ञानं यज्ज्ञानेन तु किञ्चन | भासमानमपि क्वापि न विभायात् कथञ्चन || ५८ || एवं परापरज्ञाने क्रमान्निरूप्य भूयः फलोद्देशेन [क्: फलादेशेन] द्वैतज्ञानाद्विवेचनाय परं ज्ञानं श्लोकपञ्चकेनाह - तदेवेति | यत्किञ्चन दृश्यं भासमानमपि क्वापि क्वचिदपि यज्ज्ञानेन कथञ्चन केनापि प्रकारेण न विभायाद् ज्ञातदर्पणतत्त्वस्य तत्प्रतिबिम्बमिव न पृथक्सत्त्वेन विशेषादबाधितत्वेन भायात् तदेव परं ज्ञानं भवतीत्यर्थः || ५८ || प्. ३८६) तदेवाद्वैतविज्ञानं यद्विज्ञानेन किञ्चन | अविज्ञातं नैव भवेत् कदाचिल्लेशतोऽपि च || ५९ || यथा हि दर्पणतत्त्वज्ञानेन प्रतिबिम्बं लेशतोऽपि कदाचिदपि प्रतिबिम्बकालेऽन्यदा वाऽविज्ञातं न भवेत् तथा यद्विज्ञानेन यत्किञ्चनापि दृश्यमविज्ञातं न भवेत् तदेवाद्वैतविज्ञानम् || ५९ || सर्वविज्ञानात्मरूपं यद्विज्ञानं भवेत् खलु | तदेवाद्वैतविज्ञानं परमं तापसोत्तमाः || ६० || सर्वेषां घटादिव्यावृत्तविषयाणां परिच्छिन्नविशेषज्ञानानां [क्: विषय] प्रतिबिम्बपरिच्छिन्नदर्पणांशानां महादर्पण इवात्मरूपं यद्विज्ञानं भवेत् | खल्वित्येवार्थः | आत्मस्वरूपमेव न कथञ्चिदन्यथेति तात्पर्यम् | तदेव परमद्वैतविज्ञानम् | ननु प्रत्यभिज्ञात्मकं ज्ञानं कथं सर्वज्ञानात्मरूपम् प्रत्यभिज्ञाविषयस्य शुद्धचितस्तथात्वं स्यादिति चेदुच्यते - दर्पणान्तःप्रतिबिम्बदर्पणान्तरंशवत्तयोरत्यन्तमभेदप्रत्ययेन तथाव्यवहारसम्भवात् || ६० || जाते यादृशविज्ञाने संशयाश्चिरसम्भृताः | वायुनेवाभ्रजालानि विलीयन्ते परं हि तत् || ६१ || यथा दर्पणतत्त्वे ज्ञाते तत्प्रतिबिम्बस्वरूपगताखिलसंशया दर्पणमात्रत्वनिश्चयेन विलीयन्ते तथा यादृशविज्ञाने जाते सति प्रधानप्रकृतिका वा सृष्टिः परमाणुप्रकृतिका वेति दृश्यगताः देहो वाहं प्राणो वेत्यादिद्रष्टृगताश्च संशयाश्चिरादनादिकालात् सम्भृता हृदि निहिता विलीयन्ते | वायुनेवाभ्रजालानीति विलये विलम्बाभावद्योतनाय | तत् ज्ञानम् || ६१ || प्. ३८७) कामादिवासनाः सर्वा यस्मिन् सन्ति न किञ्चन | स्युर्भग्नदंष्ट्राहिरिव तद्विज्ञानं परं स्मृतम् || ६२ || यथा ज्ञातदर्पणतत्त्वस्य तत्प्रतिबिम्बगताखिलकामद्वेषादिवासनाविलयः एवं यस्मिन् ज्ञाते सति दृश्यगतकामाद्यखिलवासना न किञ्चनेति निःस्वरूपा लुप्ता भवेयुरिति तात्पर्यम् | प्रारब्धादिवशात् काश्चन वासना अलुप्ता अपि भग्नदंष्ट्राहिरिव स्युः | यथा हि भग्नविषदंष्ट्रः सर्पो न मरणाद्यनर्थावहः तथा ता वासना न जन्मान्तररूपानर्थप्रदाः तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ (ब्र सू० ४|१|१३) इति न्यायेन तत्कामादिवासनया कृतकर्मफलासंश्लेषात् || ६२ || विज्ञानस्य फलं सर्वदुःखानां विलयो भवेत् | अत्यन्ताभयसंप्राप्तिर्मोक्ष इत्युच्यते फलम् || ६३ || एवं ज्ञानं निरूप्य फलं निरूपयति - विज्ञानस्येति | सर्वदुःखानां शारीरादीनाम् | यद्यपि सर्वदुःखविलयः सुषुप्त्यादावस्ति तथापि भाविदुःखसम्भावनया भयमस्तीत्यत आह - अत्यन्तेति | एष एव मोक्ष इत्युच्यते || ६३ || भयं द्वितीयसङ्कल्पादद्वैते विदिते दृढम् | कुतः स्याद् द्वैतसङ्कल्पस्तमः सूर्योदये यथा || ६४ || कुतोऽस्यात्यन्ताभयसम्प्राप्तिरिति चेदाह - भयमिति | अयं व्याघ्रोऽयं वृश्चिक इत्यादिद्वितीयसङ्कल्पादेव लोके भयं प्रसिद्धम् सुषुप्तौ द्वैतसङ्कल्पाभावेन भयाभावात् | अद्वैते दृढ विदिते सति निःसन्दिग्धाद्वैतज्ञाने सति तेन ज्ञानेनाविद्याया नष्टत्वेन निमित्ताभावान्न पुनर्द्वैतसङ्कल्प इत्याह - कुत इति | यथा दर्पणाद्वयतत्त्वे विदिते पुनस्तत्प्रतिबिम्बेषु न द्वितीयत्वनिश्चय एवं प्रकृतेऽपीति भावः || ६४ || ऋषयो न भयं क्वापि द्वैतसङ्कल्पवर्जने | अतो यत्फलमन्यत् स्यात्तद्भयं सर्वथा भवेत् || ६५ || भयनिमित्तद्वैतसङ्कल्पवर्जने भयसम्भावनापि नास्तीत्याह - ऋसय इति | क्वापि देशे काले वा | एवं द्वैतसङ्कल्पवर्जितं स्वरूपमेव फलं मोक्षात्मकमित्युक्त्वा स्वरूपातिरिक्तस्य नाभयात्मकफलत्वमित्याह - अत इति | निरुक्तस्वरूपस्यैव फलत्वात् | स्वरूपादन्यत्तु भयप्रदत्वाद् भयमेवेत्यर्थः || ६५ || प्. ३८८) अन्तवत्तु द्वितीयं स्याद् भूयो लोके समीक्षणात् | सान्ते भयं सर्वथैवाभयं तस्मात् कुतो भवेत् || ६६ || तस्य भयप्रदत्वमेव साधयितुमाह - अन्तवदिति | नाशवदित्यर्थः | द्वितीयम् अन्यत् | कुत एतदवगतमिति चेदाह - भूय इति | लोके पुत्रकलत्रगृहधनादेरन्यस्यान्तवत्त्वस्य बहुधा दृष्टत्वादित्यर्थः | अतः सान्ते नश्वरे सर्वथैव भयं भवेत् | ततोऽभयं सान्तात् कुतो भवेत् || ६६ || संयोगो विप्रयोगान्तः सर्वथैव विभावितः | फलयोगोऽपि तस्माद्धि विनश्येदिति निश्चयः || ६७ || एवमन्यस्य स्वरूपतोऽन्तवत्त्वेन भयप्रदत्वमुपपाद्य तत्सम्बन्धस्यापि तथात्वाद् भयप्रदत्वमहा - संयोग इति | सम्बन्ध इत्यर्थः | विप्रयोगान्तः विप्रयोगो वियोगः स्वरूपनाशः सोऽन्ते यस्य सम्बन्धो नश्वर इति यावत् | एवंविधः सम्बन्धः सर्वैर्विभावितो दृष्टः | अतः फलस्य योगः सम्बन्धोऽपि नश्येदेव || ६७ || यावदन्यत् फलं प्रोक्तं भयं तावत्प्रकीर्तितम् | तदेवाभयरूपं तु फलं सर्वे प्रचक्षते || ६८ || तस्मादन्यफलं स्वरूपतः सम्बन्धतश्चानित्यमिति [क्, ख्: सम्बन्धतस्तस्मादनि] भयप्रदमेवेत्याह - यावदिति | तस्माद्यदात्मस्वरूपादनन्यदेव मोक्षाख्यं फलमद्वैतशास्त्रोक्तं तदेवाभयरूपं फलमिति सर्वे पण्डिताः प्रकृष्टत्वेन कथयन्तीत्याह - तदेवेति | यत्तदेवेति [ख्: एतदे] सम्बन्धः || ६८ || प्. ३८९) यदात्मनोऽनन्यदेव फलं मोक्षः प्रकीर्तितः | ज्ञाता ज्ञानं ज्ञेयमपि फलं चैकं यदा भवेत् || ६९ || यदात्मनोऽनन्यत्तदेवाभयरूपं फलं सर्वे प्रचक्षते | एवंविधं फलमेव मोक्षः प्रकीर्तित इति योजना | मोक्षाख्यं फलमद्वितीयात्मस्वरूपमेवेत्येतद्विविच्य प्रदर्शयितुमाह - ज्ञातेत्यादिना | यदा ज्ञातृज्ञानज्ञेयफलानां भेदानवभासादेकत्वं भवेत् तदेत्यन्वयः || ६९ || तदा हि परमो मोक्षः सर्वभीतिविवर्जितः | ज्ञानं विकल्पसङ्कल्पहानं मौढ्यविवर्जितम् || ७० || परमः द्वैतशास्त्रप्रसिद्धादुत्कृष्टो मोक्षो भवेत् | अत्र हेतुगर्भं विशेषणम् - सर्वभीतिविवर्जित इति | इतोऽन्यो [क्: यतो] मोक्षो न सर्वभीतिविवर्जित इति तात्पर्यम् | ज्ञात्रादीनां स्वरूपोद्देशपूर्वकमेकत्वमुपपादयति - ज्ञानमिति | विकल्पात्मकाद्वैतविषया ये सङ्कल्पाश्चित्तवृत्तिविशेषाः तेषां हानं वर्जनं यत्र | एतच्च सुषुप्त्यादावप्यस्तीति चेदाह - मौढ्यविवर्जितमिति | शुद्धस्वरूपस्फुरणं ज्ञानमिति भावः || ७० || ज्ञातुः स्वच्छात्मरूपं तदादावनुपलक्षितम् | उपलक्षक [क्: उपदेशक] एवातो गुरुः शास्त्रं च नेतरत् || ७१ || एतदेव ज्ञातुः स्वरूपमित्याह - ज्ञातुरिति | नन्वेवंविधस्वरूपमेव ज्ञानं चेत्तदादावपि स्थितमेवेति चेदाह - स्वच्छात्मरूपमिति | सङ्कल्पमौढ्याभ्यां वर्जितं स्वरूपं पूर्वं न स्थितमिति भावः | ननु ज्ञानान्तरालादिनिविकल्पदशासु स्थितमेवेति चेदाह - आदावनुपलक्षितमिति | स्थितमपि तन्नोपलक्षितं न परिचितम् निर्विकल्पत्वेनाननुभूतत्वादिति तात्पर्यम् | अतो ज्ञानस्य स्वस्वरूपानतिरिक्तत्वाद् मोहेनानुपलक्षितस्वरूपस्य मोहनिरसनोपायेनोपलक्षक एव गुरुः शास्त्रं च | नेतरदिति | न तयोर्व्यापारान्तरमस्तीत्यर्थः || ७१ || प्. ३९०) एतदेव हि विज्ञेयस्वरूपाभिधीयते | ज्ञातृज्ञानज्ञेयगतो यावद् भेदोऽवभासते || ७२ || एतदेव सङ्कल्पमौढ्यवर्जितं संविद्रूपमेव | एवं ज्ञातृज्ञानज्ञेयानामेकरूपतामुपपाद्यैतदेव ज्ञात्रादीनां वास्तवं रूपमित्याह - ज्ञात्रेति | सङ्कल्पावर्जनेन यावद्भेदोऽवभासते || ७२ || तावज्ज्ञाता ज्ञानमपि ज्ञेयं वा न भवेत् क्वचित् | यदा भेदो विगलितो ज्ञात्रादीनां मिथः स्थितः || ७३ || तावज्ज्ञात्रादीनां भासमानं स्वरूपं न वास्तवं भवेदित्याह - तावदिति | यदा सर्वथा सङ्कल्पवर्जनेन ज्ञात्रादीनां मिथो भासमानो भेदो विगलितो भवेत् तदा ज्ञात्रादीनां सत्यस्वरूपसम्पत्तिरित्यन्वयः || ७३ || तदा ज्ञात्रादिसम्पत्तिरेतदेव फलं स्मृतम् | ज्ञात्रादिफलपर्यन्तं न भेदो वस्तुतो भवेत् || ७४ || एतदेवेति | एवंविधज्ञात्रादिरूपमेवेत्यर्थः | फलं परमोक्षाख्यं स्मृतम् | ननु ज्ञातृज्ञेयफलानामैक्येऽपि चित्तवृत्तिरूपप्रत्यभिज्ञात्मकज्ञानस्य कथं तदैक्यमिति चेदुच्यते - चित्तं हि जडशक्त्यावृतपरिच्छिन्नचैतन्यमेव | तद्वृत्तिविशेषो हि प्रत्यभिज्ञानमखण्डचैतन्याकारम् | तेनाज्ञाननिवृत्तौ परिच्छेदकजडशक्तेर्विलयाच्चित्तत्त्वे [क्: च्चित्ते] विलीने तत्प्रत्यभिज्ञानमेव पूर्णचैतन्यतां प्राप्तमिति तदैक्यमवर्जनीयमेवेति | तस्मान्न ज्ञात्रादिफलान्तानां वस्तुतो भेद इत्याह - ज्ञात्रादीति || ७४ || व्यवहारप्रसिद्ध्यर्थं भेदस्तत्र प्रकल्पितः | अतोऽपूर्वं लभ्यमत्र फलं नास्त्येव किञ्चन || ७५ || ननु तर्हि कथं शास्त्रेषु ज्ञात्रादिभेदव्यवहार इति चेत् ? उपदेशार्थं प्रकल्पित इत्याह - व्यवहारेति | तत्र शास्त्रेषु | अतः ज्ञात्रादीनामभेदात् || ७५ || आत्मैव मायया ज्ञातृज्ञानज्ञेयफलात्मना | यावद्भाति भवेत्तावत् संसारो ह्यचलोपमः || ७६ || यावदविद्यया भेदसङ्कल्पनं तावदयमविद्यावभासितो जननमरणादिरूपः संसारः सुस्थिर इत्याह - आत्मैवेति | मायया अविद्यया || ७६ || प्. ३९१) यदा [क्: यथा] कथञ्चिदेतत्तु भायाद् भेदविवर्जितम् | संसारो विलयं यायाच्छिन्नाभ्रमिव वायुना || ७७ || यदा यस्मिन् काले कथञ्चिद् अतिदुर्घटेन देवतानुग्रहैकमूलकेन सद्गुरुपदेशादिना | एतद् ज्ञात्रादिविभेदावभासं सर्वं भेदविवर्जितमेव भायात् | तदा विलयं यायात् | विलये निःशेषत्वविलम्बाभावयोर्द्योतनाय दृष्टान्तः - छिन्नाभ्रमिति | महासमुदायाद्विच्छिन्नमभ्रखण्डमित्यर्थः || ७७ || एवंविधमहामोक्षे तत्परत्वं हि साधनम् | तत्परत्वे तु संपूर्णे नान्यत् साधनमिष्यते || ७८ || एवं फलं प्रतिपाद्य साधनमाह - एवमिति | महामोक्षे पूर्णमोक्षे | तत्परत्वस्यैव मुख्यसाधनत्वं वक्तुमाह - तत्परत्व इति | इष्यते फलसाधनायोपयुज्यते || ७८ || अपूर्णे तत्परत्वे तु किं सहस्रसुसाधनैः | तस्मात्तात्पर्यमेव स्यान्मुख्यं मोक्षस्य साधनम् || ७९ || व्यतिरेकतोऽपि मुख्यतामाह - अपूर्ण इति | किं सहस्रसुसाधनैः सम्यक्साधनप्रचयैरपि न फलोदय इति भावः | तस्माद् एवमन्वयव्यतिरेकात् || ७९ || तात्पर्यं सर्वथैतत्तु साधयामीति संस्थितिः | यस्तात्पर्येण संयुक्तः सर्वथा मुक्त एव सः || ८० || तातर्यं तत्परत्वम् | तत्स्वरूपमाह - सर्वथेति | एतत्तु एतदेव प्रकृतं मोक्षाख्यं फलमेव | एतदवश्यं साधयिष्यामीति तत्साधनसम्पादने विलम्बासहनप्रयोजकचित्तवृत्तिविशेषः | मुक्त एव स इति | तत्साधनस्यावश्यफलपर्यन्तत्वाद् मुक्तप्राय एवेत्यर्थः || ८० || प्. ३९२) दिनैर्मासैर्वत्सरैर्वा मुक्तः स्याद्वाऽन्यजन्मनि | बुद्धिनैर्मल्यभेदेन चिरशीघ्रव्यवस्थितिः || ८१ || फलस्यावश्यंभावित्वमेवाह - दिनैरिति | ननु कथं साधनपरिपूर्तावेकाकारायां कालविलम्बवैषम्यमिति चेदाह - बुद्धिनैर्मल्येति | बुद्धेर्मालिन्यतारतम्येन कालविलम्बतारतम्यमिति भावः || ८१ || बुद्धौ तु बहवो दोषाः सन्ति सर्वार्थनाशनाः | यैर्जनाः सततं त्वेवं पच्यन्ते घोरसंसृतौ || ८२ || बुद्धिमालिन्यमेव निरूपयति - बुद्धौ त्विति | सर्वेषां धर्मादिपुरुषार्थानां नाशनाः | यैः दोषैः | एवं जननमरणादिप्राप्त्या | पच्यन्त इति | दुःखमनुभवन्तीति तात्पर्यम् || ८२ || तत्राद्यः स्यादनाश्वासो द्वितीयः कामवासना | तृतीयो जाड्यता प्रोक्ता त्रिधैवं दोस्ऽसंग्रहः || ८३ || तानेव गणयति - तत्रेति | दोषेष्वित्यर्थः | अनाश्वासोऽविश्वासः शास्त्रार्थेष्विदमित्थमेव भवेदिति दृढसम्भावनाऽभावः | अस्याद्यत्वं साधनप्रतिबन्धकेषु मुख्यत्वेन | कामवासना विषयाभिलाषादिः | जाड्यता जडत्वम् शास्त्रार्थाग्रहणनिमित्तं चित्तस्य तमोंऽशरूपं मौढ्यम् | संग्रह इति | विस्तारस्त्वेतेषां शाखोपशाखा भूतोऽनन्त [क्: शाखास्वाभु] इति भावः || ८३ || द्विविधः स्यादनाश्वासः संशयश्च विपर्ययः | मोक्षोऽस्ति नास्ति वेत्याद्यः संशयः समुदाहृतः || ८४ || आद्यस्यावान्तरभेदमाह - द्विविध इति | तत्स्वरूपमेवाह - मोक्ष इति | एतच्चोपलक्षणं मुक्तस्य पुनरावृत्तिरस्ति नास्ति वेत्यादेः || ८४ || नास्त्येव मोक्ष इत्याद्यो भवेदत्र विपर्ययः | एतद्द्वयं तु तात्पर्ये मुख्यं स्यात् प्रतिबन्धकम् || ८५ || मोक्षो नास्त्येवेति विपर्ययः | आद्यशब्देन पुनरावृत्तिरस्त्येवेत्यादिः | एवंविधानाश्वासस्य प्रतिबद्ध्यमाह - एतद् द्वयं त्विति | द्वयमेवेत्यर्थः | प्रारब्धस्यापि साधारणप्रतिबन्धकत्वान्मुख्यमिति [क्: मुख्यत्वमिति] || ८५ || प्. ३९३) विपरीतनिश्चयेन नश्येदेतद् द्वयं क्रमात् | अत्रोपायो मुख्यतमो मूलच्छेदो न चापरः || ८६ || एतन्निरसने उपायमाह - विपरीतेति | मोक्षो भवेदेवेति दृढसम्भावनारूपः प्रोक्तसंशयादेर्विपरीतो निश्चयः | एतद् द्वयं प्रोक्तसंशयो विपर्ययश्च | क्रमादिति | निश्चयस्य स्वसंस्कारानुवृत्तिरूपदार्ढ्यतारतम्यक्रमात् संशयादिसंस्कारानुवृत्तेः क्रमान्नाश इति भावः | संशयविपर्ययसत्त्वे कथं निश्चयोदय इति चेत् साधनमाह - अत्रेति | निश्चये इत्यर्थः || ८६ || अनाश्वासस्य मूलं तु विरुद्धतर्कचिन्तनम् | तत्परित्यज्य सत्तर्कावर्तनस्य प्रसाधने || ८७ || कोऽयं मूलच्छेद इति चेदाह - अनाश्वासस्येति | आश्वासविरुद्धतर्कचिन्तनम् | तद् विरुद्धतर्कचिनं [ग्: तद् विरुद्धतर्कचिनतनन् नास्ति] परित्यज्य | सत्तर्कस्य प्रोक्तसम्भावनात्मकाश्वासानुकूलतर्कस्य | आवर्तनस्य प्रसाधनमभ्यसनं तदनुवर्तनानुकूलमानसव्यापारः | तस्मिन् कृते सति || ८७ || विपरीतो निश्चयः स्याद् मूलच्छेदनपूर्वकः | ततः श्रद्धासमुदयादनाश्वासः प्रणश्यति || ८८ || विपरीतनिश्चयः प्रोक्तसम्भावनारूपः | मूलच्छेदनपूर्वकः विपरीततर्कनिमित्तसंस्कारच्छेदनपूर्वकः | ततः तदनन्तरम् | श्रद्धायाः प्रोक्तभावनाया उदयात् | अत्र विपरीतनिश्चयरूपभावनैव दृढ | सती श्रधेत्युच्यते | प्रणश्यति निवर्तते || ८८ || कामादिवासना बुद्धेः श्रवणे प्रतिबन्धिका | कामादिवासनाविष्टा बुद्धिर्नैव प्रवर्तते || ८९ || द्वितीयदोषप्रतिबद्ध्यमाह - कामादीति | बुद्धेः प्रतिबन्धिका | श्रुतार्थस्य बुद्धावनवतारनिमित्तम् | गुरूक्तार्थे सा बुद्धिर्नैव प्रवर्तते तमर्थं नैव गृह्णाति || ८९ || प्. ३९४) लोकेऽपि कामी काम्यस्य सदा ध्यानैकतत्परः | पुरःस्थितं न पश्येच्च श्रोत्रोक्तं शृणुयान्न च || ९० || अत्रार्थे लोकप्रसिद्धिमुपपादयति - लोकेऽपीति | काम्यस्य कामितस्य स्त्रीधनादेः | श्रोत्रोक्तं कर्णे उच्चरितमपि शब्दं न शृणुयात् || ९० || कामादिवासितस्यैवं श्रुतं चाश्रुतसम्मितम् | कामादिवासना तस्माज्जयेद् वैराग्यसम्पदा || ९१ || तस्मात् कामादिवासितस्य कामादिवासनाविष्टचित्तस्य | एवं प्रोक्तध्यानतत्परत्वात् | श्रुतमपि हृदयानारोहादश्रुतेन सम्मितं तुल्यं भवेत् | तस्मात् श्रवणप्रतिबन्धकत्वात् | वैराग्यस्य वैतृष्ण्यस्य सम्पदा सम्पत्त्या जयेत् || ९१ || सन्ति कामक्रोधमुखा वासनास्तु सहस्रशः | तत्र कामो मूलभूतस्तन्नाशे नहि किञ्चन || ९२ || कामादिवासनेत्यत्रादिपदार्थं कामवासनाया मुख्यत्वं चाह - सन्तीति | कामवासना क्रोधवासना | आद्यर्थकमुखपदेन [क्, ख्: मुख्य] लोभमदमात्सर्यादिवासनाः | कामो विषयेच्छा | क्रोधोऽयं मेऽपकारी सर्वथा हन्तव्य इत्यादिचित्तवृत्तिः | तत्तद्विषयदर्शनमात्रेण झटिति कामाद्युद्भवनिमित्तः संस्कारश्चित्तगतो वासनेति ज्ञेयम् | क्रोधादीनां काममूलकत्वात् कामो मुख्य इत्याह - तत्रेति | तासु वासनास्वित्यर्थः | नहि किञ्चन क्रोधादिकं भवेदिति शेषः || ९२ || ततो वैराग्यसंयोगाद् [ग्: संपन्नो] नाशयेत् कामवासनाम् | आशा हि कामः संप्रोक्त एतन्मे स्यादिति स्थिता || ९३ || ततः कामस्य मुख्यत्वात् | कामस्वरूपमाह - आशेति | इति स्थिता आशा || ९३ || शक्येषु स्थूलभूता सा सूक्ष्माऽशक्येषु संस्थिता | दृढवैराग्ययोगेन सर्वां तां प्रविनाशयेत् || ९४ || तस्यानन्ततामाह - शक्येष्विति | प्राप्तुं शक्येषु स्त्रीधनादिषु | स्थूलभूता इदं मे स्यादितीच्छारूपा | अशक्येषु ब्रह्माण्डभेदनादिषु | सूक्ष्मा प्रोक्तसंस्काररूपा | दृढवैराग्ययोगेन सार्वकालिकस्य श्मशानवैराग्यादिभिन्नतीव्रवैराग्यस्य योगेन सम्पत्त्या | सर्वां स्थूलां सूक्ष्मां च | तां वासनाम् || ९४ || प्. ३९५) तत्र मूलं काम्यदोस्ऽपरामर्शः प्रतिक्षणम् | वैमुख्यं विषयेभ्यश्च वासना नाशयेदिति || ९५ || तत्र दृढवैराग्ये | काम्यस्य स्त्रीधनादेर्भोग्यविषयस्य दोषः [नश्वरत्वरूपः नाशेन दुःखप्रदत्वरूपः संभावितनाशानुसन्धानेन भयहेतुत्वादिरूपश्च दोष इति ग्रन्थयोजना | ] नश्वरत्व-नाशेन दुःखप्रदत्व-संभावित##- (नश्वरत्वेन नाशेन दुःखप्रदत्वेन सम्भावितनाशानुसन्धानेन भयहेतुत्वादिरूपः) इत्येवं कोष्ठके स्थापितः पाठो दृश्यते कपुस्तके | मूलमातृकायां टिप्पणीरूपेण स्थितः स्यादिति संभाव्यते |] तस्य परामर्शोऽनुसन्धानम् | विषयेभ्यो वैमुख्यं विषयस्वरूपस्यानुसन्धानाभावो देहयात्रानुपयुक्ताधिकासेवनं च || ९५ || यस्तृतीयो बुद्धिदोषो जाड्यरूपो व्यवस्थितः | असाध्यः सोऽभ्यासमुखैः सर्वथा ऋषिसत्तमाः || ९६ || जाड्यरूपः प्राक्कृतदुष्कर्मनिमित्तकतमोंऽशप्रचुरता | अभ्यासाद्यैर्निवर्तयितुमसाध्यः || ९६ || येन तात्पर्यतश्चापि श्रुतं बुद्धिमनारुहेत् | तज्जाड्यं हि महान् दोषः पुरुषार्थविनाशनः || ९७ || अस्तु किं तेनैकेन ? अन्यसाधनपौष्कल्यात् फलं भविष्यतीति चेदाह - येनेति | स्थितेन जाड्येनेत्यर्थः | चकारादितरनिखिलसाधनसंग्रहः | पुरुषार्थस्याज्ञाननिवृत्तेर्मोक्षस्य वा | विनाशनः प्रतिबन्धकः || ९७ || तत्रात्मदेवतासेवामृते नान्यद्धि कारणम् | सेवायास्तारतम्येन जाड्यं तस्य हराम्यहम् || ९८ || तत्र जाड्यनाशने | ममात्मदेवतारूपायाः सेवां जपपूजाध्यानादिरूपाम् ऋते विना || ९८ || प्. ३९६) जाड्याल्पानल्पभावेन सद्यो वा परजन्मनि | भवेत्तस्य फलप्राप्तिर्जाड्यसंयुक्तचेतसः || ९९ || जाड्याल्पेति | जाड्याल्पत्वे सेवानल्पत्वे सद्यः जाड्यसेवयोरल्पत्वेऽनल्पत्वे वा चिरकालात् जाड्यानल्पत्वे [क्, ख्: जाड्याल्पत्वे] सेवाल्पत्वे परजन्मनि इति विवेकः || ९९ || सर्वसाधनसम्पत्तिर्ममैव प्रणिधानतः | उपयाति च यो भक्त्या सर्वदा मामकैतवात् || १०० || एवं जाड्यनाशे मत्सेवाहेतुरित्युक्त्वा जाड्यरहितानामप्येतदावश्यकमित्याह - सर्वेति | सर्वेषां तत्परत्ववासनानाशादिरूपाणां सत्सङ्गादीनां च साधनानां सम्पत्तिः | प्रणिधानतः द्यानादिरूपसेवनात् | भवेदिति शेषः | एतदेव स्पष्टमाह - उपयातीति | सेवत इत्यर्थः | भक्त्या अनवच्छिन्नानुरागेण | अकैतवादकापट्यात् निष्कामनयेति भावः || १०० || स साधनप्रत्यनीकं विधूयाशु कृती भवेत् | यस्तु मामीश्वरीं सर्वबुद्धिप्रसरकारिणीम् || १०१ || स एवंविधोपासकः | प्रत्यनीकं विघ्नम् | कृती कृतार्थः | यः साधकः | सर्वेषां बुद्धेः प्रसरः प्रवृत्तिः तत्करणशीलाम् || १०१ || अनादृत्य साधनैकपरः स्याद् मूढभावतः | पदे पदे विहन्येत फलं प्राप्येत वा न वा || १०२ || अनादृत्य अनुपगम्य | अत एव मूढभावनः मूढचित्तः | विहन्येत विघ्नैर्हतो भवेत् | फलप्राप्तावपि संशय एवेत्याह - फलमिति || १०२ || तस्मात्तु ऋषयो मुख्यं तात्पर्यं साधनं भवेत् | एवं तात्पर्यवानेव साधकः परमः स्मृतः || १०३ || साधननिरूपणमुपसंहरति - तस्मादिति | तात्पर्यवतः फलाभावस्य बुद्धिदोषकृतत्वादिति भावः | वैराग्यशमादिकं प्रतिबन्धनिवर्तकम् | देवतोपासनं कार्यसाधारणकारणम् | अतस्तत्परत्वमेवात्र मुख्यं कारणमिति भावः | साधकमाह - एवमिति | प्रोक्तमुख्यतात्पर्यवानेव मुख्यसाधक इत्यर्थः || १०३ || प्. ३९७) तत्र मद्भक्तियुक्तस्तु साधकः सर्वपूजितः | सिद्धिरात्मव्यवसितिर्देहानात्मत्वभावना || १०४ || तत्र तत्परतावत्सु | मद्भक्तियुक्तः मययनुरक्तः मत्सेवापर इति यावत् | सर्वपूजितः साधकोत्तम इत्यर्थः | तत्साधनस्यावश्यकफलान्तत्वात् | एवं साधकमुक्त्वा सिद्धिं निरूपयति - सिद्धिरिति | आत्मनो व्यवसितिर्व्यवसायो निश्चयः | सा व्यवसितिः किंविधेति चेदाह - देहेति | देहे देहादावनात्मत्वभावनं यतः शुद्धात्मस्वरूपनिश्चयाद्देहप्राणादावनात्मत्वाभिमानो भवेदिति तात्पर्यम् || १०४ || आत्मत्वभावनं नूनं शरीरादिषु संस्थितम् | तदभावनमात्रं तु सिद्धिर्मौढ्यविवर्जितम् || १०५ || एतदेव [क्, ख्: तदेव] पुनर्विशदयति - आत्मत्वेति | आत्मत्वस्य भावनमनुवृत्तानुभवसंस्काररूपोऽभिमानः | सर्वेषां सदा संस्थितम् | तदभावनमिति | शरीरादावात्मत्वस्याभावनं विपरीतनिश्चयेन तत्संस्कारानुवृत्त्युच्छेदनम् | एतन्मात्रमेव सिद्धिः | नन्वेवंविधसंस्कारानुवृत्त्यभावः सुषुप्तावस्तीति चेदाह - मौढ्यविवर्जितमिति | यद्यपि सुषुप्तावप्यस्ति संस्कारस्तथापि तस्य विलीनत्वेनोच्छिन्नप्रायत्वम् ज्ञेयम् | यद्वा प्रकृतिलयरूपसांख्यादिमोक्षव्यावृत्त्यर्थमिति ज्ञेयम् || १०५ || आत्मा व्यवसितः सर्वैरपि नो केवलात्मना | अत एव तु सम्प्राप्ता महानर्थपरम्परा || १०६ || देहानात्मभावने विशेषेण फलमुपपादयति - आत्मेति | सर्वैरपि व्यवसितः | नो केवलात्मना न देहादिव्यवच्छेदेन किन्तु देहादिमयत्वेन | अत एव देहाद्यविवेकादेव सर्वैरज्ञैः किन्तु देहादिमयत्वेन | अत एव देहाद्यविवेकादेव सर्वैरज्ञैः प्राप्ता || १०६ || तस्मात् केवलचिन्मात्रं यद् देहाद्यवभासकम् | तन्मात्रात्मव्यवसितिः सर्वसंशयनाशिनी || १०७ || तस्मात् अविवेकस्यानर्थहेतुत्वात् | यत्प्रकाशेन देहप्राणाद्यवभासते एवंविधं यत्केवलं चिन्मात्रं तन्मात्रे आत्मव्यवसितिरहंविमर्शः | सर्वेषां स्वात्मरूपादिविषयाणां संशयानां नाशिनी सिद्धिरित्युच्यत इत्यन्वयः | एवं च चिदात्मनः स्वप्रकाशरूपत्वेन सर्वदाऽहमिति भासमानत्वान्नापूर्वं तस्य भासनम् अपि तु देहाद्यविवेकेन भासमानस्य तद्विवेकेन तदभावनमेव सिद्धिरिति || १०७ || प्. ३९८) सिद्धिरित्युच्यते प्राज्ञैर्नातः सिद्धिरनन्तरा | सिद्धयः खेचरत्वाद्या अणिमाद्यास्तथैव च || १०८ || अतः आत्मव्यवसितिरूपसिद्धेः | अनन्तरा एतदनन्तरं फलत्वेन लभ्या नास्ति | ननु खेचरत्वादिसिद्धयोऽन्याः सन्तीति चेदाह - सिद्धय इति | खेचरत्वपरकायप्रवेशाद्या अणिमलघिमाद्याः || १०८ || आत्मविज्ञानसिद्धेस्तु कलां नार्हन्ति षोडशीम् | ताः सर्वास्तु परिच्छिन्नाः सिद्धयो देशकालतः || १०९ || नैतदंशेनापि ताः समा इत्याह - आत्मेति | कला षोडशोऽशः | तत्साम्यमपि नार्हन्तीत्यर्थः | कुत एवमिति चेदाह - ता इति | खेचरत्वाद्याः तासां ब्रह्माण्डान्तर्ब्रह्मकल्पपर्यन्तमेव सत्त्वमिति देशकालपरिच्छिन्नाः || १०९ || इयं स्यादपरिच्छिन्नाः स्वात्मविद्या शिवात्मिका | स्वात्मविद्यासाधनेषु ताः सर्वाः सुप्रतिष्ठिताः || ११० || इयमात्मज्ञानरूपा सिद्धिः | स्वात्मेति | पूर्णचिदानन्दरूपशिवात्मकस्वात्मज्ञानरूपत्वान्न कालदेशव्यवधानमिति भावः | तासामेतदन्तर्भूतत्वं निरूपयति - स्वात्मेति | ताः सिद्धयः | तासामेतदन्तर्भूतत्वं निरूपयति - स्वात्मेति | ताः सिद्धयः | सुप्रतिष्ठिताः ज्ञानसाधनैकदेशसाध्या एवेत्यर्थः || ११० || आत्मविद्याविधावेतास्त्वन्तरायप्रयोजकाः | किं ताभिरिन्द्रजालात्मसिद्धितुल्याभिरीहितम् || १११ || नन्वेवं चेज्ज्ञानिषु ताः सिद्धयः कुतो न दृश्यन्त इति चेदाह - आत्मविद्येति | आत्मविद्याया विधौ प्राप्तौ एताः सिद्धयः अन्तरायस्य विघ्नस्य प्रयोजकाः निमित्तभूताः | अतस्तीव्रमुमुक्षूणामन्तरायरूपासु तासु न प्रवृत्तिरिति भावः | कुत एवंविधमहाफलेषु न प्रवृत्तिरिति चेदाह - किं ताभिरिति | इन्द्रजालरूपसिद्धितुल्याभिः फल्गुभिस्ताभिः खेचरत्वादिसिद्धिभिरीहितमीप्सितं मोक्षाख्यं प्राप्यते किम् ? नाप्यत इत्यर्थः || १११ || प्. ३९९) यस्य साक्षाद् ब्र्ह्मपदमपि स्यात्तृणसम्मितम् | कियन्त्येताः सिद्धयो वै कालक्षपणहेतवः || ११२ || कुत एतदलौकिकं खेचरत्वाद्यप्यनीहितमिति चेदाह - यस्येति | मुमुक्षोः ब्रह्मपदं सत्यलोकः साक्षात् प्राप्तमपीति शेषः | संमितं तुल्यम् | तस्यैताः सिद्धयः कियन्ति ज्ञानान्तरायत्वेन कालक्षपणहेतवः || ११२ || तस्मात् सिद्धिर्नेतरा स्यादात्मविज्ञानसिद्धितः | ययाऽत्यन्तशोकनाशो भवेदानन्दसान्द्रता || ११३ || तस्मात् फल्गुत्वाद् विज्ञानसिद्धेरन्याऽधिकानास्येवेत्यर्थः | कुत इति चेदसाधारणं ज्ञानफलमाह - ययेति | ज्ञानसिद्ध्येत्यर्थः | आनन्दसान्द्रता आनन्दैकरसता || ११३ || सैव सिद्धिर्नेतरा तु मृत्युग्रासविमोचिनी | इयमात्मज्ञानसिद्धिर्विविधाभ्यासभेदतः || ११४ || सैव एवंविधफलदैव | मृत्योर्ग्रसनं ग्रासः | तद्विमोचनं नान्यसिद्धेरिति भावः | एवं सिद्धिं निरूप्य तस्याः पूर्णत्वरूपपाकं वक्तुमुपक्रमते - इयमिति | अभ्यासस्य भेदतस्तारतम्यात् || ११४ || बुद्धिनैर्मल्यभेदाच्च परिपाकविभेदतः | संक्षेपस्तु त्रिविधा चोत्तमा मध्यमाऽधमा || ११५ || बुद्धीति | अभ्यासस्य बुद्धिनैर्मल्यस्य च तारतम्याद् ज्ञानसिद्धिपरिपाकोऽप्युत्तमादिभेदेन विविधः | देहाद्यतिरिक्तशुद्धचिद्रूपस्याहमिति प्रत्यक्षविमर्शनं ज्ञानसिद्धिः | तस्याभ्यासः तदेकाकारविमर्शधारानुरूपः परिपाकभेद इति भावः || ११५ || प्. ४००) लोके द्विजानामृषयः पठितश्रुतिसम्मिता [क्: पठिता श्रुति] | मेधया च महाभ्यासाद् व्यापारशतसंकुला || ११६ || एतदेव निरूपयितुं दृष्टान्तमाह - लोक इति | ऋषय इति सम्बोधनम् | द्विजानां या पठिता धारणाध्ययनेन सम्यग् धृता श्रुतिर्वेदः तत्संमिता तत्तुल्या | पठितश्रुतेस्त्रैविध्यमाह - मेधयेति | धारणावत्या बुद्ध्येत्यर्थः | अभ्यास आवर्तनादिरूपः || ११६ || अप्यस्खलितवर्णा या पठिता श्रुतिरुत्तमा | समाहितस्य व्यापारेऽसमाहितस्य चान्यदा || ११७ || अपीति | अतिमेधावतातिशयाभ्यासेन धृता श्रुतिः व्यापारशतसङ्कुलापि पठनसमयेऽनेकव्यापारं कुर्वतोऽपि अस्खलितवर्णा | वर्णेत्युपलक्षणं स्वरस्यापि | वर्णस्वरविपर्ययरहिता या श्रुतिः पठिता सोत्तमा | व्यापरकाले समाहितस्य श्रुत्यानुपूर्वीगतचित्तस्याऽव्यापारेऽसमाहितस्य याऽस्खलिता सा मध्यमा || ११७ || पूर्ववद्याऽप्यस्खलिता पठिता मध्यमा श्रुतिः | या सदा ह्यनुसन्धानयोगादेव भवेत्तथा || ११८ || पूर्ववद् वर्णादिष्वस्खलिता या श्रुतिः | अनुसन्धानयोगात् समाहितत्वादेव | तथा अस्खलिता || ११८ || पठिता श्रुतिरत्यन्तास्खलिता त्वधमा [क्: मध्यमा] हि सा | एवमेवात्मविज्ञानसिद्धिरुक्ता त्रिधर्षयः || ११९ || अधमा | दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयति - एवमेवेति || ११९ || या महाव्यवहारेषु प्रतिसन्धानवर्जने | अन्यदा तद्वर्जने वा सर्वदा प्रतिसन्धितः || १२० || या ज्ञानसिद्धिः ज्ञानस्थितिः | महाव्यवहारेषु राज्यकृत्यादिरूपव्यापारेषु सत्स्वपि | प्रतिसन्धानवर्जने समाहितत्वाभावेऽपि | अन्यदा व्यापाराभावे प्रतिसन्धानवर्जने | सर्वदा प्रतिसन्धाने सत्येव | अन्यूनाधिकभावा स्यादित्यन्वयः || १२० || प्. ४०१) अन्यूनाधिकभावा स्यात्सोत्तमा मध्यमाऽधमा | अत्रोत्तमैव संसिद्धेः परा काष्ठा निरूपिता || १२१ || अन्यूनेति | अविस्मरणादिनैकरूपतेति तात्पर्यम् | सा ज्ञानसिद्धिस्त्रयाणां क्रमादुत्तमा मध्यमाऽधमा चेत्यर्थः | अत्र तिसृषु ज्ञानसिद्धिषु मध्ये उत्तमैव ज्ञानसिद्धेः परा काष्ठा || १२१ || स्वप्नादिष्वप्यवस्थासु यदा स्यात्परमा स्थितिः | विचारक्षणतुल्येव सिद्धिः सा परमोत्तमा || १२२ || एवं ज्ञानसिद्धेः परां काष्ठां सदृष्टान्तं निरूप्य भूय एतदेव प्रकारान्तरैः स्वगतपरगततत्सिधेर्ज्ञानाय निरूपयति - स्वप्नेत्यादि | आद्यशब्देन बाह्यसङ्कल्पावस्था | विचारक्षणसदृशी शरीराद्यहंभाववर्जनेन शुद्धचिन्मात्राहंभावरूपा || १२२ || सर्वत्र व्यवहारेषु यत्नात् संस्कारबोधतः | यदा प्रवृत्तिः सिद्धेः सा परा काष्ठा समीरिता || १२३ || स्वतः प्रवृत्तौ संस्कारो न प्रबुध्यते | किन्तु आहार्यज्ञान इव स्वप्रयत्नेन संस्कारोद्बोधेन यदा प्रवृत्तिः || १२३ || अयत्नेनैव परमे स्थितिः संवेदनात्मनि | अव्याहता यदा सिद्धिस्तदा काष्ठां समागता || १२४ || अयत्नेनैवेति | यथा हि लौकिकानामयत्नेनैव बाह्यप्रवृत्तिः तथा संवेदनात्मनि परमे देहाद्यनवच्छिन्ने अव्याहताऽविच्छिन्न स्थितिः || १२४ || व्यवहारपरो भावान् पश्यन्नपि न पश्यति | द्वैतं तदा हि सा सिद्धिः पूर्णतामभिसङ्गता || १२५ || एवं स्वगते ज्ञानसिद्धिपराकाष्ठाज्ञानाय तत्प्रकारमुक्त्वा परगतज्ञानायाह - व्यवहारेति | भावान् पश्यन्नपि द्वैतं न पश्यति | द्वैतादर्शनप्रयुक्तव्यवहारस्खालित्यं कादाचित्कमन्यैर्ज्ञातुं शक्यमेव || १२५ || जागरादौ व्यवहरन्नपि निद्रितवद् यदा | स्थितिस्तदा हि सा सिद्धिः पूर्णतामभिसङ्गता || १२६ || जागरादाविति | पूर्वोत्तरानुसन्धानस्य विच्छेदान्निद्रितवत् स्थितिः || १२६ || प्. ४०२) एवं सिद्धिमनुप्राप्तः सिद्धेषूत्तम उच्यते | व्यवहारपरो नित्यं न समाधिं विमुञ्चति || १२७ || मुख्यभूतं चरमप्रश्नं प्रतिवदति - एवमिति | प्रोक्तपराकाष्ठात्मकज्ञानसिद्धिमनुप्राप्तः | मुख्यप्रश्नार्थत्वाद् भूयो बहुप्रकारैरेतन्निरूपयति - व्यवहारेति | व्यवहारपरस्यापि न समाधिविच्छेद इति भावः || १२७ || कदाचिदपि मेधावी स सिधेषूत्तमो मतः | ज्ञानिनां विविधानां च स्थितिं जानाति सर्वदा || १२८ || कदाचिन्न मुञ्चतीति सम्बन्धः | मेधावी एवंविधधारणाप्रकर्षवान् | विविधानाम् उत्तममध्यमादीनां सर्वदा विद्यमानां स्थितिं जानाति || १२८ || स्वानुभूत्या स्वान्तरेव स सिद्धेषूत्तमो मतः | संशयो वापि कामो वा यस्य नास्त्येव लेशतः || १२९ || स्वानुभूत्येति | अहेः पादानिवाहय इति न्यायेन स्वान्तःस्थितसर्वस्थित्यनुभवेन | संशय इति | तन्मूलाविद्याया नष्टत्वादिति भावः || १२९ || निर्भयो व्यवहारेषु स सिद्धेषूत्तमो मतः | सर्वं सुखञ्च दुःखञ्च व्यवहारञ्च जागतम् || १३० || निर्भय इति | हानिलाभाद्यनुसन्धानाभावादिति भावः | व्यवहारं दर्शनस्पर्शनादिरूपं जगत्सम्बन्धि || १३० || स्वात्मन्येवाभिजानाति स सिद्धेषूत्तमो मतः | अत्यन्तं बद्धमात्मानं मुक्तं चापि प्रपश्यति || १३१ || स्वात्मनीति | दर्पणवज्जगद्व्यवहारप्रतिबिम्बाश्रयत्वेन स्वात्मनो ज्ञातत्वात् | अत्यन्तेति | स्वात्मनः सामान्यचिद्रूपत्वेन ज्ञातत्वात् स्वात्मतादात्म्यापन्नमेव सर्वं बद्धं मुक्तं च जीवं पश्यति | तस्य सर्वानुस्यूतत्वेन सर्वात्मत्वात् || १३१ || प्. ४०३) यः स्वात्मनि तु सर्वात्मा स सिद्धेषूत्तमो मतः | यः पश्यन् बन्धजालानि सर्वदा स्वात्मनि स्फुटम् || १३२ || स्वस्य सर्वात्मत्वेन सर्वाधिष्ठानत्वेन सर्वजीवबन्धं स्वात्मनि जानन्नपि त्दसत्यत्वनिश्चयान्मिक्षं नापेक्षते || १३२ || मोक्षं नापेक्षते क्वापि स सिद्धेषूत्तमो मतः | सिद्धोत्तमोऽहमेवेह न भेदस्त्वावयोः क्वचित् || १३३ || क्वापि कदाचिदपि | सिद्धोत्तमं स्तौति - सिद्धोत्तम इति | इह जगति || १३३ || एतद्व ऋषयः प्रोक्तं सुस्पष्टमनुयुक्तया | एतन्मयोक्तं विज्ञाय न क्वचित् परिमुह्यति || १३४ || उपसंहरति - एतदिति | प्रश्नानामुत्तरमित्यर्थः | अनुयुक्तया पृष्टया | जनो न परिमुह्यति || १३४ || इत्युक्त्वा सा परा विद्या विरराम भृगूद्वह | श्रुत्वैतदृषयः सर्वं सन्देहमपहाय च || १३५ || विद्यागीतामुपसंहरति - इत्युक्त्वेति | अपहाय त्यक्त्वा || १३५ || नत्वा शिवादीन् लोकेशान् जग्मुः स्वं स्वं निवेशनम् | विद्यागीता मयैषा ते प्रोक्ता पापौघनाशिनी || १३६ || निवेशनं स्थानम् | गीतां स्तौति - पापौहेति | श्रुता अर्थतोऽवगता पापौघानाशिनी || १३६ || श्रुता विचारिता सम्यक् स्वात्मसाम्राज्यदायिनी | विद्यागीताऽत्युत्तमेयं साक्षाद्विद्यानिरूपिता || १३७ || विचारिता भूयो मननेन हृदयङ्गमीकृता | स्वात्मसाम्राज्यं पूर्णानन्दस्वरूपात्मिका मुक्तिः | इतरगीताभ्योऽत्युत्तमा | तत्र हेतुः - साक्षाद्विद्येति | अन्यगीतानिरूपकश्रीकृष्णादेः शरीरित्वेन समायत्वसम्भवादिति ध्येयम् || १३७ || पठतां प्रत्यहं प्रीता ज्ञानं दिशति सा स्वयम् | संसारतिमिराम्भोधौ मज्जतां तरणिर्भवेत् || १३८ || ज्ञातुमसमर्थानां केवलं पठतामपि विद्याप्रसादेन क्रमात् फलं स्यादित्याह - पठतामिति | संसारनिमित्ताविद्यात्मकान्धकारसमुद्रमग्नानामुद्धारेण तारकमित्याह - संसारेति | तरणिर्नौका सूर्यो वा || १३८ || प्. ४०४) इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे विद्यागीतानाम विंशतितमोऽध्यायः || यथामति मया गीता विद्योक्ता विवृता क्रमात् | श्रीविद्यापादकमले सम्यग् भूयात् समर्पिता || क्वाहं मन्दमतिर्विद्यागीता क्व गहनाशया | यत्नोऽयं स्वात्मशुद्ध्यर्थं तत्संसर्गान्मया कुतः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां विद्यागीताव्याख्यानं विंशतितमोऽध्यायः || प्. ४०५) श्रुत्वेत्थं भार्गवो रामो दत्तात्रेयमुनीरितम् | अविद्याजालविभ्रान्तेर्मुक्तप्रायो बभूव ह || १ || अत्र वरिपपद्यैस्तु मुख्यं ज्ञानस्य साधनम् | लक्षणं शास्त्रतत्त्वं च प्रश्नोत्तरतयोदितम् || भार्गवप्रश्नमवतारयति - श्रुत्वेत्थमिति | सन्देहशेषस्य विद्यमानत्वादाह - मुक्तप्राय इति || १ || पुनः पप्रच्छात्रिसुतं किञ्चिन्नत्वा सुभक्तितः | भगवन् ब्रूहि विज्ञानसाधनं [ख्: विज्ञानं] सुविनिश्चितम् || २ || किञ्चित् पप्रच्छ || २ || सारभूतं च सुलभं यत् साक्षात् फलदायकम् | ज्ञानिनां लक्षणं चापि येन ज्ञास्यामि तान् द्रुतम् || ३ || प्राक्साधनं भूयः प्रोक्तमिति चेदाह - सारभूतमित्यादि | तान् ज्ञानिनः || ३ || ज्ञानिनां देहसंयोगे वियोगे च स्थितिं तथा [क्: यथा] | व्यवहारं कुर्वतां चाप्यनासक्तं मनः कथम् || ४ || देहसंयोगेत्यादि | देहसंयोगवियोगयोः [क्: वियोग नास्ति] देहभानाभानयोः स्थितिं देहद्वारा व्यवहारं कुर्वतां ज्ञानिनाम् अनासक्तं वासनारहितम् || ४ || एतत् सर्वं सुकृपया स्पष्टं मे वक्तुमर्हसि | एवमत्रिसुतः पृष्टो जमदग्निसुतेन वै || ५ || एतत्सर्वं साधनादिकम् || ५ || सन्तुष्टः प्राह करुणासिन्धुः सम्बोध्य भार्गवम् | शृणु राम प्रवक्ष्यामि रहस्यं ज्ञानसाधनम् || ६ || सम्यक्प्रश्नेन भक्तियुक्तेन सन्तुष्टः | रहस्यं शास्त्रेष्वप्रसिद्धम् || ६ || प्. ४०६) ज्ञानस्य साधनं मुख्यं देवतानुग्रहः परः | यः सर्वभावतः स्वात्मदेवतामुपसङ्गतः || ७ || परः मुख्योऽनुग्रहः | अयं मे परमभक्तः एतद्वाञ्छितमवश्यं पूरणीयमिति स्वीयत्वेन ग्रहणम् | अनुग्रहे कारणमाह - सर्वभावत इति | वाङ्मनःकर्मभिः | उपसङ्गतः सामीप्यं सम्यक्प्राप्तः सततमत्यक्तदेवताभावन इति तात्पर्यम् | जपध्यानकर्मैकपरः स्वात्मदेवतां स्वान्तर्यामितया स्थिताम् || ७ || तस्य ज्ञानं सुसुलभं भवतीति विनिश्चयः | एतत् सर्वोत्तमं राम प्रोक्तं ज्ञानस्य साधनम् || ८ || तस्य प्रोक्तदेवतातत्परस्य | एतत् देवतातत्परत्वम् | रहस्यशास्त्रेषु प्रोक्तम् || ८ || अन्यानपेक्षमेतत्तु फलसंसाधने क्षमम् | एतद्विहायान्यदत्र न सम्यक् फलदं भवेत् || ९ || सर्वोत्तमत्वमुपपादयति - अन्येति | एतत् तत्परत्वम् | तुरवधारणे एतदेवेत्यर्थः | क्षमं समर्थम् | एतत् तत्परत्वम् | अन्यत् श्रवणादि | न सम्यक्फलदम् | देवतानुग्रहं विना केवलश्रवणाद्यैः फलपर्यवसायि ज्ञानं न भवेदिति भावः || ९ || शृण्वत्र कारणं राम सकारणमिदं भवेत् | विज्ञानं केवलचितिर्या सर्वस्यावभासिका || १० || अत्र अनुग्रहं विना न फलमित्यत्र | इदं तत्परत्वेनावश्यं फलमिति | सकारणं दृष्टकारणयुतम् | एतदेवोपपादयति - विज्ञानमिति | फलभूतं विज्ञानम् | सर्वावभासिका केवला सामान्या चितिः || १० || तस्यावभासरूपायाः कल्पितावरणं तु यत् | विचारात् तदपोहेन तत्स्वरूपोपलक्षणम् || ११ || तस्याः स्वप्रकाशात्मभूतायाः कथं फलत्वमिति चेदाह - तस्या इति | सन्धिरार्षः | चितेः स्वस्वातन्त्र्यपरिकल्पितं यदावरणविद्याख्यम् | विचाराच्छ्रवणादिरूपात् | तस्यावरणस्यापोहेन नाशेन | तस्याः केवलचितेः स्वरूपस्योपलक्षणं सोऽहमिति प्रत्यभिज्ञानं स्यात् || ११ || प्. ४०७) तच्चान्येषां बहिर्भावतत्पराणां सुदुर्लभम् | भक्तानामन्यपरताहानेन तत्परत्वतः || १२ || तच्च स्वरूपोपलक्षणं च | चकारेण फलं केवलात्मना स्थित्यादि | देवतापराणां कथं सुलभमिति चेदाह - भक्तानामिति || १२ || सुलभं शीघ्रसम्प्राप्यं भवत्येव सुनिश्चितम् | देवतातत्परस्त्वेवं भूत्वा स्वल्पान्यसाधनः || १३ || सुलभमिति | स्त्रीधनादिबहिर्भावपराणां मनसो बहिर्मुखत्वेन दुर्लभम् स्वात्मदेवतापराणां मनसो बहिर्मुखत्वाभावात् सुलभमिति भावः | देवतातत्परस्य सुलभतयैव ज्ञानतत्फलोदयक्रममाह - देवतेति | एवं वाङ्मनःकर्मभिर्देवतातत्परो भूत्वा स्वल्पानि तात्कालिकानि वैराग्याद्यन्यसाधनानि यस्य || १३ || ज्ञात्वा कथञ्चिदात्मानमन्यान् प्रति निरूपयेत् | निरूपयन् सदा राम समावेशं समाप्नुयात् || १४ || कथञ्चित् परोक्षतोऽपरोक्षतो वा | अन्यान् जिज्ञासून् | सदा सर्वकाले | समावेशं तदाकारचित्तताम् || १४ || एवं निरूपणाद्यैस्तु समावेशे दृढे सति | शिवतामाप्य तच्चित्तं हर्षोद्वेगविवर्जितम् || १५ || एवं समाविष्टमनसा | निरूपणाद्यैः निरूपणस्वरूपानुसन्धानैः | समावेशस्य दार्ढ्यम् अप्रयत्नेन चित्तस्य तदाकारताम् | शिवतां शुद्धचिदात्मैकरूपताम् | अत एव हर्षोद्वेगविवर्जितम् || १५ || यत्र यत्र व्रजति तत् सर्वं तच्छिवसात्कृतम् | करोत्युत्तमविज्ञानी जीवन्मुक्तपदस्थितः || १६ || यत्र यत्र दृश्ये | तच्चित्तम् | तद् दृश्यं सर्वं शिवसात्कृतं शिवैकरूपं करोति | दृश्यसम्बन्धेऽपि [क्, ख्: दृश्ये] चिदात्माकारतां न परित्यजतीति भावः || १६ || तस्मात् सुभक्तियोगेनान्येभ्यो भूयो निरूपणम् | श्रेष्ठं साधनमेतत्तु नान्यदेतत्समं भवेत् || १७ || तस्माद् एवंरीत्या महाफलप्राप्तेः | एतत्समं भक्तियोगपूर्वकदेवतातत्परतया सह स्वात्मतत्त्वनिरूपणसमम् || १७ || प्. ४०८) भक्त्या निरूपणसमं न भवेदन्यसाधनम् | ज्ञानिनां लक्षणं राम दुर्विज्ञेयं भवेत् खलु || १८ || द्वितीयप्रश्नोत्तरं वक्तुमाह - ज्ञानिनामिति || १८ || यतः सर्वान्तरं तत्तु नेत्रवागाद्यगोचरम् | न निरूपयितुं शक्यं लक्षितुं वाऽपरैः क्वचित् || १९ || ज्ञानिनः शुद्धचिन्मात्ररूपेणावस्थितत्वात् तत्स्वरूपं देहादेः सर्वस्यान्तरम् | अत एवाह - नेत्रेत्यादि | अत एवाह - न निरूपयितुमिति | लक्षितुं लक्षणयुक्तत्वेन ज्ञातुम् || १९ || यथा शास्त्रज्ञता लोके त्वन्यैर्न ज्ञायते क्वच्ति | देहवस्त्रभूषणाद्यैरेवमन्यैर्न वेद्यते || २० || अत्र दृष्टान्तः - यथेति | ज्ञानित्वं न वेद्यते || २० || विद्वता हि स्वसंवित्तिमात्रवेद्या न चान्यथा | यथा संस्वादितरसरसज्ञत्वं हि भार्गव || २१ || यथा मधुरादिरसज्ञता स्वानुभवमात्रवेद्यैवं ज्ञानित्वमपीत्याह - विद्वत्तेति | रससम्बन्धि रसज्ञत्वम् || २१ || तथापि चतुरैर्विद्यावद्भिस्तद्भाषणादिभिः | वेद्यते हि यथा स्वस्य मार्गः सूक्ष्मपिपीलकैः || २२ || तथापि दुर्विज्ञेयत्वेऽपि | तस्य ज्ञानिनो भाषणमुखप्रसादाद्यैः | अत्र दृष्टान्तः - यथेति | सूक्ष्मपिपीलिकानां मार्गो यथा तैरेव वेद्यते एवं ज्ञानिलक्षणं ज्ञानिमात्रवेद्यमिति भावः || २२ || सन्ति स्थूललक्षाणानि त्वनेकान्तानि तानि तु | सूक्ष्मलक्ष्माणि चान्यानि दुर्विज्ञेयानि वै परैः || २३ || ननु शान्त्यादिस्थूललक्षणानि सन्तीति चेत्तानि व्यभिचरितानीत्याह - सन्तीति | परैः अज्ञानिभिः || २३ || प्. ४०९) निरूपणं भाषणं च साधनाभिनयस्तथा | ज्ञानिनामिव चान्यैस्तु कर्तुं शक्यो हि लक्ष्यते || २४ || स्थूललक्षणानां व्यभिचारमुपपादयति - निरूपणमित्यादि | साधनस्य वैराग्यादेरभिनयः परप्रदर्शनार्थं तच्चिह्नस्य धारणम् | अन्यैरज्ञानिभिर्दाम्भिकैः || २४ || अनिर्मलान्तःकरणैरभ्यस्तं ज्ञानसाधनम् | स्थिरीभवति यत्तेषां लक्षणं तत् प्रकीर्तितम् || २५ || अस्तु तानि स्थूललक्षणानि कानीति चेदाह - अनिर्मलेति | निर्मलान्तःकरणानां ज्ञानसाधनवैराग्याद्यभ्यासो नोपयुक्त इति तात्पर्यम् | यत्साधनं स्थिरीभवति अप्रयत्नेन स्थितं भवति || २५ || यस्य मानावमानौ च लाभालाभौ जयाजयौ | नेषद्विशेषितुं शक्तौ विद्यात् तं ज्ञानिषूत्तमम् || २६ || तदेवाह - यस्येति | संमानादिभिर्यस्य मुखादौ प्रसादादिविशेषो न भवेदिति तात्पर्यम् || २६ || स्वात्मानुभववार्तासु पृष्टो गूढार्थमप्युत | असन्दिग्धः प्रतिवदेद् झटिति ज्ञानिषूत्तमः || २७ || गूढार्थं समाध्यनुभवादिकम् | झटिति अविमृश्यैव | अनुभूतार्थस्य निरूपणे हि न सन्देहो नापि कालविलम्ब इति प्रसिद्धमेव || २७ || यस्योत्साहो भवेद् ज्ञानवार्तास्वतितरां किल | निरूपणे ह्यवैमुख्यं ज्ञानिनो लक्षणं हि तत् || २८ || ज्ञानप्रक्रियानिरूपणे अविमुखता सोन्मुखता || २८ || अनारम्भः स्वभावेन सन्तोषः शुचिचित्तता | महापत्स्वपि शान्तात्मा स भवेज्ज्ञानिषूत्तमः || २९ || अनारम्भः अप्रवृत्तिः | स्वभावेन यत्नं विनैव | चित्तस्याबहिर्मुखता शुचिचित्तता कामादिरहितता | शान्तात्मा उद्वेगहीनः || २९ || एतदादीनि लक्ष्माणि भार्गवोत्तम ज्ञानिनाम् | स्वात्मनस्तु परीक्षायां सुस्थिराणि न संशयः || ३० || आदिना दृश्यानभिष्वङ्गादि | स्वात्मनो ज्ञानित्व परीक्षणे सुथिराणि अव्यभिचरितानि परस्यैतान्यारोपितान्यनारोपितानि च विवेक्तुमशक्यानि | ततो न परज्ञानित्वलक्षणानीति भावः || ३० || प्. ४१०) साधकस्तु सदा स्वात्मपरीक्षातत्परो भवेत् | यथा परीक्षणेऽन्यस्य निपुणः संप्रवर्तते || ३१ || ननु स्वपरीक्षणं व्यर्थमेवेति चेन्नेत्याह - साधक इति | निपुणः सूक्ष्मार्थविचारचतुरः || ३१ || तथा परीक्षन् स्वात्मानं सिद्धिं न कथमाप्नुयात् | यदाऽन्यगुणदोषाणामविचारणतत्परः || ३२ || न कथमाप्नुयात् आप्नुयादेवेत्यर्थः | परीक्षाप्रकारमाह - यदेति | परगुणदोषविचारपरस्य स्वगुणाद्यनुसन्धानं न भवेदिति भावः || ३२ || स्वीयानां गुणदोषाणां विचारपरमो भवेत् | तदा सर्वसाधानानां प्राप्त्या सिद्धिमुपैष्यति || ३३ || विचारपरमः विचारपरः | तदा सगुणदोषविचारे कृते सति | दोषाणां हानेन गुणानामुपादानेन ज्ञानसाधनसम्पत्त्या सिद्धिमेष्यति || ३३ || एवं प्रोक्तानि लक्ष्माणि ज्ञानिनां भृगुनन्दन | स्वात्मनस्तु परीक्षायामुपयुक्तानि सर्वथा || ३४ || प्रोक्तार्थमुपसंहरति - एवमिति || ३४ || अन्येषां तु परीक्षायामनेकान्तान्यमूनि तु | यतो ये ज्ञानिनोऽत्यन्तशुद्धस्वान्ता भृगूद्वह || ३५ || अनेकान्तानि व्यभिचरितानि | अमूनि लक्षणानि | प्राग् दम्भिष्वन्वयव्यभिचार उक्तः सम्प्रति व्यतिरेकव्यभिचारमाह - यत इति | यस्मात् कारणादित्यर्थः || ३५ || तेषामापातसंसिद्धसाधनैः सिद्धिरास्थिता | अतः पूर्ववासनानुरोधव्यापारतत्पराः || ३६ || स्वभावादेवापराधकर्मवासनारहिता ये तेषां तात्कालिकापातसाधनैरेव ज्ञानसिद्धौ पूर्वस्थितकामादिवासनाऽनिवृत्तेः पूर्ववदेव स्वव्यापारतत्परा अज्ञानितुल्यव्यवहारिणः तेषु प्रोक्तलक्षणाभावात् कथं ते परीक्षणीया इति भावः || ३६ || प्. ४११) कथं परीक्षणीयास्ते सामान्यव्यवहारिणः | ज्ञानिनस्तु तत्परीक्षां कुर्युरभ्यासवैभवात् || ३७ || सामान्यः सर्वसाधारणो व्यवहारो येषां ते | ज्ञानिनां परीक्षा ज्ञानिभिः कर्तुं शक्येत्याह - ज्ञानिनस्त्विति | ज्ञानाभ्यासस्य वैभवाद् माहात्म्यात् || ३७ || आपातदर्शनादेव यथा रत्नपरीक्षकाः | मन्दज्ञानवतां देहसंस्था मूढसमैव हि || ३८ || आपातदर्शनादेव परीक्षां कुर्युरिति सम्बन्धः | अत्र दृष्टान्तः - यथेति | रत्नपरीक्षका हि रत्नस्वरूपपरिचयाभ्यासप्रकर्षमाहात्म्याद्यथा आपातदर्शनेऽपि इदं कृत्रिममकृत्रिममिति रत्नपरीक्षां कुर्युरेवं ज्ञानिनोऽपीत्यर्थः | एवं ज्ञानिलक्षणं निरूप्य तृतीयप्रश्नोत्तरं तत्स्थितिमाह - मन्देति | देहसंस्था देहाभिमानस्तन्निमित्तव्यापारस्तत्फलं च | मूढसमा अज्ञानितुल्या || ३८ || यतो न तेषां सहजसमाधिप्राप्तिरस्ति हि | यावद् विमर्शनपरास्तावत्ते पूर्णरूपिणः || ३९ || कुत एवमिति चेदाह - यत इति | सहजः सार्वकालिकः | तेषां कथं मूढसमत्वमिति चेदाह - यावदिति | विमर्शनं स्वरूपानुसंधानं पूर्णचिन्मात्ररूपिणः || ३९ || यदा विचारविमुखास्तदा देहमयत्वतः | सुखदुःखजुषोऽत्यन्तं पशुतुल्यतया स्थिताः || ४० || विचारविमुखास्त्यक्तानुसन्धानाः || ४० || मध्ये मध्ये पूर्णदशासादनान्निर्वृता अपि | तेषां या सा पशुदशा सद्विमर्शान्तरालगा || ४१ || ननु तज्ज्ञानस्य बाधितत्वेन न ततो मोक्ष इति चेन्नेत्याह - मध्य इति | पूर्णदशानुसन्धानेन | निर्वृताः नष्टसंसारतापाः | तेषां पूर्णदशान्तरालगा पशुस्थितिर्न बन्धायेत्याह - तेषामिति || ४१ || प्. ४१२) न बन्धनाय भवति दग्धरज्जुरिव स्थिता | लाक्षारसैर्यदा वस्त्रप्रान्तयुग्मं सुरञ्जितम् || ४२ || तत्र दृष्टान्तः - दग्धेति | तत्पशुदशाया बन्धकत्वाभावमुपपादयति - लाक्षेति || ४२ || व्याप्त्या वासोमध्यमपि सर्वं लाक्षारुणं भवेत् | एवं तस्य व्यवहृतिश्चिदामर्शनमध्यगा || ४३ || व्याप्त्येति | यथा वस्त्राञ्चलद्वयं लाक्षारसैः सुष्ठु रञ्जितं चेद् लाक्षारसस्य व्याप्त्या सर्वं वासोमध्यमपि लाक्षारुणं भवेत् एवं तस्य मन्दज्ञानिनोऽनुसन्धानमध्यगः पशुदशाव्यवहारश्चिन्मात्रीभूतो न बन्धनायेति भावः || ४३ || चिद्रूपात्मैकतां याता न ततो ब्नधनाय सा | मध्यविज्ञानिनां देहसंयोगो नास्ति सर्वथा || ४४ || मध्यज्ञानिनां स्थितिमाह - मध्येति || ४४ || देहात्मत्वग्रहो देहसंयोगः प्रोच्यते बुधैः | स नास्ति मध्यविज्ञानवतो राम कदाचन || ४५ || कुतो विद्यमानदेहस्य सम्बन्धो नेति चेदाह - देहेति | स देहात्मत्वग्रहः || ४५ || अभ्यासातिशयात्तस्य मनो लीनं हि सर्वदा | सदा समाहितस्वान्तो व्यवहारो न तस्य हि || ४६ || कुतो नेति चेन्मनसो लयादित्याह - अभ्यासेति | लीनं सङ्कल्पवर्जनेन निरुद्धम् | तस्य मध्यज्ञानिनः || ४६ || यो देहयात्रानिर्वाहः सोऽपि तस्य सुषुप्तिवत् | यथा कश्चित् सुषुप्तिस्थो वासनामात्रतः क्वचित् || ४७ || भोजनादिव्यवहारस्तस्यास्तीति चेत् तस्याकिञ्चित्करत्वमाह - य इति | कुत एवमिति चेत्तस्याभासत्वादिति सदृष्टान्तमाह - यथेति | वासना संस्कारः || ४७ || किञ्चिदुक्त्वा च कृत्वा च न पश्चाद्वेद [ख्: पश्चाद्वेद न] किञ्च्न | यथा च मदिरामत्तो वदन् कुर्वन्न वेद वै || ४८ || दृष्टान्तान्तरम् - यथेति || ४८ || प्. ४१३) एवमेष [ख्: मेव] महायोगी लोकयात्राबहिर्गतः | किञ्चित् कदाचित् कुर्वंश्च न विजानाति तत्पुनः || ४९ || लोकसम्बन्धिनी यात्रा व्यवहारः | तद्बहिर्गतः तद्रहितः | पुअर्न विजानाति नानुसन्धत्ते || ४९ || प्रारब्धवासनाभ्यां तु स देहो निर्वहेत् सदा | यस्तूत्तमः सुविज्ञानी [क्: त्तमः स वि] देहस्तस्यापि नास्ति हि || ५० || नन्वनुसन्धानाभावे दैहिकव्यवहारः कथं निर्वहेदिति चेदाह - प्रारब्धेति | वासना संस्कारः | यथा शिशोः प्रारब्धोद्बुद्धसंस्कारेण स्तन्यपाने प्रवृत्तिरेवमिति भावः | उत्तमस्य स्थितिमाह - यस्त्विति || ५० || व्यवहारं करोत्येष रथसारथिवत् स्थितः | यथा रथेन व्यापारं कुर्वन् न रथदेहकः || ५१ || तर्हि पूर्वस्मादस्य को विशेष इति चेदाह - व्यवहारमिति | कथं करोतीति चेदाह - रथेति | एतदेवोपपादयति - यथेति || ५१ || सारथिः स्यादेवमेव देहव्यापारतत्परः | न देही नापि व्यापारी शुद्धसंवेदनात्मकः || ५२ || न देहीति | देहतद्व्यापारयोस्त्यक्ताभिमान इति तात्पर्यम् || ५२ || अन्तरत्यच्छसुस्वान्तो बहिर्व्यवहरत्यसौ | यथा स्त्रीवेषितो नाट्ये [ख्: नान्द्ये] द्वैरूप्यमुपसङ्गतः || ५३ || अन्तरिति | अत्यच्छं दृश्याकारलेशरहितम् अत एव सुष्ठु स्वात्मरूपमात्रेण स्थितं स्वान्तं यस्य | अन्तरिति स्वात्ममात्रदृष्ट्या | बहिरिति लोकदृष्ट्यापि | असौ उत्तमज्ञानी | अत्र दृष्टान्तः - यथेति | स्त्रीवेषितः पुरुषः || ५३ || यथा क्रीडन [ख्: क्रीडत्कु] कुमारेण प्रौढस्तद्दोषवर्जितः | एवमेष जगत्क्रीडातत्परो निर्मलाशयः || ५४ || व्यवहारफलाभावे दृष्टान्तः - यथेति | तद्दोषेण क्रीडासम्बन्धिजयपराजयनिमित्तान्तरहर्षादिना वर्जितः | एष उत्तमज्ञानी || ५४ || प्. ४१४) मध्यज्ञानी निरोधस्य प्रकर्षेणाचलस्थितिः | अचलस्थितिरेतस्य विचारस्य प्रकर्षतः || ५५ || मध्यमोत्तमयोः स्थितिभेदनिमित्तमाह - मध्येति | निरोधस्य प्रकर्षः परा काष्ठा | एतस्य उत्तमज्ञानिनः | विचारस्य प्रकर्षः निष्प्रकम्पनिश्चयरूपफलपर्यवसायिता || ५५ || बुद्धेस्तु परिपाकेण मध्यमोत्तमयोर्भिदा | अत्र ते शृणु वक्ष्यामि संवादं ज्ञानिनोर्मिथः || ५६ || कुत एवं साधनभेदेन भिन्ना स्थितिरिति चेदाह - बुद्धेरिति | बुद्धावपराधादिरूपदोषाल्पत्वे विचारमात्रेणैव किञ्चिन्निरोधेन निष्प्रकपनिश्चयस्तदनल्पत्वे तु निरोधबाहुल्यापेक्षणमिति भावः | व्यवहारेऽपि ज्ञानिनां मनः कथमनासक्तमिति प्रश्नस्योत्तरमुक्तप्रायमिति ज्ञेयम् | तदित्थं मन्दज्ञानिन आसक्तेर्मध्ये मध्येऽनुसन्धानेन विच्छेदेनादृढमूलासक्तिमत्त्वात् तदितरयोरनुसन्धानाभावशैथिल्याभ्यामनासक्तत्वं मनस इति | अत्र विज्ञानप्रक्रियाप्रसङ्गे | सर्वसन्देहनाशनं संवादम् || ५६ || पुरा हि पर्वतेशोऽभूद् [ख्, ग्: पार्व] राजा रत्नाङ्गदाह्वयः | स विपाशामनु पुरीमध्यासीदमृताभिधाम् || ५७ || विपाशामनु विपाशानदीतीरे स्थितां पुरीम् || ५७ || तस्य पुत्रौ मात्मानौ स्थितावतिमनीषिणौ | रुक्माङ्गदहेमाङ्गदौ जनकस्यातिवल्लभौ || ५८ || मनीषिणौ निर्मलप्रज्ञौ | वल्लभौ प्रियौ || ५८ || तत्र रुक्माङ्गदो ह्यासीच्छास्त्राणां पारदर्शनः | हेमाङ्गदोऽतिविज्ञानो ज्ञानिनामुत्तमोऽभवत् || ५९ || प्. ४१५) तावुभौ निर्गतौ सर्वसेनाभिः परिवारितौ | मृगयार्थं वसन्तेषु ययतुर्गहनं वनम् || ६० || वसन्तेष्विति | बहुवचनं बहुदिनबोधकम् | गहनं वनं महारण्यम् || ६० || तत्रानेकान् मृगान् व्याघ्रान् शशकान् महिषानपि | हत्वाऽत्यन्तपरिश्रान्तावासाद्य ह्रदमास्थितौ || ६१ || कञ्चन ह्रदम् || ६१ || तद्ध्रदस्य परे पारे न्यग्रोधे ब्रह्मराक्षसः | समस्तशास्त्रसारज्ञो [क्: पारज्ञो] विद्वद्भिर्विवदत्यलम् || ६२ || न्यग्रोधे वटवृक्षे स्थित इति शेषः | अलम् अत्यन्तम् || ६२ || निर्जितान् भक्षयन्नास्ते चिरकालाद्धि भार्गव | रुक्माङ्गदश्चारमुखाद् निशम्य वादकौतुकी || ६३ || निर्जितान् विदुषः | चाराः वृत्तान्तप्रापकाः | ब्रह्मराक्षसवृत्तं निशम्य || ६३ || गत्वा तत्र भ्रातृयुतस्तेन वादपरोऽभवत् | निर्जितस्तेन वादेषु गृहीतो ब्रह्मरक्षसा || ६४ || तत्र न्यग्रोधप्रदेशे | तेन ब्रह्मराक्षसेन || ६४ || रुक्माङ्गदोऽथ तद्दृष्ट्वा प्राह हेमाङ्गदस्तु तम् | भो ब्रह्मराक्षसैनं त्वं न भक्षयितुमर्हसि || ६५ || रुक्माङ्गदो गृहीतः | तं ब्रह्मराक्षसम् | एनं मद्भ्रातरम् || ६५ || मां जित्वाऽवरजं ह्यस्य ततो नौ सह भक्षय | हेमाङ्गदवचः श्रुत्वा प्रोवाच ब्रह्मराक्षसः || ६६ || अस्त्य त्वया गृहीतस्यावरजं माम् | नौ भ्रातरौ || ६६ || चिराय लब्धो ह्याहारो बुभुक्षा मां प्रबाधते | एतेन पारणां कृत्वा विवदामि त्वया सह || ६७ || एतेन त्वद्भ्रात्रा | पारणाम् उपवाससमाप्तिम् || ६७ || ततस्त्वामपि निर्जित्य भक्षितेन त्वया ततः | अत्यन्तं तर्पितो भूयामिति मे नृप निश्चयः || ६८ || प्. ४१६) चिरादेष वरः प्राप्तो वसिष्ठात्तु महात्मनः | कदाचिदागतः शिष्यो वसिष्ठस्य तु भक्षितः || ६९ || एष निर्जितस्य भक्षणात्मकः | वरप्राप्तिमेवाह - कदाचिदिति | अत्रागतो मया भक्षितः || ६९ || देवराताभिधस्तेन शप्तस्तेन महात्मना | इतः परः भक्षयित्वा मनुष्यं ब्रह्मराक्षस || ७० || देवराताभिधः शिष्यः | तेन भक्षणनिमित्तेन | शापप्रकारमाह - इत इति || ७० || दग्धं भवेत्तव मुखमिति पश्चाद् मया मुनिः | भूयः सम्प्रार्थितो मह्यं प्रायच्छद् वरमुत्तमम् || ७१ || इति शप्त इत्यन्वयः | शापप्राप्तेः पश्चात् | भूयः बहुकृत्वः || ७१ || वादेषु निर्जितान् मर्त्यान् भक्षय त्वं समन्ततः | इति तद्वादविजितान् भक्षयामि ततस्त्वहम् || ७२ || वरमेवाह - वादेष्विति | इति वरं प्रायच्छदित्यन्वयः | तत् तस्मात् | ततः तदनन्तरम् प्राप्त इत्यन्वयः || ७२ || चिरायैष [ख्: देष] मया प्राप्त आहारः सर्वतोऽधिकः | भक्षयित्वा ततो वादे त्वां विजेष्यामि भूमिप || ७३ || ततः तस्मात् || ७३ || इत्युक्त्वा भक्षणोद्युक्तं पुनर्हेमाङ्गदोऽब्रवीत् | ब्रह्मराक्षस मद्वाक्यं किञ्चिच्छृणु सुयाचितः [क्: मया चितः] || ७४ || अपि किञ्चित् प्राप्य चैनं परित्यजसि तद्वद | दत्वा तुभ्यं तदेनं तु मोचयामि सहोदरम् || ७५ || किञ्चिदपि यत्प्राप्य | एनं मद् भ्रातरं तद्दत्त्वा || ७५ || इत्युक्तः प्राह भूयस्तं नृपं स ब्रह्मराक्षसः | शृणु राजन्नास्ति तद्वै किञ्चिद् येनैनमुत्सृजे || ७६ || इतोऽधिकं प्रियं किञ्चिन्नास्तीत्याह - शृण्विति || ७६ || प्. ४१७) कः प्राणप्रियमाहारं त्यजेत् कालोपसङ्गतम् | किन्त्वेकः समयो मेऽस्ति प्रश्ना मे हृदि संस्थिताः || ७७ || तत्र हेतुः - कः प्राण इति | काले क्षुधाकाले | उपसङ्गतं प्राप्तम् | समयः प्रतिज्ञा | तमेवाह - प्रश्न इत्यादि || ७७ || तान् मे यदि प्रतिब्र्यूस्तत्ते भ्रातरमुत्सृजे | ततो हेमाङ्गदः प्राह पृच्छ तान् संवदामि ते || ७८ || तान् प्रश्नान् | तत् प्रश्नोत्तरप्राप्त्या | तान् प्रश्नान् || ७८ || इत्युक्तो नृपपुत्रं तं पप्रच्छ ब्रह्मराक्षसः | गूढप्रश्नान् क्रमेणैव तद्वक्ष्ये शृणु भार्गव || ७९ || गूढप्रश्नान् गुप्तोत्तरवत्प्रश्नान् || ७९ || आकाशाद्वितता का [क्: या] स्यात् सूक्ष्मा च परमाणुतः | सा किंरूपा स्थिता कुत्र वदैतन्नृपपुत्रक || ८० || तानेव प्रश्नानाह - आकाशादित्यादि | सा पृष्टरूपा || ८० || वितता चितिर्काशाशात् सूक्ष्मा च परमाणुतः | स्फुरद्रूपा स्वात्मसंस्था शृणु त्वं ब्रह्मराक्षस || ८१ || क्रमेणोत्तरमाह - विततेत्यादि | चितिर्ब्रह्मरूपं सामान्यचैतन्यम् | सर्वान्तरत्वादगोचरत्वाच्च सूक्ष्मत्वम् | स्वात्मसंस्था स्वरूप एव स्थिता || ८१ || एकापि साऽतिवितता कथं सूक्ष्मतरा भवेत् | स्फुरत्त्वं किं किमात्मा च वदैतन्नृपनन्दन || ८२ || वितता सूक्ष्माप्येका च [ग्: च नास्ति] कथं भवेत् || ८२ || कारणत्वाद्धि वितता सूक्ष्माऽग्राह्यत्वतोऽपि च | स्फुरत्त्वमात्मा च चितिः शृणु त्वं ब्रह्मराक्षस || ८३ || उपादानकारणत्वेन सर्वव्याप्त्या वितता | अग्राह्यत्वात् | स्फुरत्त्वमात्मा च चिन्मात्रमेव | न ततोऽधिकमिति तात्पर्यम् || ८३ || स्थानं तदुपलब्धौ किं कथं वा सोपलभ्यते | उपलब्ध्या च किं वा स्याद् वदैतन्नृपनन्दन || ८४ || तस्याः चित उपलब्धौ | कथमिति | कथमिति साधनप्रश्नः | किमिति फलप्रश्नः || ८४ || प्. ४१८) धीः स्थानमुपलब्धौ तु स्वैकाग्र्यात् सोपलभ्यते | उपलब्ध्या जनिर्न स्याच्छृणु त्वं ब्रह्मराक्षस || ८५ || सुष्ठौ परोक्षज्ञानेन मोहवर्जितमैकाग्र्यं दृश्याकारतानुल्लेखः | यद्वा स्वविषयकमेकाग्र्यम् | चित्तस्य दृश्याकारतावर्जनेन स्वात्मचिन्मात्राकारतासम्पत्तिः | एतेन मूढसमाधिर्व्यावृत्तः || ८५ || धीः केयं ते [क्: ते नास्ति] समाख्याता तदैकाग्र्यं च कीदृशम् | जनिर्वाऽपि भवेत् का सा वदैतन्नृपनन्दन || ८६ || चितिर्जाड्यावृता धीः स्यादैकाग्र्यं स्वात्मविश्रमः | जनिर्देहात्मताबुद्धिः शृणु त्वं ब्रह्मराक्षस || ८७ || जाड्यं प्रागुक्ता जडशक्तिरव्यक्ताख्या | स्वात्मनि विश्रमो दृश्यानुन्मुखत्वम् || ८७ || कस्माच्चितेर्नोपलब्धिः केन वा सोपलभ्यते | जनिः कथं वा सम्प्राप्ता वदैतन्नृपनन्दन || ८८ || कस्मान्निमित्तात् | केन करणेन [क्: कार] || ८८ || अविवेकाद् नोपलब्धिरात्मना सोपलभ्यते | जनिः कर्तृत्वाभिमानाच्छृणु त्वं ब्रह्मराक्षस || ८९ || आत्मना स्वेनैव करणान्तरनैरपेक्ष्येणेति [क्: कार] यावत् || ८९ || कोऽविवेकस्त्वया प्रोक्तस्तथात्मा वापि को भवेत् | को वा कर्तृत्वाभिमानो वदैतन्नृपनन्दन || ९० || अविवेकोऽपृथग्ज्ञानमात्मानं पृच्छ स्वात्मनि | तद्वासनाभिमानः स्याच्छृणु त्वं ब्रह्मराक्षस || ९१ || अपृथग्ज्ञानमैक्याध्यासः | आत्मानमिति | तस्य दुर्निरूपत्वेन तदुपलब्धिसाधनस्य चोक्तत्वेन निषेद्धुमशक्यत्वेन प्रत्यग्रूपत्वेन च स्वेनैव ज्ञातुं शक्यमिति भावः | तस्याहं कर्तेति ज्ञानस्य वासना संस्कारः || ९१ || प्. ४१९) अविवेकः केन नश्येत्तस्य किं वा हि कारणम् | तस्याऽपि किं कारणं स्याद् वदैतन्नृपनन्दन || ९२ || तस्य अविवेकनाशकस्य | तस्यापि तत्कारणस्यापि || ९२ || विचारेण स नश्येद्वै वैराग्यं तस्य कारणम् [ख्: वारणम्] | तत्कारणं दोषदृष्टिः शृणु त्वं ब्रह्मराक्षस || ९३ || विषयदोषदृष्टिः || ९३ || को विचारो भवेत् किं वा वैराग्यं सम्प्रचक्षते | दोषदृष्टिश्च का प्रोक्ता वदैतन्नृपनन्दन || ९४ || दृग्दृश्ययोः परीक्षातो दृश्ये तत्परिवर्जनम् | दुःखबुद्धिः सा हि दृश्ये शृणु त्वं ब्रह्मराक्षस || ९५ || दृग्दृश्ययोर्जिज्ञासापूर्वकस्वरूपविवेचनं परीक्षा | सः विचारः | तस्य रागस्य दृश्ये परिवर्जनं वैराग्यम् | दृश्ये दुःखसाधनत्वबुद्धिः सा दोस्ऽदृष्टिः || ९५ || एतत्सर्वं केन भवेत् स वा कस्मादवाप्यते | तत्र वा किं निदानं स्याद् वदैतन्नृपनन्दन || ९६ || एतत्सर्वं विचारादिकम् | केन साधनेन | निदानं मूलकारणम् || ९६ || देवतानुग्रहात् सर्वं भक्त्या स [क: सा] हि समाप्यते | निदानं सत्सङ्ग एव शृणु त्वं ब्रह्मराक्षस || ९७ || सः अनुग्रहः || ९७ || का देवता च सम्प्रोक्ता का च सा भक्तिरुच्यते | सन्तश्च कीदृशाः प्रोक्ता वदैतन्नृपनन्दन || ९८ || देवता स्याज्जगद्धात्रो भक्तिस्तत्परतोच्यते | सन्तः शान्ता दयावन्तः शृणु त्वं ब्रह्मराक्षस || ९९ || जगद्धात्री जगन्नियन्त्री | तत्परत्वं तत्प्रवणत्वम् || ९९ || सदा बिभेति को लोके सदा दुःखपरोऽपि कः | सदा दैन्ययुतः को वा वदैतन्नृपनन्दन || १०० || प्. ४२०) मधाधनी सदा भीतो दुःखी बहुकुटुम्बवान् | आशाग्रस्तः सदा दीनः शृणु त्वं ब्रह्मराक्षस || १०१ || निर्भयः को भवेल्लोके निर्दुःखश्चापि को भवेत् | अदीनः [क्: अहीनः] सर्वदा कः स्याद् वदैतन्नृपनन्दन || १०२ || निर्भयः सङ्गरहितो निर्दुःखो जितमानसः | ज्ञातज्ञेयस्त्वदीनात्मा शृणु त्वं ब्रह्मराक्षस || १०३ || ज्ञातज्ञेयो ज्ञानी || १०३ || दुर्लक्ष्यः स्यात् को हि लोके विदेहो दृश्यते च कः | निष्क्रियस्य क्रिया का स्याद् वदैतन्नृपनन्दन || १०४ || विदेहो देहरहितः || १०४ || जीवन्मुक्तो हि दुर्लक्ष्यो विदेहो देहवानपि | तत्क्रिया निष्क्रियस्योक्ता शृणु त्वं ब्रह्मराक्षस || १०५ || अयं जीवन्मुक्त इति परेर्लक्षितुमशक्यः | देहक्रियायां चाभिमानाभावाद्विदेहो निष्किर्यश्च जीवन्मुक्तः || १०५ || किमस्ति किं नास्ति लोके कोऽत्यन्तासम्भवी भवेत् | एतावदुक्त्वा नृपते मोचय द्रुतमग्रजम् || १०६ || एतावत् चरमं प्रश्नत्रयम् || १०६ || दृगस्ति नास्ति वै दृश्यं व्यवहारो ह्यसम्भवी | उक्तमेतद् ब्रह्मरक्षो मुञ्च मद्भ्रातरं द्रुतम् || १०७ || दृक्सामान्यचैतन्यम् | दृश्याभावादेव तद्विषयकव्यवहारस्यासम्भवित्वम् || १०७ || श्रुत्वैतदथ सन्तुष्टो मुमोच ब्रह्मराक्षसः | रुक्माङ्गदं ततः पश्चादभवद् ब्राह्मणो हि सः || १०८ || एतत् प्रश्नोत्तरम् | सः ब्रह्मराक्षसः || १०८ || तेजस्विनं तपोमूर्तिं दृष्ट्वा ब्राह्मणरूपिणम् | पप्रच्छतू राजसुतौ को भवानिति शङ्कितौ || १०९ || ब्रह्मरक्षसो ब्राह्मणरूपतां दृष्ट्वा शङ्कितौ संशयं प्राप्तौ || १०९ || प्. ४२१) अथ प्राह ब्राह्मणाग्र्यः स्वं वृत्तं वै यथातथम् | अहं पुरा ब्राह्मणस्तु मगधेष्वभिविश्रुतः [ख्, ग्: माग] || ११० || यथातथं [क्: यथातथं नास्ति] यथार्थभूतम् | पाण्डित्यादिगुणैर्विश्रुतः || ११० || वसुमानिति विख्यातः सर्वशास्त्रविशारदः | सभासु निर्जिता भूयो मया विद्याभिमानिना || १११ || विद्वांसः शतशो विप्रास्ततोऽत्यन्तसुगर्वितः | कदाचिद् मगधेशस्य [ख्, ग्: माग] सभायामष्टकं मुनिम् || ११२ || ततो विद्वज्जयात् || ११२ || परावरज्ञं संशान्तं वादार्थी सङ्गतोऽभवम् | शुष्कतर्कैकनिपुण आत्मविद्याविचारणे || ११३ || परावरज्ञत्वादेव संशान्तम् | विचारेण सङ्गतो वादार्थं प्रत्युपस्थितः || ११३ || ततो मया स आक्षिप्तः केवलं तर्कयुक्तिभिः | समाधानवचस्तस्य वह्वागमसुबृंहितम् || ११४ || सः अष्टकः || ११४ || दूषयित्वा तर्कजालैरधिक्षेपपरोऽभवम् | अधिक्षिप्तोऽपि बहुधा मया राजसभागतः || ११५ || समाधानवचनमपि दूषयित्वा | अधिक्षेपः तिरस्कारः || ११५ || शान्तस्तूष्णीं बभूवाथ शिष्यस्तस्य महात्मनः | काश्यपो मां क्रोधवशाच्च्छशाप नृपसंसदि || ११६ || अष्टकः शान्तः || ११६ || आचार्य मेऽधिक्षिपसि त्वमस्थाने द्विजाधम | यतस्तस्माच्चिरं कालं ब्रह्मरक्षो भविष्यसि || ११७ || अस्थाने अधिक्षेपनिमित्ताभावेऽपि || ११७ || शप्त एवमहं तेन भीतोऽत्यन्तं तदा मुनिम् | वेपमानः प्रणम्याशु चाष्टकं शरणं गतः || ११८ || वेपमानः शापभीत्या कम्पितः || ११८ || प्. ४२२) मयि सोऽथ दयां चक्रे विरोधिन्यपि शान्तधीः | शापस्यान्तं ददौ मह्यं तन्मे निगदतः शृणु || ११९ || अन्तं शापमोक्षावधि | तत् शापान्तम् || ११९ || प्रश्नांस्त्वया [क्: त्वयापि हि] मयि कृतान् प्रत्युक्तांश्च मया हि तान् | स्थापितान् केवलैस्तर्कैर्यदैकः प्रतिवक्ष्यति || १२० || त्वया स्थापितान् दूषितोत्तरत्वेनानुत्तरीकृतान् | एको [क्, ख्: एवं] विद्वान् || १२० || कश्चिद् विद्वांस्तदा शापाद्विमुक्तस्त्वं भविष्यसि | तच्छापादद्य [क्: दथ] ते मुक्तश्चिराय नृपनन्दन || १२१ || तच्छापात् तादृशाष्टकशिष्यशापात् | ते त्वत्तः || १२१ || तत्त्वां मन्ये महात्मानं ज्ञातज्ञेयं नृषूत्तमम् | इत्युक्तस्तेन विप्रेण विस्मितोऽभून्नृपात्मजः || १२२ || तत् तस्माद्धेतोः || १२२ || ततो भूयो नृपसुतोऽनुयुक्तस्तेन सर्वशः | वसुमन्तं बोधयित्वा सम्यक् प्रागात् पुरं स्वकम् || १२३ || अनुयुक्तः पृष्टः | तेन ब्राह्मणेन सम्यक् पृष्टार्थान् बोधयित्वा || १२३ || प्रणम्य वसुमन्तं तं सहितो भ्रातृसैनिकैः | एतत्ते सर्वमाख्यातं यत्पृष्टं भार्गव त्वया || १२४ || उपसंहरति - एतदिति || १२४ || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे राक्षओपाख्याने एकविंशोऽध्यायः || इति श्रीत्रिपुरारहस्ये ज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायाम् एकविंशोऽध्यायः || प्. ४२३) अथ द्वाविंशोऽध्यायः श्रुत्वैवं राक्षसकथां रामो भृगुकुलोद्वहः [क्: द्भवः] | पुनः पप्रच्छावधूतकुलेशं प्रश्रयाश्रयः || १ || अत्र रूपकपद्यैस्तु प्रोक्तं ज्ञानिविचेष्टितम् | प्रोक्तं ज्ञानप्रक्रियायास्तत्त्वं चात्यन्तसंग्रहात् || भार्गवप्रश्नमवतारयति - श्रुत्वेति | प्रश्रयो विनयः || १ || भगवन् किं तेन पृष्टं शापमुक्तद्विजेन वै | हेमाङ्गदेन किं प्रोक्तमेतन्मे कृपया वद || २ || कौतुक्यत्यन्तमत्राहं न तदल्पं भवेत् क्वचित् | इति पृष्टः पुनः प्राह दत्तात्रेयो दयापरः || ३ || अत्र तत्संवादश्रवणे | तत्र हेतुः - न तदिति | राजकुमारेण महाविदुषोक्तं तादृशेन ब्राह्मणेन पृष्टं च नाल्पं क्वचिदपि भवेदित्यर्थः || ३ || राम तत्ते प्रवक्ष्यामि महार्थं तत्प्रभाषितम् | ततः पप्रच्छ वसुमान् हेमाङ्गदमुपस्थितम् || ४ || तेन राजकुमारेण प्रतिभाषितम् उप समीपे स्थितम् || ४ || राजपुत्र किञ्चिदहं पृच्छामि त्वं समीरय | अहमष्टकयोगीशात् तदज्ञासिषमादितः || ५ || तत् परात्मतत्त्वम् | अज्ञासिषं ज्ञातवान् | आदितः आदौ || ५ || भूयस्त्वदुक्त्या च सम्यग् विदितं [क्: विहितं] परमं पदम् | किन्तु ते ज्ञाततत्त्वस्य कथं स्थितिरियं भवेत् || ६ || ते तव | इयं मृगयादिव्यवहाररूपा || ६ || कथं ज्ञातसुविज्ञेयो व्यवहारपरायणः | ध्वान्तप्रकाशयोर्यद्वत् स्थितिरेकत्र सम्भवेत् || ७ || किमत्र बाधकमिति चेदाह - कथमिति | व्यवहारपरायणः कथं भवेदिति शेषः | शास्त्रज्ञानामिव परतत्त्वज्ञानामपि भवेदिति चेन्नेत्याह - ध्वान्तेति | ध्वान्तप्रकाशयोरेकत्र स्थितिर्यद्वद्विरुद्धैव सम्भवेदेवमेतदपीत्यर्थः || ७ || प्. ४२४) एतन्मे राजतनय ब्रूहि सम्यग् यथास्थितम् | इत्यापृष्टः प्राह हेमाङ्गदस्तं ब्राह्मणोत्तमम् || ८ || एतद् ज्ञानिनि विरुद्धं व्यवहरणम् || ८ || ब्रह्मन् ते भ्रान्तिरद्यापि न सम्यक् प्रविनाशिता | व्यवहारेण किं ज्ञानं बाध्यते स्वात्मसम्भवम् || ९ || प्रविनाशिता प्रविनष्टा | कुत इति चेदाह - व्यवहारेणेति | किं व्यवहारेणात्मस्वरूपभूतज्ञानस्य विरोधः उताज्ञाननाशकसोऽहमिति प्रत्यभिज्ञात्मकज्ञानविशेषस्य विरोध [विरोधो वेति इति वाघटितः सार्वत्रिकः पाठोऽनावश्यकः उत इत्यनेन गतार्थत्वात् |] इति विकल्प्य नाद्य [क्: विकल्पः | नाद्य] इत्याह - किं ज्ञानं बाध्यत इति | स्वात्मरूपेण सम्भवः स्थितिर्यस्य तत् | किमित्याक्षेपे [क्, ख्: क्षेपः] | न बाध्यत इत्यर्थः || ९ || व्यवहारवशाद् ज्ञानं बाध्यते चेत् [क्: च] ततः कथम् | पुरुषार्थस्य लाभः स्यात् स्वाप्नज्ञानसमेन वै || १० || कुत एवमिति चेदाह - व्यवहारेति | व्यवहारेण स्वरूपभूतज्ञानस्य बाधे स्वाप्नज्ञानवत्तस्यासत्यत्वेन [क्: सत्त्वेन] तादृशेन स्वरूपेण युतस्य मुमुक्षोः स्वरूपनाशात् कस्य कथं मोक्षाख्यपुरुषार्थः स्यादिति भावः || १० || सर्वोऽपि व्यवहारोऽयं ज्ञानमाश्रित्य सम्भवेत् | तज्ज्ञानं बाध्यते तेन कथं तन्मे समीरय || ११ || अथ च स्वरूपभूतज्ञानाश्रितत्वाद्व्यवहारस्य कथं ज्ञानबाधकत्वमित्याह - सर्व इति | तेन स्वमिश्रितव्यवहारेण | तद् व्यवहारस्य ज्ञानबाधकत्वम् || ११ || प्. ४२५) ज्ञानं तदेव हि भवेद् यत्रेदं भासते जगत् | सङ्कल्पाद् व्यवहारो हि ज्ञाने सर्वः [क्: सर्वं] प्रकाशते || १२ || प्रतिबिम्बानां दर्पणवत् सर्वव्यवहाराश्रयं ज्ञानमेव स्वरूपभूतमित्याह - ज्ञानमिति | द्वितीयस्याप्यज्ञाननाशकज्ञानविशेषस्य किं व्यवहारः स्वरूपनिवर्तको वाऽप्रामाण्यग्राहको वेति विकल्प्य स्वरूपस्य क्षणिकत्वान्निवर्तकानपेक्षणाद् द्वितीयं निरसितुमाह - सङ्कल्पादिति | स्वरूपभूते ज्ञाने || १२ || असङ्कल्पेन तद्रूपमनुलक्ष्य धिया सकृत् | कृतार्थो बन्धनिर्मुक्तो भवतीति सुनिश्चयः || १३ || असङ्कल्पेनेति | तत्तच्छब्दोल्लेखरूपसङ्कल्पाद्धानोपादानाद्याभासरूपव्यवहारेण [क्, ख्: स्वस्वरूप] तिरोहितमिव सम्पन्नं स्वस्वरूपं [ग्: स्वरूपम्] श्रवणादिना परोक्षत्वेन विदितं निदिधयसनरूपसङ्कल्पेन स्वतोऽनुभूय ततो धिया सकृदनुलक्ष्य सोऽहमिति सकृत्प्रत्यभिज्ञाय कृतार्थो भवति | तथा च सकृदनुलक्षणरूपप्रत्यभिज्ञानादविद्यानाशेन बन्धान्नितरां मुक्तत्वात् पुनरबाधितविकल्पानुदयेनाप्रामाण्यग्रहानुदयादिति भावः || १३ || तस्माद् ब्रह्मन्न ते प्रश्नः सम्मतोऽयं सुबुद्धिभिः | पुनस्तं प्राह वसुमान् नृपसूनुं महाशयम् [ख्: शयः] || १४ || तस्माद् व्यवहारेण बाधाभावस्य स्पष्टत्वात् | इति श्रुत्वा पुनः प्राह || १४ || सत्यं राजकुमारैतद् मयापीत्थं सुनिश्चितम् | स्वरूपं निर्विकल्पं हि संवेदनमिहोच्यते || १५ || इत्थं त्वदुक्तरीत्या | तथापि व्यवहारे क्रियमाणे भ्रान्तिः स्यादेवेत्युपपादयति - स्वरूपमिति || १५ || सविकल्पत्वमापन्ने पुनर्भ्रान्तिः कुतो नहि | विकल्प एव हि भ्रान्तिर्यथा रज्जौ भुजङ्गमः || १६ || पुनर्भ्रान्तिरिति | तत्तदाकारोल्लेखसङ्कल्पमन्तरा व्यवहारासम्भवेनाकारस्य स्वरूपेऽसतो विरुद्धस्यावभासमानत्वे सति भ्रान्तित्वं स्यादेवेत्यर्थः | स्वस्य ज्ञानात्मनो विरुद्धविकल्पस्वरूपतैव भ्रान्तिरित्याह - विकल्प इति | ततः किमिति चेदाह - यथेति | यथा रज्जुभुजङ्गोऽनर्थावह एवं विकल्पाभासोऽनर्थावह इति भावः || १६ || प्. ४२६) शृणु ब्रह्मन् न जानासि भ्रमाभ्रमविनिर्णयम् | गगनं [क्: गगने नीलिमा भाति] नीलमाभाति गगनं जानतामपि || १७ || उत्तरमाह - शृण्विति | ज्ञाततत्त्वानां व्यवहारो न भ्रम इत्याह - शृण्विति (भ्रमेति) | एतदेवोदाहरणेन विशदयति - गगनमिति | गगनं न नीलमिति जानतामपि || १७ || व्यवहारं च कुर्वन्ति नीलं नभ इति क्वचित् | तावतैव तु तज्ज्ञानं न भ्रान्तिरभिधीयते || १८ || क्वचित् समये | तावता व्यवहारमात्रेण तज्ज्ञानं तेषां गगनतत्त्ववेदिनां [क्: गगनत्व] नीलं नभ इति ज्ञानम् || १८ || अतत्त्वज्ञे हि सा भ्रान्तिस्तत्त्वज्ञे सा प्रमैव हि | हतप्रामाण्यजीवं तज्ज्ञानं मृतमहाहिवत् || १९ || अतत्त्वज्ञे गगनतत्त्वानभिज्ञे सा [क्, ख्: सा नास्ति] नीलं नभ इति प्रतीतिः | ननु कथमेकविधमेव ज्ञानं पुरुषभेदेन भ्रमप्रमोभयरूपमिति चेत्तयोरस्ति भेद इत्याह - हतेति | ज्ञानां हि प्रमाण्यं जीवभूतमस्ति यद्वशादर्थक्रियोदयः | यथा हि सर्पज्ञानं भयकम्पाद्यर्थक्रियां करोति | विरुद्धज्ञानेन नायं सर्प इत्यादिरूपेण सर्पज्ञानस्याप्रामाण्यग्रहे तस्य हतप्रामाण्यजीवत्वेन मृतसर्पवद् न भयाद्यर्थक्रियाकरत्वम् | एवं च गगनतत्त्वज्ञानां नीलं नभ इति ज्ञानस्य हतप्रामाण्यजीवस्यार्थक्रियाकारित्वाभावाद् गगनतत्त्वाज्ञज्ञानवैलक्षण्येन [ख्: तत्त्वज्ञ] न भ्रमत्वमिति || १९ || प्. ४२७) दर्पणप्रतिबिम्बस्य व्यवहारः समो [क्: हारसमो] भवेत् | अभिज्ञस्यानभिज्ञस्य चाप्यतोऽस्ति भिदा तयोः || २० || दर्पणेति | विदितगगनतत्त्वस्य नीलं नभ इति व्यवहारो यस्तस्य दर्पणप्रतिबिम्बगजेऽयं गज इत्यादिव्यवहारः समो भवेत् | अतो गगनाभिज्ञस्यानभिज्ञस्यापि [क्: नभिज्ञस्य नास्ति] नीलं नभ इति ज्ञानयोर्भेदोऽस्ति || २० || ज्ञस्य प्रमैव तज्ज्ञानमज्ञस्य [ग्: मन्यस्य] तु भ्रमात्मकम् | ज्ञानिनां ज्ञानमेव स्यात् सर्वोऽपि व्यवहारकः || २१ || ज्ञस्येति | गगनतत्त्वज्ञस्य प्रमैवेति भ्रमप्रयुक्तार्थक्रियाभवादिति भावः | तज्ज्ञानं नीलं नभ इति ज्ञानम् | दार्ष्टान्तिके योजयति - ज्ञानिनां ज्ञानमेवेति | प्रोक्तवद् हतप्रामाण्यजीवत्वान्नानर्थावहः [क्: नार्थावहः] सर्वोऽपि व्यवहार इति भावः || २१ || दर्पणप्रतिबिम्बानां व्यवहारेण सम्मितः | अभिज्ञानामतो भूयो नहि भ्रान्तेः समुद्भवः || २२ || ज्ञानिव्यवहारो दर्पणप्रतिबिम्बव्यवहारतुल्य इत्याह - दर्पणेति | अतः तद्व्यवहारस्य बाधितत्वात् | भ्रान्तेरिति | ज्ञानिव्यवहारस्य ज्ञानमात्ररूपत्वेन न तस्य भ्रान्तित्वमिति भावः || २२ || केवलाज्ञानजनितं ज्ञानेन विनिवर्तते | दोषेऽन जनितं कस्माद्विलीयेद् ज्ञानमात्रतः || २३ || ननु रज्ज्वज्ञानजातसर्पस्य तज्ज्ञानान्निवृत्तिवदद्वयात्माज्ञानाद् अवभासमानदृश्यस्याद्वयज्ञानात् [क्, ख्: दभास] कुतो न निवृत्तिरिति चेदाह - केवलेति | कस्माद्विलीयेदिति | विलीयेतेत्यर्थः | ज्ञानस्य तद्विलयकारणत्वाभाव इति तात्पर्यम् || २३ || अत एव तैमिरिकः पश्येद् [ख्: पश्यन्] जानन्नपि द्वयम् | जगदाभास एषस्तु कर्मदोस्ऽसमुद्भवः || २४ || अत्रोदाहरणमाह - अत एवेति | जगदुद्भवे कोऽयं दोषः कारणमिति चेदाह कर्मेति || २४ || प्. ४२८) तस्मादाकर्मविलयं व्यवहारो न लीयते | समाप्ते कर्मणि ततः शिष्येदद्वयचिन्मयम् || २५ || तस्मात् ज्ञानमात्रेणाविनाश्यत्वात् [क्: मात्रेण वि] | कर्मणि समाप्ते फलदानेन प्रक्षीणे सति | जगदाभासरहितमद्वयचिन्मयमात्मरूपं शिष्येत् | अज्ञानमूलकदेहाद्यहंभावोद्भूतकर्ममूलकत्वाज्जगतः | अज्ञानस्य ज्ञानेन निवृत्तावपि प्रवृत्तकर्मविलयादेव जगतः स्वरूपतोऽनवभास इति तात्पर्यम् || २५ || तस्मान्नास्त्येव विज्ञानां [क्: विज्ञानं] कदापि भ्रान्तिसम्भवः | इति श्रुत्वा पुनर्विप्रः पप्रच्छ नृपनन्दनम् || २६ || तस्माद् व्यवहारस्य ज्ञानमात्रत्वान्न [क्: हारज्ञान] भ्रान्तिसम्भवः | कर्मशेषाद्वैताभास इति श्रुत्वा || २६ || अहो नृपात्मज कथं ज्ञानिनां कर्म सम्भवेत् | ज्ञानाग्निसंस्पर्शनेऽपि कर्मतूलः कथं स्थितः || २७ || ज्ञानिनां कथं कर्मशेष इत्याक्षिपति - अहो इति || २७ || अथाह हेमाङ्गदोऽपि विप्रं तं नृपनन्दनः | ब्रह्मन् शृणु प्रवक्ष्यामि त्रिविधं कर्म ज्ञानिनाम् || २८ || अथ विप्रप्रश्नानन्तरम् | ज्ञानिनां सर्वेषां त्रिविधं कर्म समानं स्यादिति सम्बन्धः || २८ || सर्वेषां च समानं स्यादपक्वं पक्वमेव च | हतोदितं चेति तत्र नश्येद् ज्ञानादमध्यमम् || २९ || तन्नामान्याह - अपक्वमिति | सञ्चितं प्रारब्धं क्रियमाणमिति त्रिविधं कर्म | तत्र तेषु मध्ये ज्ञानात् पक्वात्मकप्रारब्धकर्मणो मध्यमादन्यद् द्वयं नश्येत् || २९ || कर्मणां पाचकः कालो नियत्या नियतः स्थितः | कालेन पाचितप्रायं पक्वं कर्म समीरितम् || ३० || एतेषां स्वरूपं विवेचयति - कर्मणामित्यादि | एतावता कालेनास्य कर्मणः पाको भवेदिति भगवत्सङ्कल्पात्मकनियतिनियमितः क्रमिकक्रिअयराशिरूपः कालः कर्मणां पाचकः | पाचितप्रायमिति | अत्यन्तपरिपाके हि युगपत् सर्वं फलप्रदोन्मुखमेव भवेदिति तात्पर्यम् || ३० || प्. ४२९) अपाचितमपाक्वं स्याद् ज्ञानोत्पत्तेरनन्तरम् | कृतं हतोदितं विद्धि ज्ञानाद्धतसमुद्भवात् || ३१ || अपाचितमिति | तत्पुरुषायुषा परिपाकानर्हमित्यर्थः | अनन्तरं कृतं कर्म | नाम्नोऽन्वर्थतामाह - हतेति | ज्ञानाद्धतफलप्रदशक्तिमत्त्वेन समुद्भवादित्यर्थः || ३१ || तत्र पक्वं तु यत् कर्म तदारब्धमितीर्यते | आवेगं मुक्तशरवत्तिष्ठत्येव फलप्रदम् || ३२ || तिष्ठत्येवेति | न ज्ञानेन नश्यतीति भावः || ३२ || तन्मूलको जगद्भासो ज्ञानस्य तारतम्यतः | स्थितोऽपि भ्रान्तितुल्योऽपि न भ्रान्तिः फलभेदतः || ३३ || तन्मूलकः प्रारभ्दकर्ममूलकः | स जगदवभासो ज्ञानिनामुत्तमादीनां ज्ञानपरिपाकतुल्यतया स्थित इत्याह - ज्ञानस्येति | तारतम्यतः मन्दातिमन्दत्वादिरूपेण [क्, ख्: रूपेणाकुतो] | कुतो न भ्रान्तिरिति चेदाह - फलभेदत इति | अर्थक्रियाभेदादित्यर्थः || ३३ || जनयेत् तत्कालफलं मन्दज्ञानवतां स्फुटम् | मध्यानामस्फुटं [ख्: मध्यानां च स्फुटं] तच्च ज्ञानिनां फलभासनम् || ३४ || जगदवभासफलभेदमेव मन्दमध्यमोत्तमज्ञानिनां क्रमेणाह - जनयेदिति | जगदवभासः स्वकाले मन्दज्ञानिनां सुखादिरूपं फलं जनयेत् | मध्यानां ज्ञानिनां तत्फलभासनं जगद्भासकाले मन्दज्ञानिवदेवास्ति परन्तु तदस्फुटम् | मन्दसुषुप्तौ मशकदंशनमन्दमारुतजदुःखसुखसममिति [क्: सुखं सम] भावः || ३४ || उत्तमानां तु तत्कालफलं च स्पष्टभासनम् | शशशृङ्गसमं ब्रह्मन् नहि तत्फलमुच्यते || ३५ || उत्तमज्ञानिनां तु जगद्भसनकाले सुखादिफलम् अन्यदृष्ट्या स्पष्टावभासनमपि स्वदृष्ट्या शशशृङ्गसमम् अतो न तत्फलमित्युच्यते || ३५ || प्. ४३०) अज्ञानिनां कर्मफलं पुष्टं पूर्वानुसन्धितः | पूर्वापरानुसन्धानात् [ख्: पूर्वोपपुष्ट] पोषितं तत्फलं तु तैः || ३६ || एवं ज्ञानिनां जगदाभासफलभेदं सामान्येनोक्त्वा विशेषेणैतदेव भूयो निरूपयितुमादावज्ञानिनां फलप्रकारमाह - अज्ञानिनामिति | पूर्वानुसन्धितः पुष्टमित्यस्यैव विवरणम् - पूर्वेत्यादि | सुखागमनात् पूर्वमीदृशं सुखं मे भविष्यतीति तदुत्तरं चैवं सुखं मयानुभूतमिति च चिरमनुसन्धानात् पोषितं संस्काररूपेण रागाद्युत्पादकतेनान्तः स्थितं भवति || ३६ || ज्ञानिनां फलसन्धानं छिन्नमात्मानुसन्धितः | अतो न पुष्टं मन्दानामारब्धजनितं फलम् || ३७ || मन्दानां ज्ञानिनां तत्फलस्यानुसन्धानं मध्ये मध्य आत्मानुसन्धितश्छिन्नं भवति | अतोऽज्ञानिनामिव न तत्पुष्टं भवति || ३७ || मध्यानां ज्ञानिनां तच्च फलं मन्दसुषुप्तिषु | मशकादिकृतं दुःखमिव तत् सूक्ष्मतां गतम् || ३८ || सदा निरोधसमाधिमतां मध्यज्ञानिनां समाधिविश्लेषदशासु प्रारब्धफलं दुःखं सुखं वा सुषुप्तौ मशकमन्दमारुतकृतदुःखसुखवत् सूक्ष्मतां प्राप्तं भवति || ३८ || उत्तमज्ञानिनां तत्तु फलं पूर्णमपि [ख्: पूर्वमिति] स्थितम् | दग्धरज्जुरिव भवेत् स्थितात्मज्ञानवैभवात् || ३९ || उत्तमज्ञानिनां बाह्यसमाधिमतामन्यदृष्ट्या एष सुखी दुःखीति व्यवहारयोग्यत्वेन पूर्णं स्थितमपि दृश्याभसफलं [क्: दृश्य] सुखादिदृष्ट्या दग्धरज्जुवद्भवेत् | कुत एवमिति चेदाह - स्थितेति | मध्यज्ञानिनः समाधिविश्लेषात् स्वरूपानुसन्धानं विच्छिद्यते उत्तमस्य तु सदानुसन्धानात्मज्ञानस्थितिमाहात्यमाद्दग्धरज्जुवद्भवेदिति भावः || ३९ || प्. ४३१) यथा नाटकवृत्तेषु नरो वेषान्तरं गतः | हृष्यन् विषीदंश्च भूयो नान्तर्विकृतिमाप्नुयात् || ४० || उत्तमज्ञानिनस्तत्सुखाद्यनुभवप्रकारं दर्शयति यथेति | वेषान्तरं स्त्रीवेषम् | पुत्रोद्भवभर्तृवियोगाद्यभिनयैः हृष्यन् विषीदन् || ४० || एवमेष स्थितज्ञानी सुपूर्णफलसङ्गतः | न फलैः स्पृश्यते तस्मात्तत्फलं शशशृङ्गवत् || ४१ || लोकदृष्ट्या राज्यलाभपुत्रमरणादौ हृष्यन् खिद्यन् सुपूर्णफलसङ्गतोऽप्यन्तः सर्वस्य स्वात्ममात्रत्वदृढनिश्चयेन फलस्य द्वितीयस्याभावान्न तैः स्पृश्यते | फलसम्बन्धाभिमानवान्न भवतीति तात्पर्यम् || ४१ || अज्ञानिभिस्तु शुद्धात्मा नोपलक्षित एव हि | अतो देहात्मभूतास्ते दृश्यसत्यविमर्शनाः || ४२ || अज्ञानिनां कुतः फलसम्बन्धाभिमान इति चेदात्मज्ञानाभावेन दृश्यसत्यत्वनिश्चयादित्याह - अज्ञानिभिरिति | देहात्मभूताः स्वात्मानं देहादिमयं मन्यमानाः दृश्ये सत्यत्वविमर्शनं येषां ते || ४२ || मन्दज्ञानिभिरात्मा तु विदितः शुद्धचिन्मयः | जगच्चासत्यतो दृष्टं तथाप्यभ्यासमान्द्यतः || ४३ || मन्दज्ञानिनां कथं फलभोग इति चेन्मध्ये मध्ये स्वरूपानुसन्धानविस्मृत्या देहात्मभावप्राप्त्येत्याह - मन्देति | विस्मृतौ निमित्तमाह - अभ्यासमान्द्यत इति || ४३ || प्राग्वासनाहृतज्ञानास्ते देहात्मप्रभासनम् | जगतः सत्यताभासं मध्ये मध्ये समाययुः || ४४ || वासनया हृतं विच्छिन्नमनुसन्धानात्मकं ज्ञानं येषां ते मन्दज्ञानिनः | देहे आतम्त्वप्रभासनं जगतः सत्यताभासं च मध्ये मध्ये प्राग्वद् ज्ञानोत्पत्तेः पूर्वमिव समाययुः || ४४ || प्. ४३२) भूयो ज्ञानवसनया [क्: वासना या] विधुन्वन्त्यसतीं दृशम् | वासनैवं सत्यमिथ्याज्ञानयोश्च परस्परम् || ४५ || नन्वेतेषां भूयः संसारप्रसक्तिरिति चेदाह - भूय इति | अभ्यस्तज्ञानवसनया प्रोद्बुद्धया | असतीं देहात्मत्वादिविषयाम् | वासना परस्परं मिलितेति सम्बन्धः || ४५ || मिलिता मन्दज्ञानिनामतो मध्ये फलं स्फुटम् | समेऽपि वासने चैते नहि तुल्ये महीसुर || ४६ || मध्ये मिथ्याज्ञानवासनोद्बोधकाले | नन्वेवं वासनयोस्तुल्यत्वेन तज्ज्ञानं प्रतिबद्धं मोक्षासाधकं [क्, ख्: मोक्षसा] भवेदिति चेन्नेत्याह - समेऽपीति | समानानुवृत्तिके अपीत्यर्थः || ४६ || सत्यज्ञानवासनया बाध्यते वासनाऽपरा | न च मिथयवासनया बाध्यते सत्यवासना || ४७ || कुतो न तुल्येति चेदज्ञानवासनाया बाधितत्वादित्याह - सत्येति | अपरा अविद्यावासना | सत्यवासनायाः प्रबलप्रमाणजातत्वेन मिथ्यावासनया न बाध इत्याह - न चेति || ४७ || मिथ्यावासनयाविष्टो विस्मृतः केवलां पराम् [क्, परः; ख्: परम्] | ततो मिथ्यावासनां तु विनिश्चित्य भ्रमात्मिकाम् || ४८ || ननु मिथ्यावासनाया बाधितत्वे सत्यवासनानिवृत्तिः [क्, ख्: नाया निवृत्तिः] कथं मिथ्यावासनाकाल इति चेदाह - मिथ्येति | अभ्यासाप्रकर्षान्मिथ्यावासनाऽनन्तजन्माभ्यस्ता बाधिताऽप्यनुवर्तते | ततः प्रारब्धोद्बोधेन केवलां परां वासनां विस्मृतः सन् मिथ्यावासनाविष्टो भवति | ततः प्राप्तां मिथ्यावासनां सत्यवासनाविष्टो भ्रान्तिरूपां निश्चित्य || ४८ || विधूय वासनां सत्यामुपैति ब्राह्मणोत्तम | ततो न बाधिता सत्यवासना भवति क्वचित् || ४९ || मिथ्यावासनां भ्रमात्मिकां निश्चित्य ततो विधूयेति सम्बन्धः | सत्यां वासनामुपैति सम्प्राप्नोति | ततो मिथ्यावासनाया भ्रान्तित्वनिश्चयात् || ४९ || प्. ४३३) मध्यमस्य विस्मृतिर्नो न मिथ्याज्ञानमेव च | अविस्मृतस्येच्छयैव मिथ्याज्ञानं क्वचिद्भवेत् || ५० || एवं मन्दज्ञानिनः स्थितिमुक्त्वा मध्यस्य स्थितिमाह - मध्यमस्येति | सत्यवासनाविस्मृतिर्नो | मध्ये शारिरव्यवहारदशायां सत्यवासनामविस्मृतस्यैव स्वेच्छया व्यवहारोपयुक्तं मिथ्याज्ञानं भवेत् || ५० || सिद्धस्यैषा स्थितिः प्रोक्ता साधकस्योच्यते शृणु | यथा यथा तत्परः स्यात्तथाऽविस्मृतिरुच्छ्रिता || ५१ || एवं सामान्यतो मध्यमस्य स्थितिमुक्त्वा तस्य सिद्धसाधकत्वेन द्वैविध्याद् द्वयोः क्रमेण स्थितिं वक्तुमाह - सिद्धस्येति | तत्परः समाध्यभ्यासपरः | उच्छ्रिता दृढाऽविस्मृतिः || ५१ || पूर्णस्य विस्मृतिर्नास्ति [ख्: च स्मृति] मिथ्याज्ञानं प्रयत्नतः | उत्तमस्य पुनर्ब्रह्मन् समाधिव्यवहारयोः || ५२ || पूर्णस्य समाध्यभ्यासपारङ्गतस्य प्रयत्नतः स्वेच्छया | उत्तमज्ञानिस्थितिमाह - उत्तमस्येति || ५२ || न भेदो लेशतोऽप्यस्ति यतोऽविस्मरणं सदा | यः समाधिपरो मध्यस्तस्य याऽविस्मृतिः स्थिता || ५३ || स्थितेर्न भेदः | अत्र हेतुः - यत इति | नन्वेवं चेन्मध्यमोत्तमयोः को भेद इति चेदाह - य इति | नन्वेवं चेन्मध्यमोत्तमयोः को भेद इति चेदाह - य इति | अविस्मृतिः || ५३ || सेषन्म्लाना [क्: सैषा] भवेन्मिथ्याज्ञानभूमिषु भूसुर | यस्तूत्तमोऽपि स्वाच्छन्द्यात् प्रारब्धवशतोऽपि वा || ५४ || सा अविस्मृतिः | मिथ्याज्ञानदशासु ईषन्म्लाना भवेत् व्यवहारदशासु सत्यवासना विच्छिन्नेव भवेदिति तात्पर्यम् | उत्तमस्य कदाप्यविस्मृतेरम्लानतेत्याह - यस्त्विति | स्वाच्छन्द्यात् स्वेच्छया प्रारब्धाद्वा समाध्यतत्परो व्यवहारपरः | ताअप्यविस्मृतिरम्लानैवेत्यर्थः || ५४ || प्. ४३४) समाध्यतत्परो भूयात् तस्याम्लानैव चास्मृतिः | वस्तुतः शृणु भूदेव मध्यमोत्तमज्ञानिनाम् || ५५ || एवं मध्यमोत्तमयोः प्रारब्धाभ्युपगमेन तत्फलं प्रतिपाद्य सम्प्रति तयोर्न प्रारभ्द्मपीत्याह [क्, ख्: मित्याह] वस्तुत इति || ५५ || कर्म नैवास्ति [क्: मर्णैवास्ति] यत्किञ्चिद्यतस्ते पूर्णतां गताः | संविदात्मातिरिक्तं यन्न ते पश्यन्ति किञ्चन || ५६ || यत्किञ्चित् प्रारभ्दं कर्मापि | पूर्णत्वं गतानां कुतो न प्रारब्धमिति चेदाह - संविदिति | यत् यस्मात् | ते मध्यमा उत्तमाश्च [क्: उत्तमा नास्ति] संविदात्मातिरिक्तं न किञ्चन पश्यन्ति | अत्रेदं तात्पर्यम् - कर्मादृष्टं [क्, ख्: कर्मादृष्टफला] फलानुरोधेन कल्प्यते | ज्ञानिषु फलदर्शनाज्ज्ञानेन प्रारब्धानिवृत्त्यभ्युपगमः | तच्च फलं मन्दज्ञानिन्येव सम्भवतीति तस्यैव कल्पनीयं प्रारब्धं नान्ययोः | फलं च [क्, ख्: चैतदेव] तदेव भवति यत्सुखाद्यन्तःकरणारूढं स्वीयत्वेन भासेत | नहि मध्यमोत्तमयोरन्तःकरणारूढं तत्स्वीयत्वेन भातीति वक्तुं युक्तम् समाधौ सुखादेरत्यन्तमभानात् व्युत्थाने च प्रतिबिम्बानां दर्पणमात्रात्मत्ववद्दृश्यमात्रस्यानात्मनः [क्: मात्रात् सत्त्व] स्वात्मदृङ्मात्रत्वप्रतीतेरात्ममात्रत्वेन भासमानसुखादेः स्वीयत्वेनाभानात् | न च स्वात्मेत्वेनापि भासमानं सुखादि प्रारब्धनिमित्तकमेवेति वाच्यम् परकीयत्वेन भासमानसुखादेरपि भासमानत्वसामान्यात् स्वप्रारब्धमूलकत्वप्रसङ्गात् | नहि तत्परप्रारब्धमूलकमेवेति वक्तुं शक्यम् परैः स्वीयत्वेन ज्ञायमानसुखादेरेव तत्प्रारब्धनिमित्तकत्वात् स्वीयत्वेन ज्ञायमानस्य तस्य स्वं प्रत्येवं फलत्वात् परकीयत्वेन ज्ञायमानस्य तस्य सुख्यहमिति स्वसम्बन्धानुभवानिमित्तस्य घटादितुल्यत्वेन तं प्रत्यफलत्वाच्च [क्, ख्: प्राप्य फल] | प्. ४३५) अतस्तेषां फलभूतसुखाभावान्न प्रारब्धकल्पने प्रयोजनमिति | मन्दज्ञानिनस्तु सर्वं संविन्मात्रमिति सत्यवासनाऽनुसन्धानविस्मरणेन व्यव्हारप्रसक्तौ तात्कालिकसुखादेः स्वीयत्वेन भानादस्ति प्रारब्धकल्पनप्रयोजनम् | ननु मन्दज्ञानिनां वास्तवस्वरूपानुसन्धानविच्छेदेन विपरीतप्रत्ययसम्भवे तद्विपरीतप्रत्ययैः प्रतिबद्धतज्ज्ञानस्य न पुरुषार्थसाधकत्वं साक्षादिति चेत् सत्यमेवैतदिति [क्, ख्: सत्यमेवं वै तदिति] केचिदाहुः | तत्त्वविदस्तु सम्यग्ज्ञानसमकालमेवाज्ञाननिवृत्तेः स्वरूपावरणस्य नष्टत्वात् प्रारब्धनिमित्तकाज्ञानविक्षेपशक्तेरेव किञ्चित्कालमनुवृत्तिः | फलप्रदानमात्रेण प्रारब्धे स्वत उपक्षीणे सति देहान्तरप्रापककर्माभावात् स्वरूपावरकाज्ञानान्तरोत्पत्तिनिमित्ताभावाच्च विकल्पोत्पादकान्तःकरणस्याप्यनिन्धनानलवन्नाशे देहान्तरासम्भवो ब्रह्मात्ममात्रपरिशेष इति मोक्षोऽवर्जनीय एव | यस्य तु विपरीतप्रत्ययेन ज्ञानं बाधितमेव भवेन्न तस्य सम्यग् ज्ञानम् किन्तु ज्ञानाभास एव | अत एव केवलज्ञानिजीवन्मुक्तयोर्भेदः शास्त्रोक्तः सङ्गच्छते | मन्दज्ञानिनः सदानुसन्धानाभावेनाऽन्तकाले यं यं वापि स्मरन् भावम् (भ० गी० ८| ६) इति न्यायेन प्रारब्धनिमित्त्कविपरीतस्मरणेन देहान्तरप्रसङ्ग इत्यपि न मध्यमोत्तमज्ञानिनोरपि प्रारब्धनिमित्तकविपरीतभावनाया दुर्निवारत्वात् [क्, ख्: दुर्निवारत्वात् इत्यस्याग्रे यं यं वापीत्येतस्य ज्ञान्यतिरिक्तपरत्वात् | अज्ञानस्य ज्ञानसमकालनष्टत्वेन प्रारब्धक्षये इत्यधिकः पाठः |] तर्योरफलीभूतसुखादेराकस्मिकत्ववारणाय कथञ्चित् प्रारब्धस्याभ्युपेयत्वात् | तयोर्न प्रारब्धमिति तु मन्दज्ञानिप्रारब्धविसदृशत्वादिति [क्, ख्: विपरीतसदृशत्वात्] योजनीयम् | यं यं [क्, ख्: यं यं ...... प्रारब्धक्षये नास्ति] वापीत्येतस्य ज्ञान्यतिरिक्तपरत्वात् | अज्ञानस्य ज्ञानसमकालनष्टत्वेन प्रारब्धक्षये मनसोऽपि [क्, ख्: न सोऽपि] नाशादन्तकाले ज्ञानिनो विपरीतस्मृत्यसम्भवात् | तथा च केवलज्ञानिजीवन्मुक्तयोर्दृष्टदुःखसत्त्वासत्वाभ्यां भेदो ज्ञेयः | अत एवोक्तम् - तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् | ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः || (प० सा० ८३) इति | तथा - एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यातः | ज्ञाते [क्: इति] शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना || करणेन [क्, ख्: कारणेन] नास्ति कृत्यं क्वापि भावनयापि वा [क्, ख्, ग्: च] || (शि० दृ० ७|५-६) इति || ५६ || प्. ४३६) कर्म शेषं कथं शिष्येद् यतः सर्वं चिदग्निना | भस्मीऋतमतस्तेषां न किञ्चित् परिशिष्यते || ५७ || सर्वस्य संविदात्मानतिरेकदर्शनाद् मध्यमोत्तमानां मन्दज्ञानिवत् शेषं [क्, ख्: शेषकर्मारब्ध] कर्म प्रारब्धरूपं न शिष्यतीत्याह - कर्मेति | सर्वं द्वैतम् | न किञ्चित् कर्म || ५७ || ऐन्द्रजालिककर्मेव त्वितरैरेव दृश्यते | शृणु ब्रह्मन् रहस्यं ते प्रवक्ष्यामि समासतः || ५८ || ननूत्तमज्ञानिनां हर्षविषादादिप्रारब्धफलकार्यं दृश्यत इति चेदाह - ऐन्द्रेति | ऐन्द्रजालिकस्य यत्कर्म स्वशिरश्छेदादिरूपं तद्यथेतरैरेव दृशयते स्वेन न दृश्यते एवमस्य हर्षादिकमिति भावः | ज्ञानिनां शिवतुल्यत्वान्न कर्मेत्याह - शृण्विति || ५८ || शिवस्य या दृशिः सैव ज्ञानिनां दृष्टिरुच्यते | नास्ति भेदो लेशतोऽपि सत्यमेतन्न संशयः || ५९ || दृशिः [क्: दृशिः नास्ति] शुद्धचिदात्मकस्वात्ममात्ररूपा | अतो न प्रारब्धशेष इति भावः || ५९ || प्. ४३७) तस्मान्न किञ्चित् कर्मापि ज्ञानिनामनुवर्तते | इति श्रुत्वा स वसुमान् हेमाङ्गदनिरूपितम् || ६० || किञ्चित् | ज्ञानिनां मध्यमोत्तमानाम् | इति राजकुमारोक्तं सर्वम् || ६० || सर्वसन्देहनिर्मुक्तो विज्ञानविशदाशयः | पूजितो राजपुत्राद्यैः स्वं स्थानं प्रत्यपद्यत || ६१ || प्राप्तौ स्वनगरं राजपुत्रावपि ततः परम् | एवं श्रुत्वा पुना रामः पप्रच्छात्रिसुतं मुनिम् || ६२ || श्रुतमेतद्धि विज्ञानं गुरो त्वन्मुखनिर्गतम् | विनष्टो मम सन्देहो विदितं तन्महत्पदम् || ६३ || तन्महत्पदं शुद्धचिदद्वयात्मरूपम् || ६३ || सर्वानुस्यूतसंवित्तिमात्रात्मा भाति सर्वतः | तथापि भवता प्रोक्तमादितः सर्वमेव तु || ६४ || स्वानुभवमेवाह - सर्वेति | सर्वेषु वेद्याकारपरिच्छिन्नज्ञानेषु यानुस्यूता संवित्तिः शुद्धचिद्रूपा तन्मात्ररूपो ममात्मा सर्वतो बहिरन्तश्च भाति | यद्यप्यहं कृतकृत्यः तथापि प्रोक्तार्थस्याविस्मर्तव्यत्वेन प्रोक्ताखिलार्थं संक्षेपेण ब्रूहीति पृच्छति - तथापीति || ६४ || संक्षेपेण पुनर्ब्रूहि विज्ञानं सारवत्तरम् | यावद्धारयितव्यं मे गुरो सर्वात्मना मया || ६५ || मे सर्वात्मना यावद्धारयितव्यं तावद् ब्रूहि || ६५ || इत्यापृष्टः स रामेण पुनः प्राहात्रिनन्दनः | शृणु राम प्रवक्ष्यामि सर्वसारतमं पुनः || ६६ || सर्वस्य प्रोक्तस्य सारतमम् || ६६ || या चितिः परमेशानी पूर्णाहन्तामयी परा | सा स्वातन्त्र्याभिधमायाशक्तिमाहात्म्यतः सदा || ६७ || या त्वया स्वात्मत्वेनानुभूयमाना परमेशानी सर्वाधिकेशनशीला | परमस्वातन्त्र्ययुतेति भावः | किं तत् स्वातन्त्र्यमिति चेदाह - पूर्णाहन्तामयीति | चितेर्हि जडवैलक्षण्याय कश्चन धर्मोऽवश्यमभ्युपेयः | स च स्वरूपस्फूर्तिरेव | स्फूर्तिश्च द्विविधा लोकसिद्धा - अहमिति [क्, ख्: अहमिदमिति] इदमिति च | तत्रेदमिति स्फूर्तेः परतन्त्रत्वेन परापेक्षायामनवस्थादिप्रसक्त्या चितेरहमित्येव स्फूर्तिर्वाच्या | सा चाहंस्फूर्तिदेहादावपूर्णा कालादिपरिच्छेदात् [क्: कला] | इयं त्वखिलकालादिस्वरूपसाधनभूतचिति विश्रान्तेति पूर्णा | अतः पूर्णाहन्तेत्युच्यते | स्वरूपानतिरिक्ता सेति तन्मयीत्युच्यते | अखण्डरूपाया एव चितेरुपदेशावसरे एवं विभज्य कथनं स्वरूपपरिचयाय | अत एव परा अनुत्तरा | परचितेर्यत् स्वातिरिक्ते दृश्ये विश्रमः [क्: विश्रामः] साऽहन्ता | सा च देहादिविश्रान्ता परिच्छिन्नेत्युच्यते | देहादिव्यावृत्तशुद्धचिति विश्रान्ता पूर्णाहन्तेत्युच्यते | एवंविधा सा चितिः स्वातन्त्र्याभिधमायाशक्तिमाहात्म्यतः पूर्णाहन्तैव सृष्ट्यादौ सिसृक्षोरिच्छात्मिका स्वातन्त्र्यमिति सृष्टिकाले कर्तुः क्रियात्मिका मायेति चोच्यते | प्रकृते [क्: न तु] क्रिया हि न [क्: क्रियाहीन] परिस्पन्दरूपा परिणामरूपा वा किन्तु दर्पणप्रतिबिम्बावभासवद(व)भासरूपा | एवं च पूर्णाहन्ता स्वातन्त्र्यं मायेति ज्ञानेच्छाक्रियात्मकशक्तित्रयमुक्तम् | मायाशक्तेर्माहात्म्यं महित्वमुच्छूनता | ततो जगदवभासयेदित्यन्वयः | सदेति पूर्णाहन्तायाः स्वरूपभूतत्वेन जगदवभासस्य कालपरिच्छेदो नास्तीति भावः | अत एवोक्तम् - सदा सृष्टिविन्होदाय (शि० स्तो० २०|९) इत्यादि || ६७ || प्. ४३८) जगदाभासयेद् नूनं दुर्घटैकविधायिनः | प्रतिबिम्बवदादर्शे तत्प्रकारं शृणु क्रमात् || ६८ || दुर्घटैकविधायिनो माहात्म्यत इति सम्बन्धः | दुर्घटस्यैकमसहायं यद्विधानकर्तृ तस्मादित्यर्थः | एवं जगदवभासनकालेऽपि स्वस्याद्वैतचिन्मात्रत्वं न प्रतिहतं भवतीत्येतद् दृष्टान्तद्वाराह - प्रतिबिम्बेति | तत्प्रकारं जगदवभासनप्रकारम् | क्रमात् कार्यकारणक्रमात् || ६८ || प्. ४३९) या सा परा चितिः पूर्णा पूर्णाहंभावबृंहिता | स्वातन्त्र्यवशतः स्वात्मरूपं द्वेधाऽवभासयत् || ६९ || या सा अनुपदं निरूपिता | पूर्णाहम्भावेनापरिच्छिन्नस्वरूपस्फूर्त्या वृंहिता निर्भरा स्फूर्त्यैकघनेति [क्: स्फूर्त्येक] यावत् | स्वात्मरूपं चित्स्फूर्तिघनम् || ६९ || तत्रैकांशेऽप्यहंभावोऽपूर्ण आभासितो यदा | तदा द्वितीयभागस्तदहंभावविनिर्गतः || ७० || द्विविधतामेवाह - तत्रेति | स्वरूपे इत्यर्थः | अंशद्वयमवभास्य एकांशेऽपूर्णाहंभावोऽपि यदाऽवभासितः तदा यो द्वितीयभागः स्वेतरभाग[क्, ख्: स्वेतरभागः नास्ति] स्तदहंभावात्तस्मादपूर्णाख्यादपूर्णाहंभावाद्विनिर्गतोऽभवत् [क्: भवेत्] | अपिना स्वरूपभूतपूर्णाहन्ताया इयमन्येति सूचितम् | अत एव स्वरूपलोपो नास्तीति ज्ञेयम् | स्वात्मन्यंशद्वयमवभास्य तत्रैकांशे परिच्छिन्नाहंभावावभासनएनेतरांशमहंभावानाक्रान्तमवभासयद् इति भावः || ७० || बाह्यमव्यक्तमभवत् तद्दृष्ट्यैव भृगूद्वह | अपूर्णाहंभावयुत एष प्रोक्तः सदाशिवः || ७१ || योऽयमंशोऽहंभावानाक्रान्तः स बाह्यपदार्थरूपमव्यक्तमभवत् [क्, ख्: मेव भवेत्] | अंशद्वयादिबाह्यपर्यन्तविकल्पावभासः सर्वोऽपि परिच्छिन्नाहंभावाक्रान्तचिदंशदृष्ट्यैव न तु पूर्णचिद्दृष्ट्येत्याह - तद्दृष्ट्यैवेति | एष परिच्छिन्नाहंभावयुतचिदंश एव सदाशिव इत्युक्तः यमौपनिषदा ईश्वरं प्राहुः || ७१ || स तमव्यक्तभागं तु पश्यन् भिन्नमपि स्वतः | सः सदाशिवः | स्वतः स्वस्मात् | भिन्नं पश्यन्नपि | अहमेतदिति सदा अनुसन्धिपरोऽभिमानपरोऽभवदिति [क्, ख्: अभिमानपरो नास्ति] शेषः | औपनिषदास्त्वेतमव्यक्तभागमेवाविद्यामायादिशब्दैर्व्यवहरन्ति | यथास्मद्देहे विभेदेन भासमानेऽप्यहंभावादस्माकं स्वामित्वमेवमस्याव्यक्त इति ज्ञेयम् || ७२ || प्. ४४०) स एव भूयः स्वातन्त्र्यात् सिसृक्षुर्विविधं जगत् | अव्यक्तमात्मनो देहमेतदेवाहमास्थितः || ७३ || स एव सदाशिव एव | स्वातन्त्र्यात् स्वाहंभावरूपात् | अव्यक्तरूपमात्मदेहं दृष्ट्वेति शेषः | एतदेवाव्यक्तरूप एवाहमास्थित इत्येवं यदानुसन्धानपर इति सम्बन्धः || ७३ || इत्येवमनुसन्धानपर ईश्वर आबभौ | अव्यक्तमभिमानेनाविष्ट ईश्वर एव तु || ७४ || तदा सदाशिव एवेश्वर आबभौ | अहमेतदिति चित्प्राधान्येनानुसन्धिपरः सदाशिवः एतदहमित्यव्यक्तप्राधान्यानुसन्धिपर ईश्वर इति भावः | अव्यक्तमहमित्यभिमानेनाविष्ट ईश्वर एव त्रिधाऽभवदिति सम्बन्धः || ७४ || त्रिधा समभवद् रुद्रहरिद्रुहिणरूपतः | दृष्टृदृश्याहाराशिसमुदायावभासकाः [क्: भासकः] || ७५ || तत्रेश्वरः स्वस्वातन्त्र्यादव्यक्तं तमःसत्त्वरजोगुणैर्बहुविधमाभास्य तत्तद्गुणपरिच्छिन्नाव्यक्तांशेष्वसंख्यातेषु परिच्छिन्नाहन्तारूपाभिमानेन रुद्रहरिन्द्रुहिणरूपेण त्रिधा राशित्रयरूपेण समभवत् | त्रयाणां सृष्टिस्थितिसंहारक्रिया आह - द्रष्ट्रिति | महाराशिर्ब्रह्माण्डम् | तदनेकत्वाभिप्रायेण - समुदाय इति | उत्पत्त्यवभासकाः || ७५ || विधयो विविधा आसंस्तथा तद्रूपसंस्थिताः | बहवो हरयोऽप्यासंस्तत्संहारपरायणाः || ७६ || तद्रूपसंस्थिता अण्डानां रूपं संस्थितं येभ्यः | स्थितिकर्तार इति यावत् | संहारपरायणा रुद्रा आसन्निति सम्बन्धः || ७६ || प्. ४४१) अनेकशोऽभवन् रुद्रा एवमेष जगद्विधिः | एवंविधं जगत्तत्त्वं दर्पणप्रतिबिम्बवत् || ७७ || अनेकशो रुद्रा आसन्नित्यर्थः | अत्राण्डानामनन्तत्वेन ब्रह्मादीनामनन्तत्वं ज्ञेयम् | जगतो विधिर्विधानम् | एवं प्रोक्तवत् | एवंविधमपि जगत्तत्वं परचितेरव्यतिरिक्तमेवेत्याह [क्: परा] - दर्पणेति || ७७ || भासते केवलं राम नहि जातं तु किञ्चन | परा चितिः प्रपूर्णाहंभावरूपैव सर्वदा || ७८ || एवमवभासनमेव जगदुत्पत्त्यादि न तस्यारम्भः परिणामो वेत्याह - भासत इति एवमवभासनमात्रसारत्वाज्जगदवभासनेऽपि परचितेः [क्: परा] स्वरूपादप्रच्युतिमाह - परा चितिरिति || ७८ || स्थिताप्यनेका सम्पूर्णाहंभावपरिबृंहिता | यथा त्वं राम सर्वस्मिन् देहेऽहंभावबृंहितः || ७९ || वस्तुतः सदाशिवादिकृम्यन्तानां तन्मात्ररूपत्वादनन्तपरिच्छिन्नाहंभावपूर्णापि सेत्याह - स्थितेति | रूपैव स्थितापीति सम्बन्धः | एतदेव सदृष्टान्तमुपपादयति - यथेति || ७९ || पृथग् नेत्राद्यहंभावैरपि तत्तत्क्रियापरः | एवमेव परा संवित् पूर्णाहन्तासमाश्रया || ८० || यथा त्वमखिलदेहव्याप्ताहंभाववानपि रूपादिग्राहकनेत्रादितत्तदेकदेशाहन्तासमुदायवान् एवमेव सा परा संविदिति || ८० || सदाशिवादिस्तम्बान्ताऽपूर्णाहन्ताश्रयापि वै | वस्तुतः सैव परमा चितिरेवं हि भासिनी || ८१ || वस्तुत इति | वस्तुतः सा परसंविदेव पूर्णाहन्तापरिच्छिन्नाहन्तासदाशिवादिरूपेऽनवभासिनीत्यर्थः || ८१ || देहाहंभावरूपस्त्वं स्वतो रूपरसादिकम् | ग्रहीतुमसमर्थोऽपि चाक्षतादात्म्यमेत्य तु || ८२ || अधुना सर्वज्ञत्वं सर्वकर्तृत्वं सदाशिवस्य शुद्धपरचितेर्वस्तुतो न कर्तृत्वादिकमिति सदृष्टान्तं क्रमेणाह - देहेति | स्वतः चक्षुरादितादात्म्यमप्राप्य अक्षतादात्म्यमिन्द्रियतादात्म्यमेत्य सर्वं गृह्णासीति सम्बन्धः || ८२ || प्. ४४२) सर्वं गृह्णासि सततमेवं देवः सदाशिवः | स्वतः सर्वाभेदमयो ब्रह्मादिस्तम्बराशिषु || ८३ || दार्ष्टान्तिके योजयति - एवमिति | सर्वान्तर्यामित्वेन सर्वाभेदमयः || ८३ || अन्तस्तादात्म्यमापन्नो [क्: अतः] जानाति च करोति च | यथा ते निर्विकल्पं तु रूपं सर्वाश्रयं हि सत् || ८४ || सर्वं जानाति करोति च | यथेति | दर्पणस्थानीयं तव निर्विकल्पं शुद्धचिद्रूपं प्रतिबिम्बस्थानीयं देहेन्द्रियाद्यखिलाश्रयं सदपि || ८४ || न किञ्चिदपि जानाति करोति च भृगुद्वह | एवमेव परा संवित् सर्वलोकसमाश्रया || ८५ || न किञ्चिज्जानाति करोति च | ज्ञेयकार्ययोर्वस्तुतः स्वात्ममात्रत्वादिति भावः | दार्ष्टान्तिके सङ्गमयति - एवमिति || ८५ || भेदलेशमपि क्वापि न जानाति करोति च | एतावज्जागतं सर्वं तस्यामेवावभासते || ८६ || क्वापि काले | कुत एवमिति चेत् ? ज्ञेयकार्ययोस्तन्मात्ररूपत्वादित्याह - एतावदिति || ८६ || तत्स्वातन्त्र्यात् [ख्: स्वस्वा] प्रभूतं [क्: तश्च] च दर्पणप्रतिबिम्बवत् | जगतो भासनं सर्वं तस्या एवावभासनम् || ८७ || अवभासनं भवनं च दर्पणे स्वशक्त्या प्रतिबिम्बानामिव परचिति [क्, ख्: पराचितिः] स्वस्वातन्त्र्येण जगत इत्याह - तत्स्वातन्त्र्यादिति | अवभासते प्रभूतं चेति सम्बन्धः | अवभासनं प्रकर्षेण | सर्वं [ग्: सत्त्वं] च तदधीनमिति भावः | अत एवाह - जगत इति | तस्याः परचितेः || ८७ || प्. ४४३) यथादर्शाभास एव [क्, ख्: एष] प्रतिबिम्बावभासनम् | अत्र त्वमहमन्ये च द्रष्टारो दृङ्मयाः खलु || ८८ || दृश्यवद्द्रष्टृणामपि तन्मात्रतामाह - अत्रेति | जगतीत्यर्थः || ८८ || दृश्यासंमेलने शुद्धचितिरेव न चेतरत् | घटादिदर्पणो यद्वद् घटादीनामसङ्गमे || ८९ || ये दृङ्मया भासन्ते तेषां स्वरूपं दृश्यस्यासम्मेलनेऽनवभासे सति शुद्धा परा चितिरेव | एतद् दृष्टान्तद्वारोपपादयति - घटेति | घटादिप्रतिबिम्बपरिच्छिन्नदर्पणांशः || ८९ || शुद्धदर्पणमात्रः स्याद्विभेदः प्रतिबिम्बतः | एवं विकल्पसम्भूतदृश्याभासप्रमार्जने || ९० || प्रतिबिम्बकालेऽपि भेदः [क्: भेदप्रति] प्रतिबिम्बरूपौपाधिक इत्याह ##- शेषिता परमा संविदद्वितीयस्वरूपिणी | महानन्दघना चैषा दुःखलेशविवर्जनात् || ९१ || सङ्कल्पेन भासमानदृश्यस्यानुल्लेखेन प्रमार्जने कृते सति शेषिता अनुल्लेखसाक्षित्वेन स्थिता स्वात्मसंविदद्वितीयस्वरूपिणी परसंविदेव | तद्रूपस्य पुरुषार्थत्वसिद्धये सुखरूपतामाह - महानन्देति | महताऽपरिच्छिन्नेनानन्देन घना निबिडा | अखण्डानन्दरूपेति यावत् | कुत एवमिति चेदाह - दुःखेति | दुःखस्यौपाधिकत्वेन वस्तुतः स्वरूपे तदभावादखण्डानन्दरूपता || ९१ || सर्वानन्दघनाकारा यतः सर्वैरभीप्सिता | सुखमात्मस्वरूपं स्यात् सर्वैर्यस्मादभीप्सितम् || ९२ || सर्वेति | सर्वेषां प्राणिनां ये आनन्दा विषयाभिव्यक्त्याऽवभासमानाः तैर्घनो निबिड आकारः स्वरूपं यस्याः सा | सर्वैरनुभूयमानानन्दमात्रस्वरूपेति यावत् | एवमेवैतदिति हेतुप्रदर्शनेन सम्भावयति - यत इति [क्, ख्: यत इति नास्ति] | आत्मा आनन्दैकरूपः सर्वाभीप्सितत्वात् स्त्रीसुखवदिति प्रयोगः | ननु सर्वाभीप्सितं सुखं भोग्यम् | तत्कथं भोक्तृरूपं स्यादित्याक्षेपपरिजिहीर्षयाह - सुखमिति | आत्मस्वरूपमेव सुखं भवेत् सर्वाभीप्स्तितत्वात् यन्नैवं तन्नैवम् यथा दुःखमिति प्रयोगः || ९२ || प्. ४४४) यदर्थो देहादिभावो यन्न कस्यापि नेप्सितम् | यस्यैव लेशो विषयानन्द इत्यभिधीयते || ९३ || नन्वेष हेतुर्देहस्त्रीधनादिष्वीप्सितेषु [ग्: ईप्सितेषु नास्ति] व्यभिचरित इत्याशङ्कां शमयन्नाह - यदर्थ इति | देहादेर्मुख्येप्सितत्वाभावः [क्, ख्: देहादेर्देहमुखेय] | यतो हि देहाद्यमात्मसुखार्थमीप्सितम् | एवं [ख्, ग्: अत एव] स्वर्गादिसुखार्थिनामनशनादिना देहादित्याग उपपद्यते | अत एव आत्मस्वरूपं कथञ्चिदपि कदाचिदप्यनीप्सितं नेत्याह - यदिति | आत्मस्वरूपमित्यर्थः | अत आत्मैव मुख्येप्सितत्वात् सुखात्मक इति भावः | ननु स्त्रीसुखादेः स्पष्टं भोग्यत्वानुभवात्तदतिरिक्तसुखस्याप्रामाणिकत्वान्नात्मनः सुखरूपतेति चेदाह - यस्यैवेति | यस्यात्मानन्दस्य लेश एव विषयानन्द इत्यागमेष्वभिधीयत इत्यर्थः | यथा गगनस्य निष्क्रियस्य घटादिपरिच्छिन्नांशे औपाधिकी क्रियोपलभ्यते यथा च चिदात्मनोऽवेद्यस्य दृश्यपरिच्छेदेनौपाधिकं वेद्यत्वम् एवं सुखस्य परिच्छेदनिमित्तमौपाधिकं भोग्यत्वमिति भावः || ९३ || स एव भारहानादौ सुषुप्तौ चावभासते | चिदेव् स्पृहणीयत्वादानन्द इति प्रोच्यते || ९४ || नन्वात्मनः सुखार्थित्वमेव न सुखरूपता प्रमाणाभावादित्याशङ्कामपोहितुमाह - स एवेति | स्वरूपभूतानन्द एव | भारस्य हानं त्यागः | आदिनाऽसह्यशिरोव्यथादेः सद्यो निवृत्तिदशा | सुषुप्तौ चावभासते | अत्रेदं तात्पर्यम् - भारत्यागोत्तरं सर्वैरनुभूयमानं सुखमनपह्नवनीयं स्वसंवेदनसिद्धमस्ति | तस्य स्त्र्यादिसङ्गनिमित्तकत्वाभावात् [क्, ख्: निर्निमित्त] स्वरूपभूतत्वम् | प्. ४४५) न च तद्भारत्यागप्रयुक्तमिति वक्तुं युक्तम् भारत्यागस्याभावत्वेन तस्माद्भावोत्पत्तेरनभ्युपगमात् | नहीतरत्तदा किञ्चिदस्ति सुखप्रयोजकम् अतस्तत्स्वरूपभूतमेव [क्: अतस्तत्त्व] सुखमिति | ननु तदा गाढदुःखनिवृत्तेरेव सुखत्वं भ्रान्त्या भासत इत्याशङ्क्याह - सुषुप्ताविति | स्वस्थोऽपि पुरुष सुषुप्तौ निर्निमित्तं महत्सुखमनुभवति | व्युत्थितस्य सुखमहमस्वाप्समिति स्मृतिः तस्या अपह्नोतुमशक्यत्वात् | तच्च स्वरूपभूतमेव | तत्र हि सुखानभ्युपगमे पशुपामराद्यखिलानां सुषुप्तौ प्रवृत्तिर्नोपपद्येत [क्: द्यते] | ननु सुखस्य स्वरूपभूतत्वे तत्सर्वदा कुतो नानुभूयत इति चेदुच्यते - यथा हि सर्वेषामाधारध्वनिः सततं विद्यमानोऽपि बाह्यध्वनिना [क्, ख्: ध्वनिरितो] तिरोभूतः अत एव कर्णगाढपिधानादिना श्रूयते एवं स्वात्मसुखं कामकर्तव्यताद्यखिलवासनौघदावाग्निदन्दह्यमानस्य तद्दु.खात्तिरोहितम् | तस्य वासनौघस्य सुषुप्तौ स्वकारणे विलयात् पिहितकर्णस्य ध्वनेरिवात्मसुखस्याभिव्यक्तिः | भारवहनसमये भारनिमित्तकमहादुःखेन वासनौघकृतदुःखस्य तिरोभावाद् भारदुःखमेव प्ररूढम् | भारत्यागेन तद्दुःखनिवृत्तौ वासनादुःखोद्भवपर्यन्तमात्मसुखमभिव्यक्तं भवति | स्त्र्यादिविषयसुखमप्येवम् | तथा हि - अनन्ता हि वासनाः कण्टकवत् प्रतुदन्त्योऽजस्रं हृदि समाहिताः | तत्रान्यतरविषयप्राप्तिसम्भावनायां तद्विषयककामनाया उत्कटत्वेन तज्जनितसन्तापस्योत्कटस्योपस्थितौ अन्याः सर्वा वासनास्तिरोहिता इव भवन्ति | ततस्तद्विषयप्राप्तौ महादुःखप्रशान्त्या इतरकामनोद्भवपर्यन्तमात्मसुखमभिव्यक्तं भवतीति | तस्मात् सर्वस्पृहणीयत्वाच्चिदात्मैवानन्द इति प्रोच्यत इत्याह - चिदेवेति || ९४ || प्. ४४६) मूढा नहि विजानन्ति स्वात्मभूतं महासुखम् | विभिन्नमभिजानन्ति व्यञ्जकानां विभेदतः || ९५ || ननु तर्हि सर्वं सुखं स्वात्मभूतमिति [क्: सुखं स्व नास्ति] कुतो न जानन्तीति चेदाह - मूढा इति | मौढ्यादेव न जानन्तीति भावः | स्वस्वरूपाद्विभिन्नम् | अत्र हेतुमाह - व्यञ्जकानामिति | व्यञ्जकस्य स्त्र्यादेर्भेदात्तत्तत्काले उत्पन्नं नष्टं चेति ज्ञानात् स्थिरात्मरूपं न जानन्तीति भावः || ९५ || यथा हि दर्पणे भावा भासमाना निमित्ततः | यावद्दर्प्णविज्ञानं भिन्ना एव विभान्ति वै || ९६ || यथा स्वात्मभूतं सुखं विभिन्नं जानन्ति तथा स्वात्माभिन्नां जगदप्यज्ञा विभिन्नं जानन्तीति सदृस्.टान्तमाह यथेति | बिम्बात्मकनिमित्ततः | यावद्दर्पणविज्ञानमिति | दर्पणस्यायं दर्पणः प्रतिबिम्बग्रहणसमर्थ इति विशेषेण ज्ञानपर्यन्तमित्यर्थः | प्रतिबिम्बात्मका भावा भिन्ना एव विभान्ति | दर्पण एवैतत्सर्वमिति न भान्तीति भावः || ९६ || विदिते प्रतिबिम्बत्वे भासमानं च पूर्ववत् | न दर्पणाद् भिन्नमस्ति त्वादर्शः शुद्ध एव हि || ९७ || तेषां प्रतिबिम्बत्वे दर्पणज्ञानपूर्वकं विदिते सति | ततः पूर्ववद्भासमानमपि तत्सर्वं न दर्पणाद्भिन्नमस्तीति जानन्ति किन्त्वादर्शः शुद्ध एवैतत्सर्वमिति हि जानन्तीति शेषः | ९७ || एवं विदिततत्त्वस्य जगदेतावदीदृशम् | भासमानमपि स्वात्ममात्रमेव न चेतरत् || ९८ || दार्ष्टान्तिके योजयति - एवमिति | न चेतरद्भासत इति शेषः || ९८ || घटादिकं मृदि यथा हेम्नि यद्वद्विभूषणम् | प्रतिमाश्च यथा शैले जगदेवं चिदात्मनि || ९९ || जगच्चिदात्मनोऽनतिरिक्तमित्येतदसत्ख्यातिनिराकरणाभिप्रायेण दृष्टान्तैर्निरूपयितुमुपक्रमते - घटादिकमिति | चिदात्मनि भासत [क्: भासत नास्ति] इति शेषः || ९९ || प्. ४४७) जगन्नास्त्येवेति दृष्टिरपूर्णैव भृगूद्वह | नास्तीति विपरीतो हि निश्चयो नैव सिद्ध्यति || १०० || जगदिति | असत्ख्यातिवादिनो निरधिष्ठानमेव भ्रममभ्युपगच्छन्ति | तन्मतनिराकरणार्थोऽयमारम्भः | तन्मते हि इदं रजतमित्यसदालम्बनं ज्ञानम् | एवं जगज्ज्ञानमप्यसदालम्बनमेव | जगन्नास्तीति निश्चयपूर्वकं शून्यस्यैव चिरभावनया जगद्भावनानिवृत्तौ शून्यात्मतापत्तिर्मोक्ष इति स्थितिः | एतद् दूषयति - जगन्नास्तीति | अपूर्णा भ्रमरूपेत्यर्थः | यथा हि सर्वात्मना घटादिकं नह्यसत् अपि तु मृदादिरूपेण सदेव एवं जगन्न सर्वथा ह्यसत् किन्तु चिद्रूपेण सदेव | अतो जगदत्यन्तं नास्तीति निश्चयो भ्रम एवेति भावः | कुत इति चेदाह - नास्तीति | सर्वथा नास्तीति यो विपरीतनिश्चयः स प्रमाणत्वेन यतो न सिद्ध्यति || १०० || साधकात्मजगद्दृष्टेर्भूयः सम्भवतः स्फुटम् | नास्तीति शापमात्रेण कथं स्याज्जगतो लयः || १०१ || एतदपि कुत इति चेदाह - साधकेति | अस्ति नास्तीत्युभयपक्षसाधकस्य चिदात्मनः स्वरूपेण जगद्दृष्टेः सर्वनिषेधानन्तरमपि भूयः स्फुटं सम्भवात् | घटादीनां विकारात्मना नास्तीति निषेधेऽपि मृद्रूपेणानपोहनवद् दृश्यजगतो दृश्यत्वेन निषेधेऽपि दृग्रूपेणावभासनस्यानपोह्यत्वमिति क्: भासमानस्या] भावः | अत्रेदं तत्त्वम् - जगद्धि मृदनुगतघटादिवच्चिदनुगतमेव भासते | अत्र परः सर्वथा निषेधति भासमानम् असत्ख्यात्यभ्युपगमात् | तत्रोच्यते [क्, ख्: अत्रो] - निषेद्धुर्निषेध्यकोट्यन्तर्गतत्वे निषेधासिद्धेर्निषेद्धुरनुगतचिदात्मनोऽनिषेध इति | परस्य सर्वनिषेधेऽयमाशयः [क्: सर्व नास्ति] चितो हि सविकल्पः स्वभावः स एव हि संसार निर्विकल्पचितेरप्रामाणिकत्वात् सर्वनिषेधे मोक्षसिद्धिरिति | निषेद्धुर्निषेधायोगादेव नास्तीति शापमात्रेण न जगतः सर्वात्मना लय इत्याह - नास्तीति | सर्वसाधकशुद्धचिदात्मनो निर्व्कल्पस्य स्वप्रकाशस्य सर्वनिषेधे समाध्यादौ भासमानत्वात् || १०१ || प्. ४४८) आदर्शनगरं सर्वमस्त्यादशस्वभावतः | एवं जगच्चिदात्मैकरूपं सत्यमुदीरितम् || १०२ || नन्वद्वैतमित्यत्र योऽयं निषेध्यांशः स किंविध इत्याशङ्क्याह - आदर्शेति | अत्राहुरौपनिषदाः - आदर्शप्रतिबिम्बवत् सदसदादिरूपैरनिर्वचनीयं जगन्निषेध्यमिति | आगमिकास्तु - आदर्शनगरावभासवज्जगदवभासनम् | प्रतिबिम्बस्यादर्शात्मत्ववज्जगतश्चिदात्मत्वेन सत्यत्वमिति | ननु तर्हि किं निषेध्यमिति चेत् ? द्वैतमिति ब्रूमः | ननु द्वैतं जगदन्तःपाति न वा ? आद्ये सत्यत्वेन तन्निषेधायोगात् | द्वितीये तस्यानिर्वचनीयत्वमवर्जनीयमिति चेदुच्यते - द्वैतमपि जगदन्तर्गतमेव | ननु तर्हि कथं द्वैतस्य सत्यस्य निषेधः ? शृणु - अत्र नये हि भास्यस्य भासनानतिरिक्तत्वेन द्वैतस्य भ्रमभासनानतिरिक्तत्वाद् द्वैतनिषेधो द्वैतभ्रमनिरसनमपर्यवसायीति | अत एवोक्तम् - परमार्थे [एष श्लोको राजानकरामकण्ठकृतायां स्पन्दकारिकाविवृतावप्युद्धृतो दृश्यते | द्रष्टव्यम् - पृ० १६३] तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् | पृथक्त्वैकत्वरूपेण तत्त्वमेकं व्यवस्थितम् || इति | अनिर्वचनीयवादेऽपि निषेधः किमनिर्वचनीय उत सत्यः ? आद्ये जगदनिषेधः | द्वितीये द्वैतप्रसक्तिः | न च निषेधस्याधिकरणात्मकत्वेन ब्रह्मरूपत्वान्न द्वैतप्रसक्तिरिति वाच्यम् अनात्मत्वेन प्रतीयमानस्य निषेधस्यात्मरूपत्वाभ्युपगमे निखिलजगतोऽप्यात्मरूपत्वस्वीकारस्या स्मदुक्तस्याप्यदुष्टत्वात् [क्: स्वीकारस्या इत्यनन्तरं सत्त्वादेवमर्थपर्यवसायित्वं निषेधस्येति वक्तुं युक्तत्वादनिर्वचनीयत्वस्या इत्ययमधिकः पाठः] | न चाभावस्यैवाधिकरणात्मत्वमिति शङ्क्यम् स्वेतरभेदस्य स्वात्मरूपत्वमित्यादिरीत्या निखिलजगतो भाव(अभाव)त्वस्य सम्पादयितुं शक्यत्वात् | निषेधेन वान्यथा वा द्वैताभासात्मकभ्रमनिरसने [ग्: रसने ..... चिदात्मैक नास्ति] पुरुषार्थत्वमित्येवाद्वैतशास्त्रत्वम् | अतो मुमुक्षुभिर्मतभेदेषु तर्कमूलकेषु नाभिनिवि(वे)ष्टव्यमिति ध्येयम् | यथादर्शप्रतिबिम्बनगरमादर्शानतिरिक्तम् एवं सत्यं चिदात्मैकरूपमेव जगदिति | नहि जगच्चिदात्मरूपेण सत्यमित्युक्तिमात्रेण जगच्चिदात्मरूपेणास्ति किमित्याक्षेप्तुं युक्तम् अनिर्वचनीयाऽविद्येति कथिते किमविद्यास्ति वेत्याक्षेपतुल्यत्वात् | अनिर्वचनीयत्वकथनादेव यथा तस्या अस्ति वेत्याक्षेपोऽयुक्तः एवं चिदनतिरिक्तं सर्वमित्युक्तौ [ग्: सर्वमित्युक्तौ नास्ति] सर्वमस्ति वेत्याक्षेपोऽप्यनुपपन्न एवेति ध्येयम् || १०२ || प्. ४४९) पूर्णविज्ञानमेतत् स्यात् सङ्कोचपरिवर्जनात् | दृगेव दृश्यतां प्राप्तं स्वमाहात्म्यप्रकर्षतः || १०३ || एवं सर्वं सत्यमिति ज्ञानमेव पूर्णज्ञानमित्याह - पूर्णेति | कुत इति चेदाह - सङ्कोचेति | दृश्यं दृगिति द्वयम् | तत्र दृश्यं नास्तीत्युक्तेऽपि दृश्याभावप्रयुक्तं संकोचावभासनमस्ति [क्, ख्: संकोचाभावभासन] | दृश्यं सर्वं दर्पणप्रतिबिम्बवद् दृङ्मात्रमित्युक्ते हि सङ्कोचावभासो नास्तीति [ग्: अस्तीति] पूर्णविज्ञानमेतदेवेति भावः | तस्मान्न दृगतिरिक्तं दृश्यमित्युपसंहरति - दृगेवेति | स्वमाहात्म्यं स्वस्वातन्त्र्यम् || १०३ || यथादर्शो नगरतामेष शास्त्रार्थसंग्रहः | न बन्धोऽस्ति न मोक्षोऽस्ति साधकः साधनं च न || १०४ || अत्र दृष्टान्तः - यथेति | आदित उक्तं सर्वं संगृह्य वदेत्यक्तमुपसंहरति - एष इति | पुनः प्रोक्तार्थसारं संगृह्य वदति - न बन्धोऽस्तीति | दृगतिरिक्तत्वेन भासमानस्य सर्वस्य प्रतिबिम्बन्यायेन दृङ्मात्रत्वात् स्वरूपातिरिक्तबन्धनाभावान्न बन्धोऽस्ति | अत एव न मोक्षोऽस्ति | साधकः साधनं च न || १०४ || प्. ४५०) अखण्डाद्वयचिच्छक्तिस्त्रिपुरैवावभासिनी | सैवाविद्या च विद्या च बन्धो मोक्षश्च [ख्: मोक्षस्य] साधनम् || १०५ || ननु तर्हि किमेतद्विचित्रत्वेनावभासत इति चेदाह - अखण्डेति | अखण्डेति स्वगतभेदस्य अद्वयेति विजातीयसजातीयभेदस्य च निरासः | एवंविधा चिच्छक्तिस्त्रिपरा तुर्या या सैव दर्पणवद्वैचित्र्येणावभासिनी | अतः सैव सर्वमित्याह - सैवेति || १०५ || एतावदेव विज्ञेयं नान्यद् भार्गव विद्यते | एतत्तेऽभिहितं राम विज्ञानक्रममादितः || १०६ || तस्मादज्ञानमात्रादेव बन्धोदयः | एवं ज्ञानेनैव कृतार्थवेत्याह ##- - एतत्तु इति | आदितः साधनप्राप्तिमाअभ्येत्यर्थः || १०६ || एतत् सुविज्ञाय जनो भूयः क्वापि न शोचति | नारदैष ज्ञानखण्डः सूपपत्त्युपलब्धिकः || १०७ || एतद् ज्ञानखण्डं सुष्ठु कुतर्करहितया बुद्ध्या विज्ञाय विचारपूर्वकमर्थतोऽनुभूय | जन इति नात्र वर्णाश्रमाद्यधिकारिविशेषनियम इति सूचितम् | क्वापि देहपातात् पूर्वमनन्तरं वा | नारदं प्रति हारितायन् आह - नारदेति | उपपत्तिर्युक्तिः उपलब्धिरनुभवः | सुष्ठुरूपम् उभयं यस्मिन् || १०७ || श्रुतो न नाशयेत् कस्य मोहमज्ञानसम्भवम् | श्रुत्वाप्येतद् यस्य मोहो न शान्तिं प्राप्नुयात् क्वचित् || १०८ || मोहं भ्रमम् | कस्य मोहं न नाशयेत् | सर्वस्यापि मोहं नाशयेदेवेत्यर्थः | शान्तिं नाशम् || १०८ || स शैलपुरुषो लोके केन ज्ञानं पुनर्भवेत् | सकृदेव श्रुतं [ख्: कृतम्] ह्येतद्विज्ञानं जनयेद् दृढम् || १०९ || स शैलमयः अतिमूढः पुरुषः | केन पुनस्तस्य ज्ञानं भवेत् ? न केनापीत्यर्थः | निर्मलधियां सकृच्छ्रुतेन ज्ञानं भवेदित्याह - सकृदेवेति || १०९ || प्. ४५१) द्विधा त्रिधा वा मन्दस्य ज्ञातं न जनयेत् कथम् | एतत् पापौघशमनं श्रुतं विज्ञानदं मतम् || ११० || मन्दस्य मन्दधियः | द्विधा त्रिधा वा श्रुतं ज्ञानं कथं न जनयेदपि तु जनयेदेवेत्यर्थः | ज्ञानखण्डं स्तौति - एतदिति | अर्थावगममन्तरा श्रुतम् | मतमर्थतोऽवगतम् || ११० || लिखितं दृष्टिदोषघ्नं पूजितं चित्तशोधनम् | मूढतानाशनं चैतत् सर्वदा परिशीलितम् || १११ || दृष्टिदोषः | दृष्टेर्बाह्येन्द्रियस्य दोषो विषयप्रवणता | चित्तस्य रागादिदोषशान्त्या शोधनम् | मूढता कर्मवासना | परिशीलनं भूयो विचारः || १११ || सर्वात्मभूतं यद्रूपं विचार्यावगतं स्फुटम् | मुक्तिः स्यादन्यथा बन्धः सा भवेत् त्रिपुरैव ह्रीम् || ११२ || ग्रन्थान्ते प्रकरणप्रतिपाद्यायाः स्वभावनिर्देशात्मकमङ्गलमारचयति - सर्वेति | सर्वेषां स्थावरजङ्गमात्मकानां भावानाम् [क्, ख्: भावानाम् नास्ति] आत्मभूत्ं स्वभावभूतम् यद् रूपं परचितिरूपम् प्रतिबिम्बानां दर्पणवत् स्थितं विचार्य | चेत्यं सर्वं चितिमात्रम् तदननुगतत्वेनाभासनात् दर्पणमात्रात्मप्रतिबिम्बवद् इति सत्तर्केण निश्चित्य | स्फूटमपरोक्षत्वेनावगतम् | सर्वात्मभूता चितिरहमिति प्रत्यभिज्ञातं चेदिति शेषः | संसारबन्धान्मुक्तिः स्याद् भवेत् | अन्यथा अनवगतं चेद्बन्ध एव स्थिरः स्यात् | यदाऽवगतं यद्रूपमेव मुक्तिः स्यादन्यथा बन्धः स्यादिति | बन्धमोक्षयोः स्वरूपानतिरेकाद्युक्तमेवैतत् | यैवंविधा परा चितिः सा प्रकृतप्रकरणप्रतिपाद्या त्रिपुरैव | सा ह्रीमिति शक्तिप्रणवार्थभूतत्वात्तदरूपा [ग्: प्रणवार्ध] वाच्यवाचकयोरभेदात् | इति शिवम् || ११२ || इति श्रीमदितिहासोत्तमे त्रिपुरारहस्ये द्वादशसाहस्र्यां संहितायां ज्ञानखण्डे द्वाविंशोऽध्यायः || प्. ४५२) तात्पर्यदीपिकाख्याना त्रिपुराया रहस्यके | ज्ञानखण्डस्य सुव्याख्या त्रिपुराप्रीतये कृता || १ || द्राविडेष्वनुहालास्यनगरं [क्, ख्: नगरे] सन्ति सम्मताः | पञ्च ग्रामास्तत्र महापुष्करग्रामसंस्थितिः || २ || द्राविडान्वयदुग्धाब्धिसमुद्यत्सुकलानिधिः | बृहच्छरणसद्वंशप्रोद्यन्मुक्ताफलस्थितिः || ३ || वैद्यनाथमहायज्वा सद्विद्याविशदाशयः | अभूत्तत्तनुजः श्रीमान् श्रीनिवासाभिधो बुधः || ४ || श्र्त्यागमसुतत्त्वज्ञस्त्रिपुरातत्पराशयः | नेत्राग्निनन्दजलधि(४९३२)वर्षेऽतीते कलौ युगे || ५ || तात्पर्यदीपिकामेनां त्रिपुराया रहस्यके | ज्ञानखण्डस्य सुव्याख्यामतनोदतिसुस्फुटाम् || ६ || स्यादत्र मेऽज्ञास्य कुतौ हि सर्वतो दोषो [क्, ख्: षोऽप्यप] ह्यपभ्रंशमुखस्तु सर्वथा | संशोधयिष्यन्त्यनुरक्तमानसाः शिष्यस्य मे प्रार्थनयैव तं बुधाः || ७ || क्वाहं मन्दमनीषः क्वेदं विज्ञानशास्त्रसर्वस्वम् | श्रीत्रिपुरापरसुकृपामात्रान्मूकस्य वाग्मितेवेयम् || ८ || तात्पर्यदीपिका ह्येषा स्वात्मशुद्ध्यै विभाविता | परचित्त्रिपुरानन्दोन्मेषणाय [क्: परा चि] भवेत् सदा || ९ || इति श्रीत्रिपुरारहस्यज्ञानखण्डव्याख्यायां तात्पर्यदीपिकायां श्रीनिवासविबुधविरचितायां [क्, ख्: बुध इत्येव] द्वाविंशोऽध्यायः || ########### END OF FILE #######